नाडी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाडी, स्त्री, (नाडि + “कृदिकारादक्तिनः ।” इति वा ङीष् ।) नालम् । व्रणान्तरम् । (नाली घा इति भाषा । यथा, सुश्रुते निदानस्थाने १० अध्याये । “तस्यातिमात्रगमनाद्गतिरित्यतश्च नाडीव यद्वहति तेन मता तु नाडी ॥” दन्तमूलगता नाल्यो यथा, तत्रैव १६ अध्याये । “नालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः । दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ॥”) शिरा । गण्डदूर्व्वा । कुहनचर्य्या । षट्क्षण- कालः । इति मेदिनी । डे, १६ ॥ शिरार्थे पर्य्यायः । धमनिः २ सिरा ३ । इत्यमरः । २ । ६ । ६५ ॥ नाडिः ४ नालिः ५ नाली ६ धमनी ७ शिरा ८ । इति भरतः ॥ धरणी ९ धरा १० तन्तुकी ११ जीवितज्ञा १२ सिंहा १३ । इति राजनिर्घण्टः ॥ * ॥ कायनाडी त्रिविधा । एका वायुवहा । अपरा मूत्रविडस्थिरस- वाहिनी । अपरा आहारवाहिनी । इति भरतः ॥ “सा तु गर्भस्थबालकस्य सप्तभिर्मासै- र्भवति ।” इति सुखबोधः ॥ (यथा, तोडलतन्त्रे ८ उल्लासे । श्रीदेव्युवाच । “सार्द्धत्रिकोटिनाडीनामालयञ्च कलेतरम् । क्रमेण श्रोतुमिच्छामि तद्बदस्व मयि प्रमो ! ॥ श्रीशिव उवाच । लोम्नि कूपे सपादार्द्धकोटयश्चैव सुन्दरि ! । हस्तास्ये च तथा पादेऽग्निलक्षनाडयः स्थिताः ॥ उदरे च तथा पायौ पञ्चलक्षाः प्रकीर्त्तिताः । हृदादिसर्व्वगात्रेषु नवलक्षाः प्रकीर्त्तिताः ॥ अथ पार्श्वे तथा चर्म्मे तथैव सर्व्वसन्धिषु । रुद्रान्यूनं स्थितं लक्षं शरीरे नाडयः प्रिये ! ॥ ईडा च पिङ्गला चैव सुषुम्ना चित्रिणी तथा । ब्रह्मनाडी च यन्मध्ये पञ्च नाड्यः प्रकीर्त्तिताः ॥ कुहूश्च शङ्खिनी चैव गान्धारी हस्तिजिह्विका । नर्द्दिनी च तथा निद्रा रुद्रसंख्या व्यवस्थिता ॥ एता नाड्यः परेशानि ! सुषुम्नायाः प्रजायते ॥”) नाडीक्रममाह । “सार्द्धत्रिकोट्यो नाड्यो हि स्थूलाः सूक्ष्माश्च देहिनाम् । नाभिकन्दनिबद्धास्तास्तिर्य्यगूर्द्ध्वमधःस्थिताः ॥ द्विसप्ततिसहस्रन्तु तासां स्थूलाः प्रकीर्त्तिताः । देहे धमन्यो धन्यास्ताः पञ्चेन्द्रियगुणावहाः ॥ तासाञ्च सूक्ष्मशुषिराणि शतानि सप्त स्युस्तानि यैरसकृदन्नरसं वहद्भिः । आप्याय्यते वपुरिदं हि नृणाममीषा- मम्भःस्रवद्भिरिव सिन्धुशतैः समुद्रः ॥ आपादतः प्रततगात्रमशेषमेषा- मामस्तकादपि च नातिपुरःस्थितेन । अथ प्रमेहज्ञानम् । प्रमेहे ग्रन्थिरूपा सा सुतप्ता त्वामदूषणे ॥ * ॥ विषविष्टम्भगुल्मज्ञानमाह । उत्पित्सुरूपा विषरिष्टिकायां विष्टम्भगुल्मेन च वक्ररूपा । अत्यर्थवातेन अधः स्फुरन्ती उत्तानभेदिन्यसमाप्तिकाले ॥ * ॥ गुल्मे विशेषमाह कश्चित् । गुल्मेन कम्पोऽथ पराक्रमेण पारावतस्येव गतिं करोति ॥ * ॥ अथ भगन्दरज्ञानम् । व्रणार्थं कठिने देहे प्रयाति पैत्तिकं क्रमम् । भगन्दरानुरूपेण नाडीव्रणनिवेदने । प्रयाति वातिकं रूपं नाडी पावकरूपिणी ॥ अथ वान्तादिज्ञानम् । वान्तस्य शल्याभिहतस्य जन्तो- र्वेगावरोधाकुलितस्य भूयः । गतिं विधत्ते धमनी गजेन्द्र- मरालमानेव कफोल्वणेन ॥ स्त्रीरोगादिकमपि रक्तादिज्ञानक्रमेण ज्ञातव्यम् । क्वचित्प्रकरणोल्लेखात् क्वचिदौचित्यमात्रतः । क्वचिद्देशात् क्वचित् कालात् सङ्कीर्णगदनिर्णयः ॥ नाडीपरिचयज्ञानं प्रायशो नैव दृश्यते । तेन धार्ष्ट्या मयोक्तं यत्तत् समाधेयमुत्तमैः ॥” इति श्रीशङ्करसेनकविराजकृते नाडीप्रकाशे तृतीयोद्योतः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाडी स्त्री।
धमनिः
समानार्थक:नाडी,धमनि,सिरा
2।6।65।1।2
पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा। तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्.।
पदार्थ-विभागः : अवयवः
नाडी स्त्री।
तृणादिकाण्डः
समानार्थक:नाडी,नाल
2।9।22।1।1
नाडी नालञ्च काण्डोऽस्य पलालोऽस्त्री सनिष्फलः। कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्.।
: धान्यरहितकाण्डः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
नाडी स्त्री।
षट्_क्षणकालः
समानार्थक:नाडी
3।3।43।1।2
क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे। काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥
पदार्थ-विभागः : , द्रव्यम्, कालः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाडी¦ स्त्री चु॰ नल--गन्धे अच् लस्य डः। चु॰ नड--भ्रंशेअच् वा गौरा॰ ङीष्। सिरायां काथस्थसिरास्वरूप-भेदादिकं भावप्र॰ उक्तं यथा(
“अथ सिरामाह सन्धिबन्धनकारिण्यो दोपष्ठातुः[Page4023-a+ 38] वहाः सिराः। नाभ्यां सर्वा निबद्धास्ताःप्रतन्वन्ति सम-न्ततः। शरीरं सकलञ्चैतत् सिराभिः पोष्यते सदा। प्रणालीभिरिवारामाः कुल्याभिः क्षेत्रधान्यवत्”। अत्रप्रणालीभिः कुल्याभिरिति दृष्टान्तद्वयं स्थूलसूक्ष्मसिराभेदात्।
“प्रसारणाकुञ्चनादिक्रियाभिः सततंतनौ। सिरा एवोपकुर्वन्ति ताः स्युः सप्त शतानि तु। यथा द्रुमदले साक्षात् दृश्यन्ते प्रतताः सिराः”। तथैव
“नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिरुपाश्रिता। सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः”। तद्यथातासां खलु स्थूलसिराः चत्वारिंशत् तासां दश वात-वहाः दश पित्तवहाः दश श्लेष्मवहाः दश रक्तवहाः। तासां खलु वातवहानां वातस्थानगतानां सपञ्चसप्त-तिशतानि
१७
५ भवन्ति। तावत्य
१७
५ एव पित्तवहाःपित्तस्थानगताः। श्लेष्मवहाः तावत्यः
१७
५ श्लेष्म-स्थानगता रक्तवहास्तावत्यः
१७
५ यकृत्प्लीहगता एवंसिराः सप्तशतानि भवन्ति। तत्र वात्वहाः एकस्मिन्सक्थ्नि पञ्च विंशतिः एतेनेतरसक्थि
२५ वाहू च व्या-ख्यातौ (
५० )। विशेषतः कोष्ठे चतुस्त्रिंशत् तासांश्रोण्यां मुदमेढ्रादिश्रिता अष्टौ। द्वे द्वे पार्श्वयोः
४ । षट् पृष्ठे तावत्य
६ एवोदरे दश वक्षसि एवं (
३४ )। एकचत्वारिंशद् जत्रुण ऊर्द्ध्वम् तासां चतुर्द्दश
१४ ग्रीवायां
४ चतस्रः कर्णयोः
९ नव जिह्वायां
६ षट्नासिकायां
८ अष्टौ नेत्रयोः (
४१ )। एवं वातवहानांसपञ्चसप्ततिशतं
१७
५ भवन्ति। एवं विभागः पित्त-वहानामपि विशेषतस्तु पित्तवहा नेत्रयोर्दश
१० कर्णयोर्द्वे
२ एवं रक्तवहा श्लेष्मवहास्तु षोडश
१६ ग्रीवायां कर्णयो र्द्वे एवं सिराणां सप्तशतानि व्या-ख्यातानि।
“क्रियाणामप्रतीघातममोहं बुद्धिकर्म-णाम्। करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्च-रन्”। क्रियाणां प्रसारणाकुञ्चनादीनाम्। अमोहंबुद्धिकर्मणाम् बुद्धीन्द्रियाणां मनसो बुद्धेश्च स्वे स्वेविषये ज्ञानं न करोतीत्यर्थः। अन्यान् गुणान् रसादि-व्यापनद्वारा शरीरपोषणादीन्।
“यदा तु कुपितोवायुः स्वाः सिराः प्रतिपद्यते। तदास्य विविधा रोगाजायन्ते वातसम्भवाः। भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम्। करोत्यन्यान् गुणांश्चापि पित्तमात्मसिरा-श्चरन्” अरोगतां पैत्तिकरोगानुत्पत्तिं करोति। अन्थान्गुणान् मेधाबुद्धिदर्शनशक्त्यादीन्।
“यदा तु कुपितं[Page4023-b+ 38] पित्तं सेवते स्वबहाः सिराः। तदास्य विविधारोगा जायन्ते पित्तसम्भवाः। स्नेहभङ्गेषु सन्धीनांस्थैर्य्यं बलमरोगताम्। करोत्यन्यान् गुणांश्चापिवलासः स्वाः सिराश्चरन्”। अरोगतां श्लैष्मिकरोगा-नुत्पत्तिम् अन्यान् गुणान् बलपुष्ट्यादीन्।
“यदातु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते। तदास्यविविधा रोगा जायन्ते श्लेष्मसम्भवाः। धातूनां पूरणंसम्यक् स्पर्शज्ञानमसंशयम्। स्वसिरासु चरढ्रक्तं कु-र्य्याच्चान्थान् गुणानपि” अन्यान् गुणान् बलपुष्ट्य-दीन्।
“यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः। तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः। तत्रा-रुणा वातवहाः पूर्य्यन्ते वायुना सिराः। पित्त-दुष्टश्च नीलाश्च शीता गौर्य्यः स्थिराः कफात्। असृ-ग्ष्टरास्तु ता रक्ताः स्युश्चलात्युष्णशीतलाः”। याज्ञव॰नाडीसंख्या अन्यथैवोक्ता। कायशब्दे
१९
१० पृ॰ दृश्या। पदार्थादर्शे च
“पूर्वोक्तायाः सुषुम्णाया मध्यस्थायाःसुलोचने। नाभिहृत्कण्ठतालुभ्रू मध्यपर्व समुद्ववाः। अधोमुख्यः सिराः काश्चित् काश्चिदूर्द्ध्वमुखास्तथा। सिरा-स्तिर्यग्गतास्याश्च तत्र शतत्रयाधिकाः। नाड्योऽर्द्धलक्ष-सङ्ल्याताः प्रधानाः समुदीरिताः। तमु सर्वासु वलवान्प्राणो नादः समन्ततः”। संस्थितः सर्वदेहान्तः” इतितत्रापि दशनाडीनां प्राधान्येनोत्कीर्त्तनं सा॰ ति॰ यथा
“नाडीर्दश विदुस्तासु मुख्यास्तिस्रः प्रकीर्त्तिताः। ईडावामे तयोर्मध्ये सुपुम्णा पिङ्गलाऽपरे। मध्ये तास्वपिनाडी स्यादग्निषोमस्वरूपिणी। गान्धारी हस्तिजिह्वाच सप्तलालङ्कृता तथा। यशस्विनी शङ्खिनी च कुहूःस्युः सप्त नाडयः। नाड्योनन्ताः समुत्पन्ना सुषुम्णापञ्चप-र्वसु”। रोगविशेषज्ञानार्थं नाडीपरीक्षा मावप्र॰ उक्ता यथाअथ नाडीपरीक्षामाह। पुंसो दक्षिणहस्तस्य स्त्रियोवामकरस्य तु। अङ्गुष्ठमूलनां नाडीं परीक्षेत भिष-ग्वरः। अङ्गलीभिस्तु तिसृभिर्नाडीमवहितः स्पृशेत्। तच्चेष्टया सुखं दुःखं जानीयात्कुशलोऽखिलम्। सद्यः-स्नातस्य सुप्तस्य क्षुत्तृष्णातपशीलिनः। व्यायामश्रान्त-देहस्य सम्यक् नाडी म बुध्यते। वातेऽधिके भवेन्नाडीप्रव्यक्ता तर्जनीतले। पित्ते व्यक्ता मध्यमायां तृतीया-ङ्गुलिगा कफे। तर्जनीमध्यमामध्ये वातपित्ताधिकेस्फुटा। अनामिकायां तर्जन्यां व्यक्ता वातकफे भवेत्। मध्यमानामिकामध्ये स्फुटा पित्तकफेऽधिके। अङ्गुलि[Page4024-a+ 38] त्रितयेऽपि स्यात्प्रव्यक्ता सन्निपाततः। वाताद्वक्रगति-न्धत्ते पित्तादुत्प्लुत्य गामिनी। कफान्मन्दगतिर्ज्ञेयासन्निपातादतिद्रुता। वक्रमुत्प्लुत्य चलति धमनीवातपित्ततः। वहेद्वक्रञ्च मन्दञ्च वातश्लेष्माधिकत्वतः। उत्प्लुत्य मन्दञ्चलति नाडी पित्तकफेऽधिके। कामात्क्रोधाद्वेगवहा क्षीणा चिन्ताभयप्लुता स्थित्वास्थित्वा च लेह्या सा हन्ति स्थानच्युता तथा। अति-क्षीणा च शीता च प्राणान् हन्ति न संशयः। ज्वर-कोपेन धमनी सोष्णा वेगवती भवेत्। मन्दाग्नेः क्षीणधातोश्च सैव मन्दतरा मता। चपला क्षुधितस्य स्यात्तृप्तस्य भवति स्थिरा। सुखिनोऽपि स्थिरा ज्ञेया तथाबलवती सता”। अत्र विशेषो नाडीप्रकाशे(
“सार्द्धत्रिकोट्यो नाड्यो हि स्थूलाः सूक्ष्माश्च देहि-नाम्। नाभिकन्दनिबद्धास्तास्तिर्य्यगूर्द्ध्वमधः स्थिताः। द्विसप्ततिः सहस्रन्तु तासां स्थूलाः प्रकीर्त्तिताः। देहेधमन्यो धन्यास्ताः पञ्चेन्द्रियगुणावहाः। तासाञ्चसूक्ष्मशुषिराणि शतानि सप्त स्य स्तानि यैरसकृदन्नरसंवहद्भिः। आप्याय्यते वपुरिदं हि नृणाममीषामम्भःस्ववद्भिरिव मिन्धुशतैः समुद्रः। आपादतः प्रततगात्र-मशेषमेषामा मस्तकादपि च नाभिपुरःस्थितेन। एतन्मृगङ्ग इव चर्म च येन नद्धं कायं नृणामिह सिरा-शतसप्तकेन। सप्तशतानां मध्ये चतुरधिका विंशतिःस्फुटास्तासाम्। एका परीक्षणीया दक्षिणकरचरण-विन्यस्ता।
“तिर्य्यक्कूर्मो देहिनां नाभिदेशे वामे वक्रंतस्य पुच्छञ्च याम्ये। ऊर्ध्वे भागे हस्तपादौ च वामौतस्याधस्तात् संस्थितौ दक्षिणौ तौ। वक्त्रे नाडीद्वयंतस्य पुच्छे नाडीद्वयं तथा। पञ्च पञ्च करे पादे वाम-दक्षिणभागयोः। वामे भागे स्त्रिया योज्या नाडीपुंसस्तु दक्षिणे। इति प्रोक्तो मया देवि! सर्वदेहेषुदेहिनाम्”। नपुंसकस्य तु स्त्रीपुंसयोरन्यतराकारप्रक-टतामपेक्ष्य परीक्षा। साम्यन्तु न स्यादेव। कृत्रि-मस्य तु प्रकृतिस्थता।
“अङ्गुष्ठस्य तु या मूले धमनीजीवमाक्षिणी। तस्या गतिवशाद्विद्यात् सुखं दुःखंञ्चदेहिनाम्। वातं पित्तं कफं द्वन्द्वं सन्निपातन्तथैव च। साध्यासाध्यविवेकञ्च सर्वं नाडी प्रकाशयेत्। प्रातः-कृतसमाचारः कृताचारपरिग्रहम्। सुखासीनःसुखासीनं परीक्षाथमुपाचरेत्। सद्यः स्नातस्य भुक्तस्यक्षुत्तृष्णातपसेविनः। व्यायामाक्रान्तदेहस्य सम्यङ्-[Page4024-b+ 38] नाडी न बुध्यते। तेलाभ्यङ्गे च सुप्ते च तथा चमोजनान्तरे। तथा न ज्ञायते नाडी यथा दुर्गतरानदी। आदौ च वहते वातो मध्ये पित्तं तथैव च। अन्ते च वहते श्लेष्मा नाडिकात्रयलक्षणम्। भूलतागमनप्राया स्वच्छा स्वास्थ्यमयी सिरा। प्रातःसिग्धमयीनाडी मध्याह्ने चीष्णतान्विता। सायाह्ने धावमाना चचिराद्रोगविवर्जिता। वाताद्वक्रगता नाडी चपलापित्तवाहिनी। स्थिरा श्लेष्मवती ज्ञेया मिश्रिते मिश्रिताभवेत्। सर्पजलौकादिगतिं वदन्ति विबुधाः प्रभञ्जनेननाडीम्। पित्ते च काकलावकभेकादिगतिं विदुःसुधियः। राजहसमयराणां पारावतकपोतयोः। कुक्कुटादिगतिं धत्ते धभनी कफसंवृता। मुहुः सर्प-गतिं नाडीं मुहुः मेकगतिं तथा। वातपित्तद्वयोद्भूतांप्रवदन्ति विचक्षणाः। भुजगादिगतिञ्चैव राजहंसगतिं सिराम्। वातश्लेष्मसमुद्भूतां भाषन्ते तद्विदोजनाः। मण्डूकादिगतिं नाडीं मयूरादिगति तथा। पित्तश्लेष्मसमुद्भूतां प्रवदन्ति महाधियः”।
“लावतित्तिरिवार्त्तीकगमनं सन्निपाततः। कदाचिन्मन्द-गा नाडी कदाचिच्छीग्रगा भवेत्। त्रिदोषप्रमवे रोगेविज्ञेया हि भिषग्वरैः। यदा यं धातुमाप्नोति तदानाडी तथा गतिः। तथाहि सुखसाध्यत्वं नाडी-जानेन बुध्यते”।
“नाडी यथा कालगतिस्त्रयाणांप्रकोपशान्त्यादिभिरेव भूयः”।
“मन्दं मन्दं शिथिल-शिथिलं व्याकुलाव्याकुलं वा स्थित्वा स्थित्वा वहतिधमनी याति नाशञ्च सूक्ष्मा। नित्यं स्थानात् स्खलतिप्रनरप्यङ्गुलिं संस्पृशेद्वा भावैरेवं बहुविधविधैः सन्नि-पातादसाध्या। सह्रातापेऽपि शीतत्वं शीतत्वे तापितासिरा। नानाविधगतिर्यस्य तस्य मृत्युर्न संशयः। त्रि-दोषे स्पन्दते नाडी मृत्युकालेऽपि निश्चला। पूर्वंपित्तततिं प्रभञ्जनगतिं श्लेष्माणमाबिभ्रतीम् सन्तान-भ्रमणं सुहुर्विदधतीं चक्राधिरूढामिव। तीव्रत्वदधतीं कलापिगतिकां सूक्ष्मत्वमातन्वतीं न साध्यां धमनींवदन्ति सुधियो नाडीगतिज्ञानिनः। यात्युच्चा चस्थिरात्यन्ता या चेथं मांसवाहिनी। या चं सूक्ष्मा चवक्रा च तामसाध्यां विदुर्बुधाः। भारप्रवाहमूर्च्छाभयशोवप्रमुस्वकारणान्नाडी। संमूर्च्छितापि गाढं पुनरपिसा जीवितं धत्ते। पातितः सन्धितो भेदी नष्टशुक्रश्चयो नरः। शाम्यते विस्मयस्तस्य न किञ्चिन्मृत्युका-[Page4025-a+ 38] रणम्”। अन्यत्रापि।
“तथा भूताभिषङ्गेऽपि त्रिदोष-वदुपस्थिता। समं वा वहते नाडी तथा च न क्रमंगता। अपमृत्युर्न रोगाङ्गा नाडी तत्सन्निपातवत्। स्वस्थानहीने शोके च हिमाक्रान्ते च निर्गदाः। भवन्ति निश्चला नाड्यो न किञ्चित् तत्र दूषणमिति”। अन्ये त्वाहुः
“तोकवातकफैर्दुष्टं पित्तं वहति दारुणम्। षित्तस्थानं विजानीयात् भेषजं तस्य कारयेदिति”। अत्रकश्चित्
“स्वस्थानच्यवनं यावद्धमन्या नोपजायते। तावच्चिकित्सासत्त्वेऽपि नासाध्यत्वमिति स्थितिरिति”। प्रसङ्गात् कालनिर्णयमाह
“भूलताभुजगाकारा नाडीदेहस्य संक्रमात्। विशीर्णा क्षीणतां याति मासान्तेमरण भवेत्। क्षणाद्गच्छति वेगेन शान्ततां लभतेक्षणात्। सप्ताहान्मरणं तस्य यद्यङ्गं शोथवर्जितम्। हिमवद्विशदा नाडी ज्वरदाहेन तापिनाम्। त्रिदोष-स्पर्शभजतां तदा मृत्युर्दिनत्रयात्। निरीक्ष्या दक्षिणेमादे तदा चैषा विशेषतः। मुखे नाडी वहेन्नित्यं ततस्तुदिनतुर्य्यकम्। गतिन्तु भ्रमरस्येव वहेदेकदिनेन तु। कम्पेन स्पन्दते नित्यं पुनर्लगति चाङ्गुलौ। मध्येद्वादशयामानां मृत्युर्भवति निश्चितम्”। दक्षिण इतिपुंसः। स्त्रियास्तु वाम एव तथेति।
“स्थित्वा नाडीमुखे यस्य विद्युद् द्योतिरिवेक्ष्यते। दिनैकं जीवितं तस्यद्वितीये म्रियते ध्रुवम्। स्वस्थानविच्युता नाडी यदावहति वा न वा। ज्वाला च हृदये तीव्रा तदा ज्वाला-वधि स्थितिः। अङ्गग्रहणे नाडीनां सान्निपातिक-रूपेण भवन्ति सर्ववेदनाः” ज्वररूपमाह।
“ज्वर-कोपे च धमनी सोष्णा वेगवती भवेत्। उष्मा पित्ता-दृते नास्ति ज्वरो नास्त्युष्मणा विना। उष्णा वेगधरानाडी ज्वरकोपे प्रजायते”। अन्यत्र च
“ज्वरे चवक्रा धावन्ती तथाच भरुतः प्लवे। रमणान्ते निशि-प्रातः तप्ता दीपशिखा यथा”। तत्रापि विशेषमाह
“सौम्या सूक्ष्मा स्थिरा मन्दा नाडी सहजवातजा। स्थूला च कठिना शीघ्रा स्पन्दते तीव्रमारुते। द्रुता चसवला शोघ्रा दीर्घा पित्तज्वरे भवेत्। शीघ्रमाहननंनाड्याः काठिन्याच्च चला तथा। मलाजीर्णेनाति-तरां सस्पन्द{??} प्रकीर्त्तितम् नाडी तन्तुसमा मन्दाशीतला श्लेष्मदोषजा”। द्वन्तजामाहृ
“चञ्चला तरलास्यूलकठिना वातपित्तजा। ईषच्च दृश्यते तूष्णा मन्दास्यात् शेष्मवातजा निरन्तरं खरं रूक्ष मन्दश्लेष्माति[Page4025-b+ 38] वातलम्। दक्षवातभवे तस्य नाडी स्यात् पित्तसन्निभा। सूक्ष्मा शीता स्थिरा नाडी पित्तश्लं ष्मसमुद्भवा”।
“मध्ये करे वहेन्नाडी यदि सन्तर्पिता ध्रुवम्। तदान्यूनं मनुष्यस्य रुधिरा पूरिता मलाः”। आग-न्तुकरूपभेदमाह
“भूतज्वरे सेक इवातिवेगा धा-वन्ति नाड्यो हि यथाम्बुवेगाः”। तथा
“ऐकाहिकेन क्वचन प्रदूरे क्षणान्तगा सा विषमज्वरेण। द्विती-यके वापि तृतीयतुर्य्ये गच्छन्ति तप्ता भ्रमिवत् क्र-मेण”। अन्यत्रापि
“उष्णा वेगधरा नाडी ज्वरकोपेप्रजायते। उद्वेगक्रोधकामेषु भयचिन्ताश्रमेषु च। मवेत् क्षीणगतिर्नाडी ज्ञातव्या वैद्यसत्तमैः”।
“व्यायामे भ्रमणे चैव चिन्तायां श्रमशोकतः। नामा-प्रभावगमना सिरा गच्छति विज्वरे”। अजीर्णरूप-माह
“अजीर्णे तु भवेन्नाडी कठिना परितोजडा!प्रसन्ना च द्रुता शुद्धा त्वरिता च प्रवर्त्तते”। तत्रविशेषमाह
“पक्वाजीर्णे पुष्टिहीना मन्दं मन्दं वहे-ज्जडा। असृक्पूर्णा भवेत् कोष्णा गुर्वी सामा गरीयसी। नाड्या भक्षितद्रव्यज्ञानम् यथा
“पुष्टिस्तैलगुडाहारे मांसेच लगुडाकृतिः। क्षीरे च स्तिमितावेगा मधुरे भेक-वद्गतिः। रम्भागुडवटाहारे रूक्षशुष्कादिभोजने। वातपित्तार्त्तिरूपेण नाडी वहति निष्क्रमम्”। नाड्यापीतरसज्ञानम्
“मधुरे बर्हिगमना तिक्ते स्याद्भूलतागतिः। अम्ले कोष्णा प्लवगतिः कटुके भृङ्गसन्निभा। कषाये कठिना म्लाना लवणे सरला द्रुता। एवं द्वित्रि-चतुर्योगे नानाधर्मवती सिरा”। तथा
“द्रवेऽतिकठिनानाडी कोमला कठिनाशने। द्रवद्रव्यस्य काठिम्ये को-मला कठिनापि च। क्षौद्रे पृथग्ग्रन्थिलेव पिष्टेपुष्टैव जायते”। अग्निमान्द्यधातुक्षयलिङ्गम्
“मन्दाग्नेःक्षीणधातोश्च नाडी मन्दतरा भवेत्” तदुक्तम्
“क्षीण-धातौ च मन्दाग्नौ नाडी क्षीणतमा ध्रुवम्”। तथा
“मन्देऽग्नौ क्षीणतां याति नाडी हंसाकृतिस्तथेति” अन्ये तु
“आमाचये पुष्टिविवर्द्धनेन भवन्ति नाड्योऽग्र-भुजाभिवृत्ताः। आहारमा{??}द्यादुपवासती वा तथैवनाड्यो भुजगाग्रमाना। प्रसङ्गाद्दीप्ताग्निज्ञानमाह
“लघ्वी भवति दीप्ताग्नेः करे मण्डूकसंप्लवा। तस्या-ग्नेर्मन्दता देहे त्वथ वा ग्रहणीगदे”। तथा
“भेदेनशान्ता ग्रहणीगदेन निर्वीर्य्यरूपा त्वतिसारभेदे। विल-म्बियायां{??}वगा कदाचिदामातिसारे पुथुलाजडा च”। [Page4026-a+ 38] अथ विसूचिका ज्ञानम्।
“निरोधो मूत्रशकृतोर्विड्-ग्रहे त्वितराश्रिताः। विसूचिकाभिभूते च भवन्तिभेकवत्क्रमाः”। प्रसङ्गादानाहमूत्रकृच्छ्रज्ञानमाह
“आनाहे मूत्रकृच्छ्रे च भवेन्नाडीगरिष्ठता”। शूलज्ञान-माह
“वातेन शूलेन मरुत्प्लवेन सदैव वक्रा हि सिरावहन्ति। ज्वालामयी पित्तविचेष्टितेन साध्या न शूलेन च पुष्टरूपा”। अथ प्रमेहज्ञानम्।
“प्रमेहे ग्रन्थि-रूपा सा सुतप्ता त्वामदूषणे”। विषविष्टम्भगुल्म-ज्ञानमाह
“उत्पित्सुरूपा विषरीष्टिकायां विष्टम्भगुल्मेन च वक्ररूपा। अत्यर्थवातेन अधःस्फुरन्तीउत्तानभेदिन्यसमाप्तिकाले”। गुल्मे विशेषमाह कश्चित्
“गुल्मेन कम्पोऽथ पराक्रमेण पारावतस्येव गतिं करोति” अथ भगन्दरज्ञानम्
“व्रणार्थं कठिने देहे प्रयाति पै-त्तिकं क्रमम्। भगन्दरानुरूपेण नाडीव्रणनिवेदने। प्रयाति वातिकं रूपं नाडी पावकरूपिणी”। अथवान्तादिज्ञानम्
“वान्तस्य शल्यामिहतस्य जन्तोर्वेगाव-रोधाद्गिलितस्य भूयः। गतिं विधत्ते घमनी गजेन्द्र-मरालमानेव कफोल्वणेन। रोगादिकमपि रक्तादि-ज्ञानक्रमेण ज्ञातव्यम्।
“क्वचित् प्रकरणोल्लेखात् क्वचि-दौचित्यमात्रतः। क्वचित् देशात् क्वचित् कालात् सङ्कीर्णगदनिर्णयः”। नाडीपरिचयज्ञानं प्रायशो नैव दृश्यते। तेन धार्ष्ट्यात् मयोक्तं यत्तत् समाधेयमुत्तमैः”। (
“मातुस्तु खलु रसरहायां नाड्यां गर्भनामिनाडीप्रतिवद्धा” सुश्रु॰
“प्राग् नाडीच्छेदनात् पुंसो जातकर्मविधीयते” इति स्मृतिः
“शतं चैका च हृदयस्य नाड्यः” श्रुतिः
“प्रवृत्ता हृदयात् सर्वाः तिर्य्यगूर्द्धमधस्तथा। वहन्त्यन्नरसान् नाड्यो दशप्राणप्रचोदिताः” भा॰ व॰
२१
२ अ॰।
२ व्रणान्तरे
३ गण्डदूर्वायाम् कुहकचर्य्यायाञ्चघटीरूपे दण्डात्मके
४ समयभेदे च मेदि॰।
“दशगुर्वक्षरःप्राणः षड्भिः प्राणैर्विनाडिका। तत्षष्ट्या तु भवे-न्नाडी” सू॰ सि॰। तत्कालज्ञाने यन्त्रादिकं घटीशब्देदर्शितम्।
“त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम्। नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ति॰ त॰। नक्षत्रविशेषज्ञापके
५ नाड्याकारे रेखाभेदे उपयमशब्देनाडीकूटनिरूपणे
१२
५४ पृ॰ दृश्यम्।
“एकराश्या-दियोगे च नाडीदोषो न विद्यते” ज्यो॰ त॰
“अश्वि-न्यादिलिखेच्चक्रं सर्पाकारं त्रिनाडिकम्” ज्यो॰ त॰। ( चक्रशब्दे पण्णाडीनिर्णये
२८
१६ पृ॰ दृश्यम्
“आर्द्रा-[Page4026-b+ 38] दिकं लिखेच्चक्र मृगान्तञ्च त्रिनाडिकम्”
“एकना-डीस्थधिष्ण्यानि यत्र स्युर्वरकन्ययोः” तत्रैव। स्वरोदयेषड्नाडीचक्रनवनाडीचक्रयोस्तु चक्रशब्दे दर्शितयो-रपि रेखाविशेषस्यैव नाडीशब्दार्थत्वम्। सिराबोध-कस्य नाडीशब्दस्य स्वाङ्गवाचकत्वात्
“नीडीतन्त्र्योःस्वाङ्गे” पा॰ बहु॰ न कप्। बहुनाडिः कायः। अस्वाङ्गत्वे तु कप्। षष्टिनाडीको दिवसः।
६ प्रणा-ल्याञ्च सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः” रघुःनाले शाकादीनां (डाटा) ख्याते
७ अवयवभेदे च।
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाडी f. (fr. नाडnom. डीस्RV. x , 135 , 7 )the tubular stalk of any plant or any tubular organ (as a vein or artery of the body)
नाडी f. any pipe or tube RV. etc.
नाडी f. a flute RV. Ka1t2h.
नाडी f. the box of a wheel TS. Ka1t2h.
नाडी f. a fistulous sore Sus3r.
नाडी f. the pulse W.
नाडी f. any hole or crevice Katha1s.
नाडी f. a sort of bent grass(= गण्ड-दूर्वा) L.
नाडी f. a strap of leather , thong L.
नाडी f. a measure of time = 1/2 मुहूर्तVar.
नाडी f. a juggling trick , deception L.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
1. Nāḍī denotes a ‘vein’ or ‘artery’ in the human body in the Atharvaveda[१] and later,[२] a natural extension of the literal sense of ‘reed.’
2. Nāḍī means a musical instrument, a ‘reed flute,’ in the Rigveda[३] as well as the Kāṭhaka Saṃhitā,[४] where in one passage it is mentioned along with the Tūṇava.[५]
3. Nāḍī in the Yajurveda Saṃhitās[६] seems to mean the box of the chariot wheel.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाडी स्त्री.
घास-पत्र, आप.श्रौ.सू. 1.3.9; ‘दर्भ’ नाम की घास विशेष का तना, भा.श्रौ.सू. 1.3.1०.
- ↑ vi. 138, 4;
x. 7, 15. 16. - ↑ Kāṭhaka Saṃhitā, xii. 10;
Śatapatha Brāhmaṇa, x. 4, 5, 2;
Bṛhadāraṇyaka Upaniṣad, ii. 1, 21;
iv. 2, 3, etc.;
Chāndogya Upaniṣad, viii. 6, 1;
Kauṣītaki Upaniṣad, iv. 19. - ↑ x. 135, 7.
- ↑ xxiii. 4;
xxxiv. 5. - ↑ xxxiv. 5.
Cf. Hopkins, Journal of the American Oriental Society, 13, 329. - ↑ Taittirīya Saṃhitā, iii. 4, 8, 3;
Kāṭhaka Saṃhitā, xxxvii. 12.