श्मश्रु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मश्रु, स्त्री, (श्म मुखं श्रयति आश्रयतीति । श्म + श्रि + “श्मनि श्रयतेर्डुम् ।” उणा० ५ । २८ । डुन् ।) पुंमुखे वर्द्धितलोम । इत्यमरः ॥ दाडी इति भाषा ॥ पुंमुखे पुरुषास्ये तेषां वृद्धौ सत्यां तल्लोम श्मश्रु उच्यते । श्मन्निति मुख नामेति स्मुतिः श्मनि मुखे श्रूयते उपलभ्यते श्मश्रु नाम्नाति डुः श्मश्रु क्लीवमुदन्तम् । श्म मुखं श्रयति श्मनः श्रयतेर्डुन्निति डुनि श्मश्रु नान्तमित्यन्ये । इति भरतः ॥ * ॥ तस्य श्रुभा- शुभलक्षणं यथा, -- “निस्नं वक्त्रमपुत्त्राणां कृपणानाञ्च ह्रस्वकम् । संपूर्णं भोगिनां कान्तं श्मश्र स्निग्धं शुभं मृदु ॥ संहतं चास्फु टिताग्रं रक्तश्मश्रुश्च चौरकः । रक्ताल्पपरुषश्मश्रुकर्णाः स्युः पापमृत्यवः ॥” इति गारुडे ६६ अध्यायः ॥ * ॥ क्रोधार्त्तस्यावर्त्तनं यथा, -- मार्कण्डेय उवाच । “इति प्रतिज्ञाय तदा नरिष्यन्तसुतो दमः । कोपामर्षविवृत्ताक्षः श्मश्रु मावर्त्त्य पाणिना ॥ हा हतोऽस्मीति पितरं ध्यात्वा दैवं विनिन्द्य च । प्रोवाच मन्त्रिणः सर्व्वानानिनाय पुरोहितम् ॥” इति मार्कण्डेयपुराणे शेषाध्यायः ॥ * ॥ अस्य धारणफलं यथा । दानधर्म्मे । “केशश्मश्रु धारयतामग्र्या भवति सन्ततिः ॥” * तस्य क्षौरक्रमो यथा । वराहपुराणम् । “श्मश्रु कर्म्म कारयित्वा नखच्छेदमनन्तरम् ।” गोभिलः । “केशश्मश्रुलोमनखानि वापयीत शिखावर्जम ।” इति शुद्धितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मश्रु नपुं।

दाढिका

समानार्थक:श्मश्रु,व्यञ्जन

2।6।99।1।4

तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे। आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्.।

सम्बन्धि1 : पुरुषः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मश्रु¦ न॰ श्म पुंसुखं श्रूयते लक्ष्यतेऽनेन श्रु--ड्। गुरुपसु-खस्थे लोमसङ्घे अमरः।
“केशामश्रुधारयतामग्र्याभवति सन्ततिः” शु॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मश्रु¦ n. (-श्रु) The beard. E. श्मन् for मुख the face, श्रि to serve, Una4di aff. डन्, form irr.; or श्म पुंमुखं श्रूयते लक्ष्यतेऽनेन श्रु-डु; also श्मश्रुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मश्रु [śmaśru], n. [श्म मुखं श्रूयते लक्ष्यते$नेन श्रु-ङु; Uṇ.5.28] The beard, moustache; हिरण्यश्मश्रुर्हिरण्यकेशः Ch. Up.1.6.6; ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत् R.15.52. -Comp. -करः a barber. -कर्मन् shaving. -धरः bearded. -प्रवृद्धिः f. the growth of a beard; R.13.71. -मुखी a woman with a beard. -वर्धकः a barber. -शेखरः the cocoa-nut tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्मश्रु n. (of unknown derivation , but See. श्मन्)

श्मश्रु n. the beard , ( esp. ) moustache , the hairs of the beard( pl. ) RV. etc. etc. [ cf. Lith. smakra4 ; accord. to some also Lat. maxilla.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śmaśru in the Rigveda[१] and later[२] means ‘beard’ and ‘moustache,’ being sometimes contrasted with Keśa,[३] ‘hair of the head.’ Shaving was known (see Vaptṛ and Kṣura). The wearing of a beard was a sign of manhood according to the Taittirīya Saṃhitā,[४] with which agrees the notice of Megasthenes[५] that the Indians carefully tended their beards up to the day of their death.

  1. ii. 11, 17;
    viii. 33, 6;
    x. 23, 1, 4;
    26, 7;
    142, 4.
  2. Av. v. 19, 14;
    vi. 68, 2;
    Vājasaneyi Saṃhitā, xix. 92;
    xx. 5, etc. Applied to animals, ibid., xxv. 1;
    Śatapatha Brāhmaṇa, xii. 9, 1, 6, etc.
  3. Śatapatha Brāhmaṇa, ii. 5, 2, 48, etc.
  4. v. 5, 1, 1.
  5. In Diodorus, iii. 63.

    Cf. Zimmer, Altindisches Leben, 265267.
"https://sa.wiktionary.org/w/index.php?title=श्मश्रु&oldid=505041" इत्यस्माद् प्रतिप्राप्तम्