क्षीर

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीर, क्ली, (घस्यते अद्यते इति । “घसे किच्च” उणां ४ । ३४ । इति ईरन् उपधालोपे कत्वं षत्वञ्च ।) जलम् । यथा, ऋग्वेदे । १ । १०४ । ३ । “अव त्मना भरते केतवेदा अव त्मना भरते फेन- मुदन् । क्षीरेण स्रातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः” । दुग्धम् । इत्यमरः । २ । ९ । ५१ ॥ (यथा, मनुः । ५ । ९ । “स्त्रीक्षीरञ्चैव वर्ज्ज्यानि सर्व्वशुक्तानि चैव हि” ॥) “आसप्तरात्रं प्रसवात् क्षीरं पेयूषमुच्यते । परतो मोरटं विद्यादप्रसन्नं कफात्मकम्” ॥ इति रत्नमाला ॥ (क्षीरस्य लक्षणं गुणाश्च यथा, -- “अथातः संप्रक्ष्यामि क्षीरवर्गन्तु वत्सक ! । दधिसर्पिर्वसातक्रं तेषां सर्व्वगुणागुणम् ॥ यद्यदाहारजातन्तु रसं क्षीरशिरानुगम् । सरं जलञ्च भुक्तञ्च तथा पित्तेन संयुतम् ॥ पाचितं जाठरे वह्नौ पित्तेन सह मूर्च्छितम् । तदेव गुणमेवौजः सामान्यादभिवर्द्धयेत् । प्रवरं जीवनीयानां क्षीरमुक्तं रसायनम् ॥ महिषीणां गुरुतरं गव्याच्छीततरं पयः । स्नेहानूनमनिन्द्राय हितमत्यग्नये च तत् ॥ रूओष्णं क्षीरमुष्ट्रीणामीषत्सलवणं लघु । शस्तं वातकफानाह क्रिमिशोफोदरार्शसाम् ॥ बल्यं स्थैर्य्यकरं सर्व्वमुष्णञ्चैकशफं पयः । साम्लं सलवणं रूक्षं शाखावातहरं लघु ॥ छागं कषायमधुरं शीतं ग्राहि पयो लघु । रक्तपित्तातिसारघ्नं क्षयकाशज्वरापहम् ॥ हिक्काश्वासकरन्तूष्णं पित्तश्लेष्मलमाविकम् । हस्तिनीनां पयो बल्यं गुरु स्थैर्य्यकरं परम् ॥ जीवनं बृंहणं साङ्ख्यं स्नेहनं मानुषं पयः । लावणं रक्तपित्ते च तर्पणञ्चाक्षिशूलिनाम्” ॥ इति च तत्र सूत्रस्थाने २७ अध्याये ॥ “सर्व्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते” ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीर नपुं।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।4।2।6

कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्. अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

क्षीर नपुं।

दुग्धम्

समानार्थक:दुग्ध,क्षीर,पयस्

2।9।51।1।3

तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयस्समम्. पयस्यमाज्यदध्यादि द्रप्स्यं दधि घनेतरत्.।

 : नवप्रसूतगोः_क्षीरम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीर¦ पु॰ न॰ क्षि--क्रन् दीर्घश्च, धस--अदने ईरन् किच्च उपधा-लोपे चर् वा अर्द्धर्चा॰।

१ दुग्धे

२ जले अमरः

३ सरलद्रव्येशब्दच॰।
“आसप्तरात्रं प्रसवात् क्षीरं पेयूषमुच्यते। परतो मोरटं विद्यादप्रसन्नं कफात्मकम्” रत्नमा॰। क्षीरवर्गशब्दे विवृतिः
“शाकाम्लपलपिण्याकंकुलत्थलवणामिषैः। करीरदधिमाषैश्च प्रायः क्षीरं विरुध्यते। स्नि-ग्धं शीतं गुरु क्षीरं सवेकालं न सेवयेत्। दीप्ताग्निंकुरुते मन्दं मन्दाग्निं नष्टमेव च। क्षीरं न भुञ्जीतकदाप्यतप्तं तप्तञ्च नैतल्लवणेन सार्द्धम्। पिष्टान्नसन्धाय-कमाषमुद्गकोषातकीकन्दफलादिकैश्च”।
“मत्स्यमांसगु-डमुद्गमूलकैः कुष्ठितां वहति सेवितं पयः। शाकजा-म्बवरसादिसेवितं मारयत्यबुधमाशु सर्पवत्” वैद्यकेद्रव्यान्तरसंयोगे तस्यवर्ज्यतोक्ता।
“धेनुस्तनाद्विनिष्क्रान्तां धारां क्षीरस्य योनरः। शिरसाप्रतिगृह्लाति स पापेभ्यः प्रमुच्यते” वरा॰ पु॰
“येषु क्षीरवहा[Page2376-a+ 38] नद्योह्रदाः पायसकर्दमाः। तान् लोकान् पुरुषा यान्तिक्षीरस्नपनका हरेः। आह्लादं निर्वृतिं स्वाम्यमारोग्यंचानुरूपताम्। सप्तजन्मस्ववाप्नोति क्षीरस्नानपरोहरेः। दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा। तथैवा-शेषकामानां क्षीरस्नपनमुत्तमम्। यथा च विमलं क्षीरंयथा निर्वृतिकारकम्। तयास्य विमलं ज्ञानं भविष्यतिफलपदम्। ग्रहानुकूलतां पुष्टिं प्रियत्वञ्चाखिले जने। करोति भगवान् विष्णुः क्षीरस्नपनतोषितः। सर्शोऽस्यस्रिग्धतामेति दृष्टिमात्रे प्रसीदति। शृतक्षीरेण देवेशेस्नपिते मधुसूदने”। वह्नि॰ पु॰ क्रियायोगनामाध्याये। तत्पाकविधिः भावप्र॰।
“क्षीरमष्टगुण द्रव्यात् क्षीरान्नीरंचतुर्गुणम्। क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत्”

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीर¦ n. (-रं)
1. Water.
2. Milk. f. (-री) A small shrub (Asclepia rosea;) also दुग्धिका।
2. A tree, a species of Mimosa, (M. kauki, Rox) also क्षीरिका।
3. Gigantic swallow-wort.
4. Euphorbia; several kinds, particularly, E. hirta. E. thymifolia, and E. chamæsyce. E. घस् to eat, ईरन् Unadi affix; the fem. nouns are derived from क्षीर milk. the plants yielding a milky juice or sap, upon expression or incision.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरः [kṣīrḥ] रम् [ram], रम् 1 Milk; हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः Ś.6.28.

The milky juice or sap of trees, exudation; resin; ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः Me.19; Ku.1.9.

Water; तिर्यग्वाहाश्च क्षीरिणः Rām.2.15.6. -रः See क्षीरस्वामिन्; क्षीराभिधाच्छब्दविद्योपाध्यायात्संभृतश्रुतः Rāj. T.4. 489. -रा -री N. of several plants containing a milky sap. -री A dish prepared with milk (Mar. खीर).-Comp. -अदः an infant, a sucking child.

अब्धिः the sea of milk.

the अमृत; भो वैनतेय क्षीराब्धिः प्रारब्धो मथितुं सुरै Ks.22.186.

˚जः the moon.

the Amṛita or nectar produced at the churning of the sea.

an epithet of Śeṣa.

a pearl. ˚जम् sea-salt. ˚जा, ˚तनया an epithet of Lakṣmī. -आह्वः the pine tree. -उदः cf. [P.VI.3.57 Vārt.]

the sea of milk; क्षीरोदवेलव सफेन- पुञ्जा Ku.7.26. ˚तनयः, ˚नन्दनः, ˚तनया, ˚सुता an epithet of Lakṣmī. -उत्तरा inspissated milk. -उत्थम् fresh butter.-उदधि = क्षीरोद q. v. above. -ऊर्मिः a wave of the sea of milk; R.4.27. -ओदनः rice boiled with milk; क्षीरौ- दनं पाचयित्वा Bṛi. Up.3.4.14. -कण्ठः -कण्ठकः a young child (having milk in the throat); त्वया तत्क्षीरण्कठेन प्राप्त- मारण्यकं व्रतम् Mv.4.52,5.11. क्षीरकण्ठाविमौ वत्सौ वत त्वन्मय- जीवितौ Śiva. B.2.24 and 5. -कुण्डम् a milk-pot; कश्चि- द्दुदोह कश्चिच्च क्षीरकुण्डमधारयत् Ks.63.188. -जम् coagulated milk. -दात्री yielding milk (as a cow). -द्रुमः the Aśvattha tree. -धात्री a wet-nurse. -धिः, -निधिः the sea of milk; इन्दुः क्षीरनिधाविव R.1.12. -धेनुः f. a milch cow.

नीरम् water and milk.

milk-like water.

a fast embrace. -पः a child. -पाक a. cooked in milk; शतं महिषान् क्षीरपाकमोदनम् Rv.8.77.1. -पाणः an inhabitant of Uśīnara. (-णम्, -नम्) drinking milk. (-णी) any vessel out of which milk is drunk. -भृत a. supported by milk (as a Gopāla); receiving wages in the form of milk; गोपः क्षीरभृतो यस्तु Ms.8.231. -वारिः, -वारिधिः the sea of milk; गत्वा च क्षीरवारिधिम् Ks.22.188.-विकृतिः f. inspissated milk; any product made from milk (as cheese &c.).

वृक्षः N. of the four trees न्यग्रोध, उदुम्बर, अश्वत्थ and मधूक.

the glomerous fig-tree. -व्रतम् living upon milk in consequence of a vow.-शरः cream, the skim of milk. -समुद्रः, -सागरः the sea of milk. यथा भगवता ब्रह्मन्मथितः क्षीरसागरः Bhāg.8.5.11.-सर्पिस् n. ghee (घृत). -सारः butter; क्षीरसारमपनीय शङ्कया स्वीकृतं यदि पलायनं त्वया Udb. -स्निग्ध a. unctuous with milky juice or sap; Ś.3.6. (v.l.) -स्फटिकः a precious stone. -स्वामिन् m. a commentator on the Amarakośa and a grammarian. -हिण्डीरः the foam of milk.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीर n. (fr. श्यै? ; fr. क्षर्, or घस्Nir. ii , 5 ; fr. घस्Un2. iv , 34 ; g. अर्धर्चा-दि) , milk , thickened milk RV. AV. VS. TS. etc. ( ifc. f( आ). MBh. xiii , 3700 )

क्षीर n. the milky juice or sap of plants R. Sus3r. Megh. 106 S3ak. ( v.l. )

क्षीर n. = -शीर्ष(See. ) L.

क्षीर n. water L.

क्षीर m. N. of a grammarian(See. -स्वामिन्) Ra1jat. iv , 488

क्षीर m. N. of several plants containing a milky sap (Asclepia rosea , Mimosa Kauki , gigantic swallow-wort , Euphorbia , etc. ) L.

"https://sa.wiktionary.org/w/index.php?title=क्षीर&oldid=309678" इत्यस्माद् पुनः प्राप्तिः