गुप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप्तम्, त्रि, (गुप्यते स्म । गुप् + कर्म्मणि क्तः ।) कृतरक्षणम् । तत्पर्य्यायः । त्रातम् २ त्राणम् ३ रक्षितम् ४ अवितम् ५ गोपायितम् ६ । (यथा, महाभारते । १ । १ । १८८ । “यदाश्रौषं व्यूहमभेद्यमन्यै- र्भारद्वाजेनात्तशस्त्रेण गुप्तम् ॥”) कृतगोपनम् । तत्पर्य्यायः । गूढम् २ । इत्यमरः । ३ । १ । १०६ । (यथाह वशिष्ठः । “आहारनिर्हारविहारयोगाः सुसंवृता धर्म्मविदा तु कार्य्याः । वाग्गुप्तिकार्य्याणि तपस्तथैव धनायुषी गुप्ततमे तु कार्य्ये ॥” “हेम्नो भस्मकमभ्रकं द्विगुणितं लौहास्त्रयः पारदा- श्चत्वारो नियतन्तु वङ्गयुगलञ्चैकीकृतं मर्द्दयेत् । मुक्ता विद्रुमयो रसेन समता गोक्षुरवासेक्षुणा सर्व्वं वन्यकरीषकेण सुदृढं गुप्तं पचेत् सप्तधा ॥” इति वैद्यकरसेन्द्रसारसंग्रहे रसायनाधिकारे ॥) सङ्गतम् । इति शब्दरत्नावली ॥ वैश्यशूद्राणां पद्धतिविशेषे पुं । यथा, इत्युद्वाहतत्त्वम् ॥ “गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ।”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप्त वि।

कृतगोपनः

समानार्थक:गूढ,गुप्त

3।1।89।1।4

निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते। द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते॥

पदार्थ-विभागः : , द्रव्यम्

गुप्त वि।

रक्षितम्

समानार्थक:त्रात,त्राण,रक्षित,अवित,गोपायित,गुप्त

3।1।106।1।6

त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च। अवगणितमवमतावज्ञातेऽवमानितं च परिभूते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप्त¦ त्रि॰ गुप--कर्म्मणि क्त।

१ त्राते रक्षिते

२ गूढे संवृतेच अमरः।
“स गुप्तमूलप्रत्यन्तः” रघुः।

३ सङ्गरे पु॰शब्दरत्ना॰।
“गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः” उद्वा॰ त॰ उक्ते

४ वैश्योपनामभेदे पु॰।

५ कपिकच्छ्वां स्त्रीराजनि॰।

६ परकीयायां नायिकायां स्त्री।
“गुप्ताविदग्धालक्षिताकुलटानुशयानामुदिताप्रभृतीनां परकीयायामे-वान्तर्भावः तत्र गुप्ता त्रिविधा वृत्तसुरतगोपना वर्त्तिष्यमाणसुरतगोपना वर्त्तमानसुरतगोपना चेति विभज्य रस-मञ्जर्य्यां तिसृणामेकत्र पद्ये उदाहृतिः यथा
“श्वश्रूःक्रुध्यतु निर्दहन्तु सुहृदो निन्दन्तु वा यातरस्तस्मिन्नद्यन मन्दिरे सखि! पुनः स्वापो विधेयो मया”। आखोराक्रमणाय कोणकुहरादुत्कालमातन्वती मार्ज्जारी न-खरैः खरैः कृतवतो कां कां न मे दुर्दशाम्”।

७ रक्षितायांस्त्रियाञ्च (राखनी) स्त्री
“ब्राह्मणीं यद्यगुप्तां तु सेवेतां[Page2613-a+ 38] वेश्यपार्थिवौ” मनुः

८ परमेश्वरे पु॰
“गुप्तश्चक्रगदाधरः” विष्णुस॰
“वाङ्मनसमोरगोचरत्वात् गुप्तः
“एष सर्वेषुभूतेषु गूढोत्मा न प्रकाशते” इति श्रुतेः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Preserved, protected.
2. Hidden, concealed, secret.
3. Joined, combined.
4. Invisible, wlthdrawn from sight. n. adv (-प्तं) Privately, secretly. m. (-प्तः) An appellation forming especially the second member of the name of a Vaisya or man of the third class. f. (-प्ता)
1. Cowach.
2. A woman who hides from her lover's endearments. E. गुप् to defend, &c. affix ऊ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप्त [gupta], p. p. [गुप् कर्मणि क्त]

Protected, preserved, guarded; गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः R.1.6.

Hidden, concealed, kept secret; Ms.2.16;7.76; 8.374.

Secret, private.

Invisible, withdrawn from sight.

Joined.

प्तः An appellation usually (though not necessarily) added to the name of a Vaiśya; as जन्द्रगुप्तः, समुद्रगुप्तः &c. (Usually शर्मन् or देव is added to the name of a Brāhmaṇa; गुप्त, भूति or दत्त to that of a Vaiśya; and दास to that of a Śūdra; cf. शर्मा देवश्च विप्रस्य वर्मा त्राता च भूभुजः । भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्).

An epithet of Viṣṇu. -प्तम् ind. Secretly, privately, apart. -प्ता One of the principal female characters in a poetical composition, a lady married to another (परकीया) who conceals her lover's caresses and endearments past, present and future; वृत्तसुरतगोपना, वर्तिष्यमाणसुरतगोपना and वर्तमानसुरतगोपना; see Rasamañjarī 24. -Comp. -कथा a secret or confidential communication, a secret. -गतिः a spy, an emissary.-गृहम् bed-room. -चर a. going secretly.

(रः) an epithet of Balarāma.

a spy, an emissary. -दानम् a secret gift or present. -धनम् money kept secret.-वेशः a disguise. -स्नेहा N. of the plant Alangium Hexapetalum (Mar. पिस्ता ?).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुप्त mfn. protected , guarded , preserved AV. etc.

गुप्त mfn. hidden , concealed , kept secret , secret Bhartr2. Pan5cat. Katha1s. etc. (with दण्ड, a secret fine , fine secretly imposed or exacted Hit. ; See. गूढ-द्)

गुप्त mfn. = संगत(? joined , combined) W.

गुप्त mfn. ( सु-) Pan5cat. iv

गुप्त m. ( Pa1n2. 6-1 , 205 Ka1s3. )N. of several men belonging to the वैश्यcaste( Pa1rGr2. i , 17 ; See. RTL. p.358) , especially of the founder of the renowned गुप्तdynasty in which the names of the sovereigns generally end in गुप्त(See. चन्द्र-, समुद्र-, स्कन्द-; गुप्तis also often found ifc. in names of the वैश्यclass)

गुप्त m. Mucuna pruritus Sus3r. iv , 26 , 33 ; vi , 46 , 21 ( प्त)

गुप्त m. N. of a woman Pa1n2. 4-1 , 121 Sch. ( गोपाKa1s3. )

गुप्त m. of a शाक्यprincess Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--appellation for वैश्य. Vi. III. १०. 9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GUPTA : A caste appellation. In ancient India appe- llations to the names were put to distinguish one caste from another. So ‘Śarmā’ was added to a brahmin name, ‘Varmā’ to a Kṣatriya name ‘Gupta’ to a Vaiṣya name and ‘Dāsa’ to a Śūdra name. Such appellations were considered to be a mark of nobility in those olden days. (Chapter 153, Agni Purāṇa).


_______________________________
*6th word in right half of page 304 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gupta is the name in the Jaiminīya Upaniṣad Brāhmaṇa (iii. 42) of Vaipaścita Dārḍhajayanti Gupta Lauhitya. All the three other names being patronymics show that he was descended from the families of Vipaścit, Dṛḍhajayanta, and Lohita.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=गुप्त&oldid=499330" इत्यस्माद् प्रतिप्राप्तम्