कला

विकिशब्दकोशः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कला, स्त्री, (कलयति वृद्धितो धनं संगृह्णाति सञ्चि- नोतीत्यर्थः । कल + अच् + टाप् ।) मूलधनवृद्धिः । सुद् इति भाषा । शिल्पादि । (यथा रामायणे १ । ९ । ८ । “गीतवादित्रकुशला नृत्येषु कुशलास्तथा । उपायज्ञाः कलाज्ञाश्च वैशिके परिनिष्ठिताः” ॥) अंशमात्रम् । चन्द्रस्य षोडशांशः । (यथा, वक्रोक्ति- पञ्चाशिकायाम् । “सालङ्कारतया त्वया मम कथं नेन्दोः कला दृश्यते, पश्यामीन्दुकलां स्फुटं पुनरिदं लङ्कारता नास्मि यत्” ॥) कालमानः । स तु त्रिंशत्काष्ठात्मकः । इति मेदिनी ॥ (“त्रिं- शत् काष्ठाः कलाः” । इति सुश्रुते सूत्रे ६ अः ॥ शरीरस्यांशविशेषो यथा, -- “मांसासृङ्मेदसां तिस्रो यकृत्प्लीह्नोश्चतुर्थिका । पञ्चमी च तथान्नानां षष्ठीचाग्निधरा मता । रेतोधरा सप्तमी म्यादिति सप्तकलाः स्मृताः” ॥ इति पूर्ब्बखण्डे पञ्चमेऽध्याये शार्ङ्गधरेणोक्तम् ॥) स्त्रोरजः । नौका । कपटः । इति विश्वः । राशेष्त्रं शद्भागोऽशस्तस्य षष्टिभागः । यथा, -- “षिकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते । तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते” ॥ इति सूर्य्यसिद्धान्तः ॥ अथ शैवतन्त्रोक्ताश्चतुः- षष्टिकला लिख्यन्ते । गीतम् १ वाद्यम् २ नृत्यम् ३ नाठ्यम् ४ आलेख्यम् ५ विशेषकच्छेद्यम् ६ तण्डुलकुसुमबलिविकाराः ७ पुष्पास्तरणम् ८ द- शनवसनाङ्गरागाः ९ मणिभूमिकाकर्म्म १० शयन- रचनम् ११ उदकवाद्यम् १२ उदकघातः १३ चित्रायोगाः १४ माल्यग्रथनविकल्पाः १५ शेख- रापीडयोजनम् १६ नेपथ्ययोगाः १७ कर्णपत्र- भङ्गाः १८ गन्धयुक्तिः १९ भूषणयोजनम् २० ऐन्द्रजालम् २१ कौचुमारयोगाः २२ हस्तलाघ- वम् २३ चित्रशाकपूपभक्ष्यविकारक्रिया २४ पान- करसरागासवयोजनम् २५ सूचीवापकर्म्माणि २६ सूत्रक्रीडा २७ प्रहेलिका २८ प्रतिमाला २९ दुव्वचकयोगाः ३० पुस्तकवाचनम् ३१ नाटिका- ख्यायिकादर्शनम् ३२ काव्यसमस्यापूरणम् ३३ पट्टिकावेत्रवाणविकल्पाः ३४ तर्कुकर्म्माणि ३५ तक्षणम् ३६ वास्तुविद्या ३७ रूप्यरत्नपरीक्षा ३८ धातुवादः ३९ मणिरागज्ञानम् ४० आकरज्ञा- नम् ४१ वृक्षायुर्व्वेदयोगाः ४२ मेषकुक्कुटलावक- युद्धविधिः ४३ शुकशारिकाप्रलापनम् ४४ उत्सा- दनम् ४५ केशमार्जनकौशलम् ४६ अक्षरमुष्टिका- कथनम् ४७ म्लेच्छितकविकल्पाः ४८ देशभाषाज्ञा- नम् ४९ पुष्पशकटिकानिमित्तज्ञानम् ५० यन्त्र- मातृका ५१ धारणमातृका ५२ सम्पाट्यम् ५३ मान- सीकाव्यक्रिया ५४ क्रियाविकल्पाः ५५ छलितक- योगाः ५६ अभिधानकोषच्छन्दोज्ञानम् ५७ वस्त्रगो- पनानि ५८ द्यूतविशेषः ५९ आकर्षक्रीडा ६० बा- लकक्रीडनकानि ६१ वैनायिकीनां विद्यानां ज्ञानम् ६२ वैजयिकीनां विद्यानां ज्ञानम् ६३ वैतालिकीनां विद्यानां ज्ञानम् ६४ । इति श्रीभागवतटीकायां श्रीधरस्वामी ॥ क्वचित् पुस्तके सूचीवापकर्म्मसूत्र- क्रीडा इत्येकं पदं तदुत्तरं वीणाडमरुकवाद्यानि- वैतालिकीनामित्यत्र वैयासिकीनामिति च पाठः ॥ (जिह्वा । यथा हठयोगप्रदीपिकायाम् ३ । ३७ । “कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत्” ॥ “कलां जिह्वां पराङ्मखमास्यं यस्याः सा तथा तां प्रत्यङ्मुखीं कृत्वा तिसृणां नाडीनां पन्थाः तस्मिन् कपालकुहरे संयोजयेत्” । इति तट्टीका ॥ शिवः । यथा महाभारते १३ । १७ । १४० । ‘कलाःकाष्ठा लवा मात्रा मुहूर्त्ताहः क्षपाःक्षणाः’ ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कला स्त्री।

चन्द्रस्य_षोडशांशः

समानार्थक:कला

1।3।15।2।1

द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः। कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु॥

पदार्थ-विभागः : , गुणः, परिमाणः

कला स्त्री।

त्रिंशत्_काष्टाः

समानार्थक:कला

1।4।11।1।2

अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला। तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम्.।

अवयव : अष्ठदशनिमेषाः

पदार्थ-विभागः : , द्रव्यम्, कालः

कला स्त्री।

कलाकौशल्यादिकर्मः

समानार्थक:शिल्प,कला

3।3।198।2।1

शङ्कावपि द्वयोः कीलः पालिस्त्र्यश्र्यङ्कपङ्क्तिषु। कला शिल्पे कालभेदेप्याली सख्यावली अपि॥

 : गानम्, वीणादिवादनम्, नृत्यम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कला¦ स्त्री कलयति कलते वा कर्त्तरि अच् कल्यते ज्ञायतेकर्मणि अच् वा। चन्द्रमण्डलस्य षोडशे भागे यथा चचन्द्रस्य षोडशभागस्य कलाशब्दवाच्यत्वम्। तथा कालमा॰उक्तं यथा स्कान्दे-
“अमा षोडशभागेन देवि! प्रोक्ता महाकला। संस्थितापरमा माया देहिनां देहधारिणी। अमादिपौर्णमास्यन्ताया एव शशिनः कलाः। तिथयस्ताः समाख्याताः षोडशैव[Page1783-b+ 38] वरानने!” इति
“अयमर्थः या महामाया आधारशक्ति-रूपा देहिनां देहधारिणी संस्थिता सा चन्द्रमण्डलस्यषोडशभागेन परिमिता चन्द्रदेहधारिण्यमानाम्नी महा-कलेति प्रोक्ता क्षयोदयरहिता नित्या तिथिसंज्ञिकैवइतरा अपि पञ्चदश कला दिवसव्यवहारोपयोगिन्यःक्षयोदयवत्यः, पञ्चदश तिथयो भवन्तीति तिथयःषोडशैवेत्यविरुद्धं वचनमिति। श्रुतिस्त्वस्मिन्नर्थे पक्षनिर्णयएवोदाहृता।
“तस्य रात्रय एव पञ्चदश कला ध्रुवै-वास्य षोडशी कलेति”। एवञ्च सत्यत्र सामान्यविशेषरूपेणतिथिद्वैविध्यमुक्तं भवति तत्र येयममेत्युक्ता क्षयोदय-विवर्जिता ध्रुवा षोडशी कला तद्युक्तः कालस्तिथि-सामान्यं यास्त्ववशिष्टाः वृद्धिक्षयोपेताः पञ्चदश कला-स्ताभिर्विशिष्टाः कालविभागास्तिथिविशेषाः। तासां पञ्च-दशानामेकैकां कलां बह्न्यादयः प्रजापत्यन्ताः पञ्च-दश देवताः क्रमेण पिबन्ति। तत्र वह्निना या कला प्रथमंपीयते मा प्रथमेत्युच्यते, तया युक्तः कालविशेषः प्राथम्यवाचिना प्रतिपच्छब्देनाभिधीयते। एवं द्वितीयादीनापञ्चदश्यन्तानां तिथीनां नामान्यवगन्तव्यानि, ता एताःकृष्णपक्षे तिथयो भवन्ति। पुनश्च ताः पीताः कलास्तेनैवक्रमेण तत्र तथा वह्न्यादिदेवताभ्यो निर्गत्य चन्दमण्डलंपूरयन्ति ताभिर्युक्ताः कालविशेषाः शुक्लपक्षगताः प्रतिपदाद्यास्तिथयो भवन्ति। बह्न्यादिदेवतानां कलापानंसोमोत्पत्तौ पठितम्, तथा हि
“प्रथमां पिबते वह्निर्द्वि-तीयां पिबते रविः। विश्वेदेवास्तृतीयान्तु चतुर्थीं सलि-लाधिपः। पञ्चमीं तु वषट्कारः षष्ठी पिबति वासवः। सप्तमामृषयोदिव्या अष्टमीमज एकपात्। नवमीं कृष्णपक्षेऽस्य यमः प्राश्नाति वै कलाम्। दशमीं पिबते वायुः पिब-त्येकादशीमुमा। द्वादशीं पितरः सर्वे समं प्राश्नन्तिभागशः। त्रयोदशीं धनाध्यक्षः कुवेरः पिबते कलाम्। चतुर्दशीं पशुपतिः पञ्चदशीं प्रजापतिः। निष्मीतः कल-या शेषश्चन्द्रमा न प्रकाशते। कला षोडशिका या सा त्वपःप्रविशते सदा। अमायां तु सदा सोम ओषधीः प्रति-पद्यते। तमोषधिगतं गावः पिबन्त्यम्बुगतञ्च यत्। तत्-क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः। हुतमग्निषुयज्ञेषु पुनराप्यायते शशी। दिने दिने कलावृद्धिःपौर्णमास्यां तु पूर्णतेति”। ( एवं षोडशानां कलानामेका नित्या अन्या क्षयोदय-शालिनी, तदेतत् स्पष्टमुक्तम् शत॰ ब्रा॰

१४ ,

४ ,

३ ,

२२ । [Page1784-a+ 38] यथा
“प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश-कला ध्रुवैवास्य षोडशी कला स रात्रिभिरेवा च पूर्य्यतेऽप च क्षीयते सोऽमावास्यां रात्रिमेतया षोडश्या कलयासर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते तस्मादेतांरात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्य”
“योऽयमन्नात्मा प्रजापतिः प्रकृतः स एष संवत्सरात्मनाविशेषतो निर्दिश्यते रात्रयः अहोरात्राणि तिथय एवप्रतिपदाद्याः ध्रुवैव नित्यैव व्यवस्थिता। एतासां वित्तत्वंवक्तुं तत्साधर्म्यमाह स चन्द्रात्मा प्रजापतीरात्रिभिरेवप्रतिपद्राद्याभिरुपचीयमानाभिः शुक्लपक्षे वर्धते कृष्णपक्षेताभिरेवापचीयमानाभिः कलाभिरपक्षीयते अमावा-स्यायां ध्रुवैका कला व्यवस्थिता। एवं कलानां वित्तत्वेसिद्धे तदुपचयापचयौ कर्मेत्यभिप्रेत्याह स कलात्मा प्रजा-पतिरमावास्यां रात्रिं रात्रौ या ध्रुवा कलात्रावस्थितोक्ताएतया षोडश्या कलया सर्वमिदं प्राणिजातं स्थावर-जङ्गमात्मकमनुप्रविश्य यदपः पिबति यच्चोषधीरश्नातितत् सर्वमेवौषध्यात्मना व्याप्यामावास्यां रात्रिमवस्थायततोऽपरेद्युः प्रातर्जायते द्वितोयया संयुक्तो भवतिएवमसौ प्रजापतिः पाङक्तात्मकः संवृत्तः एवं प्रजापतेःपाङ्क्तकर्मफलत्वमुक्त्वा प्रासङ्गिकमथमाह तस्मादितिप्राणिनं न प्रमापयेत् कृकलासस्यापि सरटस्यापि प्राणंन विच्छिन्द्यात्” भा॰। चन्द्रकलानां नामभेदादिकमनुपदंवक्ष्यते।
“सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते”
“ज्योत्स्नान्तराणीव कलान्तराणि”।
“कला च साकान्तिमती कला(व)भृतः” कुमा॰।
“कलासमग्रेण गृहा-नमुञ्चता”
“कलादधानः सकलाः स्वभाभिरुद्भासयन्सौधसिताभिराशाः”
“निधिरम्भसामुपचयाय कलाः” इति च भाघः कलाधरः कलाभृत् कलानिधिः कलावान्।

२ अवयवमात्रे च।
“सोमसूर्य्याग्निभेदेन मातृकावर्णसम्भवाः। अष्टत्रिंशत्कलास्तत्तन्मण्डलेषु व्यवस्थिताः” शा॰ति॰।
“सोममण्डलस्य षोडशकलता सूर्य्यमण्डलस्य द्वाद-शकलता वह्निमण्डलस्य दशकलतोक्ता” तासां नामानिध्येयरूपाणि च तत्र दर्शितानि यथा-
“अमृता मानदा पूषा तुष्टिःपुष्टोरतिर्धृतिः। शशिनीचन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा। पूर्णा पूर्णा-मृता कामदायिन्यः स्वरजाः कलाः

१६ । तपिनी तापिनीधूम्रा मरीचिर्ज्वालिनी रुचिः। सुषुम्णा भोगदा विश्वायोधिनी धारिणी क्षमा। कञाद्या वसुदाः सौराः टठान्ता[Page1784-b+ 38] द्वादशेरिताः

१२ ।
“धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनीविस्फुलिङ्गिनी। सुश्रीः सुरूपा कपिला हव्यकव्यवहेअपि। डादीनां दशवर्णानां कला धर्मप्रदा इमाः”

१० । अभयेष्टकराध्येया श्वेतपीतारुणाः क्रमात्”। ( तथा अकारोकारमकारनादविन्द्वात्मकप्रणवस्य पञ्चाशत्-कलात्मकतामुक्त्वा तन्नामधेयरूपाण्यपि तत्रोक्तानि यथा-
“तारस्य पञ्चभेदस्य पञ्चाशद्वर्णगाः कलाः। सृष्टिरृद्धिः-स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृतिः स्थिरा। स्थितिः सिद्धि-रिति प्रोक्ता कचवर्नकलाः

१० क्रमात्। अकाराद्-ब्रह्मणोत्पन्नास्तप्तचामीकरप्रभाः। एताः करधृताक्ष-स्रक्पङ्कजद्वयकुण्डिकाः। जरा च पालिनी शान्तिरैश्वरीरतिकामिके। वरदाह्लादिनी प्रीतिर्द्दीर्घा स्वुष्टतवर्गजाः

१० । उकाराद्विष्णुनोत्पन्नास्तमालदलसन्निभाः। अभीतिशङ्खचक्रेष्टबाहवः परिकीर्त्तिताः। तीक्ष्णा रौद्री भयानिद्रा तन्द्रा क्षुत् क्रोधिनी क्रिया। उत्करी मुत्य रेताःस्युः कथिताः पयवर्गजाः

१० । रुद्रेण मार्णादुत्पन्नाःशरच्चन्द्रसमप्रभाः। उद्वहन्त्योऽभयं शूलं कपालं बाहु-भिर्वरम्। ईश्वरेणोदिता विन्दोःपीताश्वेताऽरुणाऽसिताः

४ । अनन्तास्ताःषवर्गस्था जवाकुसुमसन्निभाः। अभयं हरिणं ठङ्कंदधाना बाहुभिर्वरम्। निवृत्तिः सुप्रतिष्ठा स्वाद्विद्याशान्तिरनन्तरम्। इन्धिका दीपिका चैव रेचिका मोचिका-परा। सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा। व्यापिनी व्योमरूपा स्युरनन्ताः स्वरसंगताः

१६ । सदाशिवेनसंजातानादादेताः सितत्विषः। अक्षस्रक्पुस्तकगुणकपालाट्यकराम्बुजाः। न्यासे तु योजयेदादौ षोडश स्वरजाःकलाः। इति पञ्चाशदाख्याताः कलाः सर्वसमृद्धिदाः” कल्यते ज्ञायतेऽनेन। अंशतुल्ये

३ उपाधिभेदे च।
“तस्मै स होवाच। इहैवान्तः शरीरे सौम्य! स पुरुषोयस्मिन्नेताः षोडश कलाः प्रभवन्तीति” पश्रोपनिषत्।
“तस्मै स होवाच। इहैवान्तः शरीरे हृदयपुण्डरी-काकाशमध्ये हे सौम्य! स पुरुषो न देशान्तरे विज्ञेयोयस्मिन् एता उच्यमानाः षोडश कलाः प्राणाद्याः प्रभ-वन्त्युत्पद्यन्त इति षोडशकलाभिरुपाधिरूपाभिः सकलइव निष्कलः पुरुषो लक्ष्यतेऽविद्ययेति” भाष्यम्।
“पुरुषस्य षोडशकलत्वं न साक्षात्सावयवत्वेन, किन्तुकलाजनकत्वेन तदुपाधिमत्त्वादिति वक्तुंयस्मिन्नेता इतिवाक्यतात्पर्य्यमाह षोडशकलाभिरिति” आनन्द॰( यथा च पुरुषस्य वोडशकक्षत्वं तथोक्तं तत्रैव[Page1785-a+ 38] प्रश्नोपनिषदि शङ्कराचार्य्यकृततद्भाष्ये च यथा-
“स ईक्षाञ्चक्रे कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामिकस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति” उप॰।
“तदुपाधि-कलाध्यारोपापनयनेन विद्यया स पुरुषः केवलो दर्शयितव्यइति कलानां तत्प्रभवत्वमुच्यते। प्राणादीनामत्यन्तनिर्व्वि-शेषे ह्यद्वये शुद्धे तत्त्वे शक्यतेऽध्यारोपमन्तरेण प्रतिपाद्य-प्रतिपादनादिव्यवहारः कर्त्तुमिति कलानां प्रभवस्थि-त्यप्यया आरोप्यन्ते अविद्याविषयाश्चैतन्याव्यतिरेकेणैवहि कला जायमानास्तिष्ठन्त्यः प्रलीयमानाश्च सर्व्वदालक्ष्यन्ते। अत एव भ्रान्ताः केचिदग्निसंयोगाद्घृत-मिव घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायतेनश्यतीति तन्निरोधे शून्यमिव सर्व्वमिति। अपरेघटादिविषयं चैतन्यं चेतयितुर्नित्यस्यात्मनोऽनित्यंजायते विनश्यतीति। अपरे चैतन्यंभूतधर्म्म इतिलौकायतिकाः। अनपायोपजननधर्म्मकचैतन्यमात्मैव नाम-रूपाद्युपाधिधर्मैः प्रत्यवभासते।
“सत्यं ज्ञानमानन्दंब्रह्म”
“विज्ञानघन एवेत्यादि” श्रुतिभ्यः। स्वरूपाव्यभि-चारात् यथा यथा यो यः पदार्थो विज्ञायतेतथा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्याव्य-भिचारित्वं वस्तु च भवति किञ्चिन्न ज्ञायत इतिचानुपपन्नम्। रूपञ्च दृश्यते न चास्ति चक्षुरितिवत्। व्यभिचरति तु ज्ञानं, ज्ञेयं न व्यभिचरतिकदाचिदपि। ज्ञेयाभावेऽपि ज्ञेयान्तरेभावाज्ज्ञानस्य। न हि ज्ञानेऽसति ज्ञेयं नाम भवति कस्यचित्-सुषुप्तेऽदर्शनात् ज्ञानस्यापि सुषुप्तेऽभावाज्ज्ञेयाज्ज्ञान-स्वरूपस्य व्यभिचार इति चेन्न। ज्ञेयावभासकस्यज्ञानस्यालोकवज्ज्ञेयाभिव्यञ्जकत्वात् स्वव्यङ्ग्याभावे आलो-काभावानुपपत्तिवत् सुषुप्ने विज्ञानाभावानुपपत्तेः। न ह्यन्धकारे चक्षुषो रूपानुपलब्धौ चक्षुषोऽभावःशक्यः कल्पयितुमवैनाशिकेन। वैनाशिको ज्ञेयाभावेज्ञानाभावं कल्पयत्येवेति चेत्? येन तदभावं कल्पये-त्तस्याभावः केन कल्प्यत इति वक्तव्यम् वैनाशिकेन। तदभावस्यापि ज्ञेयत्वाज्ज्ञानाभावे ज्ञानाभाव इतिचेत्? न, अभावस्यापि ज्ञेयत्वाभ्युपगमादभावोऽपिज्ञेयोऽभ्युपगम्यते वैनाशिकैः, नित्यञ्च तदव्यतिरिक्तञ्चे-ज्ज्ञानं नित्यं कल्पितं स्यात्तदभावस्य च ज्ञानात्म-कत्वादभावत्वं वाङ्मात्रमेव न परमार्थतोऽभावत्वम-नित्यत्वं च ज्ञानस्य। न च नित्यस्य ज्ञानस्याभावो-[Page1785-b+ 38] नाममात्राध्यारोपे किन्नश्छिन्नम्। अथाभावो ज्ञेयो-ऽपि सन् ज्ञानवदतिरिक्त इति चेन्न तर्हि ज्ञेया-भावे ज्ञानाभावः ज्ञेयं ज्ञानव्यतिरिक्तं न तु ज्ञानंज्ञेयव्यतिरिक्तमिति चेन्न। शब्दमात्रत्वाद्विशेषानुपपत्तेः। ज्ञेयज्ञानयोरेकत्वञ्चेदभ्युपगम्यते--ज्ञेयं ज्ञानव्यतिरिक्तंन ज्ञेयव्यतिरिक्तं ज्ञानम् ज्ञेयव्यतिरिक्तं नेति तुशब्दमात्रमेव तद्वह्निरग्निव्यतिरिक्तोऽग्निर्न वह्निव्यतिरिक्तइति यद्वदभ्युपगम्य ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावेज्ञानाभावानुपपत्तिः सिद्धा। ज्ञेयाभावेऽदर्शनादभावोज्ञानस्येति चेन्न सुष्प्तेरित्यभ्युपगमात्। वैनाशिकैरभ्युपग-म्यते हि सुषुप्तेऽपि विज्ञानास्तित्वं, तत्रापि ज्ञेयसत्त्वमभ्यु-पगम्यते ज्ञानस्य स्वेनैवेति चेन्न भेदस्य सिद्धत्वात्। सिद्धं ह्यभावज्ञेयविषयस्य ज्ञानस्याभावज्ञेयव्यतिरेका-ज्ज्ञेयज्ञानयोरन्यत्वम्। न हि तत्सिद्धं मृतमिवोज्जीव-यितुं पुनरन्यथा कर्त्तुं शक्यते वैनाशिकशतैरपि ज्ञानस्यज्ञेयत्वमेवेति। तदप्यन्येन तदप्यन्येनेति त्वत्पक्षेऽति-प्रसङ्ग इति चेन्न तद्विभागोपपत्तेः। सर्वस्य यदा हिसर्वं ज्ञेयं कस्यचित्तदा तद्व्यतिरिक्तं ज्ञानं ज्ञान-मेवेति द्वितीयो विभाग एवाभ्युपगम्यतेऽवैनाशिकैः। न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः ज्ञानस्य स्वे वा-विज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत्? सोऽपि दोषस्तस्यैवास्तुकिन्तन्निवर्हणेनास्माकमनवस्थादोषश्च ज्ञानस्य ज्ञयत्वाभ्युप-गमादवश्यञ्चैव वैनाशिकानां ज्ञानं ज्ञेयम् स्वात्मनाचाविज्ञेयत्वेननवस्थाऽनिवार्य्या। समान एवायं दोषइति चेन्न ज्ञानस्यैकत्वोपपत्तेः। सर्व्वदेशकालपुरुषा-द्यवस्थमेकमेव ज्ञानं नामरूपाद्यनेकोपाधिभेदात् सवि-त्रादिजलादिप्रतिविम्बवदनेकतयावभासत इति। नाऽसौदोषः। तथा चेदिहेदमुच्यते। ननुश्रुतेरिहैवान्तः शरीरेपरिच्छिन्नः कुण्डवदरवत्पुरुष इति, न प्राणादिकला-कारणत्वात्। न हि शरीरमात्रपरिच्छिन्नस्य प्राणस्यश्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात्। कलाकार्य्यत्वाच्च शरीरस्य। न हि पुरुषकार्य्याणांकलानां कार्य्यं सच्छरीरं कारणकारणं स्वस्य पुरुषंकुण्डवदरमिवाभ्यन्तरं कुर्य्यात्, वीजवत्स्यादिति चेत्?यथा वीजकार्य्यो वृक्षस्तत्कार्य्यञ्च फलं स्वकारणकारणंवीजमभ्यन्तरीकरोत्याम्रादि तद्वत्पुरुषमभ्यन्तरीकुर्य्यात्शरीरं स्वकारणकारणमपीति चेन्न अन्यत्वात् सावय-वत्वाच्च। दृष्टान्ते कारणवीजाद्वृक्षफलसंवृत्तान्यन्यान्येव[Page1786-a+ 38] वीजानि दार्ष्टान्तिके तु स्वकारणकारणभूतः स एव पुरुषःशरीरेऽभ्यन्तरीकृतः श्रूयते। वीजवृक्षादीनां सावयवत्वाच्चस्यादाधाराधेयत्वं निरवयवश्च पुरुषः सावयवाश्च कलाःशरीरञ्च एतेनाकाशस्यापि शरीराधारत्वमनुपपन्नं किमु-ताकाशकारणस्य पुरुषस्य तस्मादसमानो दृष्टान्तः। किन्दृष्टान्तेन वचनात् स्यादिति चेन्न वचनस्याकारक-त्वात्। न हि वचनं वस्तुनोऽन्यथाकरणे व्याप्रियतेकिन्तर्हि यथाभूतार्थावद्योतने। तस्मादन्तः शरीर इत्येतद्वचनंअण्डस्यान्तर्व्योमेतिवच्च द्रष्टव्यम्। उपलब्धिनिमित्तत्वाच्च। दर्शनश्रवणमननविज्ञानादिलिङ्गैरन्तःशरीरे परिच्छिन्नइव ह्युपलभ्यते चात उच्यते--अन्तःशरीरे सोम्य! सपुरुष इति। न पुनराकाशकारणं सन् कुण्डवदरवच्छ-रीरपरिच्छिन्न इति मनसापीच्छति वक्तुं मूढोऽपि!किमुत प्रमाणभूता श्रुतिः। यस्मिन्नेताः षोडश कलाःप्रभवन्तीत्युक्तं पुरुषविशेषणाथं कलानां प्रभवः, स चान्यो-ऽर्थोऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते। चेतन-पूर्विका च सृष्टिरित्येवमर्थे च पुरुषः षोडशकलः पृष्टोयो भारद्वाजेन, स ईक्षाञ्चक्रे ईक्षणं दर्शनं चक्रे कृतवा-नित्यर्थः। सृष्टिफलक्रमादिविषयं कथमित्युच्यते कस्मिन्कर्तृविशेषे देहादुत्क्रान्तो भविष्याम्यहमेव वा कस्मिन्वाशरीरे प्रतिष्ठितेऽहं प्रतिष्ठास्यामि प्रतिष्ठितः स्यामित्यर्थः”। (
“स प्राणमसृजत प्राणाच्छ्रद्धां खंवायुर्ज्योतिरापःपृथिवीन्द्रियम्। मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म-लोका लोकेषु च नाम च” उपनि॰।
“नन्वात्माऽकर्त्ता, प्रधानं कर्तृ, अतः पुरुषाथे प्रयो-जनमुररीकृत्य प्रधानं प्रवर्त्तते महदाद्याकारेण, तत्रेद-मनुपपन्नं पुरुषस्य स्वातन्त्र्येणेक्षापूर्व्वकं कर्तृत्ववचनंसत्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्त्तरि सतिईश्वरेच्छानुवर्त्तिषु परमाणुषु सत्स्वात्मनोऽप्येकत्वेनकर्तृत्वे साधनाभावादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च। न हि चेतनावान् बुद्धिपूर्व्वकार्य्यात्मनोऽनर्थं कुर्य्यात्,तस्मात्पुरुषार्थेन प्रयोजनेनेक्षापूर्व्वकमिव नियतक्रमेणप्रवर्त्तमानेऽचेतने प्रधाने चेतनवदुपचारोऽयं--स ईक्षाञ्चक्रेइत्यादिः। यथा राज्ञः सर्वार्थकारिणि भृत्ये राजेतिइति चेत्? नात्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः। यथा साङ्ख्यस्यचिन्मात्रस्यापरिणामिनोऽप्यात्मनो भोक्तृत्वं तद्वद्वेदवादि-नाभीक्षादिपूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात्। तत्त्वान्तरपरिणामादात्मनोऽनित्यत्वाशुद्धत्वानेकत्वनिमित्त-[Page1786-b+ 38] चिन्मात्रस्वरूपविक्रियातः पुरुषस्यात्मन्येव भोक्तृत्वेचिन्मात्रस्वरूपविक्रिया न दोषाय। भवतां षुनर्वेदवादिनांसृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एवेत्यात्मनोऽनित्यत्वादि-सर्वदोषप्रसङ्ग इति चेन्न, एकस्याप्यात्मनोऽविद्याविषयनाम-रूपोपाध्यनुपाधिकृतविशेषाभ्युपगमादविद्याकृतनामरूपो-पाधिकृतो हि विशेषोऽभ्युपगम्यते आत्मनोबन्धमोक्षादि-शास्त्रकृतसंव्यवहाराद्युपरमार्थं” परमार्थतीऽनुपाधिकृतञ्चतत्त्वमेकमेवाद्वितीयमुपादेयं सर्वतार्किकबुद्ध्यनवगाह्यमभयशिवमिष्यते न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारक-फलञ्च स्यादद्वैतत्वात्सर्वभावानाम्। साङ्ख्यास्त्वविद्याध्या-रोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलञ्चेति कल्प-यित्वागमबाह्यत्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एवभोक्तृत्वं पुरुषस्येच्छन्ति तत्त्वान्तरञ्च प्रधानं पुरुषात्परमार्थवस्तुभूतमेव कल्पयन्तोऽन्यतार्किकनिराकृतबद्धिविषयाःसन्तो विहन्यन्ते। तथेतरे तार्किकाः साङ्ख्यैरित्येवं पर-स्परविरुद्धार्थकल्पनात् आमिषाथिन इव प्राणिनोऽन्योन्यंविरुध्यमाना अर्थदर्शित्वात् परमार्थतत्त्वाद्दूरमेवापकृष्यन्ते-ऽतस्तन्मतमनादृत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रत्यादर-वन्तो मुमुक्षवः स्युरिति तार्किकमते दोषदर्शनं किञ्चिदुच्यतेऽस्माभिः न तु तार्किकतात्पर्य्येण तथैतत् अत्रोक्तम्।
“विव-दन् खेऽवनिक्षिप्य विरोधोद्भवकारणम्। तैः संरक्षित-सद्बुद्धिः सुखं निर्व्वाति वेददित्”। किञ्च--भोक्तृत्वकर्तृ-त्वयोर्विक्रिययोर्विशेषानुपपत्तिः। का नामासौ कर्तृ-त्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया यतो भोक्तैवपुरुषः कल्प्यते न कर्त्ता। प्रधानन्तु कर्त्त्रेव न भोक्त्रितिननूक्तं पुरुषश्चिन्मात्र एव स्वात्मस्थो विक्रियते भुञ्जानोऽ-नन्तान्तरपरिणामेन। प्रधानन्तु तत्त्वान्तरपरिणामेनविक्रियतेऽतोऽनेकमशुद्धमचेतनञ्चेत्यादिधर्म्मवत्तद्विपरीतःपुरुषः। नाऽसौ विशेषो वाड्मात्रत्वात्प्राग्भोगोत्पत्तेः। केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगो-त्पत्तिकाले चेज्जायते निवृत्ते च भोगे पुनिषस्तद्वादशे-भेतश्चिन्मात्र एव भवतीति चेन्महदाद्याकारेण च परिणम्यप्रधानं ततोऽपेत्य पुनः प्रधानं खरूपेणावतिष्ठत इतिअस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेणप्रधानपुरुषयोर्विशिष्टविक्रिया कल्प्यते। अथ भोगकाले-ऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेत्? न तर्हिपरमार्थतो भोगः पुरुषस्य। भोगकाले चिन्मात्रस्यविक्रिया परमार्थैव, तेन भोगः पुरुषस्येति चेन्न प्रधान-[Page1787-a+ 38] स्यापि भोगकालेऽविक्रियत्वाद्भोक्तृत्वप्रसङ्गः। चिन्मात्रस्यैवविक्रियाभोक्तृत्वमिति चेदौष्ण्यादसाधारणधर्म्मवतामग्न्या-दोनामभोक्तृत्वे हेत्वनुपपत्तिः। प्रधानपुरुषयो-र्युगपद्भोक्तृत्वमिति चेन्न प्रधानस्य पारार्थ्यानुपपत्तेः। न हि भोक्त्रोर्द्वयोरितरेतरगुणप्रधानभाव उपपद्यते प्रका-शयोरिवेतरेतरप्रकाशने। भोगधर्म्मवति सत्वाङ्गिनिचेतसि पुरुषस्य चैतन्यप्रतिविम्बादयोऽविक्रियस्य पुरुषस्यभोक्तृत्वमिति चेन्न पुरुषस्य कस्यापनयनार्थं मोक्षसा धनंशास्त्रं प्रणीयतेऽविद्याध्यारोपितानर्थापनयनाय शास्त्र-प्रणयनमिति चेत्? परमार्थतः पुरुषो भोक्तैव न कर्त्ताप्रधानं कर्त्त्रेव न भोक्तृ परमर्थसद्वस्त्वन्तरं पुरुषाच्चेतीयंकल्पनागमबाह्या व्यर्था निर्हेतुका च इति नादर्त्तव्यामुमुक्षुभिः। एकत्वेऽपि शास्त्रप्रणयनाद्यानर्थक्यमितिचेन्न अभावात्। न हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु चशास्त्रस्य प्रणयनमनर्थकं सार्थकञ्चेति कल्पना स्यात्। नह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततोऽभिन्नाः सन्ति तदभावेएवंविकल्पनैवानुपपन्नाः। अभ्युपगते आत्मैकत्वे प्रमा-णार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता। तद-भ्युपगमे च कल्पनानुपपत्तिमाह शास्त्रम्।
“यत्र त्वस्यसर्वमात्मैवाभूत्तत्केन कं पश्येत्?” इत्यादिशास्त्रप्रणयनाद्युप-पत्तिञ्चाह। अन्यत्र परमार्थवस्तुस्वरूपादविद्याविषये
“यत्रहि द्वैतमिव भवतीत्यादि”। विस्तरतो वाजसनेयके। विभक्ते विद्याऽविद्ये परापरे इत्यादावेव शास्त्रस्यातोन तार्किकवादभटप्रवेशः वेदान्तराजप्रमाणबाहुगुप्तेइहार्त्मकत्वविषय इति। एतेनाविद्याकृतनामरूपाद्युपाधि-कृतानेकशक्तिसाधनकृतभेदवत्त्वाद्ब्रह्मणः सृष्ट्यादिकर्तृत्वेसाधनाद्यभावो दोषः प्रत्युक्तो वेदितव्यः परैरुक्त आत्मा-नर्थकर्तृत्वादिदोषश्च। यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणिकर्त्तृत्वाद्युपचाराद्राजा कर्त्तेति सोऽत्रानुपपन्नः।
“स ईक्षा-ञ्चक्र” इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः तत्र हिगौणी कल्पना। शब्दस्य, यत्र मुख्यार्थो न सम्भवति। इहत्वचेतनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्म्मदेशकाल-निमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषंप्रति प्रवृत्तिर्नोपपद्यते। यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षेतूपपन्ना, ईश्वरेणैव सर्वाधिकारी प्राणः पुरुषेण सृज्यते। कथं? स पुरुष उक्तप्रकारेणेक्षित्वा प्राणं

१ हिरण्य-गर्भाख्यं सर्वप्राणिकरणाधारमन्तरात्मानमसृजत सृष्टवान्,अत्रः प्राणात् श्रद्धां

२ सर्वप्राणिनां शुभकर्म्मप्रवृत्तिहेतु-[Page1787-b+ 38] भूताम्। ततः कर्म्मफलोपभोगसाधनाधिष्ठानानि कारण-भूतानि महाभूतान्यसृजत। खं

३ शब्दगुणं वायुं

४ स्वेनस्पर्शेन कारणगुणेन च विशिष्टं द्विगुणम्। तथा ज्योतिः

५ स्वेन रूपेण पूर्व्वाभ्याञ्च शब्दस्पर्शाभ्याम् विशिष्टं त्रिगुणंतथापो

६ रसेन गुणेनासाधारणेन पूर्व्वगुणानुप्रवेशेनचतुर्गुणाः। तथा गन्धेन पूर्बगुणानुप्रवेशेन पञ्चगुणापृथिवी

७ । तथा तैरेव भूतैरारब्धमिन्द्रियं

८ द्विप्रकारंबुद्ध्यर्थं कर्म्मार्थञ्च दशसङ्ख्यम्। तस्य चेश्वरमन्तःस्थंसंशयसङ्कल्पादिलक्षणं मनः

९ । एवं प्राणिनां कार्य्यंकरणञ्च सृष्ट्वा तत्स्थित्यर्थं व्रीहियवादिलक्षणमन्नम्

१० । ततश्चान्नादद्यमानाद्वीर्य्यं

११ सामर्थ्यं बलं सर्वकर्म्मप्रवृत्ति-साधनम्। तद्वीर्य्यवताञ्च प्राणिनां तपः

१२ विशुद्धिसाधनंसङ्कीर्य्यमाणानां, मन्त्रा

१३ स्तपोविशुद्धान्तर्वहिःकरणेभ्यःकर्मसाधनमेता ऋग्यजुःसामाथर्वाङ्गिरसः। ततः कर्म्म

१४ अग्निहोत्रादिलक्षणम्। ततो लोकाः

१५ कर्म्मणां फलम्। तेषु च सृष्टानां प्राणिनां नाम

१६ च देवदत्तो यज्ञदत्त-इत्यादि। एवमेताः कलाः प्राणिनामविद्यादिदोषवीजा-पेक्षया सृष्टास्तैमिरिकदृष्टिसृष्टा इव द्विचन्द्रमशक-मक्षिकाद्याः स्वप्नदृक्सृष्टा इव च सर्वे पदार्थाः पुनस्तस्मि-न्नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादिविभागम्” भा॰।
“स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तंगच्छन्ति, भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते। एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाःपुरुषं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे पुरुषइत्येवं प्रोच्यते, स एषोऽकलोऽमृतो भवति, तदेष श्लोकः”(
“कथं स दृष्टान्तः? यथा लोके इमा नद्यः स्यन्द-मानाः स्रवन्त्यः समुद्रायणाः समुद्रोऽयनं गतिरात्मभावोयासां ताः समुद्रायणाः समुद्रं प्राप्योपगम्यास्तं नाम-रूपतिरस्कारं गच्छन्ति। तासाञ्चास्तं गतानां भिद्येतेविनश्येते नामरूपे गङ्गायमुनेत्यादिलक्षणे। तद्भेदे समुद्रइत्येवं प्रोच्यते तद्वस्तूदकलक्षणमेव, यथाऽयं दृष्टान्तः। उक्तलक्षणस्य प्रकृतस्य पुरुषस्यपरिद्रष्टुः परि समन्ताद्द्रष्टु-र्दर्शनस्य कर्त्तुः स्वरूपभूतस्य। यथार्कः स्वात्मप्रकाशस्यकर्त्ता तद्वद्, इमा षोडश कलाः प्राणाद्याः उक्ताः कलाःपुरुषायणा नदीनामिव समुद्रः पुरुषोऽयनमात्मभावगमनंयासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्म-भावमुपगम्य तथैवास्तं गच्छन्ति। भिद्येते तासां नाम-रूपे कलानां प्राणाद्याख्या रूपञ्च। यथास्वभेदे च[Page1788-a+ 38] नामरूपयोर्यदनष्टं तत्त्वं पुरुष इत्येव प्रोच्यते ब्रह्म-विद्भिः। य एवं विद्वान् गुरुणा प्रदर्शितकलप्रलय-मार्गः स एष विद्यया प्रविलापितास्वविद्याकामकर्म्म-जनितासु प्राणादिकलास्वकलोऽविद्याकृतकलानिमित्तोहि मृत्युस्तदपगमेऽकलत्वादेवामृतो भवति। तदेतस्मिन्नर्थेएष श्लोकः” भा॰।
“अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः। तं वेद्यंपुरुषं वेद यथा भा वो मृत्युः परिव्यथ” उप॰।
“अरा रथचक्रपरिकरा इव रथनाभौ रथचक्रस्य नाभौयथा प्रवेशितास्तदाश्रया भवन्ति यथा तथेत्यर्थः। कलाःप्राणाद्या यस्मिन् पुरुषे प्रतिष्ठिता उत्पत्तिस्थितिलय-कालेषु तं पुरुषं कलानामात्मभूतं वेद्यं वेदनीयं पूर्ण्ण-त्वात् पुरुषं पुरि शयनाद्वा वेद जानीयात्। यथा हेशिष्या वो युष्मान्मृत्युर्मा परिव्यथा मा परिव्यथयतु। व्यथामापन्ना दुःखिन एव यूयं स्थ अतस्तन्मा भूद् युष्मा-कमित्यभिप्रायः” भा॰। ( तथा च प्राणः

१ श्रद्धा

२ व्योम

३ वायुः

४ तेजः

५ जलं

६ पृथिवी

७ इन्द्रियं

८ मनः

९ अन्नम्

१० वीर्य्यम्

११ तपः

१२ मन्त्राः

१३ कर्म

१४ लोकः

१५ । नाम

१६ इत्येता प्राणादिनामान्ताः षोडश कलाः पुरुषस्य उपा-धय इति स्थितम्।
“गताः कलाः पञ्चदश प्रतिष्ठाम्” श्रुतिः

३ अंशमात्रे च
“प्राची दिक् कला दक्षिणा दिक् कलोदीची-दिक्कलैष सौम्य! चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नामस य एतमेवं विद्वांश्चतुषकलं पादं ब्रह्मणः प्रकाशवा-नित्युपास्ते प्रकाशवानस्मिं ल्लोके भवति प्रकाशवतो हलोकाञ्जयति य एत मेवंविद्वांश्चतुष्कलं पादं ब्रह्मणःप्रकाशवानित्युपास्ते”
“पृथिवी कलाऽन्तरिक्षं कला द्यौःकला समुद्रः कलैष वै सौम्य! चतुष्कलः पादोब्रह्मणोऽ-नन्तवान्नाम। स य एतमेवंविद्वांश्चतुष्कलं पादं ब्रह्मणोऽ-{??}न्तवानित्युपास्तेऽनन्तवानस्मिं ल्लोके भवत्यनन्तवतो हलाकाञ्जयति य एतमेवंविद्वांश्चतुष्कलं पादं ब्रह्मणो-ऽनन्तवानित्युपास्ते”।
“अग्निः कला सूर्य्यः कला चन्द्रःकला विद्युत्कलैष वै सौम्य! चतुष्कलः पादो ब्रह्मणोज्योतिष्मान्नाम स य एतमेवंविद्वांश्चतुष्कलं पादंब्रह्मणोज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिल्लों के भवतिज्योतिष्मतो ह लोकाञ्जयति य एतमेवंविद्वांश्चतुष्कलंपादं ब्रह्मणो ज्योतिष्मानित्युपास्ते”।
“प्राणः कलाचक्षुः कला श्रोत्रं कला मनः कलैष वै सौम्य! चतु-[Page1788-b+ 38] ष्कलः पादोब्रह्मण आयतनवान्नाम स य एतमेव
“विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते आय-तनवानस्मिल्लों के भवत्यायतनवतो लोकाञ्जयति य एतमेवं-विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते”। अवतारशब्दे भूरि उदाहरणम् दृश्यम्। पलद्वयात्मके

४ कालांशभेदे स च सि॰ शि॰ दर्शितोयथा-
“योऽक्ष्णोर्निमेषस्य खराम

३० भागः स तत्परस्तच्छतभागउक्ता। त्रुटिर्निमेषैर्धृतिभि

१८ श्च काष्ठा तत्त्रिंशता सद्ग-णकैः कलोक्ता। त्रिं शत्कलार्क्षी घटिका क्षणः स्यान्नाडी-द्वयं तैः खगुणै

३० र्दिनं च। गुर्वक्षरैः खेन्दुमितै

१० रसुस्तैःषडिभः पलं तैर्घटिका खषड्भिः

६० । स्याद्वा घटीषष्टिरह-खरामै

३० र्मासो दिनैस्तैर्द्विकुभि

१२ श्च वर्षम्। क्षेत्रे समा-द्येन समा विभागाः स्युश्चक्रराश्यंशकलाविलिप्ताः” शि॰।
“योऽक्ष्णोर्लोचनयोः पक्ष्मपातः स निमेषः। स यावताकालेन निष्पद्यते तावान् कालोऽपि निमेषशब्देनो-च्यते उपचारात्। तस्य त्रिंशद्विभागस्तत्परसंज्ञःतत्परस्य शतांशस्त्रुटिरिति। अथ च निमेषैरष्टादशभिःकाष्ठा। क्वचिच्छास्त्रान्तरे तिथिभिरिति पाठः। काष्ठा-त्रिंशता कलोक्ता। कलानां त्रिंशता घटिका। सा-चाक्षीं भभ्रमस्य षष्टिभाग इत्यर्थः। घटिकाद्वयेनक्षणो मुहूर्त्तः। क्षणानां त्रिंशता दिनम्। अथप्रकारान्तरेण दिनमुच्यते। गुर्वक्षरैः खेन्दुमितैः

१० असु-रिति। एकमात्रोलघुः द्विमात्रो गुरुः। तथा
“सानु-स्वारी विसर्गान्तो दीर्घोयुक्तपरस्तु यः” इति छन्दो-लक्षणे प्रतिपादितम् यदक्षरं सानुस्वारं विसर्गान्तंदीर्घं यस्याक्षरस्य परतः संयोगस्तल्लघ्वपि गुरुसंज्ञं ज्ञेय-म्। गुर्वक्षरस्योच्चार्य्यमाणस्य यावान् कालस्तद्दशकेनै-कोऽसुः प्राणः। प्रशस्तेन्द्रियपुरुषस्य श्वासोच्छ्वासा-न्तर्वर्त्ती कालैत्यर्थः। षड्भिः प्राणैरेकं पानीयपलम्। पलानां षष्ट्या धटी। घटीनां षष्ट्या दिनम्। त्रिंशद्दि-नैरेकोमासः। मासैर्द्वादशभिर्वर्षमिति कालस्य विभागोदर्शितः” प्रमि॰।
“अह्नोऽस्तमयवेलायां कलामात्राऽपिया तिथिः” कालमा॰ व्यासः।
“प्रतिपल्लेशमात्रेण कला-मात्रेण चाष्टमी” पठन्ति।
“स च त्रीणि त्रीणिकलासहस्राणि पञ्चदश च कला एकैकस्मिन् धाताववतिष्ठते” इति सुश्रु॰।
“अष्टादश सहस्राणि संख्या चास्मिन्समुच्चये। कलानां नवतिः प्रोक्ता” सुश्रु॰।
“विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते। [Page1789-a+ 38] तत्त्रिंशता भवेद्राशिर्भगणोद्वादशैव ते” सू॰ सि॰। उक्तेराशिचक्रस्य

२१

६०

०० मिते भागे च
“क्षेत्रे समा-द्येन समा विभागा इत्यादि” शि॰ क्षेत्रे कक्षायां समा-द्येन वर्षाद्येन समास्तुल्याः क्षेत्रविभागा ज्ञेयाः। तेके। चक्रराश्यंशकलाविलिप्ताः। यथैकस्य वर्षस्व मास-दिनादयो विभागा एवं भगणस्य राश्यंशादयः” प्रमि॰। सि॰ शि॰ उक्ते दिनमानज्ञानोपयोगिनि दिनज्यागुणितेव्यासार्द्धभक्ते सूत्रात्मके

६ पदार्थे च यथा--
“उक्ता प्रभाभिमतदिङ्नियमेन तावत् तामेव कालनियमेनच वचिम् भूयः। स्यादुन्नतं द्युगतशेषकयोर्यंदल्पंतेनोनितं दिनदलं नतसंज्ञकं च। अथोन्नतादून-युताच्चरेण क्रमादुदग्दहिणगोलयोर्ज्या। स्यात्सूत्रमेतद्गुणितं द्युमौर्व्या व्यासार्धभक्तं च कलाभिधा-नम्” शि॰
“दिवसस्य यद्गतं यच्च शेषं तयोर्यदल्पं तदुन्नत-संज्ञं ज्ञेयं तेनोन्नतेनोनीकृतं दिनदलप्रमाणं तन्नतसंज्ञंभवति। अथोन्नतादुन्नतकालादुत्तरगोले चरेणोनितात्-दक्षिणे युताद्या ज्या तत् सूत्रम् सा सूत्रसंज्ञेत्यर्थः। तत् सूत्रं द्युज्यया गुणितं त्रिज्यया भक्तं कला-सज्ञं भवति। अत्रोपपत्तिः। यस्मिन् काले छायासाध्या तस्मिन् काले स्वाहोरात्रवृत्ते यावतीभिर्घटि-काभिः क्षितिजादुन्नतो रविस्तासामुन्नतसंज्ञा। येन कालेनमध्याह्नान्नतस्तस्य नतसं ज्ञा। अथ चरेण मध्याह्नान्नतयुत-स्योन्नतकालस्य किल ज्या साध्या सा च ज्यामध्यावधि-र्भवति। स च मध्यप्रदेशोऽहोरात्रवृत्तस्योन्मण्डलसंपातेभवति। यत उन्मण्डलसंपाताभ्यामूर्ध्वमहोरात्रवृत्तस्या-र्धमधोऽर्धम्। अत उन्मण्डलावधिर्जीवा साध्या। क्षिति-जोन्मण्डलयोरन्तरं चरार्धम्। अतश्चरार्धेन वर्जितादुन्न-तादुत्तरगोले, दक्षिणे तु युतात्। यत उत्तरगोलेक्षितिजादुपर्युन्मण्डलम्” दक्षिणेऽधः। तस्मात् कालाद् याज्या साधिता सा त्रिज्यावृत्तपरिणता। सा च सूत्र-संज्ञा। अथ यदि त्रिज्यावृत्ते एतावती, तदा द्युज्या-वृत्ते कियतीत्यनुपातेन द्युज्यावृत्तपरिणता। सा च कला-संज्ञा। इदानीं प्रकारान्तरेण कला तस्याश्चेष्टयष्टि-माह” प्रमि॰।
“सूत्रं कुजीवागुणितं विभक्तं चरज्ययास्यादथवा कला सा। कला पलक्षेत्रजकोटिनिघ्नीतत्कर्णभक्ता भवतींष्टयष्टिः” शि॰।
“अथवा तत् सूत्रंकुज्यया गुणितं चरज्यया मक्तं सत् कला मवति। साकलाष्टधा पलक्षेत्रकोटिभिर्गुण्या स्वस्वकर्णेन भाज्या[Page1789-b+ 38] फलमष्टधेष्टयष्टिर्भवति। अत्रोपपत्तिः। अत्र चरज्या-कुज्ये त्रिज्याद्युज्यापरिणते। अतस्ताभ्यां चानुपातः। यदि चरज्यया कुज्या लभ्यते तदा सूत्रेण किमिति। फलं कला। सा कलाऽहोरात्रवृत्ते ज्या। सा पल-वशादक्षकर्णवत् तिरश्चींनां जाता। अथ तस्याःकोटिसूत्रमात्रमानेयम्। तत्रानुपातः। यदि पलक्षेत्र-कर्णेन तत्कोटिर्लभ्यते तदा कलाकर्णेन किमिति। फलमुन्मण्डलशङ्कृग्रसमसूत्रादुपर्यर्कबिम्बादध ऊर्ध्वंकोटिरूपं भवति। तस्येष्टयष्टिसंज्ञा” प्रमि॰।
“स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा। श्लेष्मणावेष्टिताश्चापि कलाभागांस्तु तान् विदुः। धात्वाशयान्तरेधातोर्यःक्लेदस्त्वधितिष्ठति। देहोष्मणाभिपक्वश्च सा कलेत्य-भिधीयते” भावप्र॰ उक्ते देहस्थे धात्वाशयान्तरस्थे

७ धातुक्लेदभेदे तद्भेदाश्च तत्रैवोक्ताः।
“आद्या मांसधराप्रोक्ता द्वितीया रक्तधारिणी। मेदोधरा तृतीया तुचतुर्थी श्लेष्मधारिणी। पञ्चमी च मलं धत्ते षष्ठी पित्त-धरा मता। रेतोधरा सप्तमी स्यादिति सप्त कलाः स्मृताः”

८ एकमात्रात्मकलघुवर्ण्णे
“षड्विषमेऽष्टौ समे कलास्ताश्चसमेऽस्युर्नो निरन्तराः। न समात्र पराश्रिता कला”
“सर्वगुर्वन्तमध्यादिगुरवोऽत्र चतुष्कलाः। ज्ञयाश्च-तुर्लघूपेता पञ्चार्य्यादिषु संस्थिताः” इति चवृत्तर॰
“ऋणप्रयोगे मूलधनादधिके आयत्वेनाधमर्ण्णेनउत्तमर्णाय दीयमाने

९ वृद्धिरूपे (सुद) पदार्थे मेदि॰।
“मासे शतस्य यदि पञ्च कलान्तरं स्यात्” लीला॰

१० स्त्री-रजसि

११ नौकायां

१२ कपटे च विश्वः।

१३ गीतादिविद्याभेदेसा च चतुःषष्टि

६४ विधा शैवतन्त्रोक्ता यथा--

१ गीतम्

२ वाद्यम्

३ नृत्यम्

४ नाट्यम्।

५ आलेख्यम्

६ विशोषकच्छेद्यम्

७ तण्डुलकुसुमयलिविकाराः

८ पुष्पास्तरणम्

९ दशनवसना-ङ्गरागाः

१० मणिभूमिकाकर्म

११ शयनरचनम्

१२ उद-कवाद्यम्

१३ उदकघातः

१४ चित्रायोगाः

१५ माल्यग्रथनविकल्पाः

१६ केशशेखरापीडयोजनम्

१७ नेपथ्ययोगाः

१८ कर्णपत्रभङ्गाः

१९ गन्धयुक्तिः

२० भूषणयोजनम्

२१ इन्द्रजालम्

२२ कौचुमारयोगाः

२३ हस्तलाघवम्

२४ चित्रशाकापूपभक्ष्यविका-रक्रिया

२५ पानकरसरागासवयोजनम्

२६ सूची-वापकर्म

२७ वीणाडमरुकसूत्रक्रीडा

२८ प्रहेलिका

२९ प्रतिमा

३० दुर्वचकयोगाः

३१ पुस्तकवाचनम्

३२ नाटिकाख्यायिकादर्शनम्

३३ काव्यसमस्यापूरणम्[Page1790-a+ 38]

३४ पट्टिकावेत्रवाणविकल्पाः

३५ तर्कूकर्माणि

३६ तक्षणम्

३७ वास्तुविद्या

३८ रूप्यरत्नपरीक्षा

३९ धातुवादः

४० मणिरागज्ञानम्

४१ आकरज्ञानम्

४२ वृक्षायुर्वेदयोगाः

४३ मेषकुक्कुटलावकयुद्धविधिं

४४ शुकसारिकाप्रलापनम्

४५ उत्सादनम्

४६ केशमार्जनकौशलम्

४७ अक्षरमुष्टिकाकथनम्

४८ म्लेच्छितक विकल्पाः

४९ देशभाषाज्ञानम्

५० पुष्पशकटिकानिमित्तज्ञानम्

५१ (अत्र निमित्तज्ञा-नमिति पृथक् केचित् पठन्ति)। यन्त्रमातृका

५२ धारणमातृका

५३ सम्पाट्यम्

५४ मानसी काव्य-क्रिया

५५ क्रियाविकल्पाः

५६ छलितकयोगाः

५७ अभिधानकोषच्छन्दोज्ञानम्।

५८ वस्त्रगोपनानि

५९ द्यूतविशेषः

६० आकर्षणक्रीडा

६१ बालकक्रीडनकानि

६२ वैनायिकीनां विद्यानां ज्ञानम्

६३ वैजयिकीनांविद्यानां ज्ञानम्

६४ वैतालिकीनां विद्यानां ज्ञानम् इतिभाग॰

९४

५ अ॰

२८ श्लो॰ टीकायां श्रीधरलिखिताः। क्वचित्पुस्तके सूचीवापकर्म्मसूत्रक्रीडेत्येकं पदम् तदुत्तरंवीणाडमरुकवाद्यानीति। वैतालिकीनामित्यत्र वैयासिकी-नामिति च पाठो दृश्यते।
“अहोरात्रैश्चतुःषष्ट्या संयतौतावतीः कलाः” भाग॰

१० ,

४५ ,

२८ ।
“चतुःषष्ट्यङ्गमद-दत् कलाज्ञानं ममाद्भुतम्” भा॰ अनु॰

१८ अ॰।
“अधिगत कलाकलापकम्” कांद॰।
“चतुःषष्टिकला-विद्या ईश्वरीप्रीतिवर्द्धनम्” गायत्रीकवचम्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कला [kalā], [कल्-कच्] A small part of anything; स एष संवत्सरः प्रजापतिः षोडशकलास्तस्य Bṛi. Up.1.5.14; विन्देम देवतां वाचममृतामात्मनः कलाम् U.1.1; a bit, jot; कलामप्यकृतपरि- लम्बः K.34; सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् Pt.2. 59; Ms.2.86,8.36; a sixteenth part; यथा कलं यथा शफं यथा ऋणं संनयामसि Rv.8.47,17; a symbolic expression of the number sixteen; Hch.

A digit of the moon (these are sixteen); जगति जयिनस्ते ते भावा नवेन्दु- कलादयः Māl.1.36; Ku.5.71; Me.91.

Interest on capital (consideration paid for the use of money); घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः Śi.9.32. (where कला means 'digits' also).

A division of time variously computed; one minute, 48 seconds, or 8 seconds. Mb.1.25.14;12.137.21.

The 6th part of one thirtieth part of a zodiacal sign, a minute of a degree.

Any practical art (mechanical or fine); there are 64 such arts, as music, dancing &c. मातृवदस्याः कलाः Mbh. on P.IV.1.9. (See कामधेनु टीका on काव्यालङ्कारसूत्र 7.)

Skill, ingenuity.

Fraud, deceit.

(In Prosody) A syllabic instant.

A boat.

The menstrual discharge.

A term for the seven substrata of the elements of the human body; (they are: आद्या मांसधरा प्रोक्ता द्वितीया रक्तधारिणी । मेदोधरा तृतीया तु चतुर्थीं श्लेष्मधारिणी ॥ पञ्चमी च मलं धत्ते षष्टी पित्तधरा मता । रेतोधरा सप्तमी स्यात् इति सप्त कलाः स्मृताः ॥

An atom.

A term for the embryo.

A fleshy part near the tail of the elephant (also कलाभागः); Mātaṅga L.3.2.

Enumeration.

A form (स्वरूप); लीलया दधतः कलाः Bhāg. 1.1.17.

Prowess (शक्ति); संहृत्य कालकलया कल्पान्त इदमीश्वरः Bhāg.11.9.16.

Comp. अन्तरम् another digit.

interest, profit; मासे शतस्य यदि पञ्च कलान्तरं स्यात् Līlā. -अयनः a tumbler, a dancer (as on the sharp edge of a sword). -आकुलम् deadly poison.-केलि a. gay, wanton. (-लिः) an epithet of Kāma.-क्षयः waning (of the moon); R.5.16. -धरः, -निधिः, -पूर्णः the moon; अहो महत्त्वं महतामपूर्वं विपत्तिकाले$पि परो- पकारः । यथास्यमध्ये पतितो$पि राहोः कलानिधिः पुण्यचयं ददाति ॥ Udb. -न्यासः a tattooing person's body with particular mystical marks. -भृत् m.

the moon. कला च सा कान्तिमती कलाभृतः Ku.5.71.

an artist &c.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कला f. See. कलाbelow.

कला f. ( etym. doubtful) a small part of anything , any single part or portion of a whole , esp. a sixteenth part RV. viii , 47 , 17 TS. S3Br. Mn. etc.

कला f. a digit or one-sixteenth of the moon's diameter Hit. Katha1s.

कला f. (personified as a daughter of कर्दमand wife of मरीचिBhP. )

कला f. a symbolical expression for the number sixteen Hcat.

कला f. interest on a capital (considered as a certain part of it) S3is3. ix , 32

कला f. a division of time (said to be 1/900 of a day or 1-6 minutes Mn. i , 64 Hariv. ; or 1/1800 of a day or 0-8 minutes Comm. on VP. ; or 2 minutes and 26 54/201 seconds Sus3r. ; or 1 minute and 35 205/301 , seconds , or 8 seconds BhavP. )

कला f. the sixtieth part of one-thirtieth of a zodiacal sign , a minute of a degree Su1ryas.

कला f. (in prosody) a syllabic instant

कला f. a term for the seven substrata of the elements or धातुs of the human body (viz. flesh , blood , fat , phlegm , urine , bile , and semen ; but according to हेमचन्द्र, रस, " chyle " , अस्थि, " bone " , and मज्जन्, " marrow " , take the place of phlegm , urine , and bile) Sus3r.

कला f. an atom (there are 3015 कलाs or atoms in every one of the six धातुs , not counting the रस, therefore in all 18090)

कला f. (with पाशुपतs) the elements of the gross or material world Sarvad.

कला f. an embryo shortly after conception(See. कलन)

कला f. a designation of the three constituent parts of a sacrifice (viz. मन्त्र, द्रव्य, and श्रद्धाNi1lak. on MBh. [ ed. Bomb. ] xiv , 89 , 3 )

कला f. the menstrual discharge L.

कला f. any practical art , any mechanical or fine art (sixty-four are enumerated in the शैवतन्त्र[ T. ] ; the following is a list of them: गीतम्, वाद्यम्, नृत्यम्, नात्यम्, आलेख्यम्, विशेषक-च्छेद्यम्, तण्डुल-कुसुम-बलिविकाराः, पुष्पा-स्तरनम्, दशन-वसना-ङ्गरागाः, मणि-भूमिका-कर्म, शयन-रचनम्, उदक-वाद्यम्, उदक-घातः, चित्रा योगाः, माल्य-ग्रन्थन-विकल्पाः, केश-शेखरा-पीडयोजनम्, नेपथ्य-योगाः, कर्ण-पत्त्र-भङ्गाः, गन्ध-युक्तिः, भूषण-योजनम्, इन्द्रजालम्, कौचुमार-योगाः, हस्त-लाघवम्, चित्रशाका-पूप-भक्ष्य-विकार-क्रिया, पानक-रसरागा-सव-योजनम्, सूचीवाप-कर्म, वीणा-डम-रुक-सूत्र-क्रीडा, प्रहेलिका, प्रतिमा, दुर्वचकयोगाः, पुस्तक-वाचनम्, नाटका-ख्यायिका-दर्शनम्, काव्य-समस्या-पूरणम्, पट्टिका-वेत्रबाण-विकल्पाः, तर्कू-कर्माणि, तक्षणम्, वास्तु-विद्या, रूप्य-रत्न-परीक्षा, धातु-वादः, मणि-राग-ज्ञानम्, आकर-ज्ञानम्, वृक्षा-युर्-वेद-योगाः, मेष-कुक्कुट-लावक-युद्ध-विधिः, शुक-सारिका-प्रलापनम्, उत्सादनम्, केश-मार्जन-कौशलम्, अक्षर-मुष्टिका-कथनम्, म्लेछितक-विकल्पाः, देश-भाषा-ज्ञानम्, पुष्प-शकटिका-निमित्त-ज्ञानम्, यन्त्र-मातृका, धारण-मातृका, संपाट्यम्, मानसी काव्य-क्रिया, क्रिया-विकल्पाः, छलितकयोगाः, अभिधान-कोष-च्छन्दो-ज्ञानम्, वस्त्र-गोपनानि, द्यूत-विशेषः, आकर्षण-क्रीडा, बालक-क्रीडनकानि, वैनायिकीनां विद्याणां ज्ञानम्, वैजयिकीनां विद्यानां ज्ञानम्Page261,2 ; See. also Va1tsy. i , 3 , 17 ) R. Pan5cat. Bhartr2. etc.

कला f. skill , ingenuity

कला f. ignorance

कला f. a low and sweet tone Ba1lar.

कला f. a boat L.

कला f. a N. given to दाक्षायणीin the region near the river चन्द्रभागाMatsyaP.

कला f. N. of a grammatical commentary.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a स्वर शक्ति। Br. IV. ४४. ५७.
(II)--a daughter of Kardama married to मरीचि; bore two sons, कश्यप and पूर्णिमन्. भा. III. २४. २२; IV. 1. १३.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KALĀ I : A measure of time. See under Kālamāna.


_______________________________
*6th word in left half of page 367 (+offset) in original book.

KALĀ II : Art. The sixtyfour arts are as under;-- (1) Gīta (music). (2) Vādya (instrumental music). (3) Nṛtya (Dancing). (4) Nāṭya (histrionics). (5) Citra (painting). (6) Accunirmāṇa (making of types). (7) Puṣpanirmāṇa (flower-gardening). (8) Pūmetta- racanā (artistic flower laying). (9) Dehālaṅkaraṇa (Dressing). (10) Gṛhālaṅkaraṇa (furnishing of houses). (11) Śayyānirmāṇa (making of beds). (12) Jalataraṅga (music with water). (13) Jalavādya (music on water). (14) Vividhaveṣadhāraṇa (wearing different kinds of dresses). (15) Mālānirmāṇa (making of flower gar- lands). (16) Keśālaṅkāra (hair dressing). (17) Vastra- dhāraṇa (wearing of dresses). (18) Karṇabhūṣaṇa- nirmāṇa (making of ear-ornaments). (19) Sugandha- puṣpasañcayana (collection of sweet-smelling flowers). (20) Alaṁkṛtāhāra (decorating food articles). (21) Indrajāla (magic). (22) Bhaṅgīkaraṇa (beautification). (23) Karaśucīkaraṇa (cleaning of the hands). (24) Modakanirmāṇa (making of sweet-meats). (25) Pānīya- nirmāṇa (making of drinks). (26) Tailoring. (27) Jālanirmāṇa (making of nets). (28). Riddle. (29) Akṣaraśloka (competition in the reciting of poems according to certain rules). (30) Arthaviśadīkaraṇa (clarification of meaning). (31) Granthapārāyaṇa (reading of books). (32) Nāṭakadarśana (enacting of plays). (33) Samasyā pūraṇa (part of a verse, generally the last line, proposed by one person to be completed by another as a trial of skill). (34) Nirmāṇa (making of cots of canes). (35) Carpentry. (36) Logic. (37) Vāstuvidyā (science of building homes). (38) Svarṇa- ratnapariśodhana (connoisseurship of gold and dia- monds). (39) Dhātusaṁskaraṇa (purification of metals). (40) Skill in distinguishing the colours of diamonds. (41) Khaniparīkṣana (finding out of mines). (42) Understanding trees and their value (Vṛkṣāyurveda- yoga). (43) Cockfight. (44) Understanding the langu- age of birds like Mainā. (45) Massaging. (46) Keśa- prakṣālana. (47) Akṣara muṣṭikā kathana. (48) Videśa- bhāṣāpaṭhana (Learning of foreign languages). (49) Deśabhāṣā-jñāna. (knowledge of the language of one's own country). (50) Bhāvikālapravacana (fortune- telling). (51) Yantranirmāṇa (making of machines). (52) Smaraṇaśaktipoṣaṇa (increasing memory power). (53) Śravaṇapāṭha (studying by hearing). (54) Nimi- ṣakavana (Instant poetry-making). (55) Kriyāvikalpa. (56) Kapaṭabhāva (False poses), (57) Chandojñāna (knowledge of different metres). (58) Vastragopana. (59) Game of dice. (60) Another gambling game. (61) Bālalīlā (entertainment of children). (62) Vinayācāra- krama (etiquette). (63) Vaitālikavidyājñāna (panegy- rics). (64) Kāryagrahaṇa (comprehension of facts) (Śabdasāgara).


_______________________________
*7th word in left half of page 367 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kalā denotes a fractional part, normally ‘one-sixteenth,’ in the Rigveda[१] and later.[२] It is often mentioned in connexion with Śapha, ‘one-eighth.’

  1. viii. 47, 17.
  2. Av. vi. 96, 3;
    xix. 57, 1;
    Taittirīya Saṃhitā, vi. 1, 10, 1;
    Maitrāyaṇī Saṃhitā, iii. 7, 7;
    Śatapatha Brāhmaṇa, iii. 3, 3, 1;
    xii. 8, 3, 13, etc.;
    Nirukta, xi. 12. Cf. Hopkins, Journal of the American Oriental Society, 16, 278;
    Zimmer, Altindisches Leben, 259.
"https://sa.wiktionary.org/w/index.php?title=कला&oldid=495341" इत्यस्माद् पुनः प्राप्तिः