सामग्री पर जाएँ

कुष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्ठम्, क्ली, (कुष्णाति रोगम् । कुष् + “हनि कुषीति” । उणां २ । २ । इति क्थन् ।) विषभेदः । इति हेमचन्द्रः ॥ औषधविशेषः । कुड् इति भाषा । तत्पर्य्यायः । व्याधिः २ पारिभव्यम् ३ वाप्यम् ४ पाकलम् ५ उत्पलम् ६ । इत्यमरः । २ । ४ । १२६ ॥ आप्यम् ७ । इति तट्टीका ॥ जरणम् ८ । इति रत्नमाला ॥ रुजा ९ गदः १० आमयः ११ पारिभद्रकम् १२ रामम् १३ वाणीरजम् १४ पावनम् १५ कुत्सितम् १६ पद्मकम् १७ गदा- ह्वम् १८ गदाह्वयम् १९ कौवेरम् २० भासु- रम् २१ । इति शब्दरत्नावली ॥ काकलम् २२ नीरुजम् २३ । इति जटाधरः ॥ “कुष्ठं रोगाह्वयं वाप्यं पारिभव्यं तथोत्पलम् । कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु । हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान्” ॥ * ॥ अथ कुष्ठभेदपुष्करमूलम् । “उक्तं पुष्करमूलन्तु पुष्करं पौष्करञ्च तत् । पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिदं जगुः ॥ पौष्करं कटुकं तिक्तमुष्णं वातकफज्वरान् । हन्तिशोथारुचिश्वासान् विशेषात् पार्श्वशूलनुत्” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । कटुत्वम् । उष्णत्वम् । तिक्तत्वम् । कफवायुकुष्ठरोगविसर्प- विषकण्डूखर्ज्जूदद्रुनाशित्वम् । कान्तिकारित्वञ्च । इति राजनिर्घण्टः ॥ श्वासकासज्ज्वरहिक्काना- शित्वम् । इति राजवल्लभः ॥ * ॥ स्वनामख्यातरोगः । कुट् इति भाषा । तत्पर्य्यायः । ज्ञेया पाण्योः कच्छुरुग्रास्फिचोश्च ॥ ८ ॥ स्फोटाः श्यावारुणा भासा विष्फोटाः स्युस्तनुत्वचः ॥ ९ ॥ रक्तं श्यावं सदाहार्त्ति शतारुः स्याद्बहुव्रणम् ॥ १० ॥ सकण्डुपिडका श्यावा बहुस्रावा विचर्च्चिका” ॥ ११ ॥ इति माधवकरः ॥

कुष्ठः, पुं, (कुष्णाति शरीरस्थशोणितं विकुरुते इति । निष्कर्षार्थकस्य कुष्धातोरत्र विकारार्थत्वं बोध्य- ते धातूनामनेकार्थत्वात् । कुष् निष्कर्षे + “हनि- कुषीति” । उणां २ । २ । इति क्थन् ।) स्वनामख्यातरोगः । तस्य निदानं पूर्ब्बलिखितम् । औषधं यथा । “सर्व्वकुष्टेषु वमनं रेचनं रक्तमोक्षणम् । वचावासापटोलानां निम्बस्य फलिनीत्वचः ॥ कषायो मधुना पीतो वातहृन्मदनान्वितः । विरेचनं प्रयोक्तव्यं त्रिवृद्दन्तीफलत्रिकैः ॥ मनःशिला मरीचानि तैलपाकं पयो हरेत् । सर्व्वकुष्ठानुलेपोऽयं शिवा पञ्चगुडोदनम् ॥ करञ्जैडगजौ कुष्ठं गोमूत्रेण प्रलेपतः । करवीरोद्वर्त्तनञ्च तैलाक्तस्य तु कुष्ठहृत् ॥ हरिद्रामलयं रास्ना गुडूच्येडगजस्तथा । आरग्वधः करञ्जश्च लेपः कुष्ठहरः परः ॥ मनःशिला विडङ्गानि वाकुची सर्षपस्तथा । करञ्जो मूत्रपिष्टोऽयं लेपः कुष्ठहरोऽर्कवत् ॥ विडङ्गैडगजाकुष्ठनिशासिन्धूत्थसर्षपैः । मूत्राम्बुपिष्टो लेपोऽयं दद्रुकुष्ठविनाशनः ॥ प्रपुन्नाटकवीजानि धात्री सर्ज्जरसः स्नूही । सौवीरपिष्टं दद्रू णामेतदुद्वर्त्तनं परम् ॥ आरग्वधस्य पत्राणि आरनालेन पेषयेत् । दद्रुकिट्टिमकुष्ठानि हन्ति सिध्मानमेव च ॥ उष्णा पीता वाकुची च कुष्ठजित् क्षीरभोजिनः । तिलाज्यत्रिफलाक्षौद्रव्योषभल्लातशर्कराः ॥ वृष्यः सप्तसमो मेध्यः कुष्ठहा कामचारिणः । विडङ्गत्रिफलाकृष्णाचूर्णं लीढं समाक्षिकम् ॥ हन्ति कुष्ठं कृमीन्मेहनाडीव्रणभगन्दरान् । यः खादेदभयारिष्टामलकानि तथा निशा ॥ स जयेत् सर्व्वकुष्ठानि मासादूर्द्ध्वं न संशयः । दह्यमानाच्युतः कुम्भे मूलगे खदिराङ्कुरः ॥ साक्षधात्रीरसक्षौद्रं हन्यात् कुष्ठं रसायनम् । धात्रीखदिरयोः क्वाथं पीत्वावल्गुजसंयुतम् ॥ शङ्खेन्दुधवलं श्वित्रं हन्ति तूर्णं न संशयः । पीत्वा भल्लातकं तैलं मांसव्याधिं जयेन्नरः ॥ सेवितं खादिरं वारि पानाद्यैः कुष्ठजिद्भवेत् । वासा गुडूची त्रिफला पटोलञ्च करञ्जकम् ॥ निम्बासनं कृष्णवेत्रं क्वाथकल्केन यद्युतम् । वज्रकं तद्धरेत् कुष्ठं शतं वर्षाणि जीवति ॥ स्वरसेन च दूर्व्वायाः पचेत्तैलं चतुर्गुणम् । कच्छुर्विचर्च्चिका पामा अभ्यङ्गादेव नश्यति ॥ द्रुमत्वगर्ककुष्ठानि लवणानि च मूत्रकम् । गण्डीरिका चित्रकैस्तैस्तैलं कुष्ठव्रणादिनुत्” ॥ इति गारुडे १७५ अध्यायः ॥ “कुष्ठेन्द्रयवसिद्धार्थनिशा दूर्व्वा च कुष्ठजिंत्” ॥ इति तत्रैव १७५ अध्यायः ॥ पीनसञ्च प्रतिश्यायं प्लीहानमुदरं तथा ॥ एतान् रोगान्निहन्त्याशु भास्करस्तिमिरं यथा” ॥ अमृतागुग्गुलुः । अयं वातरक्ते प्रशस्तः ॥ ५५ ॥ “निम्बामृतावृषपटोलनिदिग्धिकानां भागान् पृथग्दशपलान् विपचेद्घटेऽपाम् । अष्टांशशेषितरसेन सुनिश्चितेन प्रस्थं घृतस्य विपचेत् पिचुभागकल्कैः ॥ पाठाविडङ्गसुरदारुगजोपकुल्या- द्विक्षारनागरनिशामिषिचव्यकुष्ठैः । तेजोवतीमरिचवत्सकदीप्यकाग्नि- रोहिण्यरुष्करवचाकणमूलयुक्तैः ॥ मञ्जिष्ठयातिविषया वरया यमान्या संशुद्धगुग्गुलुपलैरपि पञ्चसंख्यैः । तत् सेवितं विधमति प्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥ नाडीव्रणार्व्वुदभगन्दरगण्डमाला- जत्रूर्द्ध्वसर्व्वगदगुल्मगुदोत्थमेहान् । यक्ष्मारुचिश्वसनपीनसकासशोष- हृत् पाण्डुरोगगलविद्रधिवातरक्तम्” ॥ इति पञ्चतिक्तघृतगुग्गुलुः ॥ ५६ ॥ * ॥ “श्वेतकरवीरमूलं विषांशकं साधितं गोमूत्रे ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्ठ नपुं।

कुष्ठः

समानार्थक:व्याधि,कुष्ठ,पारिभाव्य,वाप्य,पाकल,उत्पल

2।4।126।1।2

व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम्. शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

कुष्ठ नपुं।

श्वेतकुष्ठः

समानार्थक:कुष्ठ,श्वित्र

2।6।54।2।3

व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान्. कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्ठ¦ पुंन॰ कुष्णाति रोगम् क्ष--क्थन्। (कुड) प्रसिद्धे वृक्षभेदे
“कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु। हन्ति वातास्रवीसर्पकासकुष्ठमरुत्कफान्” भावप्र॰। तद्भेदास्तत्रैवोक्ता-यथा
“उक्तं पुष्करमूलं तु पौष्करं पुष्करं च तत्। पद्म-पत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः”। अयञ्च सुश्रुते ए-लादिकगणे एलातगरकुष्ठेत्यादिना, मुस्तकादिकगणे चमुस्ताहरिद्रेत्युपक्रमे विभीतककुष्ठेत्यादिना उक्तः।
“रोग-भेदे तत्स्वरूपनिदानभेदादि भावप्र॰ दर्शितं यथा
“विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च। भजतामा-गताञ्छर्द्दिवेगांश्चान्यान् प्रतिघ्नताम्। व्यायाममग्निता-पञ्चाप्यतिभुक्त्वानिषेविणाम्। शीतोष्णलङ्घनाहारान् क्रमंभुक्त्वा निषेविणाम्। वर्म्म श्रममयार्त्तानां द्रुतं शीताम्बु-सेविनाम्। अजीर्णाध्याशिनां चापि पञ्च कर्म्मापचारि-णाम्। नवान्नदधिमत्स्यादिलवणाम्लनिवेविणाम्। माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम्। व्यवायं चाप्य-जीर्णेऽत्ने दिवा निद्रानिषेविणाम्। विप्रान् गुरून् धर्ष-यतां पापं कर्म्म च कुर्वताम्। वातादयस्त्रयो दोषास्त्व-ग्रक्नं मांसमम्बुच। दूषयन्ति स कुष्ठानां सप्तको द्रव्य-संग्रहः। अतः कुष्ठानि जायन्ते सप्तधैकादशैवच”। विरोधीन्यन्नपानानि क्षीरमत्स्यादीनि व्याया-ममित्यादि। अतिभुक्त्वा व्यायामम्, अग्निसन्तापम्अग्निरुपलक्षणं सूर्य्यादिसन्तापञ्च निषेविणामिति। कृदत्तस्य योगे षष्ठी प्राप्ता द्वितीया तु मुनिवचगात्। एवभग्रेऽपि
“शीतोष्णं लङ्घानाहारानित्यादिष्वपि द्वि-तीया। क्रमं--विधिं, वर्मेत्यादि। घर्म्मार्त्तत्वेसति द्रुतमविश्रम्य पाने स्नाने शीताम्बु मेविनाम्। [Page2154-b+ 38] अजीर्णाध्याशिनां भुक्तेऽजीर्णे भुक्तवताम्। पञ्च-कर्म्मापचारिणां पञ्चकर्म्माणि वमनविरेकशल्यनिरु-हानुवासनानि तेषु कृतेषु अपचारिणाम्। नवान्नदधि-मत्स्यादि आहारादि सेविनाम्। व्यवायमित्यादि। अन्नेअजीर्ण विदग्धादिरूपे सति। व्यवायंमैथुनं निषेविणाम्। दिपानिद्रानिषेविण्णामिति भिन्नो हेतुः। घर्षयर्ताम् अ-भिभवताम्। दोषदुष्यसंग्रहार्थमाह। वातादय इयादि-शन्देन त्रिष्वपि प्रतीतेषु त्रय इति पदं सर्वेषु कुष्ठेषुत्रयाणामपि वातादोनां दुष्टत्वबोधनार्थम्। त्वक्, रस,अम्बु, लसीका। अथ संख्यामाह। अतः कुष्ठानामित्या-दि। अतः पूर्व्वोक्तदोषदूष्यसमुदायात्। सप्तधैकादश-धेति संख्याविच्छेदपाठेन सप्तानां महाकुष्ठत्वमेकादशानांक्षुद्रकुष्ठत्वं बोधयति। तत्र महाकुष्ठान्याह
“पूर्वं त्रिकंतथा सिध्मं ततः काकणकं तथा। पुण्डरीकर्क्षजिह्वाकेमहाकुष्ठानि सप्त च”। पूर्वत्रिकं कपालौदुम्बरमण्डला-ख्यम्। सिध्मशब्दोऽकारान्तो नपुंसकः। ननु कथंसिध्मस्य महाकुष्ठेषु गुणना सुश्रुतेन क्षुद्रकुष्ठेषु उक्तत्वात्घातुप्रविष्टं सिध्मं तु स्यान्महाकुष्ठनेव च। एवं विधखसिध्मस्य चरकेण महाकुष्ठेषु दर्शितत्वात्। एषां महाकु-ष्ठत्वञ्च शीघ्रमुत्तरोत्तरधात्यवगाहनात् उल्वणदोषजन्यत्वात्चिकित्सावाहुल्याच्च। अथ क्षुद्रकुष्ठान्वाह
“एककुष्ठंस्मृतं पूर्बंगजचर्म ततः स्मृतम्। ततश्चर्मदलं प्रोक्तं तत-श्चापि विचर्चिका। विपादिकाभिधा सैव पामाकच्छूस्ततःपरम्। दद्रूविस्फोटकिटिभालसकानि च वेष्टितम्। क्षूद्र-कुष्ठानि चैतानि कथितानि भिषग्वरैः”। नमु दद्रूः कथंक्षुद्रकुष्ठेषु गणिता? सुश्रुतेन महाकुष्ठेषूक्तत्वात्। उच्यतेअसितावगाढमूला दद्रूः सुश्रुतेन महाकुष्ठेषु उक्ता। असि-नेतराऽनवगाढमूला ददूः क्षुद्रकुष्ठमेव। एवं विधायादद्रवाश्चरकेण क्षुद्रकुष्ठेषु दर्शितत्वात्। कुष्ठानां त्रिदो-षजत्वेनैकत्वेऽपि दोषस्योल्वणतया सप्तधात्वमाह।
“कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः। सर्वेषु च त्रिदोषेषु व्यपदेशोऽधिकस्ततः”। सर्वेष्वपित्रिदोषेषु व्यपदेशः कषालादिसंज्ञास्वेषामष्टाद-शरूपं यदधिकत्वं ततः कुष्ठानि सप्तधा, दोषैः कथं-भूतैः पृथग्द्वन्द्वैः समागतैःसङ्गतैः संमिलितैरिति या-वत्। अस्यायमर्थः। किमपि कुष्ठं वातोल्वणं, किमपिपित्तोल्वणं, किमपि कफोल्वणं, किमपि वातश्चेष्मोल्वणं,किमपि पित्तश्लेष्मोल्वणम्, किमपि वातपित्तोल्वलं, किमपि[Page2155-a+ 38] त्रेदोषोल्वणमिति। पूर्बरूपमाह
“अतिश्लक्ष्णः स्वरस्पर्शःस्वेदास्वेदविवर्णता। दाहः कण्डूस्त्वचिस्वापस्तोदःकोठोन्नतिः क्लमः। व्रणानामधिकं शूलं शीव्रोत्पत्तिश्चि-रस्थितिः। रूढानामतिरूक्षत्वं निमित्तेऽल्पेऽपि कोप-नम्। रोमहर्षोऽसृजः कार्स्न्यं कुष्ठलक्षणमग्रजम्”। अतिश्लक्ष्णः अतिमृदुः। अथवा घर्मादिप्रसङ्रेऽपि स्वेदा-भावः। त्वचिस्वापः स्पर्शाज्ञता। शीघ्रोत्पत्तिः व्रणा-नाम्।
“दूषयन्ति श्लथीकृत्य निश्चलत्वादितस्ततः। त्वचःकुर्वन्ति वैवर्ण्यं दोषाः कुष्ठमुशन्ति तम्”। येनोल्वणेनयत्कुष्ठमुत्पद्यते तदाह।
“वातेन कुष्ठं कापालं पित्ते-नौदुम्बरं कफात्। मण्डलाख्यं विचर्ची च ऋक्षाख्यंवातपित्ततः। चर्मैककुष्ठकिटिभं सिध्मालसविपादिकाः। वातश्लेष्मोद्भवाः पित्तकफाद्दद्रूशतारुषी। सपुण्डरीकवि-स्फोदपामाचर्मदलं तथा। सर्वैरेवोल्वणैर्दोषैराहुः काक-णकं बुधाः”। विचर्ची च कफादित्यन्वयः। पुण्डरीकंसविस्फोटं पामा चर्मदलं तथा पित्तकफादित्यन्वयः। अथ महाकुष्ठानां मध्ये कपालस्य लक्षणमाह।
“कृष्णा-रुणं कपालाभं यद्रूक्षं परुषं तनु। कपालं तोदब-हुलं तत् कुष्ठं विषमं स्मृतम्”। किञ्चित्कृष्णाः किञ्चि-दरुणाः ये कपालाः स्फुटितमृत्पात्रखण्डाः‘ खपरा’ इतियावत् तद्वर्णं, परुषं खरस्पर्शम्। तनु तनुत्वक् कपा-लम् कपालसंज्ञं, विषमं दुश्चिकित्स्यम्। औदुम्बरमाह
“उदुम्बरफलाभासं कुषमौदुम्बरं वदेत्। रुग्दाहराग-कण्डूभिः परीतं रोमपिञ्जरम्”। औदुम्बरफलाकारम्। मण्डलमाह
“श्वेतरक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नम-ण्डलम्। कृच्छ्रमन्योन्यसंसक्तं कष्ठं मण्डलमुच्यते। श्वेतरक्तं किञ्चिच्छेतं किञ्चिद्रक्तम्। स्थिरं चिकित्सांविना अविनाशि, स्न्यानम् आर्द्रं स्निग्धं सस्वेदम्। उत्सन्नमण्डलम् उद्गतमण्डलम्। कृच्छ्रं कष्टसाध्यम्। अन्योन्यसंसक्तं परस्परमिलितम्। अथ सिध्ममाह
“श्वेतताम्नञ्च तनु यत् रजोघृष्टं विमुञ्चति। प्रायेणोरसितत् सिध्ममलाबूकसुमोपमम्”। श्वेतताम्रं श्वेतं ताम्रम्। तनु तनुत्वक्। प्रायेणोरसि प्रायशब्दादन्यत्रापि बोद्ध्यव्यम्काकणमाह
“यत्काकणन्तिकावर्णमपाकं तीव्रवेदनम्। त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिव्यति। काकणन्तिका गुञ्जा। गुञ्जावर्ण्णत्वेन मध्ये कृष्णमन्तेरक्तम्। अथवा मध्येरक्तं मध्यान्ते कृष्णम्। अपाकं स्वभावात्। त्रिदोषलिङ्गम्--सर्व्वेषां कुष्ठानां त्रिदोषजत्वेऽपि उल्व-[Page2155-b+ 38] णदोषत्रयलिङ्गम्। पुण्डरीकमाह
“तत् श्वेतं रक्तपर्य्यन्तंपुण्डरीकदलोपमम्। सरागञ्चैव सोत्सेधं पुण्डरीकंकफोल्वणम्” पुण्डरीकदलोपमं पुण्डरीकं श्वेतकमलंतत्पत्रोपमम् सरागञ्चैव। अत एव श्वेतं, रक्तपर्य्यन्तंअन्तेरक्तम्। सरागमिति अन्ते लोहित्याधिक्यबोधनार्थम्। सोत्सेधम् उद्गतम्। ऋक्षजिह्वकमाह
“कर्कशं रक्तपर्य्यन्तमन्तःश्यावं सवेदनम्। यदृक्षजिह्वा-संस्थानमृक्षजिह्वं तदुच्यते”। रक्तपर्य्यन्तं अन्तेरक्तम्अन्तःश्यावं मध्येधूववर्णम्। ऋक्षजिह्वासंस्थानम्ऋक्षो भल्लूकस्तस्य जिह्वाकृति। अथ क्षुद्रकुष्ठानां मध्येएककुष्ठगजचर्म्मणोर्लक्षणमाह
“अस्वेदनं महावासंयन्मत्स्यशकलोपमम्। तदेककुष्ठं चर्म्माख्यं बहुलङ्ग-जचर्म्मवत्”। महावासं महास्थानम्। मत्स्यशक-लोपमम् अत्र शकलशब्देन लक्षणया त्वगुच्यते। तेन चक्राकारमभ्रकपत्रसदृशं भवति। एककुष्ठमितिक्षुद्रकुष्ठेषु मुख्यत्वात्। चर्म्माख्यं गजचर्म्माख्वम् बहुलंस्थूलम् गजचर्म्मवत् रूक्षं कृष्णं च। अथ चर्म्मदल-माह
“रक्तं सशूलं कण्डूमत् सस्फोटं दलयत्यपि। त-च्चर्म्मदलमाख्यातं स्पर्शस्यासहनञ्च यत्”। दलयत्यपिविदारयत्यपि चर्मेति शेषः। विचर्च्चिकामाह
“सकण्डूःपिडका श्यावा बहुस्तावा विचर्च्चिका”। पिडका क्षुद्रपि-डका। ननु क्षुद्रकुष्ठानां कथमेकादशत्नं विपादिकाया-द्वादशत्वसम्भवात् उच्यते। विचर्च्चिकैव पादयोर्भवन्तीविपादिका तेन संख्यानबिरेकः। अतएव भोजः
“दाल्यतेत्वक् वरा रूक्षपाण्योर्ज्ञेया विचर्च्चिका। पादे विपादिकाक्षेया स्थामनेदाद्विचर्ञ्चिका”। दाल्यते विदार्य्यते। केचिद्विचर्च्चिकातो विपादिकां भिन्नामाहुः। विपादिका-माह
“वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्”। पाणि-पादस्फुटनं पाण्योः पादयोश्च स्फुटनं विदारणं येन तत्। पामामाह
“सूक्ष्मा बाह्याः स्रावयन्त्यः प्रदाहाः पामे-त्युक्ताः पिडकाः कण्डुमत्यः”। पिडकाः पीडयन्तीतिपिडका इति क्षिवकादित्वात् निपात्यतेः कच्छुमाह
“सैत्र स्फोटैजीवदाहैरुपेता ज्ञेया पाण्योः कच्छुरुग्रा-स्फिचोश्च”। सैव पामा स्फोटैः महद्भिः, स्फिचौ--प्रोथौ। ददूमाह
“सकण्डुरागपिडकं दद्रूमण्डलमुद्गतम्”। ददू-मण्डलरूपेणोत्पत्तिमत्, उद्गतम् उच्छ्रूनम्। विस्फोटमाह
“स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः”। किटिभमाह
“श्यामं किणस्परस्पर्शपरुषं किटिभंस्मृतम्। [Page2156-a+ 38] किणखरस्पर्शम् किणः शुष्कव्रणस्थानं तद्वत्कर्क्कशस्पर्शम्। परुषं रूक्षम्। अलसकमाह
“कण्डू-मद्भिः सरागैश्च गण्डैरलसकं चितम्” गण्डैः महापि-डकाभिः चितं वेष्टितम्। शतारुराह
“रक्तश्यावं स-दाहार्त्ति शतारुः स्यात् बहुव्रणम्”। अथ सप्तधातुगतानांकुष्टानां लक्षणान्याह तत्र रसगतस्य लक्षणमाह
“त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यञ्च जायते। त्वक्स्वापोरोमहर्षश्च स्वेदस्यातिप्रवर्त्तनम्”। त्वक्शब्देनात्र रसउच्यते धातुप्रस्तावात्। त्वक्स्थत्वाच्च त्वक्स्वापः स्प-र्शाज्ञत्वम्। त्वक्स्वाष इत्यादिकं केचिद्रक्तगतस्य लिङ्गंमन्यन्ते। रुधिरगतमाह
“कण्डूर्बिपूयकश्चैव कुष्ठे शो-णितसम्भवे”। विपूयकः विशेषेण पूयः। अथ मांस-गतमाह
“बाहुल्यं वक्रशोषश्च कार्कश्यं पिडकोद्गमः। तोदः स्फोटः स्थिरत्वञ्च कुष्ठे मांससमाश्रिते”। बाहुल्यंकुष्ठस्य पुष्टिः। पिडकोद्गमः क्षुद्रपिडकोद्गमः स्फोटःवृहत्पिडका। स्थिरत्वम् असञ्चारित्वम्। मेदोगत-माह
“कौण्यङ्गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम्। क्षतप्रसारो लिङ्गानि पूर्वमुक्तानि यानि च। मेदःस्थानगते लिङ्गं प्रागुक्तानि तथैव च”। कौण्यं हस्तनाशः। अङ्गानां सम्भेदः अङ्गभङ्गः, क्षतसर्पणं क्षतप्रसरणं, पू-र्वोक्तानि रक्तमांसगतलिङ्गानि। अस्थिमज्जागतमाह
“नासाभङ्गोऽक्षिरागश्च क्षतेषु क्रिमिसम्भवः। स्वरोप-घातः पीडा च भवेत् कुष्ठेऽस्थिमज्जगे”। शुक्रगतमाह
“दम्पत्योः कुष्ठबाहुल्याद् दुष्टशोणितशुक्रयोः। यदपत्यंतयोर्जातं ज्ञेयं तदपि कुष्ठितम्”। ननु शुद्धशोणित-शुक्रयोरेव दम्पत्योर्गर्भसम्भवः दुष्टशोणितशुक्रयोःकथम् अपत्योत्पत्तिः? यत आह शुश्रुतः
“का-मान्मिथुनसंयोगे शुद्धशोणितशुक्रजः। गर्मः सञ्जायतेनार्य्याः स जातो बाल उच्यते” अथान्यच्च
“वातादि-दुष्टरेतसोऽपत्योत्पादनेऽसमर्थाः” इति। उच्यते। गर्भो-ऽत्र शुद्धो बोद्धव्यः। अशुद्धगर्भोऽपि दुष्टशोणितशुक्र-योरपि भवति गतकर्णान्धबधिरादीनां सम्भवात्। शोणितमार्त्तवम्। कुष्ठितं कुष्ठं सञ्जातमस्येति तार-कादित्वादितच्। शुक्रार्त्तवगतं कुष्ठमपत्येन व्यज्यतेइति तात्पर्य्यम्। कुष्ठेषु उल्वणवातादिदोषलिङ्गमाह
“स्वरं श्यावारुणंरूक्षं वातात् कुष्ठं सवेदनम्। पित्तात्प्रकुपितं दाहरागस्रावान्वितं मतम्। कफात् क्लेदं घनंस्रिग्धं सकण्डूशैत्यगौरवम्। द्विलिङ्गं द्वन्द्वजं कुष्ठं त्रि-[Page2156-b+ 38] लिङ्गं सान्निपातिकम्”। स्वरं कर्कशम्। श्यावारुणंश्यावं वा अरुणं वा। प्रकुपितं पूतिक्लेदबहुलम्। क्लेदम् आर्द्रतायुक्तम् घनं पुष्टम्। साध्यत्वादिकमाह
“साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकञ्च यत्। मेदोगंद्वन्द्वजं जाप्यं वर्ज्यं मज्जास्विसंश्रितम्। क्रिमिक्वद्दाहमन्दा-ग्निसंयुक्तं यत् त्रिदोषजम्”। वातश्लेष्माधिकञ्च यत्एतेन सिध्मैककुष्ठगजचर्म्मविपादिकाकिटिभालसकानिसाध्यानि। मज्जागतं शुक्रगतमप्यसाध्यस्। कृमि-र्बाह्योऽपि वर्ज्य इत्यन्वयः। अथारिष्टमाह
“प्रभिन्नंप्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम्। पञ्चकर्म्मगुणातीतंकुष्ठं हन्तीह कुष्ठिनम्”। प्रभिन्नं विदीर्णम्। हतस्वरंघर्घरस्वरम्। पञ्चकर्म्मगुणातीतम् असञ्जातवमनादिपञ्च-कर्म्मगुणम्। अथ त्वग्दुष्टिसाम्यात् कुष्ठमेदत्वाच्चात्रैव श्वि-त्रमाह
“कुष्ठैकसम्भवं श्वित्रं किलासं चारुणं भवेत्। निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्”। कुष्ठैकसम्भवंकुष्ठेन सहैकः समानः सम्भवो निदानं यस्व तत्। अथश्वित्रस्य भेदमाह किलासञ्चारुणं भवेत्। श्वित्रमेव रक्तमां-साश्रयात्किलासमरुणञ्च भवेदित्यर्थः। ननु कुष्ठस्य श्वित्र-स्य च को भेद इत्यत आह निर्द्दिष्टमपरिस्वावीति श्वित्रम-परिस्रावि भवति कुष्ठन्तु स्रावि अथ च त्रिधातूद्भवसं-श्रयमिति। त्रयोधातवो वातपित्तकफास्तेभ्यःपृथग्भू-तेभ्य उद्भवो यस्य तत् श्वित्रम्। अथ वा त्रयोधातवो र-क्तमांसमेदांसि संश्रयोऽधिष्ठानं यस्य तत्। कुष्ठन्तु सा-न्निपातिकं सर्वधातुगतं भवतीति भेदः। दोषभेदेन लक्ष-णभेदानाह
“वाताद्रूक्षारुणं, पित्तात् तानं कमलपत्र-वत्। सदाहं रोमविध्वंसि, कफात् श्वेतं घनं गुरु। सकण्डूकं क्रमाद्रक्तमांसमेदःसु चादिशेत्। वर्णेनैवेदृगुभयंकुष्ठं तच्चोत्तरोत्तरम्”। अरुणमीषल्लोहितम्। कमल-पत्रवदित्यनेन भध्ये श्वेतमन्तेलोहितं बोधयति। घनंपुसम्। क्रमाद्रक्तमांसमेदःसु चादिशेत्। तथा च चरकः
“अरुणं रक्तमेवान्ते ताम्रं पित्ते पलङ्गते। श्वेतं श्लेष्मणिमेदःस्थे श्वित्रं कुष्ठं परापरमिति” उभयं द्विविधमपिश्वित्रं वर्णेन ईट्टगेव। अरुणं ताम्रं श्वेतञ्च दोषभेदात्। द्विविधं दोषजं व्रणजं च। तथा च भोजः
“श्वित्रं तु द्वि-विधं विद्याद्दोषजं व्रणजं तथेति”। श्वित्रं साध्यमसाध्य-ञ्चाह
“अशुक्लरोमबहुलमसृग्युक्तमथो नवम्। अनग्नि-दग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा”। अबहुलंतनु। अन्यच्च
“गुह्यपाणितलौष्ठेषु जातमप्यचिरन्त-[Page2157-a+ 38] नम्। वर्ज्जनीयं विशेषेण किलासं सिद्धिमिच्छता”। गुह्यं मेहनम् भगञ्च तलमत्र पदतलं, तत्र जातं सुश्रुते-नान्तेजातमिति सामान्यतो निर्द्दिष्टत्वात्। अप्यचिरन्त-नम् नवमपि। कुष्ठस्य संसर्गजत्वप्रसङ्गेनान्यानपि संसर्ग-जान् रोगानाह
“प्रसङ्गाद्गात्रसंस्पर्शान्निःश्वासात् सहभोजनात्”। प्रसङ्गोमैथुनम्।
“एकशय्याशनाच्चापि वस्त्र-माल्यानुलेपनात्। कण्डूकुष्ठोपदंशश्च भूतोन्मादव्रणज्वराः। औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम्। म्रियते यदिकुष्ठेन पुनर्जातस्य तद्भवेत्। अतो निन्दितरोगोऽयं कुष्ठंकष्टं प्रकीर्त्तितम्”। एतावता कुष्ठिनां कुष्ठ सर्वथा प्रती-करणीयं न तु उपेक्षणीयम्”। ऐतेषां मध्ये केषाञ्चित् महापातकचिह्नत्वं केषाञ्चि-दतिपातकचिह्नत्वं केषांचिच्चोपपातकचिह्नत्वं स्पृत्यादौप्रसिद्धम्। अष्टादशानां मध्ये अष्टानामेव पापरोगतयास्मृतौ तद्युक्तस्यादाह्यत्वादिकमुक्तं तच्च शु॰ त॰ निर्ण्णार्तं यथाभविष्यपुराणीयमध्यतन्त्रस्य षष्ठाध्याये
“शृणु कुष्ठगणंविप्र! उत्तरोत्तरतोगुरुम्। विचर्च्चिका तु दुश्चर्म्मा चर्च्च-रीयस्त तीयकः। विकर्च्चुर्व्रणताम्रौ च कृष्णश्वेते तथाष्ट-कम्। एषां मध्ये तु यः कुष्ठी गर्हितः सर्वकर्म्मसु। व्रण-वत् सर्वगात्रेषु गण्डे भाले तथा नसि”। तथा
“मृते चप्रोथथेत्तीर्थे अथ वा तरुमूलके। न पिण्डं नोदकं कुर्य्या-न्नच दाहक्रियाञ्चरेत्। षण्भासीयस्त्रिमासीयोमृतः कुष्ठीकदा चन। यदि स्नेहाच्चरेद्दाह यतिचान्द्रायणं चरेत्”। यतिचान्द्रायाशक्तौ पादोनधेनुचतुष्टयं देयम्। अतिपा-तकशेषफलत्वादप्येवं युक्तं यथाह विष्णुः
“अथ न-रकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये लक्ष-णानि भवन्ति कुध्यतिपातकी, ब्रह्महा यक्ष्मा, सुरापःश्याबदन्तकः, सुवर्णहारी कुनखी, गुरुतल्पगोदुश्चर्म्मा,इत्यादि। श्यावदन्तकः स्वभावकृष्णदन्तकः प्रधानदन्तद्वय-मध्यवर्त्तिक्षुद्रदन्तः। प्रधानदन्तोपरि दन्तान्तरमितिकेचित्। कुनखी सङ्कुचितनखः, दुश्चर्मा स्वभावतः अ-नावृतमेद्रः,। अत एव महारोगिणोयावज्जीवमशौच-माह कूर्मपुराणम्
“क्रिधाहीनख मूर्स्पस्य महारोगिणएव च। यथेष्टाचरणस्याहुर्मरणान्तमशौचकम्”। क्रि-याहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः। मूर्खस्यगायत्रीरहितस्य। सार्थगायत्रीरहितस्येति रुद्रधरः। महारोगिणः पापरोगाष्टकान्यतमरोगवतः ते च उ-न्मादस्त्वगदोषो राजयक्ष्म{??}श्वासोमधमेहोभगन्दरः उद-[Page2157-b+ 38] रोऽश्मरी इत्यष्टौ पापरोगानारदोक्ताः। यथेष्टाचारणस्यद्यूतवेश्याद्यासक्तस्य। एवञ्च भविष्यपुराणोक्तं यति-चान्द्रायणप्रायश्चित्तमकृतप्रायश्चित्तानां कुष्ठ्यादीनां दाहेबोद्धव्यम् अन्यथैषां प्रायश्चित्तोपदेशोविफलःस्याद्। यथाहविष्णुः‘ कुनखी श्यावदन्तश्च द्वादशरात्रं कृच्छ्रं चरित्वो-द्धरेयातां तद्दन्तनखौ’ इति अत्र द्वादशरात्रं पराकरूपंतत्र पञ्च धेनवः नतु प्राजापत्यं तद्दाहकर्चुर्यतिचान्द्रा-यणेन विषमशिष्टत्वात् अत्र बहूनाषेकघर्माणामिति वच-नादाकाङ्क्षितत्वाच्च कुष्ठ्यादीनामपि प्रायश्चित्तम्। अतएवप्रायश्चित्तविवेकेऽप्युक्तमेवं दुश्चर्मादिष्वप्यूह्यमिति। महा-पातकादतिपातकस्य गुरुत्वात् तच्छेषेऽपि प्रायश्चित्तं द्विगु-णम्। कर्मविपाके शातातपः
“महापातकजं चिह्नंसप्तजन्मसु जायते। बाधते व्याधिरूपेण तस्य कृच्छ्रा-दिभिः शमः। कुष्ठञ्च राजयक्ष्मा च प्रमेहोग्रहणीतथा”। अत्र कुष्ठपदमल्पकुष्ठपरमिति पूर्वेणाविरोधः”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्ठ¦ n. (-ष्ठं)
1. Leprosy, of which eighteen varieties are enumerated, seven great or severe, and eleven of minor importance.
2. A plant, a kind of costus, (Costus speciosus:)
3. A sort of poison. E. कुष् to extract, and क्थम् Unadi affix, or कु bad, ill and स्थ being, staying.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्ठः [kuṣṭhḥ] ष्ठम् [ṣṭham], ष्ठम् [Uṇ.2.2]

Leprosy (of which there are 18 varieties); गलत्कुष्ठाभिभूताय च Bh.1.9.

A sort of poison.

A kind of tree; Costus specious, see कोष्ठ; Rām.2.94.24.

(-m.) cavity of the loin. -ष्ठा The mouth or opening of a basket.

Comp. अरिः sulphur.

N. of several plants (Mar. भोवरी, रुई, कडू पडवळ इ.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुष्ठ mn. (fr. 1. कु+ स्थPa1n2. 8-3 , 97 )the plant Costus speciosus or arabicus (used as a remedy for the disease called तक्मन्) AV. Kaus3. 35 R. ii , 94 , 23 Sus3r.

कुष्ठ mn. the plant Saussurea auriculata

कुष्ठ m. (= ककुन्दर)cavity of the loin [Comm. ; but perhaps = कुष्ठिका] VS. xxv , 6

कुष्ठ m. = कुष्ठिका(taken as measure equal to " one-twelfth ") MaitrS. iii , 7 , 7

कुष्ठ n. leprosy (of which eighteen varieties are enumerated , i.e. seven severe and eleven less so) Sus3r. Bhartr2. i , 89 Katha1s.

कुष्ठ n. a sort of poison L.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Kuṣṭha is the name of a plant (Costus speciosus or arabicus)[] which is prominent in the Atharvaveda.[] It grew especially on the mountains, along with the Soma, on the high peaks of the Himālaya (Himavant) where the eagles nest, and was thence brought east to men.[] Like Soma, it is said to have grown in the third heaven under the famous Aśvattha tree, where the gods were wont to assemble, and thence it was brought in a golden ship.[] As a remedy, it held the highest place among herbs, being called by the auspicious names Nagha-māra and Naghā-riṣa, and styled the offspring of Jīvala and Jīvalā, the ‘lively’ ones.[] It cured headache (śīrṣāmaya), diseases of the eyes, bodily affliction,[] but especially fever--hence called ‘feverdestroyer’ (takma-nāśana)--and consumption (Yakṣma). From its general properties it was also named ‘all-healing’ (viśvabheṣaja).[] Its aromatic qualities were apparently known, as it is classed with ‘salve’ (Āñjana) and ‘nard’ (Nalada).[]

2. Kuṣṭha.--In one passage of the Maitrāyaṇī Saṃhitā[] there is a series of fractions, Kalā, Kuṣṭha, Śapha, Pad, which appear to denote one-sixteenth, one-twelfth, one-eighth, and one-fourth respectively.

  1. Or Saussurea auriculata, Hillebreandt. Vedische Mythologie, 1, 65.
  2. v. 4;
    vi. 102;
    xix. 139.
  3. v. 4, 1. 2. 8;
    xix. 39, 1.
  4. v. 4, 3-6;
    vi. 75, 1. 2;
    xix. 39, 6-8.
  5. v. 4, 1;
    xix. 39, 4.
  6. v. 4, 10.
  7. xix. 39, 9.
  8. vi. 102, 3.

    Cf. Grohmann, Indische, Studien, 9, 420 et seq.;
    Zimmer, Altindisches Leben, 63, 64;
    Bloomfield, Hymns of the Atharvaveda, 415, 680;
    Whitney, Translation of the Atharvaveda, 227, 228.
  9. iii. 7, 7. Cf. Bōhtlingk, Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=कुष्ठ&oldid=496881" इत्यस्माद् प्रतिप्राप्तम्