नाभि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभिः, पुं, (नह्यते बध्नाति विपक्षादीनिति । नह बन्धे + “नहो भश्च ।” उणां ४ । १२५ । इति इञ् भश्चान्तादेशः ।) मुख्यनृपः । चक्र- मध्यम् । (यथा, पञ्चतन्त्रे । १ । ९३ । “अरैः सन्धार्य्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्त्तते ॥”) क्षत्त्रियः । इति मेदिनी । भे, ५ ॥ प्रियव्रतराज- पौत्त्रः । (अग्नीध्रस्य पुत्त्रः । यथा, ब्रह्माण्डे । ३५ अध्याये । “तस्य पुत्त्रा बभूबुस्तु प्रजापतिसमा नव । ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषोऽनुजः ॥” “नाभये दक्षिणं वर्षं हिमवन्तं पिता ददौ ॥”) गोत्रम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ (प्रधा- नम् । इति विश्वः ॥ यथा, रघुः । १८ । २० । “सुतोऽभवत् पङ्कजनाभकल्पं कृत्स्नस्य नाभिर्नृ पमण्डलस्य ॥” महादेवः । यथा, महाभारते । १३ । १७ । ९२ । “नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः ॥”)

नाभिः, पुं स्त्री, (नह बन्धे + इञ् भश्चान्तादेशः ।) प्राण्यङ्गम् । इति मेदिनी । भे, ६ ॥ नाइ इति भाषा । तत्पर्य्यायः । नाभी २ तुन्दकूपी ३ । इति शब्दरत्नावली ॥ उदरावर्त्तः ४ । इति राज- निर्घण्टः ॥ (यथा, पञ्चदश्याम् । ६ । ११७ । “विष्णुर्नाभेः समुद्भूतो वेधाः कमलजस्ततः । विष्णुरेवेश इत्याहुर्लोके भागवता जनाः ॥”) “स च गर्भस्थस्य सप्तभिर्म्मासैर्भवति ।” इति सुखबोधः ॥ (“तस्य चेन्नाभिः पच्येत तां लोध्र- मधुकप्रियङ्गुदारुहरिद्राकल्कसिद्धेन तैलेनाभ्य- ज्यादेषामेवतैलौषधानां चूर्णेनावचूर्णयेदेषनाडी- कल्पनविधिरुक्तः सम्यक् ॥” इति चरके शरीर- स्थाने अष्टमेऽध्याये ॥) अस्मिन् स्थाने मणि- पुरनामदशदलपद्ममस्ति । यथा, -- “तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महत्प्रभम् । मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः ॥ मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् । शिवेनाधिष्ठितं पद्मं विश्वालोकनकारणम् ॥” इति तन्त्रम् ॥ कस्तूरिकामदे, स्त्री । इति मेदिनी । भे, ६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभि पुं।

रथचक्रमध्यमण्डलाकारः

समानार्थक:पिण्डिका,नाभि

2।8।56।2।2

चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्. पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

नाभि पुं।

क्षत्रियः

समानार्थक:मूर्धाभिषिक्त,राजन्य,बाहुज,क्षत्रिय,विराज्,राजन्,नाभि

3।3।137।1।1

क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्. सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः॥

पत्नी : क्षत्रियपत्नी

 : राजा

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभि¦ पु॰ नह--इञ् मश्चान्तादेशः।

१ क्षत्रिये

२ मुख्यनृपे

३ चक्रमध्यांशे रथचक्रस्थपिण्ड्याम्।

४ आग्नीघ्रनृपपुत्रभेदे

५ तन्नामके वर्षभेदे च
“तस्यानुह वा आत्मजान् स[Page4038-a+ 38] राजवर आग्नीध्रोनाभिकिंपुरुषहरिवर्षेलावृतरम्यकहि-रण्मयकुरुमद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत्। आ-ग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहनन वलो-पेताः पित्रा विभक्ता आत्मतुल्यनामानि यथामागंजन्वुद्वीपवर्षाणि बिभेजुः” भाग॰

५ ।

२ ।

२१
“नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्माऽय-जत्”

५ ।

३ ।

१ भारतवर्षस्यैव जम्बुद्वीपवर्षमध्यस्थितत्वात्नाभिसंज्ञा नाभिवर्षशब्दे वक्तव्यकारणान्तराच्च तथा वा।

६ प्राण्यङ्गे (नाइ) पुंस्त्री मेदि॰ स्त्रियां ङीप् वा।

७ उदरावर्त्ते (गों ड) राजनि॰। सुषुमृणान्तर्गते नाभि-ख्याने च मणिपूरं चक्रं यथाह तन्त्रसारे
“तदूर्द्ध्वेनाभिदेशे तु मणिपूरं महाप्रभम्। मेघामं विद्यु-दाभञ्च बहुतेजोम ततः। मणिवद्भिन्नं तत् पद्मंमणिपूरं तथोच्यते। दशभिश्च दलैर्युक्तं डादिफान्ता-क्षरान्वितम्। शिवेनाधिष्ठितं पद्मं विश्वालोकनकारणम्” इति।

८ मृगनाभिजाते मृगमदे मेदि॰।
“प्राप्तना-भिनदमज्जनमाशु” माघः
“प्राप्तनाभिह्रदेति” पाठःछन्दोमञ्जरीसम्मतः। पुंस्त्वे
“समुच्छ्वसत्पङ्कजकोषको-मलैरुपाहितश्रीण्युपनीवि नाभिभिः” किरा॰। श्रेष्ठ-नृपे
“उपगतोऽपि हि मण्डलनाभिताम्” रघुःसोमधारास्रावणार्थं दशापवित्रस्य मध्ये आबध्यमा-नायां

७ स्रुवि च।
“अवधूय पवित्रमुदग्दशमवाङ्नाभि वितनुयुः” ताण्ड्य॰ ब्रा॰

१ ।

२ ।

७ भाष्यधृतद्राह्मायणसूत्रम्। संज्ञायामेतदन्तस्य अच् समा॰। पद्मनामःहिरण्यनाभ इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभि¦ f. (-भिः-भी)
1. The nave of a wheel.
2. Musk. mf. (-भिः or भी) The navel, m. (-भिः)
1. An emperor, a sovereign, a lord, para- mount.
2. The centre, focus, chief point.
3. A king, a chief.
4. A Kshetriya or Hindu of the regal and military tribe.
5. The son of PRIYAVRATA.
6. A race, a family. E. नह् to bind, Una4di affix इञ्, and भ substituted for ह।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभि [nābhi] भी [bhī], भी m., f. [नह्-इञ् भश्चान्तादेशः cf. Uṇ.4.125]

The navel; गङ्गावर्तसनाभिर्नाभिः Dk.2. &c.; निम्ननाभिःMe.84,28; R.6.52; अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् Praśn. Up.

Any navel-like cavity. -m.

The nave of a wheel; अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते ॥ Pt.1.81.

The centre, focus, chief point; समुद्रनाभ्यां शाल्वो$भूत् सौभमास्थाय शत्रुहन् Mb.3.2.17.

Chief, leader, head; कृत्स्नस्य नाभिर्नृपमण्डलस्य R.18.2.

Near relationship, community (of race &c.); as in सनाभि q. v.

A paramount sovereign or lord; उपगतो$पि च मण्डलनाभिताम् R.9.15.

A near relation.

A Kṣatriya

Home.

A field; Nm. -भिः f. Musk. (i. e. मृगनाभी). [N. B. नाभि at the end of Bah. comp. becomes नाभ when the comp. is used as epithet; as पद्मनाभः.] -Comp. -आवर्तः the cavity of the navel. -कण्टकः, -कूपिका, -गु (-गो) -लकः ruptured navel. -गन्धः the odour of the musk; नाभिगन्धैर्मृगाणाम् Me.54. -जः, -जन्मन् m.,-भूः epithets of Brahmā.

नाडी, नालम् the umbilical cord; तदङ्कशय्याच्युतनाभिनाला R.5.7.

rupture of the navel. -मूलम् the part of the body immediately under the navel.

वर्धनम् cutting or division of the umbilical cord. प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते Ms.2. 29.

rupture of the navel.

corpulency. -वर्षम् N. of one of the nine वर्षs belonging to Jambudvīpa and named after Nābhi, the son of Agnīdhra. -वीथिः a road proceeding from the central part of a village or town; Kāmikāgama 25.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभि f. (prob. fr. 1. नभ्, " to burst asunder or into a hole " ; ifc. f( इor ई). Va1m. v , 49 )the navel (also -nnavel-string See. -कृन्तन) , a navel-like cavity RV. etc. etc. (in later language also m. and f( भी). )

नाभि f. the nave of a wheel ib. (also m. L. , and 605657 भीf. )

नाभि f. centre , central point , -ppoint of junction or of departure , home , origin , esp. common -oorigin , affinity , relationship

नाभि f. a near relation or friend ib. ( m. L. )

नाभि f. musk:(= मृर-न्) L.

नाभि m. or f. musk-deer Megh. 53 (?) BhP.

नाभि m. a chief (= central point) of( gen. ) Ragh. xviii , 19 (See. मण्डल-नाभि-ता)

नाभि m. a sovereign or lord paramount(= मुख्य-राज्) L.

नाभि m. a क्षत्रियL.

नाभि m. N. of a grandson of प्रिय-व्रत(son of अग्नीध्रand father of ऋषभ) Pur.

नाभि m. of the father of ऋषभ(first अर्हत्of the present अवसर्पिणी) L. [ cf. Angl.Sax. nafu , nafela ; Germ. naba , Nabe , nabolo , Nabel ; Eng. nave , navel.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the eldest of अग्नीध्र and of the country, हिमाह्व; married मेरुदेवी; performed a sacrifice for the birth of a son; the Lord appeared in the course of the sacrifice and promised to be born as his son; this was ऋषभ the eighth अवतार् of विष्णु फलकम्:F1:  भा. I. 3. १३; II. 7. १०; V. 2. १९; 3. 1-2, १७-20; 4. 1-3; XI. 2. १५; Br. II. १४. ४५, ५९-60; वा. ३३. ३८, ४१, ५०; Vi. II. 1. १६ and १८, २७.फलकम्:/F after he came of age, नाभि had ऋषभ installed on the throne, and left with his queen for विशाला for tapas and having propitiated नारायण became a जीवन्मुक्त। फलकम्:F2:  भा. V. 4. 3-5.फलकम्:/F [page२-225+ ३३]
(II)--a pupil of कुशुमि. Br. II. ३५. ४३.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Nābhi develops from the literal sense of ‘navel’ the figurative meaning of ‘relationship,’[१] or, concretely, ‘relation.’[२]

2. Nābhi, ‘nave’ of a chariot wheel, is mentioned in the Rigveda[३] and later.[४] See also Ratha, and cf. Nabhya.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाभि स्त्री.
नाभि,‘पवित्र’नाम वाले शोधक में स्थित एक छिद्र, आप.श्रौ.सू.12.13.1; ‘दशापवित्र’ का मध्य भाग जहाँ श्वेत रंग के ऊन का जूड़ा लगाया जाता है, द्रा.श्रौ.सू. (इण्डेक्स); (दीक्षित के शरीर की) नाभि, श्रौ.को. (सं.) .33; गाड़ी की नाभि,बौ.शु.सू. 5.19; एक माप का नाम=64 अंगुल, आप.श्रौ.सू.1०.19.

  1. i. 105, 9;
    164, 33;
    ii. 3, 9;
    40, 4, etc.;
    Av. xii. 1, 40;
    Vājasaneyi Saṃhitā, x. 8;
    xi. 12;
    xx. 1, etc.
  2. Rv. i. 163, 12;
    vi. 47, 28;
    Vājasaneyi Saṃhitā, xiii. 42-44. 50, etc.
  3. v. 43, 8;
    vi. 39, 4;
    viii. 41, 6.
  4. Av. iii. 30, 6;
    x. 8, 34;
    xi. 7, 4;
    Kāṭhaka Saṃhitā, xi. 4;
    Bṛhadāraṇyaka Upaniṣad, ii. 5, 11;
    Chāndogya Upaniṣad, vii. 15, 1;
    Aitareya Āraṇyaka, iii. 2, 4;
    Kauṣītaki Upaniṣad, iii. 8.
"https://sa.wiktionary.org/w/index.php?title=नाभि&oldid=500607" इत्यस्माद् प्रतिप्राप्तम्