ऋक्ष

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्ष, न र बधे । इति कविकल्पद्रुमः ॥ (स्वां-परं- सकं-सेट् ।) र वैदिकः । न ऋक्ष्णोति । इति दुर्गादासः ॥

ऋक्षम्, क्ली, पुं, (ऋष् + स । “स्नुव्रश्चिकृत्यृषिभ्यः कित्” । ३ । ६६ । इत्युणादिसूत्रेण कित् ।) नक्षत्रम् । इति मेदिनी ॥ (यथा, मनुः । २ । १९१ । “पूर्ब्बां सन्ध्यां जपंस्तिष्ठेत् सावित्रीमार्कदर्शनात् । पश्चिमान्तु समासीनः सम्यगृक्षविभावनात्” ॥ तच्च अश्विन्यादिभेदेन सप्तविंशतिः ।) राशिः । इति ज्योतिषम् ॥ (राशयश्च मेषवृषादिभेदेन द्वादश । अस्मिन्नर्थे प्रमाणं यथा रघौ । १२ । २५ । “प्रययावातिथेयेषु वसन्नृषिकुलेषु सः । दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः” ॥ “ऋक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव” । इति तट्टीकायां मल्लिनाथः ॥)

ऋक्षः, पुं, (ऋक्ष् + अच् ।) पर्ब्बतविशेषः ॥ (अयं हि कुलाचलानामेकः । यथा, सिद्धान्तशिरोमणौ ॥ “माहेन्द्रशुक्तिमलयर्क्षकपारिपात्राः सह्यः सविन्ध्य इह सप्त कुलाचलाख्याः” ॥) भल्लूकः । (यथा मनुः । १२ । ६७ । “वृको मृगेभं व्याघ्रोऽश्वं फलमूलन्तु मर्कटः । स्त्रीमृक्षस्तोककोवारि यानान्युष्ट्रः पशूनजः” ॥) शोणाकवृक्षः । इति मेदिनी ॥ श्योनाकप्रभेदः । इति राजनिर्घण्टः ॥ (स्वनामख्यातोऽजमीढपुत्त्रः । यथा, हरिवंशे पुरुवंशानुकीर्त्तने । ३२ । ८७ । “धूमिन्या स तया देव्या त्वजमीढः समेयिवान् । ऋक्षं स जनयामास धूमवर्णं सुदर्शनम्” ॥ स्वनामख्यातो विदूरथस्य पुत्त्रः । यथा, तत्रैव ३२ । १०४ । “विदूरथस्य दायद ऋक्ष एव महारथः” ॥ तथा स्वनामख्यातोऽरिहस्य पुत्त्रः । यथा, महा- भारते १ । पुरुवंशानुकीर्त्तने । ९५ । २४ । “अरिहः खल्वाङ्गेयीमुपयेमे सुदेवां नाम तस्यां पुत्त्रमजीजनदृक्षम्” ॥ एतेन पुरुवंशे त्रयएव ऋक्षनामानो राजानः सम्भूताः ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्ष नपुं।

नक्षत्रम्

समानार्थक:नक्षत्र,ऋक्ष,भ,तारा,तारका,उडु,धिष्ण्य,ज्योतिस्

1।3।21।1।2

नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्. दाक्षायिण्योऽश्विनीत्यादि तारा अश्वयुगश्विनी॥

 : ध्रुवः, अश्विनीत्यादि-नक्षत्राणाम्_संज्ञा, अश्विनी-नक्षत्रम्, विशाखा-नक्षत्रम्, पुष्य-नक्षत्रम्, धनिष्ठा-नक्षत्रम्, पूर्वभाद्रपदा-नक्षत्रम्, उत्तरभाद्रपदा-नक्षत्रम्, मृगशिरा-नक्षत्रम्, मृगशीर्षनक्षत्रशिरोदेशस्थाः_पञ्चस्वल्पतारकाः, नक्षत्रनाम, नक्षत्रम्, मूलानक्षत्रम्, भभेदः

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

ऋक्ष पुं।

शोणकः

समानार्थक:मण्डूकपर्ण,पत्रोर्ण,नट,कट्वङ्ग,टुण्टुक,स्योनाक,शुकनास,ऋक्ष,दीर्घवृन्त,कुटन्नट,शोणक,अरलु

2।4।57।1।3

स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः। शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्ष¦ पु॰ स्त्री ऋष--स किच्च।

१ भल्लूके तज्जातिस्त्रियांसंयोगोपधत्वात् न ङीप् किन्तु टाप्।

२ नक्षत्रे। [Page1400-a+ 38]

३ मेषादिराशौ च न॰

४ भल्लके वृक्षे (भेला)

५ शोना-कवृक्ष (शोना)

६ पर्व्वतभेदे च पु॰ मेदि॰। स च रैवताप-रनामकः
“ऋक्षोऽपि रेवताज्जज्ञे तस्य पर्व्वतमूर्द्धनि। ततोरैवत उत्पन्नः पर्वतः सागरान्तिके। नाम्ना रैव-तक नाम मूमौ भूमिधरःस्मृतः” हरिवं॰

३२ अ॰। स चकुलाचलपर्व्वतः यथोक्तं सि॰ शि॰।
“माहेन्द्रशुक्तिमल-यक्षकपारियात्रा सह्यः सविन्ध्य इह सप्त कुलाचला-ख्याः” इति।

७ नृपभेदयोः तत्रैकः
“आजमीढपुत्रः।
“धुमिन्या स तया देव्या त्वजमीढः समीयिवान्। ऋक्षंसंजनयामास धूम्रवण्ण सुदर्शनम्। ऋक्षात् संवरणोजज्ञे कुरुः संवरणात्तथा” अपरो विदूरथस्य पुत्रः
“वि-दूरथस्य दायाद ऋक्ष एव महारथः। ऋक्षस्य च द्विती-यस्य भीमसेनोऽभवन्नृपः” इति हरि॰

३२ अ॰। भल्लूक-श्चारण्यपशुः जरायुजश्च।
“जरायुजानां प्रवराः मानवाःपशवश्च ये। नानारूपधरा राजन्! एषां भेदाश्चतुर्द्दश। अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः। सिंहव्याघ्रावराहाश्च महिषा वारणास्तथा। ऋक्षाश्च वानराश्चैवसप्तारण्याः स्मृता नृप। ” भा॰ आ॰ तत्र प्रवरा इतिविशेषणात् एतद्भिन्नानामारण्यत्वमस्त्येव तेनोष्ट्रस्याप्यार-ण्यत्वं सुश्रुते उक्तम् तच्च उष्ट्रशब्दे उक्तम्।

८ अरिहपुत्रेच
“अरिहः खल्वाङ्गेयीमुपयेमे सुदेवां नाम तस्यां पुत्रमजी-जनदृक्षम्” भा॰ आ॰

९५ अ॰।

९ उत्तर दिशि स्त्री निरु॰यद्यपि नक्षत्रस्य सामान्यतो गगनस्थिततारामात्रवा-चकता तथापि ज्योतिषे यषामुदयास्तज्ञापनं तेषा-मेव ऋक्षशब्देन व्यवहारः तानि च सप्तविंशतिः। अभि-जिच्चेत्यष्टाविंशतिः।
“अश्विनी भरणी चैव कृत्तिकारोहिणी तथा। मृगशीर्षस्तथा चाद्री पुनर्वसुक-पुष्यको। अश्लेषा च मघा पूर्वफल्गुन्युत्तरफल्गुनी। हस्ता चित्रा तथा स्वाती विशाखा चानुराधिका। ज्येष्ठामूलं तथाषाढे पूर्वोत्तरपदादिके। श्रवणा च धनिष्टा चशतभिषगाद्यभाद्रिका। उत्तरादिभाद्रपदा रेवती भानि चक्रमात्” ज्योति॰ अभिजित्तु अभिजिच्छब्दे उक्तम्। एतानिद्वादशधाविभक्तराशिचक्रघटकत्वात् प्राधान्याच्च ऋक्षशब्देनव्यपदिश्यन्ते एतेषां स्वरूपप्रमाणाधिष्ठातृदेवताः अश्लेषा-शब्दे

४९

७ पृ॰ श्रीपतिवाक्येनोक्ताः अन्यान्यपि यानिउदयास्तभाञ्जि गगनमण्डले सन्ति तेषामपि गति र्ज्यो-तिषे आनीता तान्यपि ऋक्षपदवाच्यानि। ऋक्षकक्षा-प्रमाणमुक्तं सि॰ शि॰।
“अभ्रेष्विभाङ्कगजकुञ्जरगोऽ-[Page1400-b+ 38] क्षपक्षाः (

२५

९८

८९

८५

० योजनानि) कक्षां गृणन्ति ग-णका भगणस्य चैताम्”। नक्षत्रकक्षाया मूमध्यादुच्छ्रितिमानम्
“नागाक्षषड्युगरसाग्निकुवेदसंख्यो (

४१

३६

२६

५८ योजनमितः) नक्षत्रमण्डलभवः श्रवणोनिरुक्तः” ज्यो॰उक्तम्।
“तेषामन्येषाञ्चोदयादिज्ञानाय” सि॰ शि॰। ध्रुवकभागा उक्ता यथा
“अष्टौ नखा गजगुणाः खशरास्त्रि-षटकाः सप्तर्तवस्त्रिनव चाङ्गदिशोऽष्टकाष्ठाः। गोऽर्का-स्तथाद्रिमनवः शरबाणचन्द्राः खात्यष्टयस्त्रिधृतयो नव-नन्दचन्द्राः। अर्काश्विनो जिनयमा नव बाहुदस्राःक्वब्ध्यश्विनो जलधितत्त्वमिताश्च भागाः। षष्ट्यश्विनश्चपवनोत्कृतयोऽष्टभानि खाङ्काश्विनो नखगुणा रसदन्त-संख्याः। सप्तामराः खमिति भध्रुवका निरुक्ता दृक्कर्मणाय-नभवेन सहाश्विधिष्ण्यात्। ब्रह्माग्निभध्रुवलवा रदलि-प्तिकोना मैत्रैन्द्रयोर्द्व्यधिपभस्य च सेषुलिप्ताः” शि॰
“अष्टौ नखा इत्यादयोऽश्वित्यादीनां साभिजितां ध्रुवभागावेदितव्याः। तत्रापि विशेषमाह। ब्रह्माग्निभध्रुव-लवा इत्यादि। कृत्तिकारोहिणीनक्षत्रयोर्द्वात्रिंशत्कलो-नाः। विशाखानुराधाज्येष्ठानां कलापञ्चकेनाधिकाध्रुवकभागा वेदितव्याः” प्रमि॰। एषां शरानाह
“दिशोऽर्काश्च सार्धाब्धयः सार्धवेदा दशेशा रसाःखं स्वराः खं च सूर्य्याः। त्रिचन्द्राः कुचन्द्राःविपादौ च दस्रौ तुरङ्गाग्नयः सत्रिभागं च रूपम्। वि-पादं द्वयं सार्धरामाश्च सार्धा गजाः सत्रिभागेषवो मार्ग-णाश्च। द्विषष्टिः खरामाश्च षड्वर्गसंख्यास्त्रिभागो जिनाउत्कृतिः खं च भानाम्। निरुक्ताः स्फुटाः योग-त राशरांशास्त्रयं ब्रह्मधिष्ण्याद्विशाखादिषट्कम्। करोवारुणं त्वाष्ट्रभं सार्पमेषां शरा दक्षिणा उत्तराः शेष-भानाम्” सि॰ शि॰।
“दिशोऽर्का इत्यादयस्तेषां भानां श-रांशा ज्ञेयाः। शेषं स्पष्टार्थम्। अत्रोपपत्तिः। तत्र भवे-धार्थं गोलबन्धोक्तविधिना विपुलं गोलयन्त्रं कार्य्यम्। तत्र खगोलस्यान्तर्भगोल आधारवृत्तद्वयस्योपरि विषुवद्वृ-त्तम्। तत्र च यथोक्तं क्रान्तिवृत्तं भगणांशा

३६

० ङ्कितंच कार्य्यम्। ततस्तद्गोलयन्त्रं सम्यग्ध्रुवाभिमुखयष्टिकंजलसमक्षितिजवलयं यथा भवति तथा स्थिरं कृत्वा रात्रौगोलमध्यगचिह्नगतया दृष्ट्या रेवतीतारां विलोक्य क्रान्ति-वृत्ते यो मीनान्तस्तं रेवतीतारायां निवेश्य मध्यगतयैवदृष्ट्याश्विन्यादेर्नक्षत्रस्य योगतारां विलोक्य तस्योपरि-येधवलयं निवेश्यम्। एवं कृते सति वेधवलयस्य क्रान्ति-[Page1401-a+ 38] वृत्तस्य च यः संपातः मोनान्तादग्रतोयावद्भिरंशैस्तावन्तस्तस्य धिष्ण्यस्य ध्रुवांशा ज्ञेयाः। अथ वेधवलये त-स्यैव सपातस्य योगतारायाश्च यावन्तोऽन्तरेऽंशास्तावन्तस्तस्यशरांशा उत्तरा दक्षिणा वा वेदितव्याः। अथ ये ध्रुव-भागाः पठितास्ते कृतदृक्कर्मका एव। ये तु शरांशाः पठि-तास्ते स्फुटा एव। यतो ध्रुवद्वयकीलयोः प्रोतं वेधवलयम्। तस्मिन् वेधवलये यो ज्ञातः शरः स ध्रुवाभिमुखः। ध्रुवा-भिमुखः शरः स स्फुटः। अस्फुटस्तु कदम्बाभिमुखः। अतएव पूर्वं भगणोत्पत्तिकथने ग्रहवेधवलयं कदम्बकी-लयोः प्रोतं कर्त्तव्यमित्युक्तम्। अत एव कारणात्कृतदृक्कर्मका एव भघ्रुवाः। यतो ध्रुवाद्ग्रहोपरि नीय-मानं सूत्रं यत्र क्रान्तिवृत्ते लगति तत्र कृतायनदृक्कर्मकोग्रह इति दृक्कर्मवासनायां पूर्वं कथितमेव। अथागस्त्यलुब्धकयोराह” प्रमि॰।
“अगस्त्यध्रुवः सप्तनागास्तुभागास्तुरङ्गादयस्तस्य याम्याः शरांशाः। षडष्टौ लवालुब्धकस्य ध्रुवोऽयं नभोऽम्भोधिभागाः शरस्तस्य याम्यः” सि॰ शि॰। स्पष्टम्
“अस्योपपत्तिः पूर्ववत्। अथेष्ट-घटिका आह” प्रमि॰।
“अगस्त्यस्य नाडीद्वयं प्रोक्त-मिष्टं सषद्भागनाडीद्वयं लुब्धकस्य। त्रिभागाधिकंस्थूलभानामणूनां ततश्चाधिकं तारतम्येन कल्प्यम्” सि॰ शि॰ स्पष्टार्थम्।
“अत्रोपपत्तिः अगस्त्यस्य नाडीद्वयंयदिष्टं तत् तस्य द्वादश कालांशा उत्पद्यन्ते। सषड्भाग-नाडीद्वयं लुब्धकस्येति। तत्र त्रयीदश

१३ कालांशाः त्रिभा-गाधिकं स्थूलमानामिति। यानि स्थूलानि नक्षत्राणि तेषांचतुर्दश कालांशाः। अणूनां ततश्चाधिकमिति केषाञ्चित् पञ्च-द्वश केषाञ्चित् षोडशेति कल्प्यते। अत्र ग्रहाणां भानांवा ये कालांशास्ते स्थूल सूक्ष्मत्वतारतम्यपर्य्यालोचनया। याः स्थूलास्तारास्ता अर्कोदयादल्पेन कालेनान्तरिता दृश्याभवन्ति। याः सूक्ष्मास्ता अधिकेनेत्युपपन्नम्” प्रमि॰( सू॰ सि॰ रङ्गनाथाभ्यान्तु तदुदयज्ञानार्थमन्यप्रकार उक्तोयथा
“प्रोच्यन्ते लिप्तिका भानां स्वभेगोऽथ दशाहत। भवन्त्यतीतधिष्ण्यानां भोगलिप्त युता ध्रुवाः” सू॰ सि॰।
“भानामश्विन्यादिनक्षत्राणामुत्तराषाढाभिजिच्छ्रवणधनि-ष्ठावर्जितानां लिप्तिका योगसञ्ज्ञाः कलाः प्रोच्यन्ते स-मनन्तरमेव कथ्यन्ते। अथानन्तरं स्वभोगः स्वाभीष्ट-नक्षत्रभीगः कलात्मको वक्ष्यमाणो रशभिर्गुणितः कार्यः। तत्र स्वाभीष्टनक्षत्रगतनक्षत्राणामश्विन्यादीनां भोगलिप्ताः।
“भभोगोऽष्टशती लिप्ताः” इत्युक्ताष्टशतकलाः। प्रत्येकं[Page1401-b+ 38] युताः। अश्विन्याद्यतीतनक्षत्रसङ्ख्यागुणितकलाष्टशतयुतमित्यर्थः। ध्रवा नक्षत्राणां भवन्ति”। रङ्ग॰। अथप्रतिज्ञाता नक्षत्रभोगलिप्ता उत्तराषाढाभिच्छ्रवणधनिष्ठा-व्यतिरिक्तानां तेषां ध्रुवकान्नक्षत्रशरांश्चाष्टश्लोकैराह।
“अष्टार्णवाः शून्यकृताः पञ्चषष्टिर्नगेषवः। अष्टार्थाअब्धयोऽष्टागा अङ्गागा मनवस्तथा। कृतेषवो युगरसाःशून्यवाणा वियद्रसाः। खवेदाः सागरनगा गजागाःसागरर्तवः। मनवोऽथ रसा वेदा वैश्वम प्यार्धभोगगम्। आप्यस्यैवाभिजित्प्रान्ते वैश्वान्ते श्रवणस्थितिः। त्रिच-तुःपादयोः सन्धौ श्रविष्ठा श्रवणस्य तु। स्वभोगतो विय-न्नागाः षट्कृतिर्यमलाश्विनः। रन्ध्रादय क्रमाद्देया विक्षेपाःस्वादपक्रमात्। दिङ्मासविषयाः सौम्ये याम्ये पञ्चदिशो नव। सौम्ये रसाः खं याम्ये गाः सौम्ये खार्का-स्त्रयोदश। दक्षिणे रुद्रयमलाः सप्तत्रिंशदथोत्तरे। याम्येऽध्यर्धत्रिककृता नवसार्धशरेषवः। उत्तरस्यां तथाषष्टिस्त्रिंशत् षट्त्रिंशदेव हि। दक्षिणे त्वर्धभागस्तुचतुर्विंशतिरुत्तरे। भागाः षड्विंशतिः खं च दस्रादीनांयथाक्रमम्” सू॰
“अश्विन्यादिनक्षत्राणां क्रमाद्भोगा एते। तत्राश्विन्या अष्टचत्वारिंशत् कलाः। भरण्याश्चत्वारिंशत्कृत्तिकायाः कलाः पञ्चषष्टिः। रोहिण्याः सप्तपञ्चाशत्कलाः। मृगशिरसोऽष्टपञ्चाशत्। आर्द्रायाश्चत्वारः। अत्राब्धय इत्यत्र गोऽब्धयो गोऽग्नय इति वा पाठस्त्व-युक्तः। शाकल्यसंहिताविरोधात्। एतेन
“सौरोक्तरुद्र-भस्यांशास्त्र्यद्रयोऽगाब्धयः कलाः” इति नार्मदोक्तम्
“दशकलोनपञ्चदशभागा मिथुने” सर्वजनाभिमतध्रुवको द-शकलायुतत्रयोदशभागाः पर्वताभिमतध्रुवकश्च निरस्तः। पुनर्वसोरष्टसप्ततिः। पुप्यस्य षट्सप्ततिः। अश्लेषाया-श्चतुर्दश। तथेति छन्दःपूरणार्थम्। मघायाश्चतुःपञ्चा-शत्। पूर्ब्बफाल्गु याश्चतु षष्टिः। उत्तरफाल्गुन्याःपञ्चाशत्। हस्तस्य षष्टिः। चित्रायाश्चत्वारिंशत्। स्वात्याश्चतुःसप्ततिः। विशाखाया अष्टसप्ततिः। अनुरा-धायाश्चतुःषष्टिः। ज्येष्ठायाश्चतुर्दश। अनन्तरं मूलस्यषट्। पूर्वाषाढायाश्चत्वारः। उत्तराषाढाया ध्रुवक-माह। वैश्वमिति। उत्तराषाढायोगतारानक्षत्रम्। आप्यार्धभोगगम्। आप्यस्य पूर्वाषाढानक्षत्रस्यार्धभोगः। धनूरांशेर्विंशतिभागस्तत्र स्थितं ज्ञेयम्। अष्टौ राशयोविंशतिभागा उत्तराषाढाया ध्रुव इत्यर्थः। एतेनपूर्वाषाढायोगतारायाः सकाशादुत्तराषाढायोगतारा[Page1402-a+ 38] विंशतिकलोनसप्तभागान्तरिता। तेन पूर्वाषाढाघ्रुवको-ऽष्टराशयश्चतुर्दश भागा विंशतिकलोनसप्तभागैर्युत उत्त-राषाढाया ध्रुवश्चत्वारिंशत्कालाधिकोक्तध्र व इति पर्व-तोक्तमपास्तम् ब्रह्मसिद्धान्तविरोधात्। अभिजिद्ध्रुव-कमाह। आप्यस्येति। पूर्वाषाढाया अवसाने धनूराशे-र्विंशतिकलोनसप्तविंशतिभागेऽभिजिद्योगतारा ज्ञेया। चत्वारिंशत्कलाधिकषड्विंशतिभागाधिका अष्टौ राशयो-ऽभिजितो ध्रुव इत्यर्थः। एवकारोऽन्ययोगव्यवच्छेदार्थः। तेन संहितासम्मतं श्रवणपञ्चदशांशस्थानं विंशतिविकला-युतत्रयोदशकलायुतचतुर्दशभागादिकनवराशयो निरस्तम्। श्रवणस्य ध्रुवकमाह। वैश्वान्त इति। उत्तराषाढायाअवसाने श्रवणयोगतारायाः स्थानं ज्ञेयम्। नव राशयोदश भागाः श्रवणध्रुवक इत्यर्थः। धनिष्ठाया ध्रवकमाह। त्रिचतुःपादयोरिति। श्रवणस्य तृतीयचतुर्थचरणयोःक्रमेणन्तादिसन्धौ मकरराशेर्विंशतिभागे श्रविष्ठा धनिष्ठाज्ञेया। नव राशयो विंशतिभागा धनिष्ठाध्रुव इत्यर्थः। तुकारात् क्षेत्रान्तर्गतधनिष्ठास्थानं कुम्भस्य विंशतिकलो-नसप्तभागा निरस्तम्। शतताराया भोगमाह। स्वभो-गत इति। धनिष्ठाभोगात् कुम्भस्य विंशतिकलोनसप्त-भागावधेरित्यर्थः। शतताराया अशीतिर्भोगः। अतःप्राम्बद्ध्रुवा इति ज्ञापनार्थं स्वभोगत इत्युक्तम्। शत-तारयाः स्थानं शततारकाध्रुव इति पर्यवसन्नम्। अव-शिष्टनक्षत्राणां भोगानाह। षट्कृतिरिति। पूर्ब्बभाद्रपदायाः षट्त्रिंशत् कला भोगः। उत्तरभाद्रपदायाद्बाविंशतिः। रेवत्या एकोनाशीतिः। अथ ध्रुवकानयनंयथा। अश्विन्या भोगः।

४८ । दशगुणितः

४८

० । अतीतनक्षत्राभावाद्भोगयोजनाभावः। अतोऽश्विन्याःकलात्मको ध्रुवः।

४८

० । राश्याद्यस्तु। ॰

८ । भरण्याभोगः।

४० । दशाहतः।

४०

० । अतीतनक्षत्रस्यैक-त्वादष्टशतयुतो भरण्याः परिभाषया राश्याद्यो ध्रुवः। ॰।

२० । एवमार्द्राभोगः।

४ दशाहतः

४० । अतीत-नक्षत्राणां पञ्चतया पञ्चगुणिताष्टशतेन

४०

०० चतुः-सहस्रात्मकेन युतः कलाद्यो ध्रुवः

४०

४० राश्याद्यस्तु

२ ।

७ ।

२० । एवं पूर्वाषाढाया दशगुणितो भोगः।

४० । एकोनविंशतिगुणिताष्टशतेन।

१५

२०

० युतः परि-भाषया राश्याद्यो ध्रुवः।

८ ।

१४ । शतताराया दश-गुणितो भोगः।

८०

० । त्रयोविंशतिगुणिताष्टशतेन।

१८

४०

० । युतश्चतुर्विंशतिगुणिताष्टशतरूपो।

१९

२०

० । [Page1402-b+ 38] जातो ध्रुवो राश्याद्यः।

१० ।

२० । पूर्वाभाद्रपदाया-दशगुणितो भोगः

३६

० । चतुर्विंशतिगुणिताष्ट-शतेन।

१९

२०

० युतः।

१९

५६

० जातोध्रुवो राश्याद्यः।

१० ।

२६ । उत्तराषाढाभिजि-च्छ्रवणधनिष्ठानां स्वभोगस्थानात् पश्चात् स्थितत्वेनोक्त-रीत्यसम्भवाद्भिन्नरोत्या ध्रुवका उक्ताः स्वादिस्थानाद्योग-तारा यदन्तरकलाभिः स्थितास्ता लाघवाद्दशापवर्त्तिताभोगसञ्ज्ञा उक्ताः। तथा च ब्रह्मसिद्धान्ते।
“अष्टौविंशतिरर्धेन गजाग्निर्व्यर्धखेषवः। त्रितर्काः सत्रिभागा-द्रिरसास्त्र्यङ्काश्च षट्शतम्। नवाशा नवसूर्य्याश्च वेदेन्द्राःशरवाणभूः। खात्यष्टिः स्वधृतिर्गोऽतिधृतिर्विश्वाश्विन-स्तथा। वेदाकृतिर्गोऽद्रिहस्ताः क्वब्धिहस्ता युगार्थदृक्। खोत्कृतिस्त्र्यंशहीनाश्च रसहस्ताः खहस्तिदृक्। खगो-ऽश्विनः खदन्ताः षड्दन्ताः शैलगुणाग्नयः। मेषाद्यश्व्या-दिमध्यांशाः षडंशोनाः खषड्पुणाः” इति। अथ नक्ष-त्राणां विक्षेपभागानाह। एषामिति। उक्तध्रुवक-सम्बन्धिनामश्विन्यादिनक्षत्राणां यथाक्रमं क्रमादित्यर्थः। स्वात् स्वकीयापक्रमात् क्रान्त्यग्रात् क्रान्तिवृत्तस्थध्रुवक-स्थानादित्यर्थः। विक्षेपा विक्षेपभागा दक्षिणा उत्तरा वाभवन्ति। तत्रोत्तरदिश्यश्विन्यादित्रयाणां दिङ्मास-विषयाः क्रमेण दश द्वादश पञ्चेत्यर्थः। दक्षिणदिशिरोहिण्यादित्रयाणां पञ्च दश नव। उत्तरस्यां पुनर्वसोःषद्भागाः। पुष्यस्य खं विक्षेपाभावः। अत्र पञ्चमाक्ष-रस्य गुरुत्वेन छन्दोभङ्ग आर्षत्वान्न दोषः। दक्षिणस्या-मश्लेषायाः सप्त। उत्तरस्यां मघादित्रयाणां शून्यंद्वादश त्रयोदश। दक्षिणस्यां हस्तचित्रयोरेकादश द्वौ। अनन्तरं स्वात्या उत्तरदिशि सप्तत्रिंशत्। दक्षिणस्यांविशाखादीनां षण्णां सार्धैकं त्रयं चत्वारः नव सार्धपञ्चपञ्च क्रमेण उत्तरदिशि तथा विक्षेपभागाः। अभिंजितःषष्टिः। श्रवणस्य त्रिंशत्। धनिष्ठायाः षट्त्रिंशत्। एवकारो न्यूनाधिकव्यवच्छेदार्थः। चकारः पूरणार्थः। दक्षिणस्यां तुकारस्तथा। अर्धभागः शततारायाः। तुका-रस्तथा। उत्तरस्यां पूर्ब्बभाद्रपदायाश्चतुर्विंशतिः। तस्या-मेव दिशि भागा विक्षेपभागा उत्तरभाद्रपदायाः षड्-विंशतिः। रेवत्या विक्षेपाभावः। चकारः पूरणार्थः। अथागस्त्यलुब्धकवह्निब्रह्महृदयताराणां ध्रुवकविक्षेपांस्तदुप-पत्तिं श्लोकत्रयेणाह” रङ्ग॰।
“अशीतिभागैर्याम्यायामगस्त्योमिथुनान्तगः। विंशे च मिथुनस्यांशे मृगव्याधो व्यव-[Page1403-a+ 38] स्थितः। विक्षेपो दक्षिणे भागैः स्वार्णवैः स्वादपक्रमात्। हुतभुग्ब्रह्महृदयो वृषे द्वाविंशभागगो। अष्टाभिस्त्रिंशताचैव विक्षिप्ता उत्तरेण तौ। गोलं बध्वा परीक्षेत विक्षेपंध्रवकं स्फुटम् सू॰
“स्वकीयात् क्रान्तिविभागस्थानाद्दक्षि-णस्यामशीत्यंशैस्तारात्मकोऽगस्त्यो मिथुनान्तगः कर्कादिभागेस्थितः। अगस्त्यनक्षत्रस्य राशित्रयं ध्रुवकः। दक्षिण-विक्षेपोऽशीतिरित्यर्थः। मृगव्याधो लुब्धको मिथुनराशेःविंशतिभागे स्थितः। चकारः समुच्चये। लुब्धकनक्षत्रस्यराशिद्वयं विंशतिभागा ध्रुवक इत्यर्थः। दक्षिणस्यांचत्वारिंशता भागैः परिमितस्तस्य च क्रान्तिवृत्तस्थाना-द्विक्षेपः। वृषराशौ वह्निब्रह्महृदयौ द्वाविंशभागस्थितौबह्निब्रक्षहृदयनक्षत्रयोर्द्वाविंशतिभागाधिकैकराशिर्ध्रुवकः। तौ वह्निब्रह्महृदयौ। अष्टाभिस्त्रिंशता। चकारः क्र-मार्थे। एवकारो न्यूनाधिकव्यवच्छेदार्थः। उत्तरेणो-त्तरस्यामित्यर्थः। विक्षिप्तौ विक्षेपवन्तौ। वह्नेर्विक्षेपो-ऽष्टभागः उत्तरः। ब्रह्महृदयस्योत्तरे विक्षेपस्त्रिंशदि-त्यर्थः। नन्वेते ध्रुवा विक्षेपाश्च कालक्रमेण नियताअनियता वेत्यत आह। गोलमिति। गोलं बक्ष्य-माणं बध्वा वंशशलाकादिभिर्निबध्य स्फुटं विक्षेपं क्रा-न्तिसंस्कारयोग्यं ध्रुवाभिमुखं ध्रुवकं स्फुटमायनदृक्कर्म-संस्कृतं परीक्षेत। स्वस्वकाले दृग्गोचरसिद्धमङ्गीकुरुत। तथा च क्रान्तिमंस्कारयोग्यविक्षेपायनसंस्कृतध्रुवकयोरयनां-शवशादस्थिरत्वादपि मयेदानीन्तनसमयानुरोधेन लाघ-वार्थमायनदृक्कर्मसंस्कृता ध्रुवाः क्रान्तिसंस्कारयोग्यविक्षे-पाश्च नियता उक्ताः। कालान्तरे गोलयन्त्रेण वेधसिद्धाज्ञेयाः। नैत इति भावः। गोलयन्त्रेण वेधस्तु गोल-बन्धोक्तविधिना गोलयन्त्र कार्य्यम्। तत्र खगोलस्योपरिभगोलम्, आधारवृत्तस्योपरि विषुवद्वृत्तम्। तत्र यथो-क्तं क्रान्तिवृत्तं भगणांशाङ्कितं च बध्वा ध्रुवयष्टिकीलयोःप्रोतमम्यच्चलं भवेधवलयम्। तच्च भगणांशाङ्कितं का-र्य्यम्। ततस्तद्गोलयन्त्रं सम्यग्ध्रु वाभिमुखयष्टिकं जल-समक्षितिजवलयं च यथा भवति तथा स्थिरं कृत्वारात्रौ गोलमध्यच्छिद्रगतया दृष्ट्या रेवतीतारां विलोक्यक्रान्तिवृत्ते मीनान्ताद्दशकलान्तरितपश्चाद्भागं रेवतीतारा-यां निवेश्य मध्यगतयैव दृष्ट्याश्विन्यादेर्नक्षत्रस्य योगतारांविलोक्य तस्या उपरि तद्वेधवलयं निवेश्यम्। एवं कृतेसति वेधवलयस्य क्रान्तिवृत्तस्य च यः सम्पातः स मीना-न्तादग्रतो यावद्भिरंशैस्तावन्तस्तस्य नक्षत्रस्य ध्रुवांशा[Page1403-b+ 38] ज्ञेयाः। वेधवलये तस्यैव सम्पातस्य योगतारायाश्च याष-न्तोऽन्तरेंऽशास्तावन्तस्तस्य विक्षेपांशा दक्षिणा उत्तरा वावेद्याः। अथ कदम्बप्रोतवेधवलयेन वेधे तु सदा स्थिराध्रुवका आयनदृक्कर्मसंस्कृताः परन्तु कदम्बतारयोरभावाद-शक्यमिति यथोक्तवेधेनैवायनदृक्कमसंस्कृता ध्रुवाः शराश्चध्रुवाभिमुखाः स्फुटाः सिद्धा भवन्तीति दिक्। अथ रोहि-णीशकटभेदमाह” रङ्ग॰।
“वृषे सप्तदशे भागे यस्य याम्योंऽ-शकद्वयात्। विक्षेपोऽभ्यधिको भिन्द्याद्राहिण्याः शकटंतु सः” सू॰।
“वृषराशौ सप्तदशेऽंशे यस्य ग्रहस्य भागद्वया-दधिको विक्षेपो दक्षिणः स ग्रहो रोहिण्याः शकटं शक-टाकारसन्निवेशं भिन्द्यात्। तन्मध्यगतो भवेदित्यर्थः। तुकाराद्ग्रहविक्षेपो रोहिणीविक्षेपादल्प इति विशेषा-र्थकः। विक्षेपस्य दक्षिणस्य रोहिणीविक्षेपादधिकत्वेशकटद्बहिर्दक्षिणभागे ग्रहस्य स्थितत्वेन तद्भ दकत्वाभा-वात्। अत्र शकटाग्रिमनक्षत्रस्य ध्रुव एकराशिः सप्त-दशांशाः दक्षिणः शरो भागद्वयमिति वेधसिद्धा स्पष्टायुक्तिः। अथ ग्रहयोगसाधनार्थं ग्रहयोगसाधनरीत्यतिदेश-माह” रङ्ग॰।
“ग्रहवद्द्युनिशे भानां कुर्य्याद्दृक्कर्म पूर्ववत्। ग्रहमेलकवच्छेषं ग्रहभुक्त्या दिनानि च” सू॰।
“ग्रहवद्द्यु-निशे ग्रहाणां यया दिनरात्रिमाने आक्षदृक्कर्मार्थं कृतेतथा दिनमानरात्रिमाने भानां नक्षत्रध्रुवकाणामाक्षदृक्क-र्मार्थं गणकः कुर्यात्। तदनन्तरं पूर्ववन्नक्षत्रनित्योदया-स्तौ साधयित्वाभीष्टकाले दिनगतशेषाभ्यां नतं कृत्वा विषु-वच्छाययाभ्यस्तादित्यादिनेत्यर्थः। दृक्कर्म कुर्यात्। अत्रनक्षत्रध्रुवके पर्वतेनायनदृक्कर्माप्युदाहरणे कृतं तदयुक्तम्। तस्य ध्रुवके स्वतः सिद्धत्वात्। तदनन्तरं शेषं नक्षत्र-ग्रहयुतिसाधनं ग्रहध्रुवतुल्यतारूपं ग्रहमेलकवद्ग्रहयो-गसाधनरीत्या ग्रहान्तरकला इत्यादिना कार्य्यम्। ननुतत्र ग्रहान्तरकलाः स्वस्वभुक्तिलिप्तासमाहताः। भुक्त्यन्तरेणविभजेदित्युक्ते र्नक्षत्रस्य का गतिर्ग्राह्येत्यत आह। ग्रहभु-क्त्येति। केवलया ग्रहगत्या ग्रहस्य फलं ग्रहध्रुवान्तर-रूपग्रहे संस्कार्यं ध्रुवसमो ग्रहो भवति। नक्षत्रस्य पूर्व-गत्यभावाद्ध्रुवो यथास्थित इत्यर्थः। ननु तथापि ग्रहन-क्षत्रयुतिकालसाधनं भुक्त्यन्तरासम्भवात् कथं कार्यमिति म-न्दाशङ्केत्यतआह। दिनानीति। अभीष्टसमयाद्विवरमित्या-दिना केवलया ग्रहगत्या ग्रहनक्षत्रयुतिदिनानि साध्यानि। चः समुच्चये। नक्षत्राणां गत्यभावात्। अथाभीष्टकालाद्ग्र-हनक्षत्रयुतिकालस्य गतैष्यत्वमसम्भ्रमार्थं पुनराह” रङ्ग॰। [Page1404-a+ 38]
“एष्यो हीने ग्रहे योगो घ्रुवकादधिके गतः। विपर्य्य-याद्वक्रगते ग्रहे ज्ञेयः समागमः” सू॰।
“नक्षत्रघ्रुवादुक्ताद्-ग्रह आयनदृक्कर्मसंस्कृतग्रह आक्षदृक्कर्मसंस्कृतनक्षत्र-घ्रुवकात् दृक्कर्मद्वयसंस्कृतोग्रह इति विवेकार्थः। न्यूनेसति योगो नक्षत्रग्रहयोगः स्वाभीष्टसमयाद्भावी। अधिकेसति पूर्बं जातः। वक्रगते ग्र हे विपर्ययादुक्तवैपरीत्यात्समागमो नक्षत्रग्रहयोगो ज्ञेयः। हीने ग्रहे गतोऽधिकेग्रह एष्यो योगः। अत्रोपपत्तिर्नक्षत्रस्य गत्यभावेन सदास्थिरत्वाद्ग्रहगमनेनैव योगसम्भवादिति सुगमतरा। अ-थाश्विन्यादिनक्षत्रस्य बहुतारात्मकत्वात् कस्यास्तारायाएते ध्रुवका इत्यस्य योगताराया ध्रुवकत्वमित्युत्तरं मनसिधृत्वाश्विन्यादिनक्षत्राणां योगतारां विवक्षुः प्रथममेषांनक्षत्राणां योगतारामाह” रङ्ग॰।
“फाल्गुन्योर्भाद्र पदयोस्तथैवाषाढयोर्द्वयोः। विशाखाश्विनि-सौम्यानां योगरारोत्तरा स्मृता” सू॰।
“एषामुक्तनक्षत्राणांप्रत्येकं स्वतारासु योत्तरदिकस्था तारा सा योगतारागोलतत्त्वज्ञैरुक्ता। अथान्ययोरनयोराह” रङ्ग॰।
“पश्चि-मोत्तरताराया द्वितीया पश्चिमे स्थिता। हस्तस्य योग-तारा सा श्रविष्ठायाश्च पश्चिमा” सू॰। (
“हस्तनक्षत्रं पञ्चतारात्मकं हस्तपञ्चाङ्गुलिसन्निवेशा-कारम्। तत्र नैरृत्यदिगाश्रितपश्चिमावस्थितताराया उ-त्तरदिगवस्थितताराया द्वितीया पूर्वोक्तातिरिक्ता पश्चिमेवायव्याश्रिते या स्थिता सा हस्तस्य योगतारा ज्ञेया। उत्तरतारासन्ना पश्चिमाश्रिता तारा हस्तस्य योगतारेतिफलितार्थः। धनिष्ठाया योगतारामाह। श्रविष्ठायाइति। धनिष्ठायास्तारासु या पश्चिमदिक्स्था सा तस्यायोगतारा। चः समुच्चये। अथान्य षामेषामाह” रङ्ग॰।
“ज्येष्ठाश्रवणमैत्राणां वार्हस्पत्यस्य मध्यमा। भरण्याग्ने-यपित्र्याणां रेवत्याश्चैव दक्षिणा” सू॰।
“ज्येष्ठाश्रवणानुराधानां पुष्यस्य च प्रत्येकं तारात्रयात्म-कत्वान्मध्यमतारा योगतारा स्यात्। भरणीकृत्तिकामघा-नां रेवत्याः। चः समुच्चये। प्रत्येकं स्वतारासु या दक्षिण-दिक्स्था सा योगतारा। अथान्येषामवशिष्टानां चाह। ” रङ्ग॰
“रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि। तथा प्रत्यवशेषाणां स्थूला स्याद्योगतारका” सू॰
“रोहिणी-पुनर्वसुमूलानामश्लेषायाश्च प्रत्येकं स्वतारासु या पूर्वदिक्स्थासैव योगतारेत्येवह्योरर्थः। प्रत्यक्येवाणामवशिष्टनक्षत्रा-णामार्द्राचित्रास्वात्यभिजिच्छतताराणां स्वतारासु यात्यन्तं[Page1404-b+ 38] स्थूल। महती सा योगतारा स्यात्। अथ ब्रह्मस ज्ञकनक्ष-त्रावस्थानमाह रङ्ग॰।
“पूर्वस्यां ब्रह्महृदयादंशकैः पञ्चभिःस्थितः। प्रजापतिर्वृषान्तेऽसौ सौम्येऽष्टत्रिंशदंशकैः” सू॰
“ब्रह्महृदयस्थानात् पूर्वभागे पञ्चभिरंशैः प्रजापतिस्तारा-त्मको ब्रह्मा क्रान्तिवृत्ते स्थितः। कुत्रेत्यत आह। वृषा-न्त इति। वृषान्तनिकटे। एकराशिः सप्तविंशत्यंशाब्रह्मध्रुवक इत्यर्थः। अस्य विक्षेपमाह। असाविति। ब्रह्मा उत्तरस्यामष्टत्रिंशद्भागैः स्थितः। अष्टत्रिंश-द्भागा अस्य विक्षेप इत्यर्थः। अथापांवत्सापयोस्तारयोरव-स्थानमाह” र॰।
“अपांवत्सस्तु चित्रायामुत्तरेऽंशैस्तु पञ्च-भिः। वृहत् किञ्चिदतो भागैरापः षड्भिस्तथोत्तरे” सू॰
“चित्रायाः सकाशादपांवत्ससंज्ञकस्तारात्मकः पञ्चभिर्भागै-रुत्तरस्यां स्थितः। प्रथमतुकारश्चित्राध्रुवतुल्यध्रुवकार्थकः। द्वितीयतुकारश्चित्राविक्षेपस्य दक्षिणभागद्वयात्मकत्वादपां-वत्सविक्षेव उत्तरस्त्रिभाग इति स्फुटार्थकः। अतोऽपांवत्-सात् किञ्चिदल्पान्तरेण वृहत् स्थूलस्तारात्मक आपसंज्ञकःतथाऽपांवत्सात् षड्भिरंशैरुत्तरस्यां स्थितश्चित्राध्रुवक ए-वापस्य ध्रुवको विक्षेप उत्तरे नवांशा इत्यर्थः” रङ्ग॰। ( नक्षत्राणामुदयास्तकालनिरूपणम् उदयशब्दे

११

३८ पृष्ठादौ दर्शितम्। ( ॠक्षघटितत्वात् राशीनां तथात्वम्। राशिनामभवेत् नाम भमृक्षं गृहनाम च” ज्यो॰। राशयश्च द्वादश
“पुनर्द्वादशधात्मानं व्यभजद्राशिसंज्ञकम्। नक्षत्ररू-पिणं भूयः सप्तविंशात्मकं वशी” सू॰ सि॰ उक्तेः। ते चमेषवृषमिथुनकर्कटसिंहाः कन्या तुलाथ वृश्चिकभम्। धनुरथ मकरः कुम्भोमीन इति च राशयः कथिताः” ज्योति॰ उक्ताः राशिश्च
“विकलानां कला षष्ट्या तत्-षष्ट्या भाग उच्यते। तत्त्रिंशता भवेद्राशिर्भगणोद्वादशैवतु” सू॰ सि॰ उक्तः

१०

८०

०० विकलात्मकः

१८

०० कलात्मकःत्रिंशत्भागात्मकः। तैर्द्वादशभिः

३६

० अंशैर्भगणोराशि-चक्रं स्यात् तत्र सप्तविंशतिनक्षत्रात्मकराशिचक्रे द्वादशधाविभक्ते सपादनक्षत्रद्वयस्यैव प्रत्येकराशिघटकता तेन प्रत्ये-कनक्षत्रस्य

८०

० कलात्मकत्वम्।
“भभोगोऽष्टशती लिप्ताः” सू॰ सि॰ उक्तेः। राशिभेदे नक्षत्रभेदनिरूपणमुडुचक्रशब्दे

१०

७१ पृ॰ दृश्यम्।
“मासर्क्षादीन न शोधयेत्”
“जन्मर्क्षे उपतापिते” ज्यो॰।
“दक्षिणां दिशमृक्षेषु वार्षिकेष्वथ भास्करः” रघुः

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्ष¦ r. 5th cl. (ऋक्ष्णोति) To kill, to hurt or seek to hurt.

ऋक्ष¦ mfn. (-क्षः-क्षा-क्षं) Pierced, cut, divided. mn. (-क्षः-क्षं) A star, a con- stellation. m. (-क्षः)
1. A mountain in the peninsula, the temporary residence of RAMA.
2. A bear.
3. A plant, (Bignonia Indica.) E. ऋष् to go, Una4di affix स, the radical final then becomes क, and स be- comes ष; and क and ष form the compound letter क्ष।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षः [ṛkṣḥ], [ऋष्-स किच्च Uṇ.3.66]

A bear; स्त्रीं (हृत्वा) ऋक्षः (भवति) Ms.12.67.

A species of ape; A. Rām.7.3.6.

A kind of deer; प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपधर्षितः । रोहिद्भूतां सो$न्वधावदृक्षरूपी हतत्रपः ॥ Bhāg.3.31. 36.

N. of a mountain.

N. of a plant (भल्लक Mar. दिंडा)

क्षः, क्षमः A star, constellation, lunar mansion; पश्चिमां तु समासीनः सम्यगृक्षविभावनात् Ms.2.11;3.9;6.1.

A sign of the zodiac.

A star under which a man happens to be born. -क्षाः (m. pl.) The seven stars called Pleiades; afterwards the seven Ṛiṣis; दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः (प्रययौ) R.12.25. -क्षा The north. -क्षी A female bear. [cf. Gr. arkos, L.ursus]. -Comp. -इष्टिः Offering to the stars (ग्रहमख); ऋक्षेष्टपाग्रयणं चैव चातुर्मास्यानि चाहरेत् Ms.6.1. -गन्धा the plant Argyreia Argentea (जांगली, महाश्वेता, क्षीरविदारी).-गन्धिका the plant Batatas Paniculata. -चक्रम् the circle of stars. -जिह्वम् A kind of leprosy. -नाथः, -ईशः 'lord of stars' the moon. -नायकः A kind of round building. (Agnipurāṇa ch. 14; V.19.2). -नेमिः N. of Viṣṇu. -प्रियः An ox.

राज्, जः the moon.

Jāmbuvat, the king of bears. -विडम्बिन् m. A fraudulent astrologer. -हरीश्वरः the lord of bears and apes; an epithet of Sugrīva; दुर्जातबन्धुरयमृक्षहरीश्वरो मे R.13.72.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्ष mfn. ( etym. doubtful) bald , bare TS. MaitrS.

ऋक्ष mfn. (2. ऋष्Un2. iii , 66 ; 67 ; probably fr. ऋश्) , hurting , pernicious RV. viii , 24 , 27

ऋक्ष m. a bear (as a ravenous beast) RV. v , 56 , 3 VS. xxiv , 36 Mn. Sus3r. etc.

ऋक्ष m. a species of ape Katha1s.

ऋक्ष m. Bignonia Indica L.

ऋक्ष m. N. of several men RV. viii , 68 , 15 MBh. etc.

ऋक्ष m. of a mountain VP. MBh.

ऋक्ष m. ( ifc. )the best or most excellent L.

ऋक्ष m. pl. the seven stars , the Pleiades , the seven ऋषिs RV. i , 24 , 10 S3Br. ii TA1r.

ऋक्ष m. of a woman in the retinue of स्कन्दMBh. ix

ऋक्ष mn. a star , constellation , lunar mansion Mn. MBh. R. etc.

ऋक्ष n. the twelfth part of the ecliptic

ऋक्ष n. the particular star under which a person happens to be born VarBr2S. Su1ryas. etc.

ऋक्ष n. ([ cf. Gk. ? ; Lat. ursus ; Lith. loky-s for olkys.])

ऋक्ष mfn. cut , pierced L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--followed राम in his लङ्का expedition. Took the shield when Bharata carried the पादुक। फलकम्:F1:  भा. IX. १०. १९ & ४४.फलकम्:/F A son of शुक; took विरजा as wife given by प्रजापति. रक्षा, mother of जाम्बवान्, was his sister. फलकम्:F2:  Br. III. 7. २१०-17; ५१. ११.फलकम्:/F
(II)--a son of अजमीढ and धूमिनी, and father of सम्वरण; पञ्चार्षेय. भा. IX. २२. 3; M. ५०. १९; १९६. ५०; वा. ९९. २१४; Vi. IV. १९. ७४-5.
(III)--the name of व्यास in the २४थ् (२५थ्-वि। प्।) द्वापर; शूलि, the अवतार् of the Lord. वा. २३. २०६; Vi. III. 3. १८.
(IV)--the son of देवातिथि. वा. ९९. २३३.
(V)--a son of पुरञ्जय and father of हर्यश्व. Vi. IV. १९. ५७-8. [page१-260+ ३०]
(VI)--a son of देवातिथि and father of भीमसेन. Vi. IV. २०. 6-7.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṚKṢA I : A king of the Pūru dynasty. He was the father of Saṁvaraṇa. For genealogy see under the word Saṁvaraṇa (M. B. Ādi Parva, Chapter 94).


_______________________________
*9th word in right half of page 649 (+offset) in original book.

ṚKṢA II : King Hariha had a son named Ṛkṣa born to him by his wife Sudevā. Mahābhārata, Ādi Parva, Chapter 95 says that this Ṛkṣa had a son named Mati- nāra, by his wife Jvālā.


_______________________________
*10th word in right half of page 649 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऋक्ष&oldid=457449" इत्यस्माद् पुनः प्राप्तिः