दधि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दधि, क्ली, (दधातीति । धा + “भाषाyam धाञ्कृ- सृगमिजनिनमिभ्यः ।” ३ । २ । १७१ । इत्यस्य वार्त्तिकोक्त्या किः स च लिड्वत् ।) श्रीवासः । वसनम् । इति शब्दरत्नावली ॥ क्षीरोत्तरा- वस्थाभावः । दै इति भाषा । तत्पर्य्यायः । क्षीरजम् २ मङ्गल्यम् ३ विरलम् ४ । इति राजनिर्घण्टः ॥ पयस्यम् ५ । घनेतरत् दधि द्रप्स्यम् । इत्यमरः ॥ अस्य गुणाः । अम्लत्वम् । गुरुत्वम् । वातदोषशमनत्वम् । संग्राहित्वम् । मूत्रावहत्वम् । बल्यत्वम् । शोफकफार्त्त्यरुच्य- शमनत्वम् । वह्निशान्तिकारित्वम् । कासश्वास- पीनसविषमज्वरशीतज्वरहितत्वम् । रक्तोद्रेक- शुक्रवृद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ उष्ण- त्वम् । दीपनत्वम् । स्निग्धत्वम् । कषायानुरस- त्वम् । पाकेऽम्लत्वम् । पित्तमेदःप्रदत्वम् । मूत्र- कृच्छ्रप्रतिश्यायातीसाररुचिकार्श्येषु शस्तत्वञ्च । इति भावप्रकाशः ॥ स्वादुत्वम् । हृद्यत्वम् । रोचनत्वम् । मङ्गल्यत्वम् । इति राजवल्लभः ॥ * ॥ अथ पक्वदुग्धदधिगुणाः । रुच्यत्वम् । स्निग्धत्वम् । उत्तमगुणत्वम् । पित्तानिलापहत्वम् । सर्व्व- धात्वग्निबलवर्द्धनत्वञ्च ॥ * ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दधि¦ त्रि॰ धा--कि द्वित्वम्।
१ धारणकर्त्तरि किप्रत्ययान्तत्वेनतद्योगे न कर्म्मणि षष्ठी
“सृष्ट्वा दधिं सारुकमेतदर्चकान्” मुग्ध॰। दध--इन्।
२ दुग्धविकृतिभेदे, (दै)
३ वस्त्रेच न॰ हेमच॰। दधिगुणभेदादिकं भावप्र॰ उक्तं यथा(
“दध्युष्णं दीपनं स्निग्धं कषायानुरसं गुरु। पाकेऽम्लं श्वासपित्तास्रशोथमेदःकफपदम्। मूत्रकृच्छ्रेप्रतिश्याये पीनसे विषमज्वरे। अतीसारेऽरुचौकार्श्ये शस्यते बलशुक्रकृत्। अथ दधिभेदाः।
“आदौ मन्दं ततः स्वादु स्वाद्वम्लञ्च ततःपरम्। अम्लञ्चतुर्थमत्यम्लं पञ्चमं दधि पञ्चधा। अथ मन्दादीनां लक्षणानि गुणाश्च। मन्दं दुग्धंयदव्यक्तरसं किञ्चिद्घनं भवेत्। मन्दं स्यात् सृष्ट-विण्मूत्रं दोषत्रयविदाहकृत्। यत्सम्यग् घनतां यातंव्यक्तं स्वादुरसं भवेत्। अव्यक्ताम्लरसं तत्तु स्वादु विज्ञै-रुदाहृतम्। स्वादु स्यादत्यभिष्यन्दि वृष्यं मेदःकफा-पहम्। वातघ्नं मधुरं पाके रक्तपित्तप्रसादनम्। स्वाद्वम्लसान्द्रं मधुरं कषायानुरसं भवेत्। स्वाद्वम्लस्यगुणा ज्ञेयां सामान्यदधिवज्जनैः। यत्तिरोहितमाधुर्य्यंव्यक्ताम्लत्वं तदम्लकम्। अम्लन्तु दीपनं पित्तरक्तश्लेष्मविवर्द्धनम्। तदत्यम्ल दन्तरोमहर्षकण्ठादिदहकृत्। अत्यम्लं दीपनं रक्तवातपित्तकरं परम्”। गोदधिगुणाः
“गव्यं दधि विशेषेण स्वाद्वम्लञ्च रुचिप्रदम्। पवित्रं दीपनंहृद्यं पुष्टिकृत{??}वनापहम्। उक्तं दशानशेषाणां[Page3459-b+ 38] मध्ये गव्यं गुणाधिकम्। माहिषदधिगुणाः। माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत्। स्वादु-पाकमभिष्यन्दि वृष्यं गुर्वस्रदूषकम्”। छागीदधि-गुणाः
“आजं दध्युत्तमं ग्राहि लघु दोषत्रयापहम्। शस्यते श्वासकासार्शःक्षयकार्श्येषु दीपनम्”। पक्कदुग्ध-दधिगुणाः। पक्वदुग्धभवं रुच्यं दधि स्निग्धं गुणो-त्तमम्। पित्तानिलापहं सर्वधात्वग्निबलबर्द्धनम्। निःसरदुग्धदधिगुणाः। असारं दधि संग्राहि शीतलंवातलं लघु। विष्टम्भि दीपनं रुच्यं ग्रहणीरोग-नाशनम्। गालितदधिगुणाः
“गालितं दधि सुस्निग्धंवातघ्नं कफकृद्गुरु। बलपुष्टिकरं रुच्यं मधुरं नाति-पित्तकृत्। शर्करादिसहितदधिगुणाः। सशर्करं दधिश्रेष्ठं तृष्णापित्तास्रदाहजित्। सगुडं वातनुद्वृष्यंवृंहणं तर्पणं गुरु। ” अथ रात्रौ दधिभोजननिषेधः। न नक्तं दधि भुञ्जीत नचाप्यघृतशर्करम्। नामुद्गसूपंनाक्षौद्रं नोष्णं नामलकैर्विना। अयमर्थः। रात्रौदधि न भुञ्जीत भुञ्जीत चेत्तदा अघृतशर्करममुद्गसूपंक्षौद्रमुष्णं विनामलकैश्च दधि न भुञ्जीत। तेन घृत-शर्करादियुक्तं दधि रात्रावपि भुञ्जीतेत्यर्थः। तथा च। शस्यते दधि नो रात्रौ शस्तञ्चाम्बुघृतान्वितम्। रक्त-पित्तकफोत्थेषु विकारेषु तु नैव तत्। तदम्बुघृता-न्वितमपि। अथर्तुविशेषेण विधिनिषेधौ। हेमन्तेशिशिरे चापि वर्षासु दधि शस्यते। शरद्ग्रीष्मवसन्तेषुप्रायशस्तद्विगर्हितम्। अथाविधिना दधिसेवने दोष-माह ज्वरासृकपित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान्। प्राप्नुयात् कामलाञ्चोग्रां विधिं हित्रा दधिप्रियः। अथ सरस्य मस्तुनश्च लक्षणं गुणाश्च। दध्नस्तूपरि योभागो घनः स्नेहसमन्वितः। स लोके सर इत्युक्तोदध्नोमण्डस्तु मस्त्विति। सरः स्वादुर्गुरुर्वृष्यो वात-वह्निप्रणाशनः। साम्लोवस्तिप्रशमनः पित्तश्लेष्म-विवर्द्धनः। मस्तु क्लमहरं बल्यं लघु भक्ताभिलाषकृत्। स्रोतोविशोधनं ह्लादि कफवृष्णानिलापहम्। अवृष्यंप्रीणनं शीघ्रं भिनत्ति मलसञ्चयम्। (
“दधि सुक्तेषु भोक्तव्यम् सर्वञ्च दधिसम्भवम्” मनुः।
“विना लवणतोयाभ्यां{??}धि मासेन जीर्य्यतिः”
“कफ-पित्तकरं दधि” इति वैद्य॰। दधिशब्दस्य दुग्धविकाररूपार्थत्वे क्लीवत्वेन तदर्थे उक्त-पुंस्कत्वाभावात् दादावचि न पुंवद्भावः। धारणकर्तृ-[Page3460-a+ 38] रूपार्थपरत्वे तु प्रवृत्तिनिमित्तसाम्यात् उक्तपुंस्कत्वात्क्लीवत्वेऽपि वा पुंवद्रूपं दधये दधिने कुलाय इत्यादि। अस्य उरःप्रभृतिषु पाठात् बहुव्रीहौ नित्यं कप् बहु-दधिको यज्ञ इत्यादि।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दधि¦ mfn. (-धिः-धिः-धि) Holding, having, who or what has or possesses. n. (-धि)
1. Milk curdled or coagulated spontaneously by heat, or by the addition of buttermilk; it is an article of food of general use, and is held in high estimation amongst the Hindus, and is con- sidered, medicinally, as the remedy or preventative of most disorders.
2. Resin, turpentine; (all the synonimes are common to these two senses.)
3. A house, an abode. E. धा to have, कि affix, and the root reiterated.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दधि [dadhi], n. [दध्-इन्]
Coagulated milk, thick sour milk; क्षीरं दधिभावेन परिणमते Ś.B; दध्योदनः &c.
Turpentine.
A garment. -Comp. -अन्नम्, -ओदनम् boiled rice mixed with दधि; Y.1.289. -उत्तरम्, उत्तर- क(ग)म् the skim of curdled milk, whey. -उदः, -उदकः the ocean of coagulated milk. -कुल्या a stream of दधि; Rām.1.53.3. -कूर्चिका mixture of boiled and coagulated milk. -क्रा, -क्रावन् N. of a divine horse (personification of the morning sun); दधिक्रामग्निमुषसं च देवीम् Rv.1.11.1; दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः Rv.4.39.6. -घनः curds; P.III.3.77. Kāśi. -चारः a churning-stick. -जम् fresh butter. -धेनुः f. a cow represented by दधि (offered to priests); Bhāva. P.2 168. -फलः the wood-apple (कपित्थ). -मण़्डः, -वारिः n. whey. -मन्थनम् churning coagulated milk. -शोणः a monkey. -सक्तु m. (pl.) barley-meal mixed with coagulated milk. -सारः, -स्नेहः fresh butter. -स्वेदः buttermilk.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दधि n. (replaced in the weakest forms by धन्[ Pa1n2. 7-1 , 75 ]: instr. etc. ध्नाध्ने, ध्नस्; loc. धनिA1s3vGr2. i , 24 , 5 and S3vetUp. i , 5 , or ध्नि, [ ifc. ] Sus3r. vi , 40 , 150 )coagulated milk , thick sour milk (regarded as a remedy ; differing from curds in not having the whey separated from it) RV. etc.
दधि n. turpentine L.
दधि n. the resin of Shorea robusta L.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Dadhi, ‘sour milk,’ is repeatedly mentioned in the Rigveda[१] and later.[२] The Śatapatha Brāhmaṇa[३] mentions in order Ghrta (‘clarified butter’), Dadhi, Mastu, which Eggeling[४] renders ‘whey,’ and Āmikṣā, ‘curds.’ Dadhi often has the meaning of ‘curds’ also. It was used for mixing with Soma.[५]
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दधि न.
प्रत्यग्र (ताजे गरम दुग्ध) को जमाने के लिए प्रयुक्त दही, भा.श्रौ.सू. 1.14.4; आहुति के रूप में प्रदेय, भा.श्रौ.सू. 11.18.11, दर्श में यजमान द्वारा इसका भक्षण किया जाता है, भा.श्रौ.सू. 4.22.4; आग्रयण में ‘हविस्’ के रूप में प्रयुक्त, 6.14.14; पशुयाग में यह पृषदाज्य का घटक है और चातुर्मास्य में भी, 8.8.2; दीक्षा में यजमान अन्य भोज्यों के साथ इसे भी खाता है, 1०.4.6 (सोमयाग)।
- ↑ viii. 2, 9;
ix. 87, 1, etc. - ↑ Av. iii. 12, 7;
iv. 34, 6;
Taittirīya Saṃhitā, ii. 5, 3, 4, etc.;
Pañcaviṃśa Brāhmaṇa, xviii. 5, 12, etc. - ↑ i. 8, 1, 7. Cf. Jaiminīya Brāhmaṇa, ii. 348.
- ↑ Sacred Books of the East, 12, 218.
- ↑ Dadhyāśir, ‘mixed with sour milk,’ is an epithet of Soma in Rv. i. 5, 5;
137, 2;
v. 51, 7;
vii. 32, 4. Cf. Hillebrandt, Vedische Mythologie, 1, 219 et seq.
Cf. Zimmer, Altindisches Leben, 227.