दिव्य

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिव्यम्, क्ली, (दिवे वने भवम् । दिव + यत् ।) लवङ्गम् । इति मेदिनी । ये, ३१ ॥ हरिचन्द- नम् । इति राजनिर्घण्टः ॥ शपथः । तद्भेदा यथा, दिव्यतत्त्वे बृहस्पतिः । “धटोऽग्निरुदकञ्चैव विषं कोषश्च पञ्चमम् । षष्ठञ्च तण्डुलाः प्रोक्ताः सप्तमं सप्तमाषकम् ॥ अष्टमं फलमित्युक्तं नवमं धर्म्मजं स्मृतम् । दिव्यान्येतानि सर्व्वाणि निर्द्दिष्टानि स्वयम्भुवा ॥” एषां विवरणं तत्तच्छब्दे केषाञ्चित् परीक्षाशब्दे च द्रष्टव्यम् ॥ * ॥ गङ्गाजलस्पर्शपूर्ब्बकशपथस्त्रत्र मिथ्याकथने दोषश्च यथा, -- “ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनांवरः । गङ्गातोयं करे कृत्वा स्वीकारञ्च चकार सः ॥ गङ्गातोयमुपस्पृश्य मिथ्या यदि वदेज्जनः । स याति कालसूत्रञ्च यावद्बै ब्रह्मणो वयः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥ गङ्गाजलादिस्पर्शपूर्ब्बकशपथे दोषो यथा । “तथा गङ्गोदकं ताम्रं गोमयं गोरजस्तथा । सत्यं वा यदि वासत्यं यदि दिव्यं करोति यः ॥ कर्त्ता च रौरवं याति तथा कारयिता प्रिये ! । उभयोः पुनरावृत्तिर्नरयोनिषु नास्ति वै ॥ तस्यास्ति पुनरावृत्तिर्व्याघ्रशूकरयोनिषु । दिव्यं कर्त्तुः कारयितुर्जपपूजा वृथा यथा ॥ गायत्त्रीरहितस्यापि नरकञ्चोत्तरोत्तरम् ॥” इति गायत्त्रीतन्त्रे पञ्चमपटलः ॥

दिव्यः, त्रि, (दिवि भवः । यत् ।) मनोज्ञः । दिवि भवः । इति मेदिनी । ये, ३१ ॥ (यथा, विष्णु- पुराणे । १ । ९ । १०४ । “दिव्यमालाम्बरधरा स्नाता भूषणभूषिता । पश्यतां सर्व्वदेवानां ययौ वक्षःस्यलं हरेः ॥”)

दिव्यः, पुं, (दिवे वने भवः । दिव + यत् ।) यवः । गुगगुलुः । इति राजनिर्घण्टः ॥ भावविशेषः । यथा, -- “शृणु भावत्रयं देवि ! दिव्यवीरपशुक्रमात् । दिव्यस्तु देववत् प्रायो वीरश्चोद्धतमानसः ॥ सत्यत्रेतार्द्धपर्य्यन्तं दिव्यभावविनिर्णयः । त्रेताद्वापरपर्य्यन्तं वीरभाव इतीरितम् ॥ मद्यं मत्स्यं तथा मांसं मुद्रां मैथुनमेव च । श्मशानसाधनं भद्रे ! चितासाधनमेव च ॥ एतत्ते कथितं सर्व्वं दिव्यवीरमतं प्रिये ! । दिव्यवीरमतं नास्ति कलिकाले सुलोचने ! ॥” इति कालीविलासतन्त्रम् ॥ नायकभेदः । यथा, -- “यत्तु तासां दिव्या अदिव्या दिव्यादिव्याभेदेन गणनया द्बिपञ्चाशदधिकशतयुतसहस्रं भेदा भवन्ति । दिव्या इन्द्राण्यादयः । अदिव्या मालत्यादयः । दिव्यादिव्या द्रौपद्यादय इति वदन्ति तन्न तत्र अवस्थाभेदेनैव नायिकानां भेदात् जातिभेदेन भेदस्वीकारे अनन्तनायिका- नामिव नायकानामप्यानन्त्यं स्यात् । तथा हि इन्द्रादयो दिव्याः । अदिव्या माधवादयः । दिव्यादिव्या अर्ज्जुनादयः ।” इति रसमञ्जरी ॥ (सात्वतस्य पुत्त्राणामन्यतमः । यथा, भागवते । ९ । २४ । ६ । “भजमानो भजिर्दिव्यो वृष्टिर्देवावृधोऽन्धकः । सात्वतस्य सुताः सप्त महाभोजश्च मारिष ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिव्य¦ त्रि॰ दिवि भवः यत्।

१ स्वर्गभवे

२ आकाशभवे

३ उत्-पातभेदे पु॰
“संसूचयन्ति दिव्यान्तरीक्षभौमास्तदुत्पाताः” वृ॰ सं॰ उक्तम् उत्पातशब्दे

११

२३ पृ॰ दृश्यम्।

४ यमे

५ गुग्-गुलौ च पु॰ राजनि॰। कालीविलासतन्त्रोक्ते

६ भावभेदे
“शृणु भावत्रयं देवि! दिव्यवीरपशुक्रमात्। दिव्यस्तुदेववत्प्रायो वीरंश्चोद्धतमानसः। सत्यत्रेतार्द्धपर्यन्तंदिव्यभावविनिर्णयः। त्रेताद्वापरपर्यन्तं वीरभावइतीरितम्। मद्यं मत्स्यं तथा मांसं मुद्रां मैथुनमेवच। श्मशानसाघनं भद्रे! चितासाधनमेव च। एतत्तेकथितं सर्वं दिव्यवीरमतं प्रिये। दिव्यवीरमतं नास्तिकस्विकाले सुलोचने!”।

७ नायकभेदे रसमञ्जरी इन्द्रादयोदिव्यनायकाः।

८ लवङ्गे न॰ मेदि॰

९ हरिचन्दने न॰ राज-नि॰।

१० गङ्गाजलादिस्पर्शपूर्वकशपथभेदे
“ब्राह्मणोवचनं श्रुत्वा ज्ञानेशोज्ञानिनां वरः। गङ्गातोयं करे कृत्वास्वीकारञ्च चकार सः। गङ्गातोयमुपस्पृश्य मिथ्या यदिव्रदेज्जनः। स याति कालसूत्रञ्च यावद्वै ब्रह्मणोवयः”। ब्रह्म॰ वै॰ प्र॰ ख॰।
“तथा गङ्गोदकं ताम्रं गोमयं गोरज-स्तथा। सत्यं वा यदि वाऽसत्यं यदि दिव्यं करोति यः। कर्त्ता। च गौरवं याति तथा कारयित्वा प्रिये!। उभयोःपुनरावृत्तिनरयोनिषु नास्ति वै। तस्यास्ति पुनरावृत्ति-र्व्याघशूकरयोनिषु। दिव्यं कर्तुः कारयितुर्जपपूजा वृथातथा। गायत्रीरहितस्यापि नरकञ्चोत्तरोत्तरम्” इतिगायत्रीतन्त्रे

५ पट॰। व्यवहारे प्रतिज्ञातार्थसाधनायवादिप्रतिवादिनोरन्यतराभ्यां कर्त्तव्ये

११ लौकिकसाक्ष्या-दिप्रमाणासद्भावे तुलादिपरीक्षाभेदे। तद्भेदादिः तत्रत्यसामान्यविधिच्च वीरमि॰ दिव्यमातृकायां दर्शितो यथा(
“तत्र दिव्यन्नाम मानुषप्रमाणाभावे यन्निर्णायकंयत् तदुच्यते। यत्तु स्मृतितत्त्वे एवकारस्थले अपिशब्ददत्त्वा मानुषप्रमाणसत्त्वेऽपि यत्र दिव्याङ्गीकारस्तत्रापितद्भवतीति प्रयोजनमुक्त तदयुक्तम्
“एषामन्यतमाभावेदिव्यान्यतममिति” वदता याज्ञवल्क्येन
“प्रमाणहीने वादेतु निर्दोषा दैविकी क्रियेति” वदता वृहस्पतिना च
“यु-क्तिष्वप्यसमर्थासु शपथैरेनमर्दयेदिति” नारदेनापि मानुष-प्रमाणासत्त्वे एव दिव्यस्य विधानात्। तत्र॰ वृहस्पतिःदिव्यवेदानाह
“घटोऽग्निरुदकर्ञ्चैव विषं कोषस्तुपञ्चमः। शरन्तु तण्डुलाः प्रोक्ताः सप्तमन्तप्तमाषकम्। [Page3589-b+ 38] अष्टमं फालमित्युक्तं नवमन्धर्मजन्तथा। दिव्यान्येतानिसर्वाणि निर्दिष्टानि स्वयम्भुवेति”। नारदः
“युक्ति-ष्वप्यसमर्थासु शपथैरेनमर्दयेत्। अर्थकालबलापेक्षमग्न्यम्बुसुकृतादिभिः। धटोऽग्निरुदकं चैव विषं कोशस्तुपञ्चमः। उक्तान्येतानि दिव्यानि विशुद्ध्यर्थं महा-त्मभिः। सन्दिग्धेऽर्थेऽभियुक्तानां परीक्षार्थं महात्म-नाम्। प्राक्तानि नारदेनेह सत्यानृतविशुद्धये” इति। अर्दयेत्पीडयेत्। अर्थापेक्षत्वं सिसाधयिषितार्थस्याल्पत्व-महत्त्वानुरूपमित्यर्थः। नन्वेषामपि शपथानां मानुष-प्रमाणाभाव एव निर्णायकत्वेन दिव्यत्वात् कथं दिव्यानिनवेत्यभिधानम्। तथा च शङ्खः
“तत्र दिव्य नामतुलाधारणं विषाशनमप्सु प्रवेशो लोहधारणमिष्टापूर्त्त-प्रदानमन्यांश्च शपथान् कारयेदिति”। तांश्च शपथानाहवृहस्पतिः
“सत्यवाहनशस्त्राणि गोवीजकनकानि च। देवव्राह्मणपादांश्च पुत्रदारशिरांसि च। एते च शपथाःप्रोक्ताः स्वल्पार्थे सुकराः सदेति”। नारदोऽपि
“सत्य-वाहनशस्त्राणि गोरीजकनकानि च। देवतापितृ-पादांश्च दत्तानि सुकृतानि च। स्पृशेच्छिरांसि पुत्राणांदाराणां सुहृदान्तथा। अभियोगेषु सर्वेषु कोशपान-मथापि वा। इत्येते शपथाः प्रोक्ता मनुना स्वल्प-कारणे” इति। सत्यम्। अत्र समनन्तरभाविनिर्णय-निमित्तस्य दिव्यत्वेन विवक्षितत्वात्। तादृशत्वञ्च घटा-दीनामेव न तु शपथानान्तेषां कालान्तरभाविनिर्णय-निमित्तत्वात्। नन्वेवं कोशस्य कथन्तेषु ग्रहणमितिचेत् सत्यम्। तस्य तेषु पाष्ठोमहाभियोगविषयकत्व-साम्यात् सावष्टम्भाभियोगविषयत्वसाम्याच्च। वस्तुतस्तुशपथानामपि मारदादिवचनानुसाराद्गोबलीवर्दन्यायेनदिव्यत्वाभ्युपगमेन नवशब्दस्योपलक्षणत्वात्। तथाचनारदः
“युक्तिष्वप्यसमर्थासु शपथैरेनमदेयेत्। अर्थ-कालबलापेक्षमग्न्यम्बुसुकृतादिभिः। घटोऽग्निरुदक-ञ्चैव विषं कोशश्च पञ्चमः। उक्तान्येतानि दिव्यानिविशुद्ध्यर्थं महात्मभिः”। दिव्यं नाम तुलारोहणम्। विषाशनमप्सु प्रवेशो लोहधारणमिष्टापूर्त्तप्रदानमन्यासशपथान् कारयेत्। मनुः
“असाक्षिकेषु त्वर्थेषु मिथोविवदमानयोः। अविदंस्तत्त्वतः सत्य शपथेनापि लम्भ-येत्। अग्निं वाहारवेदेनमप्सु चैनन्निमज्जयेत्। पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत् पृथक्। यस्मा-द्देवैः पयुक्तानि पुष्करार्थे महात्मभिः। परस्मरविशुद्ध्यर्थं[Page3590-a+ 38] तस्माद्दिव्यानि नामतः”। असाक्षिकेष्विति मानुषप्रमाष्ण-रहितेष्वित्यर्थः। उद्दिष्टानां दिव्यानां षध्ये तुलादीनिमहाभियोगे प्रयोक्तव्यानि तथा च याज्ञवल्क्यः
“तुलाग्न्यापो विषं कोगो दिव्यामीह विशुद्धये। महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि। रुच्चावान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः”। अत्राम्बिशब्देनतप्तायापिण्डादयो गृह्यन्ते। णीर्षकं लक्षणया जय-पराजयनिमित्तो दण्डः तत्प्रयुक्तदण्डभागित्वं वा रुच्याइच्छया। इतरः अभियुक्ताभियोक्त्रोरन्यतरः। इतरःशिरोवर्त्तयेत् दण्डं स्वीकुर्यादित्यर्थः। ननु
“कोश-मल्पेऽपि दापयेत्” इति स्वल्पाभियोगेऽपि कोशस्यविधानात् कथं महाभियोगेष्वेतानीति चेन्न तस्य तुला-दिषु पाठोऽवष्टम्भाभियोगेऽपि प्राप्त्यर्थः। न तुमहाभिवोगेष्वेवेति नियमार्थः।
“अन्यथा कोशस्य शङ्का-भियोग एव प्राप्तिः स्यात्।
“अवष्टम्भाभियुक्तान-धटादीनि विनिर्दिशेत्। तण्डुलाश्चैव कोशश्च शङ्का-स्वेतौ नियम्य चेति पितामहस्मरणात्। अवष्टम्भःशीर्षकस्थः। अवष्टम्भोऽत्र निश्चय इति स्मृतितत्त्वे। यदा शीर्षकस्थोऽभियोक्ता न स्यात्तदा एतानि दिव्यानिन स्यादिति तथा च नारदः
“शिरोवर्त्ती यदा नम्यात्तदा दिव्यं न दीयते” इति। दिव्यदानेनियममाह पितामहः
“अभियोक्ता शिरःस्थानेदिव्येषु परिकीर्त्त्यते। अभियुक्ताय दातव्यं दिव्यंश्रुतिनिदर्शनात्”। कात्यायनोऽपि
“न कश्चि-दभियोक्तारं दिव्येषु विनियोजयेदिति”। अभियुक्तायदातव्यमित्यस्यापवादं रुच्यावान्यतर इत्यनेनाह याज्ञ-वल्क्यः। नारदोऽपि
“परियोक्ता शिरःस्थाने सर्वत्रैकः प्रकल्पितः। इच्छया त्वितरः कुर्य्यादितरो वर्त्तये-च्छिरः” इनि। क्वचिद्विषयविशेषे शिरोविनापि दिव्यंदेयमित्याह याज्ञवल्क्यः
“विनापि शीर्षकात् कुर्य्या-न्नृपद्रोहेऽथ पातके” इति। शीर्षकाद्विनापि पराजय-प्रयुक्तदण्डभागिनोऽभियोक्तुरभावेऽपि। पातके ब्रह्म-हत्यादौ। कात्यायनोऽपि
“पार्थिवैः शङ्कितानाञ्चनिर्दिष्टानाश्च दस्युमिः। आत्मशुद्धिपराणाञ्च दिव्यंदेयं शिरो विनेति”। कालिकापुराणेऽपि
“परदाराभि-शामे च चोर्य्यागम्यागमेषु च। महापातकशस्ते चस्थाद्दिव्य नृरसाहमे। पिप्रतिपत्तौ विवादेऽवर्णस्यस्यापने कृते। तत्रैव स्थापयेद्दिव्यं शिरःपूर्बं मही-[Page3590-b+ 38] पतिः। परदाराभिमर्षे च बहवो यत्र वादिनः। शिरोहीनम्भवेद्दिव्यमात्मनः शुद्धिकरणादिति”। विप्रति-पत्तौ परदारगमनाद्यभियोगरूपायां, विवादे ऋणा-दानादिविषये अवर्णोऽवबादः। परदाराभिमर्षे चेतिचौर्य्यादीनानप्युपलक्षणम्। विष्णुः
“राजद्रोहे साहमेच विना शीर्षप्रवर्त्तनादिति”। विषयविशेषेषु दिव्य-विशेषानाह संग्रहकारः
“धटादीनि विषन्तानि गुरु-ष्वर्थेषु दापयेत्”। पितामंहोऽपि
“अवष्टम्भाभि-युक्तानां धटादीनि विनिर्दिशेत्। तण्डुलाश्चैव कोशश्चशङ्कास्वेतौ नियोजयेत् इति”। कात्यायनः
“शङ्का-विश्वाससन्धाने विभागे रिक्थिनां सदा। क्रियासमू-हकर्तृत्वे धटादीनि विनिर्दिशेत्”। क्रियासमूहकर्त्तृत्वे सम्भूयैकक्रियाकारित्वे। पितामहोऽपि
“विश्रम्भे सर्वशङ्कासु सन्धिकार्य्ये तथैव च। एषुकोशः प्रदातव्यो नित्यं चित्तविशुद्धवे। शिरःस्थापिविहीनानि दिव्यादीनि विवर्द्धयेत्। धटादीनि विषा-न्तानि कोश एकः शिरः स्मृतः” इति। तण्डुलानांविपयं स एवाह
“चौर्य्ये तु तण्डुला देया नान्य-त्रेति विनिश्चयः” इति। अन्यत्र स्त्रीसंग्रहादौ न तुदत्तापह्नवे
“तदर्द्धार्द्धस्य तण्डुला” इति वक्ष्यमाण-कात्यायनवचनेन तण्डुलदिव्यस्य विधानात्। एतदल्प-चौर्य्यशङ्कायां वेदितव्यम्।
“चौर्य्येऽभिशङ्कायुक्तानांतप्तमाषो बिधीयते” इति महाचौर्य्यशङ्कायां तप्त-माषस्य तेनैव विधानात्। द्रव्यसङ्ख्यया दिव्यविशेषा-नाह विष्णुः
“अथ शपथक्रिया राजद्रीहादिषु यथा-कामनिक्षेपर्णस्तेयेष्वर्थप्रमाणादिति”। शपथो दिव्यम्। राजद्रोहादिषु यथाकामं राजेच्छानुरोधाद्दिव्यं निक्षे-पादिषु धनतारतम्यादित्यर्थः। वस्त्रादिविषयविवादे तुतन्मूल्यद्रव्यपरिमाणं ग्राह्यम्। वृहस्पतिराप
“विषसहस्रेऽपहृते पादोने च हुताशनः। त्रिभागोने चसलिलमर्द्धे देयो धटः सदा। धनुःशतावियोगे तुदातव्यस्तप्तमाषकः। त्रिशते तण्डुला देयाः कोशश्चैवतदद्धके। शतहृतेऽपह्नुते च दातव्यं धर्मशोधनम्। गोचरस्य प्रदातव्यं सद्यः कालावलेहनम्। एवा सङ्ख्यानिकृष्टानां मध्यानां द्विगुणा स्मृता। चतुर्गुणोत्तमा-नाञ्च कल्पनीया परीक्षकैरिति”। धर्मशोधनम्। धर्मजदिव्येन शोधनम्। निकृष्टानां जातिगणधर्मैः मध्य-मत्वमुत्तमत्वञ्च तैरेव। यत्तु
“नाहस्तादुद्धरेत् फालन्न[Page3591-a+ 38] विषं न तुलां तथेति” याज्ञ्यवल्क्यवचनं तन्मध्यमोत्तम-पुरुषविषयम्। यत्तु
“सहस्ने तु धटं दद्यात् सहस्रार्द्धेतथायसम्। अर्द्धस्यार्द्धे तु सलिलं तस्यार्द्धे तु विषंस्मृतमिति” पितामहवचनं तद्यत्राल्पद्रव्यापहारेपातित्यं भवति तद्विषयम्। एतत्स्तेयसाहसविषयम्दत्तापह्नवे तु कात्यायनः
“दत्तस्यापह्नवो यत्र प्रमाणं तत्रकल्पयेत्। स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत्। सर्वद्रव्यप्रमाणन्तु ज्ञात्वा हेम प्रकल्पयेत्। हेमप्रमाण-युक्तन्तु तदा दिव्यं प्रयोजयेत्। ज्ञात्वा सङ्ख्यां सुव-र्णानां शतनाशे विषं स्मृतम्। अशीतेस्तु विनाशेऽथदद्याच्चैव हुताशनम्। षष्ट्या नाशे जलं देयं चत्वा-रिंशति वै धटम्। विंशद्दशविनाशे तु कोशपानं विधी-यते। पञ्चाधिकस्य वा नाशे तदर्द्धार्द्धस्य तण्डुलाः। ततीऽर्द्धार्द्धविनाशे हि स्पृशेत्पुत्रादिमस्तकान्। ततो-ऽर्द्धार्द्धविनाशे तु लौकिकस्य क्रिया स्मृता। एवंविचारयन् राजा धर्मार्थाभ्यां न हीयत” इति। अत्रसुवर्णशब्दः षोडशमाषात्मकः। नाशोऽपह्नवः। विंश-द्दशविनाशे त्रिंशद्विनाशन इति स्मृतिचन्द्रिका। पञ्चाधिकस्य पञ्चभ्योऽधिकस्य षट्प्रभृतेरिति यावत्। तदर्द्धार्द्धस्य सुवर्णप्रभृतेः। ततोऽर्द्धार्द्धस्य अष्टमाषोनसुवर्णार्द्धप्रभृतेः। ततोऽर्द्धार्द्धस्य विनाशे सार्द्धसप्तमाषोनसुवर्णार्द्धप्रभृतेर्विनाशे। लौकिकाश्च क्रियाः। अपह्नवे तव दशगुणो द्रव्यनाशो भविष्यतीत्यादिकाः। चशब्दः स्मार्त्तशपथसंग्रहार्थः। अतएवाह विष्णुः
“सर्वेष्वेवार्थजातेषु मूल्यं कनकं कल्पयेत्। तत्र च कृ-ष्णलोने शूद्रं दूर्वाकरं शापयेत्, द्विकृष्णलोने तिल-करम्, त्रिकृष्णलोने जलकरं चतुःकृष्णलोने सुवर्णकरम्,पञ्चकृष्णलोने सीरोद्धृतमहीकरम्, तत्र सुवर्णार्द्धोनेकीशो देयः शूद्रस्य ततःपरं यथार्हं धटाग्न्युदकविषा-णामन्यतमं द्विगुणार्थे यथाभिहिता समयक्रिया। बैश्यस्य त्रिगुणेऽर्थे, राजन्यस्य कोशवर्जञ्चतुर्गुणेऽर्थे ब्रा-ह्मणस्य कोशन्दद्यात् अन्यत्रागामिकालसमयनिबन्धन-क्रियातः कोशस्थाने ब्राह्मणं सीरोद्धृतमहीकरमेव शा-पयेत्। प्राग्दृष्टदोषं स्वल्पेऽप्यर्थे दिव्यानामम्यतम-मेव कारयेत्। सत्सु प्रथितं सच्चरितं न महत्यर्थेऽ-पीति”। सीरोद्धृतमहीकरं लाङ्गलोद्धृतलोष्टहस्तमि-त्यर्थः। ऊनग्रहणमधिके शापनिवृत्त्यर्थं शापे तु विशे-षमाह मनुः
“सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः। [Page3591-b+ 38] गोवीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैरिति” यद्यह-मर्थापह्नवी स्यात् तदा सत्याभिधानधर्मो मम निष्कलःस्यादिति शप कारिणं ब्राह्मणं वाचयेत्। एवं क्षत्रिया-दीनां वाहनादीनि निष्फलानि स्युरित्यादीत्यर्थः। पादस्पर्शादीनां विशेषः स्मृत्यन्तरे दशितः
“निष्के तुसत्यवचनं द्विनिष्के पादलम्भनम्। ऊनत्रिके तु पुष्पंस्यात् कोशपानमतःपरम्” इति। अत्र निष्कशब्देन क-र्षचतुर्थांशो मुद्रामुद्रितः प्रतिपाद्यते क्वचिद्देशे तत्रापिनिष्कव्यवहारात् न तु मनूक्तो निष्कः तस्य राज-तपलात्मकत्वेन मूलकाञ्चनकर्षादधिकत्वात् तत्र सत्यव-चनविधौ चतुर्गुणेऽर्थे ब्राह्मणस्येति विरोधः स्यात्। दिव्ये दण्डे च मनूक्तं परिमाणम् ग्राह्यमितिवृहस्पतिराह
“सङ्ख्या रश्मिरजोमूला मनुना समुदा-हृता। कार्षापणान्ता सा दिव्ये नियोज्या विनये तथेति”। संख्या परिमाणं रश्मिरुजीमूला त्रसरेण्वादिका। विनयेदण्डे। तच्च परिमाणं प्रतिज्ञापूर्वकं मनुराह
“लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि। ताम्ररूप्यसु-वर्णानां ताः प्रवक्ष्याम्यशेषतः। जालान्तरगते भानौयत् सूक्ष्मं दृश्यते रजः। प्रथमं तत्प्रमाणानान्त्र्यसरे-णुम्पचक्षते। त्र्यसरेणवोऽष्टौ विज्ञेया लिक्षैका परि-माणतः। ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः। सर्षपाः षड्यवो मध्यस्त्रियवन्त्वेककृष्णलम्। पञ्चकृष्णलकोमाषस्ते सुवर्णस्तु षोडश। पलं मुवर्णाश्चत्वारः पलानिधरणन्दश। द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः। ते षोडश स्याद्धरणं पुराणश्चैव राजतः। धरणानिदश ज्ञेयः शतमानस्तु राजतः। कार्षापणस्तु विज्ञेयःकार्षिकस्ताम्रिकः पणः। चतुःसौवर्णिको निष्को विज्ञे-यस्तु प्रमाणतः” इति। अत्र ताम्ररूप्यसुवर्णानामितिताम्ररूप्ययोरल्पत्वात् प्राक्प्रयोगो न तु क्रमप्रदर्शनार्थः। पलानि धरणन्दशेत्यन्तं सुवर्णपरिमाणाभिधानात्। चतुःसौवर्णिकी निष्क इत्युक्तं रूप्यपरिमा-णाभिधानम्। अवशिष्टेन ताम्रपरिमाणाभिधानम्। जालान्तरप्रविष्टे सूर्यरश्मौ यत् सूक्ष्मं रजो दृश्यते तत्त्र्यसरेणुसंज्ञकम् अष्टौ त्र्यसरेणवो लिक्षा तास्तिस्रःराजसर्षपः। त्रयो राजसर्षपाः गौरसर्षपः। षड्गौर-सर्षपा मध्यमो यवो न सूक्ष्मो न स्थूल इति। मध्यम-यवस्य परिमाणमुक्तं मिताक्षरायाम् मध्यशब्दः पाद-पूरणार्थः। तथा च संपूर्णयवपरिमाणमुक्तमिति मनु-[Page3592-a+ 38] भाष्ये। त्रयो यवाः कृष्णलम्। माषः पञ्च कृष्णलानिसुवर्णः षोडश माषाः। पलं सुवर्णाश्चत्वारः। धरणन्दशपलानि। सूप्यमाषो द्वे कृष्णले। रजतस्य धरणंषोडश रूप्यमाषाः। अस्य च पुराण इति संज्ञान्तरम्। राजतः शतमानः राजतदशधरणानि राजतपलसंज्ञा-प्यस्य भवति।
“शतमानन्तु दशभिर्धरणैः पलमेव त्विति” याज्ञवल्क्यस्मरणात्। पूर्वोक्तसुवर्णचतुष्टयपरिमिति एकीराजतनिष्कः। कार्षिकः कर्षसंमितः ताम्रिकस्ताम्र-विकारः कार्षापणो विज्ञेयः। पण इति च संज्ञा अ-स्यैव विज्ञेयेत्यर्यः। चशब्दोऽध्याहार्यः। अतएव वृह-स्पतिः
“निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः”। ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः। स एवचन्द्रिका प्रोक्ता ताश्चतस्रस्तु धानकाः। ता द्वादश सुव-र्णस्तु दीनाराख्यः स एव तु”। इति कर्षः पलचतु-र्थांशः।
“ते षोडशाक्षः कर्षोऽस्त्री पलङ्कर्षचतुष्टयम्इत्यमरसिंहेनाभिधानात्। ते माषाः षोडशाक्षः कर्ष इतिच संज्ञेत्यर्थः। तेनाक्षकर्षशब्दयोः सुवर्णपरिमाणवचन-त्रमित्यवगम्यते। याज्ञवल्क्यः पले विकल्पमाह
“पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्त्तितम्”। इतितस्य चतुर्थोऽंशो विंशतिर्माषा तत्परिमितः कार्सा-पणः। अतएव कात्यायनः
“माषो विंशतिभागस्तु ज्ञेयःकार्षापणस्य तु। काकिणी तु चतुर्भागा माषकस्य पणस्यचेति”। राजतोऽपि कार्षापणोऽस्तीत्याह नारदः
“का-र्षापणो दक्षिणस्यान्दिशि रौप्यः प्रवर्त्तत” इति। व्यासस्तुनिष्कस्य प्रमाणमाह
“पलान्यष्टौ सुवर्णस्तु ते सुवर्णाश्च-तुर्दश। एतत् निष्कप्रमाणन्तु व्यासेन परिकीर्त्तितम्”( वर्णभेदेन दिव्यव्यवस्थामाह नारदः
“ब्राह्मणस्यधटो देयः क्षत्रियस्य हुताशनः। वैश्यस्य सलिलं देयंशूद्रस्य विषमेव तु। साधारणः समस्तानां कोशः प्रोक्तोमनीषिभिः। विषं विना ब्राह्मणस्य सर्वेषां वा तुलास्मृता” इति। अनित्या चेयं व्यवस्था
“राजन्येऽग्नि-धटं विप्रेवैश्ये तोयं नियोजवेत्। सर्वेषु सर्वदिव्यंवा विषवर्जं द्विजोत्तमे” इति कात्यायनस्मरणात्। व्य-वस्थापक्षे वयोविशेषादिना व्यवस्थापनीयम् तदाहनारदः
“क्लीवातुरान् अत्वहीनान् परितश्चार्दितान्न-रान्। बालवृद्धातुरांस्त्रीश्च परीक्षेत धटं सदा। स्त्री-णान्तु न विषं प्रोक्तं न चापि सलिलं स्मृतम्। धट-कोशादिभिस्तासामन्तस्तत्त्वं विथ्रारयेत्। नार्त्तानान्तीय[Page3592-b+ 38] शद्धिः स्यात् न विषं पित्तरोगिणाम्। श्वित्र्यन्धकुन-खादीनां नाग्निकर्म विधीयते। न मज्जनीयाः स्त्री-बाला धर्म्मशास्त्रविचक्षणैः। रोगिणो ये च वृद्धाः स्युःपुमांसो ये च दुर्बलाः। निरुत्साहान् व्याधिक्लिष्टा-न्नार्तांस्तीये निमज्जयेत्। सद्यो म्रियन्ते मज्जन्तःस्वल्पप्राणा हि ते स्मृताः। साहसेऽप्यागतानेतान्नैवतोये निमज्जयेत्। न चापि हारयेदग्निन्न विषेण विशो-धयेत्” याज्ञवल्क्यः
“तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्म-णरोगिणाम्। अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्यचेति”। स्त्रीमात्रजातिवयोऽवस्थाविशेषानादरेण। बाल आषोडशाद्वर्षाज्जातिविशेषानादरेण। वृद्धोऽ-शीतिकावरः। अन्धो नेत्रविकलः। पङ्गुः पादवि-कृतः। ब्राह्मणीजातिमात्रम्। रोगी व्याधितः। ( एतेषां शोधनार्थं सर्वदिव्यसाधारणेषु मार्गशीर्षशेत्रवै-शाखेषु स्त्र्यादीनां सर्वदिव्यप्रसक्तौ तुलैवेति नियम्यते न तुसर्वकालं स्त्रीणां तुलानियमः कोशादिविधानात्। अग्निफालस्तप्तमाषश्च क्षत्रियस्य। जलमेव वैश्यस्य। यवाएवार्थे शूद्रस्य विषस्य सप्तेव यवा उक्तप्रमाणलक्षणाभवन्तीत्यर्थः। ब्राह्मणस्य तुलाविधानात् अग्निर्जलंवेति क्षत्रियवैश्यविषयमित्यवगम्यते। अतएव पिता-महः
“ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः। वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत्” इति। कात्यायनोऽपि
“न लोहशिल्पिनामग्निः सलिलं नाम्बु-सेविनाम्। मन्त्रयोगविदाञ्चैव विषं दद्यात्तु न क्वचित्। तण्डुलैर्न नियुञ्जीत व्रतिनं मुखरोगिणाम्” इति। व्रतिनं पयोब्रतादिनियमस्थम्। हारीतोऽपि
“कुष्ठिनांवर्जयेदग्निं सलिलं श्वासकासिनाम्। पित्तश्लेष्मवतांनित्यं विषंच परिवर्जयेत्” इति। विष्णुरपि
“न श्लेष्मकारिणां व्याधितानां भीरूणांश्वासकासिकानामम्बु सेविनामुदकं हेमन्तशिशिरयोश्चेति” पितामहोऽपि
“कुष्ठिनां वर्जयेदग्निं सलिलं श्वास-कासिनाम्। पित्तश्लेष्मवतां नित्यं विषन्तु परिवर्जयेत्। मद्यपस्त्रीव्यसनिनां कितवानां तथैव च। कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः” इति। यत्तु पिताम-हेनोक्तम्
“सव्रतानां भृशार्त्तानां व्याधितानां तपस्वि-नाम्। स्त्रीणाञ्च न भवेद्दिव्यं यदि धर्मस्त्ववेक्ष्यते” इति तुलेतरविषयं तदिति केचित् तदयुक्तम्।
“धट-कोशादिभिस्तासामन्तस्तत्त्व विचारयेदिति पूर्वोदाहृत-[Page3593-a+ 38] नारदवचनेन स्त्रीणां कोशादेर्विधानात्। तदग्न्यम्बु-विषयमित्युक्तं विद्यारण्यश्रीपादैः। विज्ञानेश्वराचार्यास्तुपुंस्त्रियोर्विवादे रुच्या वान्यतरः कुर्यादित्यनेन पक्षेस्त्रीणामपि दिव्यप्रसक्तौ पुरुषस्यैव दिव्यं न स्त्रीणा-मित्येतत्परमिदम्। अन्यथा सर्वथा तासां दिव्यनिषेधेधटकोशादिभिस्तासामन्तस्तत्त्वं विचारयेदित्यनेन विरोधःस्यादिति पाहुः। कात्यायनः
“गोरक्षनान् बाणिजकां-स्तथा कारुकुशीलवान्। प्रेष्यान् वार्द्धुषिकांश्चैव ग्राहये-च्छूद्रवद्द्विजान्”। कालिकापुराणेऽपि
“वर्णान्त्यस्य सदादेयं माषकं तप्तहेमजमिति”। वर्णानामन्त्यः प्रत्यन्तःतस्येत्यर्थः। नारदोऽपि
“महापराधे निर्द्धर्मे कृतघ्नेक्लीवकुत्सिते। नास्तिके दृष्टदीषे च शप्तानां तु विव-जयेत्” इति। कात्यायनोऽपि
“मातापितृद्विज-गुरुवृद्धस्त्रीबालधातिनाम्। महापातकयुक्तानां नास्ति-कानां विशेषतः। लिङ्गिनां प्रमदानाञ्च मन्त्रयोग-क्रियाविदाम्। वर्णसङ्करजातानां पापाभ्यासप्रवर्त्ति-नाम्। एतेष्वेवाभियोगेषु निन्द्येष्वेवं प्रवर्त्तितः। दिव्यं प्रकल्पयेन्नैव राजा धर्मपरायणः। एतैरेव नि-युक्तानां साधूनां दिव्यमर्हति। न सन्ति साधवो यत्रतत्र शोध्याः स्वकैर्नरैरिति”। साधूनां दिव्यमर्हतिराजा कल्पयितुमिति शेषः। प्रतिनिधिद्वारा एतैर्दिव्यंकारणीयमिति द्रढयितुमाह स एव
“महापातक-युक्तेषु नास्तिवेषु विशेषतः। न देयं तेषु दिव्यन्तुपापाभ्यासरते भृगुः। येषु पापेषु दिव्यानि कर्त्त-व्यानि प्रयत्नतः। तारयेत्सज्जनैस्तानि नाभिशस्तंत्यजेन्नर इति”। तारयेत् शोधयेत्। अभिशोधनंप्रतिनिधिद्वारा शीधनमकारयित्वा न त्यजेदित्यर्थः। यत्तु तेनैवोक्तम्
“अस्पृश्याधसदासानां म्लेच्छानांपापकारिणाम्। प्रातिलोम्यप्रसूतानां निश्चयी न तुराजनि। तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशे-दिति”। तत्तैर्नियुक्तानां साधूनामभावे विज्ञेयम्। तत्-प्रसिद्धानि घटादीनि इति स्मृतितत्त्वे। साधूनामप्य-सामर्थ्ये प्रतिनिधिमभ्युपजानाति स एव
“काल-देशाविरोधे तु यथायुक्तं प्रकल्पयेत्। अन्येन हारये-द्दिव्यं विधिरेषु विपर्ययः”। सामर्थ्याभावे सर्ववर्णविषयेविशेषमाह हारीतः,
“राजन्येऽग्निं धटं विप्रे वैश्येतोयन्नियोजयेत्। न विषं ब्राह्मणे दद्याद्विषं वर्णान्तरेस्मृतम्। कोशतण्डुलधर्मास्तु धर्मसम्भवमेव च। [Page3593-b+ 38] पुत्रदारादिशपथान् सर्ववर्णे प्रयोजयेत्” इति। अथ दिव्यकालः तत्र पितामहः
“यो यस्य विहितः कालोविधिर्यस्य च यो यथा। तं प्रवक्ष्यामि तत्त्वेन वादि-नश्च बलाबलम्। चैत्रो मार्गशिराश्चैव वैशाखश्च तथैवच। एते साधारणा मासा दिव्यानामविरोधिनः। धटः सर्वर्त्तुकः प्रोक्तो वाते वाति विवर्जयेत्। अग्निःशिशिरहेमन्तवर्षासु परिकीर्त्तितः। शरद्ग्रीष्मे चसलिलं हेमन्ते शिशिरे विषमिति”। विष्णुरपि स्त्री-ब्राह्मणविकलाऽसमर्थरोगिणां न तुला देया न वातिवायौन कुष्ठ्यसमर्थलोहकाराणामग्निर्देयः शरद्ग्रीष्मयोश्चन कुष्ठिपैत्तिकब्राह्मणानां विषं देयं प्रावृषि च। नश्लैष्मिकाणां व्याध्यर्दितानां भीरूणां श्वासकासिना-मम्बुजीविनामुदकं हेमन्तशिशिरयोश्चेति। हेमन्त-निषेधोऽत्र पौषमासविषय एव न तु मार्गशीर्षविषयो-ऽपि। मार्गशीर्षस्य
“चैत्रो मार्गशिरा इति पूर्वोदाहृतपितामहवचनेन सकलदिव्यसाधारणत्वाभिधानात्। नारदोऽपि
“विचार्य्य धर्मनिपुणैर्धर्मशास्त्रविशारदैः। धर्मं सर्वर्तुकं प्रोक्तं पण्डितैर्धटधारणम्। वर्षासुसमये वह्निर्हेमन्तशिशिरे तथा। ग्रीष्मे सलिलमित्युक्तंविषं काले तु शीतले। न शीते तोयशुद्धिः स्यान्नीष्ण-कालेऽग्निशोधनम्। न प्रावृषि विषं दद्यात् प्रवाते नतुलां तथा। नापराह्णे न सन्ध्यायां न मध्याह्ने कदा-चनेति”। मध्याह्ने दिव्यनिषेधो जलव्यतिरिक्तविषयः। अतएव पितामहः
“पूर्वाह्णेऽग्निपरीक्षा स्यात् पूर्वाह्णेच धटो भवेत्। मध्याह्ने तु जल देयं धर्मतत्त्वमभी-प्सता। दिवसस्य तु पूर्वाह्णे कोशशुद्धिर्विधीयते। रात्रौ तु पश्चिमे भागे विषं देयं सुशीतलमिति”। अत्रविषस्य वर्षासु निषेधात् सिंहरवावेव परीक्षामात्रनिषेधाच्च दिव्यान्तरं सिंहेतरवर्षाष्वपि कुर्वन्ति। अतः
“याम्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेदित्यस्य न विष-यः। तथा च ज्योतिषे
“सिंहस्थे मकरस्थे च जीवेचास्तमिते भृगौ। मलमासे न कर्त्तव्या परीक्षा जय-काङ्क्षिणा”। तथा
“रविशुद्धौ गुरौ चैव न शुक्रे-ऽस्तगते पुनः। सिंहस्थे च रवौ नैव परीक्षा शस्यतेबुधैः। नाष्टम्यां न चतुर्दश्यां प्रायश्चित्तपरीक्षणे। न परीक्षाधिवासश्च शनिभौमदिने भवेत्”। रविशुद्धौगुरौ चेदित्यत्र शस्यत इति शेषः तथा च दीपिकायाम्
“न शुक्रास्तेऽष्टमेऽर्के गुरुसहितरवौ जन्ममासेऽष्टमेऽव्दे[Page3594-a+ 38] विष्टौ मासे मलाख्ये कुजशनिदिवसे जन्मतारासुचाथ। नाडीनक्षत्रहीने गुरुरविरजनीनाथताराविशुद्धौप्रातः कार्य्या परीक्षा द्वितनुचरग्रहांशोदये शस्तलग्ने”। इति। यद्यपि दिव्ये वारविशेषविधानाभावस्तथापिशिष्टाचारादादित्यवारे दिव्यानि दातव्यानीति मिताक्ष-रायाम्। अथ द्रिव्यदेशाः तत्र पितामहः।
“प्राङ्मुखोनिश्चलः कार्यः शुचौ देशे धटः सदा। इन्द्रस्थानेसभायां वा राजद्वारे चतुष्पथे” इति। धटग्रहणंदिव्यान्तरस्याप्युपलक्षणम्। इन्द्रस्थानग्रहणञ्च प्रसिद्ध-देवतायतनान्तरस्याप्युपलक्षणम्। अतएव दिव्यमात्र-मुपक्रम्य नारदः
“सभाराजकुलद्वारे देवायतनचत्वरे”। विषयविशेषे इन्द्रस्थानादीनां व्यवस्थामाह। कात्यायनः
“इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम्। नृप-द्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत्। प्रातिलोम्यप्रसू-तानां दिव्यं देयञ्चतुष्पथे। अतोऽन्येषु तु कार्य्येषुसभामध्ये विदुर्बुधा” इति। इन्द्रस्थाने इन्द्रध्वजपूर्व-स्थाने। दिव्यदेशानादरे दिव्यं विसंवदतीत्याह, नारदः
“अदेशकालदत्तानि बहिर्वासकृतानि च। व्यभिचारंसदर्थेषु कुर्वन्तीह न संशयः”। वासो जननिवासस्तस्मा-द्वहिष्कृतानि निर्जनप्रदेशकृतानीति यावत्। अतएवपितामहः
“प्रत्यक्षं दापयेद्दिव्यं राजा वाधिंकृतोऽपिवा। ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव चेति”। ब्राह्मणानां प्रकृतयोऽमात्यास्तेपाञ्चेत्यन्वयः। अथ दिनव्यसाधारणविधिस्तत्र वृहस्पतिः
“स्नेहात्क्रोधाल्लोभतो वा भेदमायान्ति साक्षिणः। विधिदत्तस्यदिव्यस्य न भेदो जायते क्वचिदिति”। विधिश्च पितामहेनदर्शितः
“दिव्येषु सर्वकार्य्याणि प्राड्विवाकः समा-चरेत्। अध्वरेषु यथाध्वर्युः सोपयासो नृपाज्ञया। तत आवाहयेद्देवान् विधिनानेन धर्मवित्। वादित्रतूर्यघोषैश्च गन्धमाल्यानुलेपनैः। प्राङ्मुखः प्राञ्जलि-र्भूत्वा प्राड्विवाकस्ततो वदेत्। एह्येहि भगवन्धर्म!अस्मिन्दिव्ये समाविश। सहितो लोकपालैश्च वस्वा-दित्यमरुद्गणैः। आवाह्य तु धटे धर्मं पश्चादङ्गानिविन्यसेत्”। सर्वकार्य्याणि साधारणानि असाधारणानिच ततस्तदुपयोगिसामग्रीसम्पादनानन्तरमित्यर्थः। धट-ग्रहणमत्र दिव्यमात्रोपलक्षणम्। अस्मिन्दिव्य इतिमन्त्रलिङ्गादेतेषां धर्माणां दिव्यमात्रसाम्यस्य।
“इमंमन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत्। आवाहनञ्च[Page3594-b+ 38] देवानां तथैव परिकल्पयेत्” इत्युपसंहरता तेनैवोक्त-त्वाच्च। अङ्गानि कानीत्याकाङ्क्षायां स एवाह,
“इन्द्रंपूर्वे तु विन्यस्य प्रेतेशं दक्षिणे तथा। वरुणं पश्चिमेभागे कुवेरं चोत्तरे तथा। अग्न्यादिलोकपालांश्चकोणभागेषु विन्यसेत्। इन्द्रः पीतो यमः श्यामोवरुणः स्फटिकप्रभः। कुवेरस्तु सुवर्णाभः अग्निश्चैवसुवर्णभः। तथैव निरृतिः श्यामो वायुर्धूम्रः प्रश-स्यते। ईशानस्तु भवेद्रक्त एवं ध्यायेत्क्रमादिमान्। इन्द्रस्य दक्षिणे पार्श्वे वसूनास्थापयेद्बुधः। धरोध्रुव-स्तथा सोम आपश्चैवानलोऽनिलः। पत्यूषश्च प्रभा-तञ्च वसवोऽष्टौ प्रकीर्त्तिताः। देवेशेशानयोर्मध्ये आदि-त्यानां तथाऽयनम्। धातार्यमा च मित्रश्च वरुणांशोभगस्तथा। इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमःस्मृतः। ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः। इत्येते द्वादशादित्या नाममिः परिकीर्त्तिताः। अग्नेःपश्चिमभागे तु रुद्रा एकादश स्मृताः। वीरभद्रश्चशम्भुश्च गिरिशश्च महायशाः। अजैकपादहिर्बुघ्न्यःपिनाकी चापराजितः। भुवनाधीश्वरश्चैव कपाली चविशाम्पतिः। स्थाणुर्भवश्च भगवान् रुद्रास्त्वेकादशस्मृताः। प्रेतेशरक्षोमध्ये च मातृस्थानं प्रकल्पयेत्। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वाराहीचैव माहेन्द्री चामुण्डा गणसंयुता। निरृतेरुत्तरेभागे गणेशायतनं विदुः। वरुणस्योत्तरे भागे मरुतांस्थानमुच्यते। पवनः स्पर्शनो वायुरनिलो मरुतस्तथा। प्राणाः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्त्तिताः। घट-स्योत्तरभागे तु दुर्गामावाहयेद्बुधः। एतासां देवता-नान्तु स्वनाम्ना पूजनं विदुः। भूषावसानं धर्माय दत्त्वा-चार्घादिकं क्रमात्। अर्घादि पश्चादङ्गानां भूषान्तमुप-कल्पयेत्। गन्धादिकां निवेद्यान्तां परिचर्य्यां प्रकल्पयेत्। चतुर्दिक्षु तथा होमः कर्त्तव्यो वेदपारगैः। आज्येनहविषा चैव समिद्भिर्होमसाधनैः। सावित्र्या प्रणवे-नाथ स्वाहान्तेनैव होमयेत्”। अङ्गानाम् इन्द्रादि-दर्गान्तानाम् अर्थाद्युपकल्पनञ्च न काण्डानुसमयेन। तथात्वे प्रयोगवचनावगताङ्गसहभावबाधापत्तेः। किन्तुपदार्थानुसमयेन तथा च दुर्गायै भूषण दत्त्वा धर्मास्येन्दा-दिदुर्गान्तानाञ्च गन्धादिपरिचयं विप्रकल्पयेदिति। गायत्रींप्रणवाद्रिकामुच्चार्य्य पुनः प्रणवं स्वाहाकारान्तमुच्चार्य्यसमिदाज्यचरुभिः प्रत्येकमष्टोत्तरशतं जुहुयात्। [Page3595-a+ 38]
“अनुक्तसङ्ख्या यत्र स्यात् शतमष्टोत्तरं स्मृतमिति” स्मर-णादित्यर्थः। होमानन्तरकर्त्तव्यं स एवाह
“यमर्थम-भियुक्तः स्याल्लिखित्वा तन्तु पत्रके। मन्त्रेणानेन सहि-तन्तत् कार्यञ्च शिरः क्रमात्”। मन्त्रश्च
“आदित्यचन्द्रा-वनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च। अहश्चरात्रिश्च उभेच सन्ध्ये धर्मश्च जानाति नरस्य वृत्तमिति” एतत् सर्वं पूर्बाह्णे कर्त्तव्यम् तस्य प्रधानकालत्वात्तथा च नारदः
“अहोरात्रोषिते स्नाते आर्द्रवाससिमानवे। पूर्वाह्णे सर्वदिव्यानां प्रदानमनुकीर्त्तितमिति”। एतत् प्राड्विवाकेनोपवासादिनियमपूर्वकं कर्त्तव्यम् तथाच नारदः
“प्राड्विवाकस्ततो विप्रो वेदवेदाङ्गपारगः। श्रुतवृत्तोपसम्पन्नः शान्तचित्तो विमत्सरः। सत्यसन्धःशुचिर्दक्षः सर्वप्राणिहिते रतः। उपोषितश्चार्द्रवासाःकृतदन्तानुधावनः। सर्वासां देवतानाञ्च पुजां कृत्वायथाविधि”। कर्तुरुपवासादिकमाह
“त्रिरात्रो-पोषितोयः स्यादेकरात्रोपोषितस्तु वा। नित्यं देयानिदिव्यानि शुचये सार्द्रवाससे” इति। याज्ञवल्क्योऽपि
“सचेलं स्नातमाहूय सूर्य्योदय उपोषितम्। कारयेत्-सर्वदिव्यानि नृपव्राह्मणसन्निधाविति”। अत्र सूर्य्योदय-पदेन पूर्वाह्ण एव ग्राह्यः
“पूर्वाह्णे सर्वदिव्यानांप्रदानमनुकीर्त्तितमिति” नारदवचनानुरोधात्। त्रिरा-त्रैकरात्रीपवासयोः शक्ताशक्तविषयत्वेन व्यवस्था ज्ञेया। दिव्यप्रयोगानन्तरं दक्षिणादानम् उक्तेन विधिना दिव्य-प्रयोगं कारयितुः राज्ञः फलञ्चाह पितामहः
“सिद्भिःपरिवृतो राजा शुद्धिमेतां प्रपूजयेत्। ऋत्विक्पुरी-हिताचार्य्यान् दक्षिणाभिस्तु तोषयेत्। एवं कारयिताराजा भुक्त्वा भोगान्मनोरमान्। महतों कीर्त्तिमाप्नोतिब्रह्मभूयाय कल्पते” इति। अयञ्च विधिः सर्वदिव्य-साधारण इत्याह स एव
“इमं मन्त्रविधिं कृत्स्नं सर्व-दिव्येषु योजयेत्। आवाहनञ्च देवानां तथैव परि-कीर्त्तितमिति”। सर्वदेवावाहनादि संशोध्यशिरसि पत्रा-रोपणान्तं सर्वदिव्यसाधारणमित्यर्थः” दिव्यमातृका।

१२ जलभेदे।
“दिव्यं चतुर्विधं प्रोक्तं धाराजं करकाभवम्। तौषारञ्च तथा हैमं तेषु धारं गुणाधिकम्” भाव॰ प्र॰।

१३ स्नानभेदे न॰
“असामर्थ्याच्छरीरस्य कालशक्त्याद्यपे-क्षया। मन्त्रस्नानादितः सप्त केचिदिच्छन्ति सूरयः। मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च। वारुणंमानसञ्चैव सप्तस्नानं प्रकीर्तितम्।
“आपोहिष्ठेति” वै[Page3595-b+ 38] मान्त्रं, मृदालम्भन्तु पार्थिवम्। आग्नेयं भस्मना स्नानं,वायव्यं गोरजः स्मृतम्। यत्तु सात पवर्षेण स्नानंतद्दिव्यमुच्यते। वारुणञ्चावगाह्यञ्च, मानस विष्णुचि-न्तनम्। समस्तं स्नानमुद्दिष्टं मन्त्रस्नानक्रमेण तु। कालदोषादसामर्थ्यात् सर्वं तस्य फलं स्मृतम्” योगि-याज्ञवल्क्यः। दिवि द्योतात्मके आदित्ये परमव्योम्नि वाब्रह्मणि स्वस्वरूपे भवः यत्।
“दिव्यश्च देवताप्रायःशुद्धान्तःकरणः सदा। द्वन्द्वातीतो वीतरागः सर्वभूत-समः क्षमी” इत्युक्ते

१४ तत्त्ववेत्तरि पु॰

१५ आमलक्यांस्त्री मेदि॰।

१६ बन्ध्याकर्कोटक्याम्

१७ शतावर्य्याम्

१८ महामेदायाम्

१९ व्राह्म्याम्

२० स्थूलजीरके

२१ श्वेतदूर्वायाम्

२२ हरीतक्याम्

२३ पुरायाम्

२४ गन्धवत्याञ्चस्त्री राजनि॰।

२५ दैवे दिने

२६ नदीये माने च न॰दिव्यदिनदिव्यमानशब्दयोर्दृश्यम्।

२७ द्युलोकाज्जाते

२८ मनोज्ञे

२९ लोकातीते दिव्यदर्शी दिव्यचक्षुः त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिव्य¦ mfn. (-व्यः-व्या-व्यं)
1. Divine, celestial.
2. Beautiful, agreeable, charming. m. (-व्यः)
1. Barley.
2. A fragrant resin, (Bdelliun.)
3. The divine character or property. f. (-व्या) Emblic myrobalan. n. (-व्यं)
1. Cloves.
2. A sort of Sandal.
3. An ordeal.
4. An oath. E. द्यु the sky or heaven, and यत् aff. दिवि भवः |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिव्य [divya], a. [दिवि भवः यत्]

Divine, heavenly, celestial; दिव्यस्त्वं हि न मानुषः Mb.3.252.8.

Supernatural, wonderful; परदोषेक्षणदिव्यचक्षुषः Śi.16.29; दिव्यं ददामि ते चक्षुः Bg.11.8.

Brilliant, splendid.

Charming, beautiful.

व्यः A superhuman or celestial being; दिव्यानामपि कृतविस्मयां पुरस्तात् Śi.8.64.

Barley.

An epithet of Yama.

A fragrant resin, bdellium.

A philosopher.

व्यम् Celestial nature, divinity.

The sky.

An ordeal (of which 1 kinds are enumerated); cf. Y.2.22,95.

An oath, a solemn declaration.

Cloves.

A kind of sandal.

A kind of water. -Comp. -अंशुः the sun. -अङ्गना, -नारी, -स्त्री a heavenly nymph, celestial damsel, an apsaras.-अदिव्य a. partly human and partly divine (as a hero, such as Arjuna). -अवदानम् N. of Buddhistic work from Nepal (written in Sanskrit). -उदकम् rainwater. -उपपादुकः a god. -ओषधिः f. a herb of great supernatural efficacy, i. e. curing snake-poison; हिमवति दिव्यौषधयः Mu.1.23. -कारिन् a.

taking an oath.

undergoing an ordeal. -क्रिया the application of an ordeal; निःसंभ्रमः स्तम्भयितुं देव दिव्यक्रियामयम् Rāj. T.4.94. -गन्धः sulphur. (-न्धा) large cardamoms. (-न्धम्) cloves. -गायनः a Gandharva. -चक्षुस् a.

having divine vision, heavenly-eyed; त्वया नियम्या ननु दिव्यचक्षुषा R.3.45.

blind. (-m.)

a monkey.

an Astrologer.

Arjuna.

one who has prophetic vision; दिव्यचक्षुर्ज्योतिषिके पार्थात्मज्ञानिनोरपि Nm. (-n.) a divine or prophetic eye, supernatural vision, the power of seeing what is invisible by the human eye. -ज्ञानम् supernatural knowledge. -दृश् m. an astrologer.-दोहदम् a present offered to a deity for the accomplishment of one's desired object. -धुनी N. of Bhāgīrathī; दिव्यधुनि मकरन्दे˚ Stotra. -पुष्पः the Karavīra tree. -प्रश्नः inquiry into celestial phenomena or future course of events, augury. -मन्त्रः Om (ओम्); Amṛit. Up.2-मानम् measuring the time according to the days and years of the gods. -मानुषः a demi-god; दिव्यमानुषचेष्टा तु परभागे न हारिणी Ks.1.47. -रत्नम् a fabulous gem said to grant all desires of its possessor, the philosopher's stone; cf. चिन्तामणि. -रथः a celestial car moving through the air.

रसः quicksilver.

heavenly water or love; V.2. -वस्त्र a. divinely dressed.

(स्त्रः) sunshine.

a kind of sun-flower. -वाक्यम् a celestial word or voice. -श्रोत्रम् an ear which hears everything. -सरित् f. the celestial Ganges. -सानुः N. of one of the Viśvedevas. -सारः the Sāla tree. -स्त्री an Apsaras.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिव्य Nom. P. यति, to long for heaven Pa1n2. 8-2 , 77 Sch.

दिव्य mfn. ( दिव्यPa1n2. 4-2 , 101 )divine , heavenly , celestial ( opp. to पार्थिव, आन्तरीक्षor मानुष) RV. AV. S3Br. Kaus3. MBh. etc.

दिव्य mfn. supernatural , wonderful , magical( अङ्गारRV. x , 34 , 9 ; औषधBhartr2. ii , 18 ; वासस्Nal. xiv , 24 ; See. -चक्षुस्, -ज्ञानetc. below)

दिव्य mfn. charming , beautiful , agreeable R. Katha1s. etc.

दिव्य m. a kind of animal(= धन्वन) VarBr2S. lxxxviii , 9

दिव्य m. barley L.

दिव्य m. bdellium L.

दिव्य m. N. of a prince Pur.

दिव्य m. of the author of RV. x , 107 etc.

दिव्य n. the divine world or anything -ddivine

दिव्य n. pl. the celestial regions , the sky , heaven RV.

दिव्य n. an ordeal (10 kinds , viz. तुला, अग्नि, जल, विष, कोश, तण्डुल, तप्त-माष, फाल, धर्मा-धर्म, तुलसीSee. ss.vv. ) Ya1jn5. ii , 22 , 95 Pan5c. i , 450/451 , 451 , 452 etc.

दिव्य n. oath , solemn promise Hit. iv , 129/130 cloves L.

दिव्य n. a sort of sandal L.

दिव्य n. N. of a grammar ,[ cf. Gk. ? for ? ; Lat. di1us for divius in sub@dIo.]

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of सात्वत. भा. IX. २४. 6; Br. III. ७१. 1. Vi. IV. १३. 1.
(II)--a son of Uttama Manu. Br. II. ३६. ३९. [page२-093+ २५]
(III)--a God of सुतार group. Br. IV. 1. ८९.
(VI)--a son of कौशल्या. वा. ९६. 1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Divya, ‘ordeal,’ is a term not found until the later literature, but several references to the practice of ordeals have been seen in Vedic literature. The fire ordeal seen in the Atharvaveda[१] by Schlagintweit,[२] Weber,[३] Ludwig,[४] Zimmer,[५] and others, has been disproved by Grill,[६] Bloomfield,[७] and Whitney.[८] But such an ordeal appears in the Pañcaviṃśa Brāhmaṇa,[९] and an ordeal with a glowing axe[१०] occurs in the Chāndogya Upaniṣad as applied in an accusation of theft. Geldner[११] suggests that this usage is referred to even in the Rigveda,[१२] but this is most improbable.[१३] Ludwig[१४] and Griffith[१५] discover in another passage of the Rigveda[१६] references to Dīrghatamas' having been subjected to the fire and water ordeals, but this view cannot be supported. According to Weber,[१७] the ‘balance’ ordeal is referred to in the Śatapatha Brāhmaṇa,[१८] but see Tulā.

  1. ii. 12.
  2. Die Gottesurtheile der Indier, 13 et seq.
  3. Indische Studien, 13, 168.
  4. Translation of the Rigveda, 3, 445.
  5. Altindisches Leben, 184.
  6. Hundert Lieder,^2 45, 87.
  7. Journal of the American Oriental Society, 13, ccxxi;
    American Journal of Philology, 11, 334, 335;
    Hymns of the Atharvaveda, 294.
  8. Translation of the Atharvaveda. 54.
  9. xiv. 6, 6.
  10. Chāndogya Upaniṣad, vi. 16.
  11. Vedische Studien, 2, 150.
  12. iii. 53, 22.
  13. Oldenberg, Ṛgveda-Noten, 1, 254.
  14. Op. cit., 4, 44.
  15. Hymns of the Rigveda, 1, 210.
  16. i. 158, 4 et seq.
  17. Indische Streifen, 1, 21;
    2, 363.
  18. xi. 2, 7, 33.

    Cf. Jolly, Recht und Sitte, 145;
    Zeitschrift der Deutschen Morgenländischen Gesellschaft, 44, 347, 348;
    Stenzler, ibid., 9, 669 et seq.
"https://sa.wiktionary.org/w/index.php?title=दिव्य&oldid=500246" इत्यस्माद् पुनः प्राप्तिः