धान्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धान्यम्, क्ली, चतुस्तिलपरिमाणम् । इति शुभङ्करः । धन्याकम् । धनीया इति यस्य भाषा । तत्- पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “धन्याकं धान्यकं धान्यं कुस्तुम्बुरुधनीयकम् । धन्या कुस्तुम्बुरी चान्या वेषलोग्रा वितुन्नकम् ॥”) परिपेलम् । (धाने पोषणे साधु इति । धान + “तत्र साधुः ।” ४ । ४ । १८ । इति यत् । स्वकीयजन्मलग्नमकरसंज्ञकानि ॥ * ॥ अथ धान्य- स्थापनदिनम् । तत्र नक्षत्राणि । भरण्यश्लेषार्द्रा- कृत्तिकाविशाखापूर्ब्बफल्गुनीपूर्ब्बाषाढापूर्ब्ब- भाद्रपज्ज्येष्ठामघाभिन्नानि । तत्र वाराः शुभ- ग्रहाणाम् । लग्नानि मकरवृषसिंहवृश्चिककुम्भ- मिथुनकन्याधनुर्मीनसंज्ञकानि ॥ * ॥ अथ धान्या- दिवृद्धिदानदिनम् । तत्र नक्षत्राणि श्रवणा धनिष्ठा शतभिषा विशाखा उत्तरफल्गुनी उत्तराषाढा उत्तरभाद्रपत् रोहिणी रेवती पुनर्व्वसुः पुष्यः अश्विनी ज्येष्ठा एतानि । वाराः बुधभिन्नाः । इति ज्योतिषम् ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धान्य नपुं।
धान्यम्
समानार्थक:धान्य,व्रीहि,स्तम्बकरि
2।9।21।2।1
किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी। धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः॥
अवयव : यवादीनां_मूलम्,तुषः
: व्रीहिः, यवः, रेणुकः, कोद्रवः, मसूरः, वनमुद्गः, सर्षपः, गोधुमः, अर्धस्विन्नयवादिः, चणकः, तैलहीनतिलः, कङ्गुः, अतसी, तीक्ष्णाग्रधान्यम्, अपनीततृणसशीकृत_धान्यम्, अपनीतबुसधान्यम्, शमीप्रभवमाषादिधान्यम्, यवादिशूकधान्यम्, कलमषष्टिकाद्याः, श्यामाकादितृणधान्यानि, अखण्डतण्डुलाः, तुच्छधान्यम्
पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धान्य¦ न॰ धाने पोषणे साधु यत्।
१ सतुषे(धान)ख्याते ब्री-ह्यादौ
“शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्यमुच्यते” स्मृतिः। धान्यवर्गः सगुणोऽभिहितो भावप्र॰ यथा
“शालिधान्यं व्रीहिधान्यं शूकधान्यं तृतीयकम्। शिम्बीधान्यं क्षुद्रधान्यमित्युक्तं धान्यपञ्चकम्। शा-लयो रक्तशाल्याद्या व्रीहयः षष्ठिकादयः। यवादिकंशूकधान्यं मुद्गाद्यं शिम्बिधान्यकम्। कङ्ग्वादिर्कक्षुद्रधान्यं तृणधान्यञ्च तत् स्मृतम्”। तत्र शालिधान्यस्य लक्षणं गुणाश्च
“कण्डनेन विना शुक्लाहैमन्ताः
“शालयः स्मृताः”। अथ शालीनां नामानि। रक्तशालिः सकलमः पाण्डुकः शकुनाहृतः। सुगन्धकःकर्द्दमको महाशालिश्च दूषकः। पुष्पाण्डकः पुण्डरी-कस्तथा महिषमस्तकः। दीर्घशूकः काञ्चनको हायनोलोघ्रपुष्पकः। इत्याद्याः शालयः सन्ति बहवो बहुदे-शजाः। ग्रन्थविस्तरभीतेस्ते समस्ता नात्र भाषिताः”। ( अथ तेषां गुणाः
“शालयो मधुराः स्निग्धा बल्याबद्धाल्पबर्च्चसः। कषाया लघवो रुच्याः स्वर्य्या वृष्याश्चवृंहणाः। अल्पानिलकफाः शीताः पित्तघ्ना मूत्रला-स्तथा। शालयो दग्धमृज्जाताः कषाया लघुपाकिनः। सृष्टमूत्रपुरीषाश्च रूक्षाः श्लेष्मापकर्षणाः। कैदारा वात-पित्तव्नाः गुरवः कफशुक्रलाः। कषाया अल्पवर्च्चस्कामेध्याश्चैते बलावहाः”। कैदाराः कृष्ट{??}त्रजाः उप्ताः।
“स्थलजाः स्वादवः पित्तकफघ्ना वातपित्तदाः। किञ्चि-त्तिक्ताः कषायाश्च विपाके कटुका अपि। स्थलजाःअकृष्टभूमिजाताः स्वयंजाता। बापिता मघुरावृष्या बल्याः पित्तप्रणाशताः। श्लेष्मलाश्चाल्पवर्च्चस्काःकषाया गुरवो हिमाः”। वाप्रिताः कृष्टक्षेत्रे अकृष्टक्षेत्रे[Page3878-a+ 38] च।
“वापितेभ्यो गुणैः किञ्चित् हीनाः प्रोक्ता अवा-पिताः”। कृष्टक्षेत्रे अकृष्टक्षेत्रे वा।
“रोपितास्तुनवा वृष्याः पुराणा लघवः स्मृताः। तेभ्यस्तु रोपिताभूयः शीघ्रपाका गुणाधिकाः। छिन्नरूढाः हिमारूक्षा बल्याः पित्तकफापहाः। बद्धविष्ट्काः कषायाश्चलघवश्चाल्पतिक्तकाः”। ( अय रक्तशालेर्गुणाः
“रक्तशालिर्वरस्तेषु बल्यो वर्ण्य-स्त्रिदोषजित्। चक्षुष्यो मूत्रलःस्वर्य्यः शुक्रलस्तृड्ज्व-रापहः। विषव्रणश्वासकासदाहनुद्वह्निपुष्टिदः। तस्मा-दल्पान्तरगुणाः शालयो महदादयः”। रक्तशालिः(दाउदखानी) इति लोके मगधदेशे प्रसिद्धः। ( अथ व्रीहिधान्यस्य लक्षणं गुणाश्च।
“वार्षिकाःकण्डिताः शुक्ला व्रीहयश्चिरपाकिनः। कृष्णव्रीहिः पाट-लश्च कुक्कुटाण्डक इत्यपि। शालामुखो जतुसुख इ-त्याद्याः व्रीहयः स्मृताः। कृष्णव्रीहिः स विज्ञेयोयः कृष्णतुषतण्डुलः। पाटलः पाटलापुष्पवर्णको व्रीहि-रुच्यते। कुक्कुटाण्डाकृतिर्व्रीहिः कुक्वटाण्डकौच्यते। शालामुखः कृष्णशूकः कृष्णतण्डुल उच्यते। लाक्षा-वर्णं मुखं यस्य ज्ञेयो जतुमुखस्तु सः। व्रीहयःकथिताः पाके मधुरा वीर्य्यतो हिताः। अल्पाभि-ष्यन्दिनो वद्धवर्च्चस्काः षष्टिकैः समाः। कृष्णब्रीहिर्वर-स्तेषां तस्मादल्पगुणाः परे”। ( अथ षधिकानां लक्षणं गुणाश्च।
“गर्भस्था एव ये पाकंयान्ति ते षष्टिका मताः”। अथ षष्टिकानां नामानि।
“षष्टिका शतपुष्पश्च प्रमोदकमुकुन्दकी। महाषष्टिकइत्याद्याः षष्टिकाः समुदाहृताः। एतेऽपि व्रीहयःप्रोक्ता व्रीहिलक्षणदर्शनात्। षष्टिका मधुराः शीतालघवो बद्धवर्च्चसः। वातपित्तप्रशमनाः शालिभिः सदृशाःगुणैः”। ( तत्र षष्टिकाया गुणाः।
“षष्टिका प्रवरा तेषांलध्वी स्निग्धा त्रिदोषजित्। स्वाद्वी मृद्वी ग्राहिणीच बलदा ज्वरहारिणी। रक्तशालिगुणैस्तुल्याततः स्वल्पगुणाः परे। षष्टिका (षाठी) इति लोके। ( अथ शूकधान्यानि। तेषु यवाः प्रसिद्धाः। अतियवःपोतशूकः कृष्णारुणवर्णो यवः। तोक्यो हरितोनिःशूकः स्वल्पो यवः यवेति प्रसिद्धः। तेषां नामानिगुणाश्च।
“यवस्तु पीतशूकः स्यान्निःशूकोऽतियवःऋतः। तोक्यस्तद्वत्सहरितस्ततः स्वल्पश्च कीर्त्तितः। [Page3878-b+ 38] यवः कषायो मधुरः शीतलो लेखनो मृदुः। व्रणेषुतिलवत् पथ्यो रूक्षो मेधाग्निबर्द्धनः। कटुपाकोऽनभि-ष्यन्दी स्वर्यो बलकरो गुरुः। बहुबातमलो वर्णस्थैर्य्य-कारी च पिच्छिलः। कण्ठत्वगामयश्लेष्मपित्तमेदप्रणा-शनः। पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत्। अस्मा-दतियवो न्यूनस्तोक्यो न्यूनतरस्ततः। ( अथ गोधूमस्य नामानि लक्षणं गुणाश्च।
“गोधूमः सुम-नोऽपि स्यात् बिविधः स च र्कार्त्तितः। महागोधूम इ-त्याख्यः पश्चाद्देशात् समागतः। महागोधूमः। (बडगोहुम)इति लोके।
“मधूली तु ततः किञ्चिदल्पा सा मध्यदेशजा। निःशूको दीर्घगोधूमः क्वचिन्नन्दीमुखामिधः। गोधूमोमधुरःशीतो बातपित्तहरो गुरुः। कफशुक्रप्रदो बल्यःस्निग्धः सन्धानकृत् सरः। जीवनी वृंहणो वर्ण्योव्रण्यो रुच्यः स्थिरत्वकृत्। कफप्रदो नवीनो नतुपुराणः। पुराणयवगोधूमक्षुद्रजाङ्गलशूलभागिति” वाग्भटेन वसन्ते गृहीतत्वात्।
“मधूली शीतला स्निग्धापित्तघ्नी मधुरा लधुः। शुक्रला वृंहणी पथ्यातद्वम्मन्दीमुखः स्मृतः”। ( अथ शिम्बीधान्यानि तत्पर्य्यायानाह।
“शमीजाःशिम्बिजाः शिम्बीभवाः सूर्य्याश्च वैदलाः। तेषां गुणाः।
“वैदलामधुरा रूक्षाः कषायाः कटुपाकिनः। वातलाःकफपित्तघ्नबद्धमूत्रमला हिमाः। ऋते मुद्गमसूराभ्यामन्येत्वाध्मानकारिणः। मुद्गमसूरयोरनाध्मानकारित्वमन्यवै-दलापेक्षया न तु सर्वथा एतयोरपि किञ्चिदाध्मानकारि-त्वात्। ( तत्र मुद्गस्य गुणाः।
“मुद्गो रूक्षो लघुर्ग्राही कफ-पित्तहरोहिमः। स्वादुरल्पानिलो नेत्र्यो ज्वरघ्नोवनजस्तथा। मुद्गो बहुविधः श्यामो हरितः पीतक-स्तथा। श्वेतो रक्तश्च तेषान्तु पूर्वः पूर्वो लघुः स्मृतः। सुश्रुतेन पुनः प्रोक्तो हरितः प्रवरो गुणैः। चरकादि-भिरप्युक्त एव एब गुणाधिकः। ( अथ माषः (उरद)। माषो गुरुः स्वादुपाकः स्निग्धोरुच्योऽनिलापहः। स्रंसनस्तर्पणो बल्यः शुक्रलोवृंहणः परः। भिन्नमूत्रमलस्तन्यो मेदःपित्तकफप्रदः। गुदकीलार्द्दितश्वासपङ्क्तिशूलानि नाशयेत्। कफपित्त-करा माषा वृन्ताकं कफपित्तकृत्”। ( अथ राजमाषस्य (वरवटी) राजमाषो महामाषश्चपलश्चबलः स्मृतः। राजमाषो गुरुःस्वादुस्तुवरस्तर्पणः[Page3879-a+ 38] सरः। रूक्षो वातकरो रुच्यः स्तन्यो भूरिबलप्रदः। श्वेतो रक्तस्तथा कृष्णस्त्रिविधः स प्रकीर्त्तितः। योमहांस्तेषु भवति स एवोक्तो गुणाधिकः”। ( अथ निष्पावः। स तु राजशिम्बीवीजं (भेटवासु) इतिलोके।
“निष्पाबो राजशिम्बिः स्याद् बल्लकः श्वेत-शिम्बिकः। निष्पावो मधुरो रूक्षो विपाकेऽम्ली गुरुःसरः। कषायःस्तन्यपित्तास्नमूत्रवातविबन्धकृत्। विदा-ह्युष्णो विषश्लेष्मशोथहृच्छुक्रनाशनः”। ( अथ मकुष्ठः। मकुष्ठोवनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ। मकुष्ठो वातलो ग्राही कफपित्तहरो लघुः। वह्नि-जिन् मधुरः पाके कृमिकृज्ज्वरनाशनः”। ( अथ मसूरः।
“मङ्गल्यको मसूरः स्यान्मङ्गल्या चमसूरिका। मसूरो मधुरः पाके संग्राही शीतलोलघुः। कफपित्तास्रजिद्रूक्षो वातलो ज्वरनाशनः। ( अथ आढकी (रहरी)।
“आढकी तुवरी चापि साप्रोक्ता शणपुष्पिका। आढकी तुवरा रूक्षा मधुरा शीतलालघुः। ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित्”। ( अथ चणकः (छोला)।
“चणको हरिमन्थः स्यात्सकलप्रिय इत्यपि। चणकः शीतलो रूक्षः पित्त-रक्तकफापहः। लघुः कषायो विष्टम्भी वातलोज्वरनाशनः। स चाङ्गारेण सम्भृष्टस्तैलभृष्टश्च तद्-गुणः। आर्द्रभृष्टो बलकरो रोचनश्च प्रकीर्त्तितः। शुष्कभृष्टोऽतिरूक्षश्च वातकुष्ठप्रकोपणः। स्विन्नःपित्तकफं हन्यात् सूपः क्षोभकरो मतः। आर्द्रोऽतिकोमलो रुच्यः पित्तशुक्रहरो हिमः। कषायो वातलोग्राही कफपित्तहरो लघुः। ( कल्ययः (केराव)। कलायो वर्त्तुलः प्रोक्तः सतीनश्चहरेणुकः। कलायो मधुरः स्वादुः पाके रूक्षश्च शीतलः। अथ त्रिपुटः (खेसारी)। त्रिपुटः खण्डिकोऽपिस्यात् कथ्यन्ते तद्गुणा अथ। त्रिपुटो मधुरस्तिक्तस्तुवरो रूक्षणो भृशम्। कफपित्तहरो रुच्यो ग्राहकःशीतलस्तथा। किन्तु खञ्जत्वपङ्गुत्वकारी वातातिकोपनः। ( अथ कुलत्थी। कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणाअथ। कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत्। लघुर्विदाही वीर्योष्णः श्वासकासकफानिलान्। हन्तिहिक्काश्मरीशुक्रदाहानाहान् सपीनसान्। स्वेदसंग्रा-हको मेदोज्वरकृमिहरः परः। ( अथ तिलः। तिलः कृष्णः सितो रक्तः स वर्ण्योऽल्प-[Page3879-b+ 38] तिलः स्मृतः। तिलो रसे कटुस्तिक्तो मधुरस्तुवरोगुरुः। विपाके कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत्। बल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः। दन्त्योऽल्पमूत्रकृद् ग्राही वातघ्नोऽग्निमृतिप्रदः। कृष्णःश्रेष्ठतमस्तेषु शुक्रलो मध्यमः सितः। अन्ये हीनतराःप्रोक्तास्तज्ज्ञैरक्तादयस्तिलाः। ( अथ अतसी (तिसि)। अतसी नीलपुष्पी च पार्वतीस्यादुमा क्षुमा। अतसी मधुरा तिक्ता स्निग्धा पाकेकटुर्गुरुः। उष्णासृक्शुक्रवातघ्नी कफपित्तविनाशिनी। अथ तुवरी (तोरी तोडीति) लोके। तुवरी ग्राहिणीप्रोक्ता लघ्वी कफविषास्रजित्। तीक्ष्णोष्णा वह्निदाकण्डूकुष्ठकोष्ठकृमिप्रणुत्। ( अथ सर्षप (रक्तसरीसो पिअरी सरीसो)। सर्षपःकटुकः स्नेहस्तुन्दुभश्च कदम्बकः। गौरस्तु सर्षपः प्राज्ञैःसिद्धार्थ इति कथ्यते। सर्षपस्तु रसे पाके कटुः स्निग्धःसतिक्तकः। तीक्ष्णोष्णः कफवातघ्नोरक्तपित्ताग्निवर्द्धनः। रक्षोहरो जयेत् कण्डूं कुष्ठकोष्ठकृगिग्रहान्। यथारक्तस्तथा गौरः किन्तु गौरो वरो मतः। ( अथ राजी (कृष्णा राइ)। राजी तु राजिका तीक्ष्ण-गन्धा कुञ्जनिकासुरी। क्षवः क्षवाभिजनकः कृमिकृत्कृष्णसर्षपः। राजिका कफपित्तघ्नी तीक्ष्नोष्णा रक्तपित्त-कृत्। किञ्चिद्रूक्षाग्निदा कण्डूकुष्ठकोष्ठकृमीन् हरेत्। अतितीक्ष्णा विशेषेण तद्वत् कृष्णापि राजिका। ( अथ क्षुद्रधान्यम्। क्षुद्रधान्यं कुधान्यञ्च तृणधान्यमितिस्मृतम्। क्षुद्रधान्यमनुष्णं स्यात् कषायं लघु लेखनम्। मधुरं कटुकं पाके रूक्षञ्च क्लेदशोषकम्। वातकृत्बद्ध्वविट्कञ्च पित्तरक्तकफापहम्। ( तत्र कङ्गुः (काङ्नी)। स्त्रियां कङ्गुप्रियङ्गू द्वे कृष्णारक्ता सिता तथा। पीता चतुर्विधा कङ्गुस्तासाम्पीतावरास्मृता। कङ्गुस्तु भग्नसन्धानवातकृत् वृंहणी गुरुः। रूक्षा श्लेष्महरातीव वाजिनां गुणकृद् भृशम्। ( अथ चीना। चीनाकः कङ्गुभेदोऽस्ति स ज्ञेयः कङ्गु-वद्गुणैः। ( अथ श्यामा। श्यामाकः शोषणो रूक्षो वातलः कफपित्तहृत्। ( अथ कोद्रवः। कोद्रवः कोरदूषः स्यादुद्दालो वनको-द्रवः। कोद्रवो वातलो ग्राही हिमपित्तकफापहः। उद्दालस्तु भवेदुष्णो ग्राही वातकरो भृशम्। ( अथ चारुकः (सरवीज)। चारुकः सरवीजः स्यात्[Page3880-a+ 38] कथ्यन्ते तद्गुणा अथ। चारुको मधुरो रूक्षो रक्तपित्त-कफापहः। शीतलो लघुवृष्यश्च कषायो वातकोपनः। ( अथ वंशवीजम्। यवा वंशभवा रूक्षाः कषायाः कटु-पाकिनः। बद्धमूत्राः कफघ्नाश्च वातपित्तकराः सराः। ( अथ कुमुम्भवीजम्। कुसुम्भवीजं वरटा सैव प्रोक्तावरट्टिका। वरटा मधुरा स्निग्धा रक्तपित्तकफापहा। कषाया शीतला गुर्वीस्यादवृष्याऽनिलापहा। ( अथ गवेधुका (गरहेडुआ)। गवेधुका तु विद्वद्भिर्गवेधुःकथिता स्त्रियाम्। गवेधुः कटुका स्वाद्वी कार्श्यकृत् कफ-नाशिनी। ( अथ नीवारः। प्रसाधिका तु नीवारस्तृणधान्यमितिस्मृतम्। नीवारः शीतलो ग्राही पित्तघ्नः कफवातकृत्। ( अथ (पुनेरा)। पवनालोहिमः स्वादुर्ल्लोहितः श्लेष्म-पित्तजित्। अवृष्यस्तुवरो रूक्षः क्लेदकृत् कथितो लघुः। धान्यं सर्वं नवं स्वादु गुरु श्लेष्मकरं स्मृतम्। तत्तु वर्षोषितं पथ्यं यतो लघुतरं हितम्। वर्षोषितंसर्वधान्यं गौरवं परिमुञ्चात। न तु त्यजति वीर्यंस्वं क्रमान्मुञ्चत्यतः परम्। एतेषु यवगोधूमतिलमाषानवा हिताः। पुराणा विरसा रूक्षा न तथा गुण-कारिणः। पुराणा वर्षद्वयादुपरिस्थिताः। यवादयोनवाः स्वस्थान् प्रति हिताः। पय्याशिनान्तु पुराणाहिताः।
“पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुगितिवसन्ते वाग्भटेनोक्तत्वात्”। स्मार्त्तादिकर्मोपयोगिधान्यभेदाश्च हेमा॰ दा॰ उक्ता यथामार्क्कण्डेयपुराणे
“जज्ञिरे तानि बीजानि ग्रा-म्यारण्याभिधानि च। ओषध्यः फलपाकान्ताः सर्वेसप्तदश स्मृताः। व्रीहयश्च यवाश्चैव गोधूमाः कङ्गु-कास्तिलाः। प्रियङ्गवः कोविदाराः कोरदूषाः सती-नकाः। माषमुद्गामसूराश्च निष्पावाः सकुलोत्यकाः। आढक्यश्चणकाश्चैव चीनाः सप्तदश स्मृताः। इत्येताओषधीनान्तु ग्राम्याणां जातयः स्मृताः। ओषध्योयज्ञिया ज्ञेया ग्राम्यारण्याश्चतुर्दश। व्रीहयश्च यवा-श्चैव गोधूमाः कङ्गुसर्षपाः। माषामुद्गाः सप्तमाश्च अष्टमाश्चकुलोत्थकाः। श्यामाकाश्चैव नीवारा जर्तिलाः सग-वेधुकाः। कोविदारसमायुक्तास्तथा वेणुयवाश्च ये। ग्रा-म्यारण्याः स्मृता ह्येता ओषध्यश्च चतुर्दश”
“स्कन्द-पुराणे
“यवगोधूमधान्यानि तिलाः कङ्गुकुलोत्थकाः। माषामुद्गामसूराश्च निष्पावाः श्यामसर्षपाः। गवेधुकाश्च[Page3880-b+ 38] नीवारा आढक्योऽथ सतीनकाः। चणकाश्चीनकाश्चैवधान्यान्यष्टादशैवं तु” धान्यानि व्रीहयः। नीवाराःआरण्यव्रीहयः। सतीनका वर्त्तुलकलायाः। चीनकाःषष्टिकविशेषाः। षट्त्रिंशन्मतात्
“यवा गोधूम-धान्यानि तिलाः कङ्गुस्तथैव च। श्यामाकश्चीनकश्चैवसप्तधान्यमुदाहृतम्”। (
“एकादश्यां विशेषेण ह्यन्नमात्रं परित्यजेत्। फलं मूलंजलादीनि किञ्चिद्भक्ष्वं प्रकल्पयेत्। अन्नं तु धान्यसम्भूतगिरिजे! भुवि जायते। धान्यानि विविधानीह जगत्यांशृणु तान्यथ। श्यामामाषमसूराश्च धान्यकोद्रवसर्षपाः। मकुष्ठो राजमाषाश्च तुवरोजुमरस्तथा। यवगोधूममुद्गाश्च तिलकङ्गुकुलत्थकाः। गवेधुकाश्च नीवाराआढकश्च कलायकाः। माण्डूको वज्रको रङ्कः कीचकोवडकस्तथा। तिलकाश्चणकाद्याश्च धान्यानि कथितानिवै। एतद्धान्य समद्भूतमन्नं भवति शोभने!। अन्नत्यागेब्रते भक्ष्यमेतदेव विवर्जयेत्” पाद्मोत्तरखण्डम्। ( धान्यमानन्तु हेमा॰ दा॰ उक्तं यथाभविष्यपुराणे
“पलद्वयन्तु प्रसृतं द्विगुणं कुडवं म-तम्। चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः। आढकैस्तैश्चतुर्भिश्च द्रोणस्तु कथितोबुधैः। कुम्भो द्रोण-द्वयं सूर्पः खारी द्रोणास्तु षोडश”। विष्णुधर्मोत्तरे
“पलञ्च कुडवः प्रस्य आढको द्रोण एव च। धान्य-मानेषु बोद्धव्याः क्रमशोऽमी चतुर्गुणाः। द्रोणैः षोड-शमिः खारी विंशत्या कुम्भ उच्यते। कुम्भैस्तु दश-भिर्वाधो धान्यसंख्या प्रकीर्त्तिता”। वाराहपुराणे
“पलद्वयन्तु प्रसृतम् मुष्टिरेकं पलं स्मृतम्। अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ तु पुष्कलम्। पुष्कलानि चचत्वारि आढकः परिकीर्त्तितः। चतुराढको भवेत्द्रोण इत्येतन्मानलक्षणम्। चतुर्भिः सेतिकाभिस्तुप्रस्थ एकः प्रकीतितः” मुष्टिर्यजमानस्येति केचित्। पाद्मे
“चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः। चतुराढको भवेद्रोण इत्येतन्मानलक्षणम्”। अथ गोपथ-ब्राह्मणे।
“पञ्चकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम्। पलैर्द्वात्रिंशद्भिःप्रस्थो मागधेषु प्रकीर्त्तितः। आदकस्तैः-श्चतुर्भिश्च द्रोणः स्याच्चतुराढकः”। धान्यच्छेदनादिविहितनक्षत्रादि ज्यो॰ द॰ उक्तं दीपिकायां
“याम्याजपादहिधनानलतोयशक्रचित्रेतरेषु च कुजा-र्कजवारवर्जम्। शस्तेन्दुयोगकरणेषुतिथौ विरिक्ते वा-[Page3881-a+ 38] न्यच्छिदिः स्थिरनरर्क्षमृगोदयेषु। बलभद्रः
“रेवतीहस्तमूलेषुश्रवणे नागयाम्ययोः। पितृदेवे तथा सौम्ये धान्यच्छेदंमृगोदये” अथ धान्यच्छेदनप्रकारः।
“सपत्रौ मासमुद्गौच यवधान्ये सकाण्डके। छिन्द्यात्तिलञ्च निष्पत्र-मेतत् पाराशरं मतम्” पराशरः।
“न मुष्टिग्रहणंकुर्यात् कदाचिद्धटपौषयोः। ईशाने लवनं कुर्यात्सार्द्धमुष्टिद्वयं शुचिः। पौष्णे पुष्ये शुभाहे बा पूज-यित्वेष्टदेवताम्। शस्यविघ्नप्रशान्त्यर्थं क्षेत्रे वा हव्यभोजनम्”। बौधायनः
“रथाश्वगजधान्यानां गवांचैव रजः शुभम्। अथाशस्तं समूहिन्याः श्वाजाविखरवायसाम्”। समूहिनी संमार्जनी। कृत्यचिन्तामणौ-मेधिरुक्ता यथा।
“वटश्च सप्तपर्णश्च गाम्भारी शाल्लीतथा औदुम्बरी तथा धात्री या चान्या क्षीरधारिणी। स्त्रीनाम्नी कर्षकैर्नित्यं मेधिः कार्या फलप्रदा”। अधिकंकृषिशब्दे दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धान्य¦ n. (-न्यं)
1. Corn in general, but especially rice, (Orizasativa.)
2. [Page369-a+ 60] Coriander.
3. A measure equal to four Seasamum seeds. E. धा to nourish (mankind), Una4di affix यत्, and नुट् augment. धाने पोषणे साधु यत् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धान्यम् [dhānyam], [धाने पोषणे साधु यत्]
Grain, corn, rice (for the distinction between सस्य, धान्य, तण्डुल and अन्न see under तण्डुल). सस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्यमुच्यते.
Coriander.
A measure equal to four sesamum seeds. -Comp. -अचलः a pile of grain presented to Brhāmaṇas as a gift. -अरिः a mouse, rat. -अर्थः wealth in rice or grain. -अम्लम् sour gruel made of the fermentation of rice-water. -अस्थि n. husk, chaff.-उत्तमः the best of grain; i. e. rice.
कल्कम् bran.
chaff, straw. -कोशः, -कोष्ठकम्, -कः a granary.-क्षेत्रम् a corn-field. -खलः threshing floor (Mar. खळें).-चमसः rice flattened by threshing after it has been steeped and fried in the husk. -चौरः a stealer of corn; धान्यचौरो$ङ्गहीनत्वम् Ms.11.5. -त्वच् f. the husk of corn. -धेनुः f. a heap of corn (like a cow, to be presented to a Brāhmaṇa); तमिदानीं प्रवक्ष्यामि धान्यधेनुविधिं परम् । यां दत्त्वा सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ ......मुच्यते...... Varāha P. -पञ्चकम् the following grains; शालि, व्रीहि, शूक, शिखि and क्षुद्र धान्यs. -मायः a corn-dealer. -मानम् a measure of corn (as much corn as a man can eat at once). -मुष्टिः a handful of grain. -राजः barley.-वर्धनम् lending grain at interest, usury with grain.-वीजम् (बीजम्) coriander. -वीरः a sort of pulse (माष). -शीर्षकम् the ear of corn. -शूकम् the beard or awn of corn. -सारः threshed corn.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धान्य mfn. consisting or made of grain RV. AV.
धान्य n. corn , grain ib. etc. etc. (according to Sus3r. only शालयः, षष्टिकाःand वीहयः, the other grains being कु-धान्यSee. )
धान्य n. a measure = 4 sesamum seeds L.
धान्य n. coriander (also f( आ). ) L.
धान्य n. Cyperus Rotundus L.
धान्य n. a kind of house Gal.
धान्य n. (fr. धन)the being rich , richness Dha1tup. xx , 3.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--१८ kinds of corn mentioned for making gifts. M. २७६. 7; २७७. ११.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Dhānya (neut.), a derivative from the preceding word,[१] denotes ‘grain’ in general. It is found in the Rigveda[२] and later.[३] According to the Bṛhadāraṇyaka Upaniṣad,[४] there are ten cultivated (grāmyāṇi) kinds of grain: rice and barley (vrīhiyavāḥ), sesamum and beans (tila-māṣāḥ), Panicum Miliaceum and Italicum (aṇu-priyaṅgavaḥ), maize (godhūmāḥ), lentils (masūrāḥ), Khalvāḥ and Dolichos uniflorus (khala-kulāḥ). The horse is called ‘corn-eating’ (dhānyāda) in the Aitareya[५] and Śatapatha[६] Brāhmaṇas, and men are mentioned as ‘purifying corn’ (dhānyā-kṛt) in the Rigveda.[७](** 7 Lit., ‘preparing corn.’