देश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देशः, पुं, (दिश्यते निर्द्दिश्यते इति । दिश निर्द्देशे + कर्म्मणि घञ् ।) भूगोलभागविशेषः । इति सिद्धान्तमञ्जरी ॥ जनपदे जनपदसमुदाये जनपदैकदेशे सजलनिर्जलस्थानमात्रे च । इत्य- मरटीकायां भरतः ॥ स त्रिविधः । जाङ्गलः अनूपः साधारणश्च । तत्पर्य्यायः । जनपदः १ नीवृत् २ विषयः ३ उपवर्त्तनम् ४ । इति राज- निर्घण्टः ॥ प्रदेशः ५ राष्ट्रम् ६ । इति शब्द- रत्नावली ॥ * ॥ अथ देशे वर्णनीयानि । रत्नम् १ खनिः २ द्रव्यम् ३ पण्यम् ४ धान्यम् ५ करोद्भवः ६ दुर्गग्रामः ७ जनाधिक्यम् ८ नदी- मातृकतादि ॥ * ॥ अथ ग्रामे वर्णनीयानि । धान्यम् १ लता २ वृक्षः ३ सरः ४ पशुपुष्टिः ५ क्षेत्रम् ६ अरघट्टः ७ केदारः ८ ग्रामेयीसुखम् ९ विभ्रमः १० । इति कविकल्पलता ॥ * ॥ अथ मध्यदेशीयजनपदा यथा, -- “तास्विमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः । शूरसेना भद्रकारा बोधकाः सपटच्चराः ॥ मत्स्याः किराताः कुल्याश्च कुन्तयः कान्ति- कोशलाः । आवन्ताश्च भुलिङ्गाश्च लोकाश्चैवान्धकैः सह ॥ मध्यदेश्या जनपदाः प्रायशः परिकीर्त्तिताः ॥” अथ उदीच्या देशा यथा, -- “बाह्वीका वाटधानाश्च आभीराः कालतोयकाः । परन्ध्राश्चैव शूद्राश्च पह्रवाश्चात्मखण्डिकाः ॥ गान्धारा जवनाश्चैव सिन्धुसौवीरमद्रकाः । शका द्रुह्याः पुलिन्दाश्च पारदा हारमूर्त्तिकाः ॥ रामठाः कण्ठकाराश्च केकया देशमानिकाः । क्षत्त्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥ आत्रेयोऽथ भरद्वाजः प्रस्थलाः सदशेरकाः । लम्पकास्तलगानाश्च सैनिकाः सह साङ्गजैः ॥ एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत ॥” अथ प्राच्या देशा यथा, -- “अङ्गवङ्गा मद्गुरका अन्तर्गिरिबहिर्गिराः । ततः प्रवङ्गा मातङ्गा मलया मलवर्त्तकाः ॥ सुह्मोत्तराः प्रविजया भार्गवाङ्गेयमालवाः । प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलि- प्तकाः ॥ गौडदेशः समाख्यातः सर्व्वविद्याविशारदः । गोकर्णेशात् पूर्ब्बभागे आर्य्यावर्त्तात्तु चोत्तरे ॥ तैरभुक्तात् पश्चिमे तु महापूर्य्याश्च सर्व्वतः । महाकोशलदेशश्च सूर्य्यवंशपरायणः ॥ व्यासेश्वरं समारभ्य तप्तकुण्डान्तकं शिवे । मगधाख्यो महादेशो यात्रायां न हि दुष्यति ॥ दक्षोत्तरक्रमेणैव क्रमात् कीकटमागधौ । चरणाद्रिं समारभ्य गृध्रकूटान्तकं शिवे ! ॥ तावत् कीकटदेशः स्यात्तदन्तर्मागधो भवेत् । जगन्नाथप्रान्तदेशश्चोत्कलः परिकीर्त्तितः ॥ कामगिरिं समारभ्य द्बारकान्तं महेश्वरि ! । श्रीकुन्तलाभिधो देशो हूनं शृणु महेश्वरि ! ॥ कामगिरेर्द्दक्षभागे मरुदेशात्तथोत्तरे । हूनदेशः समाख्यातः शूरास्तत्र रमन्ति च ॥ अथाभ्यङ्गं समारभ्य कोटिदेशस्य मध्यगे । समुद्रप्रान्तदेशो हि कोङ्कण परिकीर्त्तितः ॥ ब्रह्मपुत्त्रात् कामरूपात् मध्यभागे तु कैकयः । मागधाद्दक्षभागे तु बिन्ध्यात् पश्चिमतः शिवे ! ॥ सौरसेनाभिधो देशः सूर्य्यवंशप्रकाशकः । हस्तिनापुरमारभ्य कुरुक्षेत्राच्च दक्षिणे ॥ पाञ्चालपूर्ब्बभागे तु कुरुदेशः प्रकीर्त्तितः । मरुदेशात् पूर्ब्बभागे कामाद्रेर्दक्षिणे शिवे ! ॥ सिंहलाख्यो महादेशः सर्व्वदेशोत्तमोत्तमः । शिलहट्टात् पूर्ब्बभागे कामरूपात्तथोत्तरे ॥ पुलन्ध्रिदेशो देवेशि ! नरनारायणः परः । गणेश्वरात् पूर्ब्बभागे समुद्रादुत्तरे शिवे ! ॥ कच्छदेशः समाख्यातः सुदेशं शृणु सादरम् । पुलिन्दादुत्तरे भागे कच्छाच्च पश्चिमे शिवे ! ॥ मत्स्यदेशः समाख्यातो मत्स्यबाहुल्य- कारकः । वैराटपाण्ड्ययोर्म्मध्ये पूर्ब्बदक्षक्रमेण तु ॥ मद्रदेशः समाख्यातो माद्रीहा तत्र तिष्ठति । शूरसेनात् पूर्ब्बभागे गण्डक्याः पश्चिमे शिवे ! ॥ सौवीरदेशो देवेशि ! सर्व्वदेशाधमाधमः । अवन्तीतः पश्चिमे तु वैदर्भाद्दक्षिणोत्तरे ॥ नाटदेशः समाख्यातो वर्व्वरं शृणु पार्व्वति ! । मायापुरं समारभ्य सप्तशृङ्गात्तथोत्तरे ॥ वर्व्वराख्यो महादेशः सैन्धवं शृणु सादरम् । लङ्काप्रदेशमारभ्य मक्कान्तं परमेश्वरि ! ॥ सैन्धवाख्यो महादेशः पर्व्वते तिष्ठति प्रिये ! । एते षट्पञ्चाशद्देशा मया प्रोक्ता महेश्वरि ! ॥ एतन्मध्येऽपि देवेशि ! देशभेदा ह्यनेकशः । कोटिशः सन्ति देवेशि ! एते मुख्याः प्रकीर्त्तिताः ॥ रहस्यातिरहस्यञ्च गोप्तव्यं पशुसङ्कटे । इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि ॥” इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देश पुं।
ग्रामसमुदायलक्षणस्थानम्
समानार्थक:देश,विषय,उपवर्तन
2।1।8।2।3
आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः। नीवृज्जनपदो देशविषयौ तूपवर्तनम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देश¦ पु॰ दिशति दिश--अच्। भूगोलान्तर्गते विभागभेदे जन-पदशब्दे विवृतिः। विस्तरस्तु देशावलीग्रन्थस्य प्रामाण्ये[Page3752-a+ 38] तत्र दृश्यः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देश¦ m. (-शः)
1. A country, a region, whether inhabited or uninhabited.
2. A part, a portion.
3. Institute, ordinance. E. दिश् to point, to show, affix घञ् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देशः [dēśḥ], [दिश्-अच्]
A place or spot in general; देशः को नु जलावसेकशिथिलः Mk.3.12 (often used after words like कपोल, स्कन्ध, अंस, नितम्ब &c., without any meaning; स्कन्धदेशे Ś.1.19 'on the shoulder').
A region, country, province, land, territory; यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् H.1.15.
A department, part, side, portion (as of a whole); as in एकदेश, एकदेशीय q. v.
An institute, an ordinance.
Range, compass; दृष्टिदेशः Pt.2. -Comp. -अटनम् roaming through a country, travelling. -अतिथिः a foreigner.
अन्तरम् another country, foreign parts; Ms.5.78.
longitude.-अन्तरिन् m. a foreigner. -आचारः, -धर्मः a local law or custom, the usage or custom of any country; देश- धर्मान् जातिधर्मान् कुलधर्मांश्च शाश्वतान् Ms.1.118. -कष्टकः a public calamity. -कारी N. of a Rāgiṇī. -कालौm. (du.) time and place; न देशकालौ हि यथार्थधर्माववेक्षते कामरतिर्मनुष्यः Rām.4.33.55. (-लम्) ind. according to time and place; सत्पात्रं महती श्रद्धा देशकालं यथोचितम् Pt.2.72.-कालज्ञ a. knowing the proper place and time. -च्युतिः banishment or flight from one's country. -ज, -जात a.
native, indigenous.
produced in the right country.
genuine, of genuine descent. -दृष्ट a.
seen in a country.
customary in a place; Ms.8.3. -भाषा the dialect of a country; आलोच्य लक्ष्यमधिगम्य च देशभाषाः Kāvyāl.4.35. -रूपम् propriety, fitness; Mb.12. -विद्धa. properly perforated (pearl); Kau. A.2.11. -वृत्तम् a circle depending upon its relative position to the place of the observer. -व्यवहारः a local usage, custom of the country.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देश m. (1. दिश्)point , region , spot , place , part , portion VS. AitBr. S3r. and Gr2S. Mn. etc.
देश m. province , country , kingdom R. Hit. Katha1s. Vet.
देश m. institute , ordinance W. ( देशम्आवस्, or नि-विश्, to settle in a place Mn. ; शे, in the proper place [ esp. with काले] MBh. Hit. Often ifc. [ f( आ). Ragh. vii , 47 R2it. i , 27 ] esp. after a word denoting a country or a part of the body e.g. काम्बोज-, मगध-; अंस-, कण्ठ-, स्कन्ध-; आत्मीय-, one's own country or home)
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Deśa, ‘land,’ is a word that does not come into use till the time of the Upaniṣads and Sūtras,[१] excepting one occurrence in the latest period of the Brāhmaṇa[२] literature, and one in a much-discussed passage of the Vājasaneyi Saṃhitā,[३] where the Sarasvatī is mentioned as having five tributaries. This passage militates against the view that Sarasvatī was a name of the Indus, because the use of Deśa here seems to indicate[४] that the seer of the verse placed the Sarasvatī in the Madhyadeśa or ‘Middle Country,’ to which all the geographical data of the Yajurvedas point.[५]
- ↑ Where its use becomes common;
Bṛhadāraṇyaka Upaniṣad, iv. 1, 16;
2, 3;
Śāṅkhāyana Śrauta Sūtra, iv. 14, 6;
Kātyāyana Srauta Sūtra, xv. 4, 17, etc. So the adjective deśīya, ‘belonging to a land,’ Kātyāyana, xxii. 4, 22;
Lāṭyāyana Srauta Sūtra, viii. 6, 28. - ↑ Aitareya Brāhmaṇa, viii. 10 (a late passage).
- ↑ xxxiv. 11.
- ↑ Cf. Zimmer, Altindisches Leben, 10, who thinks that the word crept into the text, where the Sarasvatī originally meant the Indus, with the five tributaries of the Panjab.
- ↑ Macdonell, Sanskrit Literature, 174.