स्तेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेयम्, क्ली, (स्तेनस्य भावः कर्म्म वा । स्तेन + “स्तेनाद्यन्नलोपश्च ।” ५ । १ । १२५ । इति यत् । नलोपश्च) चौर्य्यम् । तत्तु चौरस्य भावः तस्य कर्म्म च इत्यमरभरतौ । २ । १० । २५ ॥ तस्य लक्षणं यथा, प्रायश्चित्त्वविवेके । “प्रत्यक्षं वा परोक्षं वा रात्रौ वा यदि वा दिवा यत् परद्रव्यहरणं स्तेयं तत् परिकीर्त्तितम् ॥” तत्करणे नरकं प्रतिप्रसवञ्च यथा, -- व्यासोवाच । “न हिंस्यात् सर्व्वभूतानि नानृतञ्च वदेत् क्वचित् नाहितं नाप्रियं वाक्यं न स्तेनः स्यात् कदाचन तृणं वा यदि वा शाकं मृदं वा जलमेव वा । परस्यापहरन् जन्तुर्नरकं प्रतिपद्यते ॥ न राज्ञां प्रतीगृह्णीयान्न शूद्रपतितादपि । न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद्बुधः ॥ नित्यं याचनको न स्यान्न पुनस्तत् प्रयाचयेत् ॥ न विषं विषमित्याहुर्ब्रह्यस्वं विषमुच्यते । देवस्वञ्चापि यत्नेन सदा परिहरेत्ततः ॥ पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे । अदत्तादानमस्तेयं मनुराह प्रजापतिः ॥ ग्रहीतव्यानि पुष्पाणि देवार्च्चनविधौ द्विजैः । नैकस्मादेव नियतमननुज्ञाय केवलम् ॥ तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः । धर्म्मार्थं केवलं ग्राह्यमन्यथा पतितो भवेत् ॥ तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः । क्षुधार्त्तैर्नान्यथा विप्र विधिविद्भिरितिस्थितिः ॥” इति कौर्म्मे उपविभागे । १६ । १ -- १० ॥ स्ते यप्रायश्चित्तं यथा, -- “एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् । स्तेयदोषापहर्त्तॄणां व्रतानां श्रूयतां विधिः ॥ धान्यान्यधनचौर्य्याणि कृत्वा कामात् द्विजो- त्तम । स्वजातीयगृहादेव कृच्छार्द्धेन विशुध्यति ॥ मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवापीजलानाञ्च शुद्धिश्चान्द्रायणं स्मृतम् ॥ द्रव्याणामप्लसाराणां स्तेयं कृत्वान्यवेश्मनः । चरेत् सान्तपनं कृच्छ्रं तत्पापपरिशुद्धये ॥ भक्षभोज्यापहरणे यानशय्यासनस्य तु । पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥ तृणकाष्ठद्रुमाणान्तु पक्वान्नस्य गुडस्य तु । तैलचर्म्मामिषाणान्तु त्रिरात्रं स्यादभोजनम् ॥ मणिमुक्ताप्रबालानां ताम्रस्य रजतस्य तु । अयस्कांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥ कार्पासकीटकोर्णानां द्विशफैकशफस्य च । पक्षिगन्धौषधानाञ्च रज्वाश्चैव त्र्यहं पयः ॥ एतैर्व्रतैर्व्यपोहेत पापं स्तेयकृतं बुधः ॥” इति मात्स्ये २०१ अध्यायः ॥ * ॥ स्तेयस्य दण्डविधिर्दण्डशब्दे द्रष्टव्यः । सुवर्ण- स्तेयप्रायश्चित्तं प्रायश्चित्तशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेय नपुं।

चोरकर्मः

समानार्थक:चौरिका,स्तैन्य,चौर्य,स्तेय,अभिहार

2।10।25।2।4

प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः। चौरिका स्तैन्यचोर्ये च स्तेयं लोप्त्रं तु तद्धने॥

वृत्तिवान् : चोरः

 : अपहरणम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेय¦ न॰ स्तनस्य भावः यप्त नेलोपः।

१ चौर्य्ये अमरः।
“प्रत्यक्षं वा परोक्षं वा रात्रौ वा यदि वा दिवा। यत्[Page5342-b+ 38] परद्रव्यहरणं स्तेयं तत्परिकीर्त्तितम्” इत्युक्तेः पर-द्रव्यापहारः स्तेयं तच्च अष्टादशविवादान्तर्गतविवादपद-भेदः तत्स्वरूपादिकं वीरमि॰ उक्तं चोरशब्दे

२९

६९ पृष्ठादौ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेय¦ n. (-यं)
1. Theft, robbery.
2. Anything stolen or liable to be stolen.
3. Anything private. E. स्तेन् to steal, यत् aff.; the final न rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेयम् [stēyam], [स्तेनस्य भावः यत् नलोपः]

Theft, robbery; व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् Ku 2.35.

Anything stolen or liable to be stolen.

Anything private or secret.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तेय n. theft , robbery , larceny RV. etc.

स्तेय n. anything stolen or liable to be stolen BhP.

स्तेय n. anything clandestine or private MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--theft; one of the heinous sins; story of a thief Vajra of काञ्ची is told. फलकम्:F2: Br. IV. 6. ३७; 7. 4, १०.फलकम्:/F ^1 वा. १०५. १३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


STEYA : Theft. In the law of chastisement of ancient Bhārata, appropriation of the property of others un- justly, was counted as theft (steya). The punishment awarded for theft in ancient Bhārata, is mentioned in Agni Purāṇa, Chapter 173, as follows. “All thefts are violation of justice. The thief of gold, will have to be beaten to death with a pestle. Then only his sin will be remitted. Or, he must live for twelve years, lying on the earth, wearing matted hair and eating only leaves, roots and fruits, once a day. The thief of pearl, coral, copper, silver, iron, bronze and stone, will have to eat millet rice (Kaṇānna) for twelve days. Those who steal food products, vehicle, bed, chair, flowers, fruits, roots etc. will be made to eat Pañcagavya (Milk, curd, butter, urine and dung of cow). He who steals grass, firewood, tree, dried rice, saccharum, cloth, hide, meat etc. will have to be made to fast for three days.


_______________________________
*9th word in left half of page 743 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Steya denotes ‘theft’ in the Atharvaveda[१] and later.[२] Cf. Dharma.

  1. xi. 8, 20;
    xiv. 1, 57.
  2. Nirukta, vi. 27;
    Kauṣītaki Upaniṣad, iii. 1. Cf. steya-kṛt, ‘thief,’ in Rv. vii. 104, 10.
"https://sa.wiktionary.org/w/index.php?title=स्तेय&oldid=505831" इत्यस्माद् प्रतिप्राप्तम्