वायस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वायसः, पुं, (वयते इति । वय गतौ । “वयश्च ।” उणा० ३ । १२० । इति असच् । सच णित् ।) अगुरुवृक्षः । श्रीवासः । काकः । इति मेदिनी । से, ३८ ॥ (यथा, महाभारते । ३ । २७० । ३१ । “श्वगृघ्रकङ्ककाकोलभासगोमायुवायसाः । अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः ॥”) अस्योत्पत्तिर्यथा, -- “अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महा- बलौ । सम्पातिश्च जटायुश्च प्रभूतौ पक्षिसत्तमौ । सम्पातिर्जनयन् गृध्रान् काकाः पुत्त्रा जटायुषः ॥” इति वह्निपुराणे वाराहप्रादुर्भावः ॥ * ॥ अस्य एकाक्षिनाशकारणं यथा, -- मार्कण्डेय उवाच । “गते तु भरते तस्मिन् रामः कमललोचनः । लक्ष्मणेन सह भ्रात्रा भार्य्यया सीतया सह । शाकमूलफलाहारो विचचार महावने ॥ एकदा लक्ष्मणमृते रामदेवः प्रतापवान् । चित्रकूटे वने देशे वैदेह्या सङ्गमाश्रितः ॥ सुष्वाप सुमुहूर्त्तञ्च ततः काको दुरात्मवान् । सीताभिमुखमभ्येत्य विददार स्तनान्तरम् । विदार्य्य वृक्षमारुह्य स्थितोऽसौ वायसाधमः ॥ ततः प्रबुद्धो रामोऽसौ दृष्ट्वा रक्तं स्तनान्तरम् । शोकाविष्टान्तु सीतां तामुवाच कमलेक्षणः ॥ किमिदं स्तनान्तरे भद्रे तव रक्तस्य कारणम् । इत्युक्ता सा च तं प्राह भर्त्तारं विनयान्विता ॥ पश्य राजेन्द्र वृक्षाग्रे वायसं दुष्टचेष्टितम् । येनैतच्च कृतं कर्म्म सुप्ते त्वयि महामते ॥ रामोऽपि दृष्ट्वा तं काकं तस्मिन् क्रोधमथा- करोत् । ऐषिकास्त्रं समादाय ब्रह्मास्त्रेणाभिमन्त्रितम् ॥ काकमुद्दिश्य चिक्षेप सोऽवधावद्भयान्वितः ॥ स त्विन्द्रस्य सुतो राजन् इन्द्रलोकं विवेश ह । रामास्त्रं प्रज्वलं दीप्तं तस्यानुप्रविवेश वै ॥ विदितार्थश्च देवेन्द्रो देवैः सर्व्वैः समन्वितः । निष्क्रामयच्च तं दुष्टं राघवस्यापकारिणम् ॥ ततोऽसौ सर्व्वदेवैस्तु देवलोकाद्बहिष्कृतः । पुनः सोऽभ्येत्य रामञ्च राजानं शरणं गतः ॥ त्राहि राम महाबाहो अज्ञानादपकारि- णम् । इति ब्रुवन्तं स प्राह रामः कमललोचनः ॥ अमोघाय ममास्त्राय अक्षि एकं प्रयच्छ मे । ततो जीवसि दुष्टात्मन् मेऽपराधो महान् कृतः ॥ इत्युक्तोऽसौ स्वकं नेत्रमेकमस्त्राय दत्तवान् । अस्त्रञ्च नेत्रमेकन्तु भस्मीकृत्य शमं ययौ ॥ ततः प्रभृति सर्व्वेषां काकानामेकनेत्रता । चक्षुषैकेन पश्यन्ति हेतुनानेन पार्थिव ! ॥” इति नरसिंहपुराणे ४३ अध्यायः ॥ (वायससम्बन्धिनि, त्रि । यथा, महाभारते । १२ । ८२ । ७ -- ८ । “स काकं पञ्जरे बद्धा विषयं क्षेमदर्शिनः । सर्व्वं पर्य्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ॥ अधीध्वं वायसीं विद्यां शंसन्ति मम वायसाः । अनागतमतीतञ्च यच्च संप्रति वर्त्तते ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वायस पुं।
काकः
समानार्थक:काक,करट,अरिष्ट,बलिपुष्ट,सकृत्प्रज,ध्वाङ्क्ष,आत्मघोष,परभृत्,बलिभुज्,वायस,चिरञ्जीविन्,एकदृष्टि,मौकलि,द्रोण,बल
2।5।20।2।5
काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः। ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि॥ स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः।
: काकभेदः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वायस¦ त्रि॰ वय एव अण्।
१ काके वायं वपनं स्यतिसो--ग्र।
२ अगुभवृक्षे
३ श्रीवासे च मेदि॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वायस¦ m. (-सः)
1. A crow.
2. Agallochum, (Amyris Agallocha.)
3. Turpentine. f. (-सी)
1. A species of fig, (Ficus oppositifolia, Rox.)
4. A vegetable, (Solanum Indicum.) E. वय् to go, Unadi aff. असच्, and the radical vowel made long.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वायसः [vāyasḥ], [वयो$सच् णित् Uṇ.3.118]
A crow; बलिमिव परिभोक्तुं वायसास्तर्कयन्ति Mk.1.3.
Fragrant aloe-wood, agallochum.
Turpentine.
A house facing the north-east. -सम् a multitude of crows. -Comp. -अरातिः, -अरिः an owl. -आह्वा A kind of esculent vegetable.-इक्षुः a kind of long grass. -विद्या the science of (augury from observing) crows; Bṛi. S.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
वायस m. (fr. वयस्)a bird , ( esp. ) a large bird RV. i , 164 , 52 (See. Nir. iv , 17 )
वायस m. a crow Br. MBh. etc.
वायस m. a prince of the वयस्g. पार्श्वा-दि
वायस m. Agallochum or fragrant aloe L.
वायस m. turpentine L.
वायस m. a house facing the north-east L.
वायस mf( ई)n. relating or peculiar to crows MBh. Ka1v. etc.
वायस mf( ई)n. consisting of birds Nalo7d.
वायस mf( ई)n. containing the word वयस्g. विमुक्ता-दि
वायस n. a multitude of crows Pa1n2. 4-2 , 37 Sch.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--to be fed with स्राद्ध पिण्ड for long life; फलकम्:F1: Br. III. १२. ३३; IV. 2. १७४.फलकम्:/F the crow as belonging to Indra, वरुण, Yama and निरृति; फलकम्:F2: वा. १०१. १७१; १०८. ३१; १११. ४०.फलकम्:/F one of copper, as gift for the ceremonial connected with tank construction. फलकम्:F3: M. ५८. १९.फलकम्:/F
(II)--(see वायव्य): a यामदेव. वा. ३१. 7.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Vāyasa in the Rigveda[१] and later[२] denotes a ‘large bird.’ The sense of ‘crow’[३] occurs in the Ṣaḍviṃśa Brāhmaṇa only.[४]