सामग्री पर जाएँ

ऋषभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषभः, पुं, (ऋष् + “ऋषिवृषिभ्यां कित्” । इति उणादिसूत्रेण ३ । १२३ । अभच् । किच्च ।) वृषः । (यथा, ऋग्वेदे ६ । २८ । ८ । “उप ऋषभस्य रेतस्युपेन्द्र तव वीर्य्ये” ॥) कर्णरन्ध्रम् । कुम्भीर- पुच्छः । उत्तरपदे श्रेष्ठः । इति मेदिनी ॥ (“स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः” ॥ इत्यमरवाक्यात् । यथा पुरुषर्षभः पुरुषश्रेष्ठः इत्यर्थः । असमस्तेऽप्ययं श्रेष्ठार्थवाचकः । यथा, भागवते २ । ४ । २२ ॥ “स्वलक्षणा प्रादुरभूत् किलास्यतः स मे ऋषीणामृषभः प्रसीदताम्” ॥ “ऋषीणां ज्ञानप्रदानां ऋषभः श्रेष्ठः” । इति तट्टीका ॥ गणविशेषः । आकृतिगणोऽयम् । यथा पाणिनिः तत्पुरुषसमासप्रकरणे २ । १ । ५६ ॥ “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” ॥ व्या- घ्रादिराकृतिगणः । “व्याध्र-सिंह-ऋक्ष-ऋषभ- चन्दन-वृक-वृष-वराह-हस्तिन्-तरु-कुञ्जर-रुरु-पृ- षत्-पुण्डरीक-पलाश-कितवाः” । इत्येते व्याघ्रा- दयः ॥) पर्ब्बतविशेषः । इति धरणी ॥ वराहपुच्छः । आदिजिनः । इति हेमचन्द्रः ॥ भगवदवतारवि- शेषः । (यथा, भागवते ५ । ६ । ७ । “तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन चंक्रममाणः” ।) स तु सत्ययुगे अग्नीध्रसुतनाभिराजपुत्त्रत्वेन जातः । तस्य पुत्त्रः जडमरतः । इति श्रीभागवतं । (तथा, मार्कण्डेये ५३ । ३८ । “अग्नीध्रसूनोर्नाभेस्तु ऋषभोऽभूत् सुतो द्विज ! । ऋषभाद्भरतो जज्ञे वीरः पुत्त्रशताद्वरः” ॥ स्वारोचिषे मन्वन्तरे ऋषिभेदः । यथा, मार्कण्डेये ६७ । ४ । “उर्जस्तम्बस्तथा प्राणो दत्तोलिरृषभस्तथा” ॥ ऋषभसहस्रदक्षिण एकाहनिष्पाद्यो यागभेदः । यथाह गर्गः “पूर्ब्ब ऋषभसंज्ञो राज्ञः” ॥ स्वनाम- ख्यातः यज्ञतुरपुत्त्रो नृपभेदः । यथा, शतपथ- ब्राह्मणे १३ । ५ । ४ । १५ । “एकविंशस्तोमेन ऋषभो याज्ञतुर ईजे शिक्नानां राजांतदेतद्गाथ- याऽभिगीतम्” ॥) अष्टवर्गान्तर्गतौषधविशेषः । तत्पर्य्यायः । वृषः १ ऋषभकः २ वीरः ३ । इति रत्नमाला ॥ गोपतिः ४ धीरः ५ विषाणी ६ दुर्द्धरः ७ ककुद्मान् ८ पुङ्गवः ९ वोढा १० शृङ्गी ११ धूर्य्यः १२ भूपतिः १३ कामी १४ रूक्षप्रियः १५ उक्षा १६ लाङ्गूली १७ गौः १८ बन्धुरः १९ गोरक्षः २० वनवासी २१ । अस्य गुणाः । मधुरत्वम् । शीतत्वम् । रक्तपित्तविरेकनाशित्वम् । शुक्रश्लेष्मकारित्वम् । दाहक्षयज्वरहरत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ (“जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ । रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ” ॥ “ऋषभो वृषशृङ्गवत्” ॥ “ऋषभो वृषभो धीरो विषाणी द्राक्षैत्यपि” ॥ अनयोर्गुणा यथा ॥ “जीवकर्षभकौ बल्यौ शीतौ शुककफप्रदौ । मधुरौ पित्तदाहास्रकार्श्यवातक्षयापहौ” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) सप्त- स्वरान्तर्गतद्वितीयस्वरः । (अयं स्वरः त्रिश्रुतिः । अस्यः तिस्रः श्रुतयो यथा, (१) दयावती, (२) रञ्जनी, (३) रतिका । तिस्रश्च श्रुतिजातयो यथा, (१) करुणा, (२) मध्या, (३) मृदुः । अयञ्च ऋषि- वंशीयः, क्षत्त्रियजातिः, पिञ्जरवर्णश्च । अस्यो त्पत्तिः शाकद्वीपे । अस्य ऋषिः देवता च ब्रह्मा; छन्दो गायत्री । यथा सङ्गीतरत्नाकारे, -- “ऋषभस्त्रिश्रुतिस्ततः {एल्३} {एल्३} {एल्३} । दयावती रञ्जनी च रतिका चर्षभे स्थिता ॥ दीप्तायता मृदुर्मध्या षड्जे स्यात् ऋषभे पुनः । संस्थिता करुणा मध्या मृदुः {एल्३} {एल्३} ॥ पञ्चमः पितृवंशस्थो रि-धावृषिकुलोद्भवौ । ऋधौ तु क्षत्रियौ ज्ञेयौ वैश्यजाती निगौ मतौ” ॥ रि धौ ऋषभधैवतौ इत्यर्थः । इत्यादि ।) स तु गोस्वरतुल्यस्वरः । चातकस्वरतुल्यस्वर इति केचित् । नारदमते गावः ऋषभस्वरं वदन्ति यथा, -- “षड्जं रौति मयूरो हि गावो नर्द्दन्ति चर्षभम्” । इति नारदसंहितायाम् । दपणरत्नाकरादिमते तु चातकः ऋषभं वदति । यथा सङ्गोतदर्पणे, -- “स्वरमृषभं चातको ब्रूते” ।) अस्योत्पत्तिः । “नाभिमूलाद्यदा वर्ण उत्थितः कुरुते ध्वनिम् । वृषभस्येव निर्याति हेलया ऋषभः स्मृतः” ॥ इति सङ्गीतदामोदरः ॥ (“नाभेः समुदितो वायुः कण्ठशीर्षसमाहतः । ऋषभस्येव नादं यत् तस्मादृषभईरितः” ॥ इति च सङ्गीतसमयसारे । अस्योत्पत्तिः ऋग्वे- दात् । यथा रत्नावल्यां, -- “ऋग्वेदात् षड्ज-ऋषभौ यजुषो मध्यधैवतौ । सामवेदात् समूद्भूतौ तथा गान्धारपञ्चमौ” ॥ इति ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषभ पुं।

ऋषभस्वरः

समानार्थक:ऋषभ

1।7।1।1।2

निषादर्षभगान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥

पदार्थ-विभागः : , गुणः, शब्दः

ऋषभ पुं।

ऋषभाख्यौषधिः

समानार्थक:शृङ्गी,ऋषभ,वृष

2।4।116।2।3

तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च। भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

ऋषभ पुं।

वृषभः

समानार्थक:उक्षन्,भद्र,बलीवर्द,ऋषभ,वृषभ,वृष,अनडुह्,सौरभेय,गो

2।9।59।2।4

त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा। उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥

अवयव : वृषभस्कन्धदेशः

पत्नी : गौः

जन्य : सद्योजातवृषभवत्सः,वृषभवत्सः

 : महावृषभः, वृद्धवृषभः, आरब्धयौवनवृषभः, वृषभवत्सः, तारुण्यप्राप्तवृषभः, साण्डवृषभः, नासारज्जुयुक्तवृषभः, दमनार्थं_कण्ठारोपितकाष्ठवाहः, युगवाह्यवृषभः, युगेयुगवाह्यवृषभः, शकटवाह्यवृषभः, धुरन्धरवृषभः, एकामेव_धुरन्धरः, धुरीणश्रेष्ठः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषभ¦ पु॰ ऋ--अभक्।

१ ओषधिभेदे ओषधिभेदश्च ष्ट्रव्य-गणान्तर्गत। स च सुश्रु॰ दर्शितः यथा
“अथातो द्रव्यसंग्रहणीयमध्यायं वाख्यास्यामः। समा-सेन सप्तत्रिंशद्द्रव्यगणा भवन्ति। तद्यथा विदारीगन्धाविदारी सहदेवा विश्वदेवाश्वदंष्ट्रा प्रत्यकपर्णी शताबरीसारिवा कृष्णसारिवा जीवकर्षभकौ महासहा क्षुद्रसहावृहत्यौ पुनर्णवैरण्डो हंसपादी वृश्चिकाल्यृषभी चेति”। तल्लक्षणाद्युक्तं भावप्र॰
“ऋषभातिविषा कृष्णा काकनासाचचामरैः। जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिस्वरोद्भवौ। रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ। जीवकः कूर्च-काकार ऋषभो वृषशृङ्गवत्। जीवकोमधुरः शृङ्गी ह्र-स्वाङ्गः कूर्चशीर्षकः। ऋषभो वृषभोवीरो विषाण्णी ब्राह्मइत्यपि। जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ। मधुरौपित्तदाहघ्नौ काशवातक्षयापहौ”। अयञ्चाष्टवर्गान्तर्गतः। जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके। अष्टवर्गोऽष्ट-भिर्द्रव्यैः कथितश्चरकादिभिः” भावप्र॰।
“राज्ञामप्यष्टवर्गस्तुयतोऽयमतिदुर्णभः। तस्म दस्य प्रतिनिधिं गृह्णीयात्तद्गुणं[Page1450-a+ 38] भिषक्। मेदा जीवककाकाली ऋद्धिर्वृद्धिस्तथा ऽसती। वरीविदार्य्यश्वगन्धावाराहीस्तु क्रमात् क्षिपेत्” भावप्र॰।

२ मुनिभेदे च। ऋषभकूटशब्दे मुनिभेदो दृश्यः। वर्षति रेतःवृष--अभक् पृ॰ बलोपः।

३ वृषभे
“ते ते भवन्तूक्षण ऋष-भासो वशा उत” ऋ॰

६ ,

१६ ,

४७ । ॠवभासो रेतोवर्ष-कावृषभाः” भा॰।
“उप ऋषभस्य रेतस्युपेन्द्र! तववीर्य्ये”

२८ ,


“ततो नियुक्ताः पशवो यथा शास्त्रं मनी-षिभिः। तं तं देवं समुद्दिश्य पक्षिणश्च यथाविधिऋषभाः शास्त्रपठितास्तथा जलचराश्च ये” सर्वांस्तान-भ्ययुञ्जंस्ते तत्राग्निचयकर्मणि” भा॰ आश्व॰

८८ । अश्वमेधस्य वृषभादयश्च सलक्षणा अश्वमेधशब्दे दर्शिताःअस्य व्याध्रादिषु पाठात् उपमितसमासः। नरःऋषभ इववाक्ये नरर्षंभः एवं राजर्षभः पुरुषर्नभ इत्यादि। सर्वत्रप्राशस्त्यं तेन द्योत्यते।
“स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभ-कुञ्जराः। सिंहशार्द्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः” अमरोक्तेः। क्वचिद्वाक्येऽपि श्रेष्ठत्वं द्योत्यते।
“सा-त्वतामृषभं सर्वे मूतावासममंसत” भाग॰

३०

२ ,

१० ।
“स्वलक्षणा प्रादूरभूत् किलास्यतः स मे ऋषीणामृषभःप्रसीदतु” भाग॰

२ ,

४ ,

२३ । गोलक्षणान्तर्गतवृषभलक्षण-मुक्तं वृहसं॰
“सास्राबिलरूक्षाक्ष्यो मूषकनयनाश्च न शुभदागावः। प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः। दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः। ह्रस्वस्थू-लग्रीवा यवमध्या दारितखुराश्च। श्यावातिदीर्घजिह्वागुल्फैरतितनुभिरतिवृहद्भिर्वा। अतिककुदाः कृशदेहानेष्टा हीनाधिकाङ्ग्यश्च। वृषभो ऽप्येवं स्थूलातिलम्ब-वृषणः सिराततक्रोडः। स्थूलासिराचितगण्डस्त्रिस्थानंमेहते यश्च। मार्जाराक्षः कपिलः करटो वा न शुभदोद्विजस्येष्टः। कृष्णौष्ठतालुजिह्वः श्वसनो यूथस्य घातकरः। स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्ण्णश्च। गृहजातो ऽपि त्याज्यो यूथावनाशावहो वृषभः। श्या-मकपुष्पचिताङ्गो भस्मारुणसन्निभो विडालाक्षः। विप्रा-णामपि न शुभं करोति वृषभः परिगृहीतः। ये चोद्ध-रन्ति पादान् पङ्कादिव योजिताः कृशग्रीवाः। कातर-नयना हीनाश्च पृष्ठतस्ते न भारसहाः। मृदुसंहतता-म्रोष्ठास्तनुस्फिचस्ताम्रतालुजिह्वाश्च। तनुह्रस्वोच्चत्रवणाःसुकुक्षयः स्पष्टजङ्घाश्च। आताम्रसंहतखुरा व्यूढोरस्कावृहत्ककुदयुक्ताः। स्निग्धश्लक्ष्णतनुत्वग्रीमाणस्ताम्रतनु-शृङ्गाः। तनुभूस्पृग्वालधया रक्तान्तविलोचना महो-[Page1450-b+ 38] च्छ्वासाः। सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगताः। वामावर्तैर्वामे दक्षिणपर्श्वे च दक्षिणावर्तैः। शुभदा भ-वन्त्यनडुहो जङ्घाभिश्चैणकनिभाभिः। वैदूर्य्यमल्लिका-बुद्बुदेक्षणाः स्थूलनेत्रवर्माणः। पार्ष्णिभिरस्फुटिताभिःशस्ताः सर्वेऽपि भारवहाः। घ्राणोद्देशे सबलिर्मार्जार-मुखः सितश्च दक्षिणतः। कमलोत्पललाक्षाभः सुवाल-धिर्वाजितुल्यजवः। लम्बैर्वृषणैर्मेषोदरश्च सङ्क्षिप्तवङ्क्षण-क्रोडः। ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः। सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महावक्त्रः। हंसोनाम शुभफलो यूथस्य विवर्धनः प्रोक्तः। भूस्पृग्बालधि-राताम्रवङ्क्षणो रक्तदृक् ककुद्मी च। कल्माषश्च स्वामिनम-चिरात् कुरुते पतिं लक्ष्म्याः। यो वा सितैकचरणोयथेष्टवर्णश्च सोऽपि शस्तफलः। मिश्रफलोऽपि ग्राह्योयदि नैकान्तप्रशस्तो ऽस्ति”।
“ऋषभाख्यमेतदुदितं स-जसाः सयौ चेत्” इत्युक्ते

४ छन्दोभेदे

५ कर्णच्छिद्रे

६ कुम्भी-रपुच्छे मेदि॰

७ पर्वतभेदे धरणी।

८ वराहपुच्छे

९ जिनभेदे च हेम॰
“नाभिमूलात् यदा वर्ण उत्थितःकुरुते ध्वनिम्। वृषभस्येव निर्वाति हेलया ऋषभःस्मृतः” इति सङ्गीतदा॰ उक्ते

१० स्वरभेदे।
“निषधर्षभगा-न्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताःस्वराः” अमरः।

११ भगवदवतारभेदे स च नाभेर्मेरु-र्देव्यामजान भाग॰

५ ।

६ अ॰।
“नाभिरपत्यकामो मेरुदेव्याभगवन्तं यज्ञपुरुषमवहितात्माऽयजत्” इत्युपक्रम्य तपः-प्रसन्नो भगर्वास्तयोः पुत्रतयावतीर्ण्णः इत्युक्तं तत्रैव। यथा
“भवद्भिरवितथगीर्भिर्वरममुमभियाचितो यदमष्या-त्मजो मया सदृशो भूयादिति”

१८ । यथाहमेवाभि-रूपश्च कैवल्यात्

१९ अथापि ब्रह्मवादो न मृषा भवितु-मर्हति ममैब हि मुखं यद् द्विजदेवकुलम्। तत आग्निध्रीयेऽंशकलयाऽवतरिष्यन्नात्मतुल्यमनुपलभ-मान इति निशामयन्त्या मेरुदेव्याः पतिमभिधायान्तर्द्दधेभगवान्! वर्हिषि तस्मिन्नेवं विष्णुदत्त भगवान् परम-र्षिभिः प्रसादितोनाभेः प्रियचिकीर्षया तदवरोधायनेमेरुदेव्यां धर्मान् प्रदर्शयितुकामो वातवसनानां श्रम-णानामृषीणामूर्द्धमन्थिनां शुक्लया तन्वाऽवततार”

६ अ॰
“शुक उवाच अथ तमुत्पत्त्यैवाभिव्यज्यमानभगबल्लक्षणंसाम्योपशमवैराग्यैश्वर्य्यमहाबिभूतिभिरनुदिनमेधमानानुभावंप्रकृतयः प्रजा ब्राह्मणा दवताश्चावानतलसमवनायातितरां जगृधुः। तस्य ह वा इत्थं वर्ष्मणा वरीयसा वृहच्श्लो-[Page1451-a+ 38] केन च ओजसा बलेन श्रिया यशसा वीर्य्यशौर्य्याभ्याञ्चपिता ऋषभ इतीदं नाम चकार। यस्य हीन्द्रः स्पर्द्ध-मानो भगवान् वर्षे न ववर्ष तदवधार्य्य भगवानृषभदेवो-योगेश्वरः प्रहस्यात्मयोगमायया स्वं वर्षमजनाभं नामाभ्यवर्षत्। नाभिस्तु यथाभिलषितं सुप्रजास्त्वनवरुध्यातिप्रमोदभरविह्वलोगद्गदाक्षरया गिरा स्वैरं गृहीतनरलो-कसाधर्म्यं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्सतातेति सानुरागमुपलालयन् परां निर्वृतिमुपगतः। विदितानुरागमापौरप्रकृतिजनपदोराजानाभिरात्मजं स-मयसेतुरक्षायामभिषिच्य ब्राह्मेणेषू पनिधाय सह मेरु-देव्या विशालायां प्रसन्ननिपुणेन तपःसमाधियोगेननरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः कालेन तन्म-हिमानमवाप। यत्र ह पाण्डवेय! श्लोकावुदाहरन्ति। कोनु तत् कर्म राजर्षेर्नाभेरन्वाचरेत् पुमान्। अपत्यता-मगाद्यस्य हरिः शुद्धैन कर्मणा। ब्रह्मण्योऽन्यः! कुतोना-भेर्विप्रा मङ्गलपूजिताः। यस्य बर्हिषि यज्ञेशं दर्शयामासु-रोजसा। अथ ह भगवानृषभदेवः स्वं वर्षं कर्मक्षेत्रमनुम-न्यमानः प्रदर्शितगुरुकुलवासोलब्धवरैर्गुरुभिरनुज्ञातो गृ-हमेधिनां धर्माननुशिक्षमाणोजयन्त्यामिन्द्रदत्तायामुभय-विधलक्षणं कर्मसमाम्नायमभियुञ्जन्नात्मजानामात्मसमानानांशतं जनयामास। येषां खलु महायोगी भरतोज्येष्ठःश्रेष्ठगुण आसीत् येनेदं वर्षेति भारतमिति व्यपदिशन्ति”।

१२ राजकर्त्तव्ये ऋषभसहस्रादिदक्षिणके एकाहसाध्ये याग-भेदे
“ऋषभगोसवौ” कात्या॰

२२ ,

११ ,

२ ,
“ऋषभश्चगोसवश्च क्रतू भवतः” कर्कः
“पूर्वोराज्ञः”

४ ।
“पूर्वःऋषभसंज्ञोराज्ञः” कर्कः
“दक्षिण ऋषभसहस्रं द्वादशं वाशतम्”

५ ।
“ऋषभाणां सहस्रं द्वादशाधिकं शतं वा” संग्रहः।

१३ यज्ञतुरपुत्रे नृपभेदे च।
“एकविंशस्तोमेनऋषभो याज्ञतुर ईजे शिक्नानां राजा तदेतद्गाथयाऽभिगी-तम्। याज्ञतुरे यजनाने ब्रह्माण ऋषभे जनाः। अश्व-मेधे धनं विप्रा विभजन्तेस्म दक्षिणाः” शत॰

१३ ,

५ ,

४ ,

१५ ,

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषभ¦ m. (-भः)
1. (In composition,) best, excellent.
2. A bull.
3. A dried plant, one of the eight principal medicaments.
4. The second of the seven notes of the Hindu gamut, in abbreviation, Ri.
5. The first of the twenty-four principal Jinas or Jaina saints.
6. The hollow of the air.
7. The name of a mountain.
8. A croco- [Page139-a+ 56] dile's tail.
9. A boar's tail. f. (-भी)
1. A masculine woman, a woman with a beard, &c.
2. A widow.
3. Cowach, (Carpopogon pruriens.) E. ऋष् to go, अभच् Una4di aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषभः [ṛṣabhḥ], [ऋष्-अभक्; Uṇ 3.123]

A bull.

(With names of other animals) the male animal, as अजर्षभः a goat.

The best or most excellent (as the last member of a comp.); as पुरुषर्षभः, भरतर्षभः &c.

The second of the seven notes of the gamut; (said to be uttered by cows; गावस्त्वृषभभाषिणः); श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततमृषभहीनं भिन्नकीकृत्य षड्जम् Śi.11.1; ऋषभो$त्र गीयत इति Āryā S.141.

The hollow of the ear.

A boar's tail.

A crocodile's tail.

A dried plant, one of the 8 principal medicaments. (Mar. बैलघाटी, काकडशिंगी)

N. of an antidote.

An incarnation of Viṣṇu; नाभेरसावृषभ आस सुदेविसूनुः Bhāg. 2.7.1.

A sacrifice (to be performed by kings).-भाः m. The inhabitants of क्रौञ्चद्वीप; Bhāg.5.2.22.

भी A woman with masculine features (as a beard &c.).

A cow.

A widow.

The plant Carpopogon Pruriens (शूकशिंबी); also another plant (शिराला) (Mar. कुयली) -Comp. -कूटः N. of a mountain. -दीपः, पम् N. of a country. -ध्वजः N. of Śiva.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषभ m. (fr. 2. ऋष्Un2. ii , 123 ), a bull (as impregnating the flock ; See. वृषभand उक्षन्) RV. AV. VS. ChUp. BhP. etc.

ऋषभ m. any male animal in general S3Br.

ऋषभ m. the best or most excellent of any kind or race(See. पुरुषर्षभ, etc. ) MBh. R. etc.

ऋषभ m. the second of the seven notes of the Hindu gamut (abbreviated into ऋ)

ऋषभ m. a kind of medicinal plant Sus3r. Bhpr.

ऋषभ m. a particular antidote Sus3r. ii , 276 , 7

ऋषभ m. a particular एका-ह(See. ) Ka1tyS3r.

ऋषभ m. the fifteenth कल्प

ऋषभ m. N. of several men

ऋषभ m. of an ape

ऋषभ m. of a नाग

ऋषभ m. of a mountain

ऋषभ m. of a तीर्थ

ऋषभ m. pl. the inhabitants of क्रौञ्च-द्वीपBhP. v , 20 , 22

ऋषभ m. N. of a people VarBr2S.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a sage about whose welfare Arjuna is asked by युधिष्ठिर. भा. I. १४. ३१.
(II)--a follower of वृत्र in his battle with Indra. भा. VI. १०. १९.
(III)--a son of Indra and पौलोमी. भा. VI. १८. 7.
(IV)--a manifestation of Hari in दक्षसावर्णि epoch. Born of आयुष्मत् and अम्बुधारा; engaged in ध्यानमार्ग। भा. VIII. १३. २०; वा. २३. १४३, १४६.
(V)--a son of कुशाग्र, and father of Satyahita. भा. IX. २२. 6-7. वा. ९९. २२३.
(VI)--a playmate of कृष्ण. भा. X. २२. ३१.
(VII)--identified with the sun. भा. XII. 6. ६८.
(VIII)--the son of नाभि and सुदेवी (Meru- देवी according to वि।, वा। & ब्र्। प्।) An अवतार् of विष्णु, eldest of all क्षत्र. A परमहम्स। Had a hundred sons of whom Bharata was the eldest. फलकम्:F1:  Br. II. १४. ६०-62; भा. II. 7. १०; XI. 4. १७; Vi. II. 1. २७; वा. ३३. ५०-51.फलकम्:/F Nine of these became rulers of the nine द्वीपस् of the world. Eightyone [page१-270+ ३३] of them became addicted to कर्म तन्त्र, and the remain- der nine became sages. फलकम्:F2:  भा. XI. 2. १५-20.फलकम्:/F Indra grew jealous of him and stopped rains in his kingdom अजनाभ. But ऋषभ, in- voked rains by yogic powers. फलकम्:F3:  Ib. V. 3 (whole); 4. 1-3.फलकम्:/F As king, married जयन्ती, bestowed on him by Indra, who gave birth to १०० sons. Under ऋषभ, his kingdom flowed with milk and honey. Once he went to control ब्रह्मावर्त and proclaimed the importance of self-control and discipline to his sons and to the world at large. Installed Bharata on the throne, renounced life and became a wandering mendicant. Finding the world opposed to his yoga practice he adopted the vow of a python (आजगरम्) by which he ate, chewed, drank and passed water all lying down. By his yogic powers he wandered through कोङ्क, वेङ्क, कुटक, S. कर्नाट, and was consumed by forest- fire. By listening to his story, devotion to Hari was in- creased. His path was followed by Sumati; फलकम्:F4:  Ib. V. 4. 8-१९; chap. 5 (whole); 6. 6-१९; १५. 1; वा. ३३. ५१.फलकम्:/F took to the third आश्रम at Pulaha's hermitage and lived there until his death. फलकम्:F5:  Vi. II. 1. २८-31.फलकम्:/F
(IX)--a son of अङ्गिरस्, and a sage of the स्वा- रोचिष epoch; a मन्त्रकृत्। Br. III. ३६. १७; वा. ५९. १००.
(X)--a son of Sudhanvan. वा. ६५. १०२.
(XI)--a दानव with मनुष्य dharma. वा. ६८. १५.
(XII)--a ऋत्विक् at ब्रह्मा's याज्ञ। वा. १०६. ३७. [page१-271+ २७]
(XIII)--a mountain on the north base of Meru but in भारतवर्ष; sacred to Hari and visited by Bala- राम; फलकम्:F1:  भा. V. १६. २६; १९. १६; X. ७९. १५; M. १६३. ७८; Vi. II. 2. ३०.फलकम्:/F entered the sea. फलकम्:F2:  M. १२१. ७२; Br. II. १८. ७५.फलकम्:/F
(XIV)--an elephant at one of the four cardinal points to maintain the balance of the worlds. भा. V. २०. ३९.
(XV)--स्वर (auspicious), when heard by a king starting on an expedition; the second of the seven notes of the Hindu gamut. M. २४३. २१; वा. २१. ३४; ८६. ३७.
(XVI)--the fifteenth कल्प; here came into being ऋषभस्वर। वा. २१. ३३-34.
(XVII)--another name for the सुमना hill of प्लक्षद्वीप. वा. ४२. १९; ४९. ११.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛṣabha: : A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, offered in the sarpasatra; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 16, 1, 13.


_______________________________
*2nd word in left half of page p7_mci (+offset) in original book.

Ṛṣabha^1 : m.: Name of a mountain.


A. Location: Situated in the Pāṇḍya country (pāṇḍyeṣu) 3. 83. 19, close to the ocean (sāgarorasi) 5. 110. 22.


B. Description: Worshipped by gods (surapūjita) 3. 83. 19.


C. Importance: A visit to the mountain Ṛṣabha secures for the visitor the fruit of the Vājapeya sacrifice and he (after death) rejoices in the heaven (nākapṛṣṭhe ca modate) 3. 83. 19.


D. Mythological event: Suparṇa told Gālava that after eating and resting on the Ṛṣabha mountain they would go back from the mountain 5. 110. 22; when the two of them reached the summit of the mountain they saw there the Brāhmaṇī Śāṇḍilī engaged in austerities 5. 111. 1.


_______________________________
*1st word in left half of page p301_mci (+offset) in original book.

Ṛṣabha^2 : m.: Name of a tīrtha.

Situated in Kośalā; by visiting the tīrtha and by fasting there for three nights (trirātropoṣitaḥ) one gets the fruit of the Vājapeya sacrifice 3. 83. 10.


_______________________________
*2nd word in left half of page p301_mci (+offset) in original book.

Mahabharata Cultural Index

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛṣabha: : A mythical serpent.

Born in the kula of Dhṛtarāṣṭra, offered in the sarpasatra; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 16, 1, 13.


_______________________________
*2nd word in left half of page p7_mci (+offset) in original book.

Ṛṣabha^1 : m.: Name of a mountain.


A. Location: Situated in the Pāṇḍya country (pāṇḍyeṣu) 3. 83. 19, close to the ocean (sāgarorasi) 5. 110. 22.


B. Description: Worshipped by gods (surapūjita) 3. 83. 19.


C. Importance: A visit to the mountain Ṛṣabha secures for the visitor the fruit of the Vājapeya sacrifice and he (after death) rejoices in the heaven (nākapṛṣṭhe ca modate) 3. 83. 19.


D. Mythological event: Suparṇa told Gālava that after eating and resting on the Ṛṣabha mountain they would go back from the mountain 5. 110. 22; when the two of them reached the summit of the mountain they saw there the Brāhmaṇī Śāṇḍilī engaged in austerities 5. 111. 1.


_______________________________
*1st word in left half of page p301_mci (+offset) in original book.

Ṛṣabha^2 : m.: Name of a tīrtha.

Situated in Kośalā; by visiting the tīrtha and by fasting there for three nights (trirātropoṣitaḥ) one gets the fruit of the Vājapeya sacrifice 3. 83. 10.


_______________________________
*2nd word in left half of page p301_mci (+offset) in original book.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Ṛṣabha is the common name of the ‘bull’ from the Rigveda[] onwards.[] See also Go.

2. Ṛṣabha, king of the Śviknas, appears in the Satapatha Brāhmaṇa[] with the patronymic Yājñatura, as one of those who performed an Aśvamedha or horse sacrifice. He is also mentioned there[] as having probably been the source of a saying of Gaurīviti Śāktya's.

3. Ṛṣabha is mentioned in the Aitareya Brāhmaṇa (vii. 17) as a son of Viśvāmitra.
==Foot Notes==

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषभ पु.
एक सवनदिन वाले सोमयाग का नाम, मा.श्रौ.सू. 9.3.5.17-18; एक ईंट का नाम, मा.श्रौ.सू. 6.1.8.1०। ०गोसव (ऋषभश्च गोसवश्च) पु. (द्वि.) ऋषभ एवं गोसव यज्ञ, का.श्रौ.सू. 22.11.3 (ऋषभगोसवौ)।

  1. vi. 16, 47;
    28, 8;
    x. 91, 14, etc.
  2. Av. iii. 6, 4;
    23, 4, etc.;
    Taittirīya Saṃhitā, ii. 1, 3, 2, etc.;
    vajasaneyi Saṃhitā, xxi. 22, etc.;
    Pañcavimśa Brāhmaṇa, xiii. 5, 18, etc.
  3. xiii. 5, 4, 15. Cf. Śāṅkhāyana Śrauta Sūtra, xvi. 9. 8-10.
  4. xii. 8, 3. 7.
"https://sa.wiktionary.org/w/index.php?title=ऋषभ&oldid=493842" इत्यस्माद् प्रतिप्राप्तम्