दृति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृतिः, पुं, (दृणातीति । द विदारे + “दृणाते- र्हस्वश्च ।” उणां । ४ । १८३ । इति तिः ह्रस्वश्च ।) चर्म्मपुटकः । अस्य पर्य्यायः । स्वल्लः २ । इति हेमचन्द्रः । ४ । ९१ ॥ (यथा, मनुः । २ । ९९ । “इन्द्रियाणान्तु सर्व्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम् ॥”) मत्स्यः । इति मेदिनी । ते, २६ ॥ (गलकम्बलः । यथा, महाभारते । १३ । ७९ । १८ । “सवतसां पीवरीं दत्त्वा दृतिकण्ठामलङ्कृताम् । वैश्वदेवमसंवाधं स्थानं श्रेष्ठं प्रपद्यते ॥” “दृतिकण्ठां प्रलम्बगलकम्बलाम् ।” इति तट्टी- कायां नीलकण्ठः ॥ मेघः । इति निघण्टुः । १ । १० ॥ यथा, ऋग्वेदे । ७ । १०३ । २ । “दिव्या आपो अभि यदेनमायन् दृतिं न शुष्कं सरसी शयानम् ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृति¦ स्त्री दॄ--विदारे ति कित् ह्रस्वश्च।
१ चर्ममयपात्रे
२ म-त्स्ये च मेदि॰।
“इन्द्रियाणां तु सर्वेषां यद्येकं क्षरती-न्द्रियम्। तेनास्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम्” मनुः
“कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः। आश्र-यस्थानदोषेण वृत्तहीने तथा श्रुतम्” भा॰ शा॰
१३
२४ श्लो॰। दृतौ भवः ढञ् दार्त्तेय दृतिभवे स्त्रियां ङीप्। मत्स्ये
“मांसादष्टगुणा दृतिः” उज्ज्वलद॰ धृतवाक्यम्।
३ रोमशचर्मणि
४ गलकम्बले च
“सवत्सां पीवरीं दत्त्वा दृति-कण्ठामलङ्कृताम्” भा॰ अनु॰
७९ अ॰।
“दृतिकण्ठां[Page3669-a+ 38] प्रलम्बगलकम्बलाम्” नीलकण्ठः
“दृतिकण्ठमनड्वाहंसर्वरत्नैरलङ्कृतम्” तत्रैवाध्याये।
५ मेघे निघण्टुः
६ सत्र-विशेषकारके यजमानभेदे द्वतिवातवतोरयनशब्दे दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृति¦ f. (-तिः)
1. A bellows.
2. A fish.
3. A skin of leather, or a leather bag for holding water.
4. Skin, hide. E. दृ to divide, क्तिन् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृतिः [dṛtiḥ], m., f. [दॄ-विदारणे तिकित् ह्रस्वश्च]
A leathern bag for holding water &c.; इन्द्रियाणां तु सर्वेषां यद्येकं क्षरती- न्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ Ms.2.99; Y.3.268.
A fish.
A skin, hide.
A pair of bellows; हृतय इव श्वसन्ति Bhāg.1.87.17.
Ved. A cloud.
A dewlap (of cow or bull); सवत्सां पीवरीं दत्वा दृतिकण्ठामलंकृताम् Mb.13.79.18.
A syringe; ता देवरानुत सखीन्सिषिचुर्दृतीभिः क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः Bhāg. 1.75.17. -Comp. -हरिः a dog. -हारः a water carrier.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृति m. (fr. दॄ)a skin of leather , a leather bag for holding water and other fluids( fig. = a cloud) , skin , hide , a pair of bellows RV. AV. Br. Mn. MBh. etc.
दृति m. a fish L.
दृति m. N. of a man with the patr. ऐन्द्रो-तिor ऐन्द्रोतTa1n2d2yaBr. ([ cf. दार्तेय; Gk. ?]).
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
1. Dṛti, a ‘leather bag to hold fluids,’ is frequently mentioned in the Rigveda[१] and later.[२] In one passage[३] it is called dhmāta, ‘inflated,’ the man afflicted with dropsy being compared with such a bag. Milk (Kṣīra) and intoxicating liquor (Surā) are mentioned as kept in bags.[४]
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृति स्त्री.
(दृ+क्तिन्) चमड़े का मशक ‘दृतिं न शुष्कं सरसी शयानम्’, ऋ.वे. 7.1०3.०2, (दृतेः चतुर्थं पादं स्तनं कृत्वा पिन्वयेत्), बौ.श्रौ.सू. 11.18 ः 5 (प्रर्वग्य प्रायश्चित्त)। दृतिनवनीत (दृतेः नवनीतम्, दृतौ सिद्धं नवनीतम्) न. सञ्चरण (हिलने-डुलने) के कारण चर्म के झोले (मशक) में तैयार हुआ मक्खन, मा.श्रौ.सू. 9.3.2.4 (साद्यस्क्र)।
- ↑ i. 191, 10;
iv. 51, 1, 3;
v. 83, 7;
vi. 48, 18;
103, 2;
viii. 5, 19;
9, 18. - ↑ Av. vii. 18, 1;
Taittirīya Saṃhitā, i. 8, 19, 1;
Vājasaneyi Saṃhitā, xxvi. 18, 19;
Taittirīya Brāhmaṇa, i. 8, 3, 4;
Pañcaviṃśa Brāhmaṇa, v. 10, 2, etc. - ↑ Rv. vii. 89, 2. Cf. Hopkins, Journal of the American Oriental Society, 20, 30.
- ↑ Pañcaviṃśa Brāhmaṇa, xiv. 11, 26;
xvi. 13, 13.