शुल्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुल्क, क भाषे । सर्ज्जने । वर्ज्जने । इति कवि- कल्पद्रुमः ॥ (चरा०-पर०-सक०-सेट् ।) क, शुल्कयति । शुल्क श्लोक इत्येतयोरेतावर्थौ कैश्चिन्न मन्यते । भाषः कथनम् । इति दुर्गा- दासः ॥

शुल्कः, पुं, क्ली, (शुल्क + घञ् ।) घट्टादिदेयम् । मासुल इति भाषा । इत्यमरः ॥ घट्टः पन्थाः तत्र आदिना द्रव्यक्रयविक्रयस्थानादौ च यद्देयंदीयते स शुल्को जगात् इति घटी इति राज इति च ख्यातः । शलति प्रतिबन्धोऽनेनेति शुल्कः । शल ज गतौ तालव्यादिः नाम्नीतिकः निपा- तनादत उत्वम् । घट्ट चाले घट्ट्यतेऽत्र इति घञि घट्टः । घट्टो वर्त्मोति माधवी । घट्टो राजग्राह्य- ग्रहणस्थानादिरिति मुकुटः । घट्टो घाट इति ख्याते इति रमानाथः । इति तट्टीकायां भरतः ॥ (यथा, मनुः । ८ । ३०७ । “योऽरक्षन् बलिमादत्ते करं शुल्कञ्च पार्थिवः । प्रतिभागञ्च दण्डञ्च स सद्यो नरकं व्रजेत् ॥”) वरादर्थग्रहणम् इति मेदिनी ॥ (यथा, मनुः । ३ । ५१ । “न कन्यायाः पिता विद्वान् गृह्णीयात् शुल्क- मण्वपि । गृह्णन् शुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ॥” पणः । यथा, महाभारते । १ । १९१ । ४ । “इत्युक्तो धनुरायम्य शुल्कावाप्तं महाबलः । भ्राता भीसेन सहितस्तस्थौ गिरिरिवाचलः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुल्क पुं-नपुं।

शुल्कः

समानार्थक:शुल्क

2।8।27।2।1

द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः। घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम्.।

 : बलिः

पदार्थ-विभागः : धनम्

शुल्क पुं-नपुं।

स्त्रीधनम्

समानार्थक:शुल्क

3।3।17।9।2

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुल्क¦ कथने, सर्जने, वर्जने च चु॰ उभ॰ सक॰ सेट्। शुल्क॰यति ते अशुशुल्कत् त।

शुल्क¦ पु॰ न॰ शुल्क्यते अतिसृज्यते कर्मणि घञ्।

१ घट्टादिदेयेराजकरे मेदि॰

२ राजग्राह्यकरभेदे अमरः। वरपक्षात्कन्यापक्षीयैः

३ ग्राह्ये धने

४ स्त्रीधनभेदे
“भगिनीशुल्कंसोदर्य्याणाम्” इति स्मृतिः। सम्भोगार्थं स्त्रीभ्यः देये

५ घने
“अशुल्कोपहृतायास्तु पिण्डदावोढुरेव ते” इति स्मृतिः

६ पणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुल्क¦ mn. (-ल्कः-ल्कं)
1. Toll, duty, customs or taxes.
2. The present [Page726-a+ 60] made by the bridegroom to the bride, at the time of bringing her home to his family; a marriage settlement or dower.
3. Money given to the parents of the bride.
4. Money given at the purchase of any thing to ratify the bargain.
5. The profits of household labour, employment of domestic utensils, care of milch-cattle, preservation of ornaments, superintendance of servants, &c., when considered as the perquisite of the wife and her own legal property. E. शुल्क् to quit, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुल्कः [śulkḥ] ल्कम् [lkam], ल्कम् [शुल्क्यते अतिसृज्यते कर्मणि घञ्]

A toll, tax, customs, duty; particularly levied at ferries, passes, roads &c.; कः सुधीः संत्यजेद्भाण्डं शुल्कस्यैवातिसाध्वसात् H.3.125; Ms.8.159; Y.2.47.

Gain, profit.

Money advanced to ratify a bargain.

Purchase price (of a girl); money given to the parents of a bride; पीडितो दुहितृशुल्कसंस्थया R.11.38; न कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्कमण्वपि Ms.3.51;8.24;9.93,98; Pratimā 1.15.

A nuptial present.

Marriage settlement or dowry.

Present given by the bride-groom to his bride.

A dog; Uṇ.3.42.

Price, value. -Comp. -अध्यक्षः a superintendent of tolls, taxes or revenue; Kau. A.2. -खण्डनम् defrauding (government) of its due revenue; also -मोषणम्.-ग्राहक, -ग्राहिन् m. a toll-collector.

दः the giver of a nuptial present.

an affianced suitor; तान् शुल्कदान् वित्तवतः कान्तान् मेने$र्थकामुकाः Bhāg.11.8.24. -शाला, -स्थानम् a toll-station, custom-house; शुल्कस्थाने परिहरन्न- काले क्रयविक्रयी Ms.8.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुल्क mn. ( ifc. f( आ). )price , value , purchase-money RV.

शुल्क m. the prize of a contest MBh.

शुल्क m. toil , tax , duty , customs ( esp. money levied at ferries , passes , and roads) Gaut. A1past. Mn. etc.

शुल्क m. nuptial gift ( orig. a price given to parents for the purchase of a bride , but in later times bestowed on the wife as her own property together with the profits of household labour , domestic utensils , ornaments etc. ) , dower , dowry , marriage settlement Gaut. Vishn2. Mn. etc. (See. IW. 267 )

शुल्क m. wages of prostitution Katha1s. Ma1rkP.

शुल्क m. w.r. for शुक्रand शुक्लMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a price for marriage; कृष्ण was not prepared to pay any price for सत्या; फलकम्:F1: भा. X. ५८. ४०.फलकम्:/F one selling a daughter to be punished; फलकम्:F2: M. २२७. २०.फलकम्:/F a tax gathered by kings of Kali age. फलकम्:F3: Vi. VI. 1. ३४.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śulka in the Rigveda[१] clearly means ‘price.’ In the Dharma Sūtras[२] it denotes a ‘tax,’ a sense which is found by Muir[३] in a passage of the Atharvaveda,[४] where śukla is read in the edition with great detriment to the sense. This correction is accepted by Bloomfield[५] and by Whitney.[६] In another passage the same change made by Weber[७] is not accepted by Whitney,[८] and doubtfully by Bloomfield.[९]

  1. vii. 82, 6;
    viii. 1. 5.
  2. See Foy, Die Ro7nigliche Gewalt, 39 et seq.
  3. Sanskrit Texts, 5, 310.
  4. iii. 29, 3.
  5. Hymns of the Atharvida, 434.
  6. Translation of the Atharvaveda, 136.
  7. Indische Studien, 17, 304.
  8. Op, cit. 253.
  9. Loc. cit. Cf. Zimmer, Altindisches Leben, 413.
"https://sa.wiktionary.org/w/index.php?title=शुल्क&oldid=504987" इत्यस्माद् प्रतिप्राप्तम्