पटल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटलम्, क्ली, (पटं विस्तृतं लाति । पट् + ला + “आतोनुपेति” । ३ । २ । ३ । कः । यद्बा पटतीति । पट + “कृषादिभ्यश्चित् ।” उणां । १ । १०८ । इति कलच् ।) छदिः । चाल इति भाषा । नेत्ररोगः । इत्यमरः । ३ । ३ । २०० ॥ पिटकः । परिच्छदः । तिलकः । (यथा, कलाविलासे । १ । २५ । “अस्तमिते दिवसकरे तिमिरभरद्विरदसंसक्ता । सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ सन्ध्या ॥”) समूहे क्ली स्त्री । इति मेदिनी ॥ (यथा, भाग- वते । ३ । १४ । २६ । “यस्यानवद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं बिभित्सवः । निरस्तसाम्यातिशयोऽपि यत् स्वयं पिशाचचर्य्यामचरत् गतिः सताम् ॥”) दृष्टेरावरकम् । चक्षुर परदा इति भाषा । यथाह माधवकरः । “प्रथमे पटले दोषो यस्य दृष्ट्या व्यवस्थितः । अव्यक्तानि सरूपाणि कदाचिदथ पश्यति ॥” दृष्ट्यां चत्वारि पटलानि । रसरक्ताश्रयं वाह्यं द्वितीयं माससंश्रयं तृतीयं मेदःसंश्रितं चतुर्थं कालकास्थिसंश्रितम् । तथा च सुश्रुतः । “तेजोजलाश्रितं वाह्यं तेष्वन्यत् पिशिताश्रितम् । मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम् । पञ्चमाशसमं दृष्टेस्तेषां बाहुल्यमिष्यते ॥” इति । अत्र तेजःशब्देन रक्तं जलशब्देन रसो व्याख्यातः । तेषु पटलेषु वाह्यादिभेदेनाधिष्ठान- विशषप्रभावात् दोषाणां लिङ्गविशेषमाह प्रथमे पटले इत्यादि । प्रथमे पटले सर्व्वाभ्यन्तरे न तु वाह्ये । इति विजयरक्षितः ॥

पटलः, पुं, स्त्री, (पाटयति दीप्यते यः । पट् + कलच् ।) ग्रन्थः । वृक्षः । इति शब्दरत्ना- वली ॥ वृक्षस्थाने वृन्तोऽपि पाठः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटल नपुं।

छादनम्

समानार्थक:पटल,छदिस्

2।2।14।2।4

प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकम्. वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

पटल नपुं।

नेत्ररुक्

समानार्थक:पटल

3।3।202।1।1

छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना। अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

पटल स्त्री-नपुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

3।3।202।1।1

छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना। अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम्.।

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटल¦ न॰ पट--वेष्टने कलच्।

१ छदिषि (चाल) अमरः

२ नेत्र-रोगभेदे च

३ पिटके

४ परिच्छदे

५ तिलके

६ समूहे चमेदि॰।

७ दृष्टेरावरके (चक्षेरपाता)। नेत्ररोगभेदश्चअक्षिपटलशब्दे

४३ पृ॰ उक्तः
“तेजो जलाश्रितं बाह्यंतेष्वन्यत् पिशिताश्रितम्। मेदस्तृतीयं पटलमाश्रितंत्वस्थि चापरम्। पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमि-ष्यते”।

८ तन्त्रांशभेदे च। छदिषि अस्य स्त्रीत्वमपिगौरा॰ ङीष्। हेमच॰

९ वृक्षे (वृन्ते) च शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटल¦ mfn. (-लः-ला-लं) A heap, a number, a quantity or multitude. nf. (-लं-ली)
1. A chapter of a book.
2. A tree.
3. A stalk. mf. (-लः-ला) A roof, a thatch. n. (-लं)
1. A cover, a coating, an enclo- sing or surrounding skin or membrance.
2. A place, a spot, a circle or district.
3. A mark on the forehead with Sandal wood
4. A basket.
5. Train, retinue.
6. A coat or film over the eyes. E. पट् to go, कलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटलम् [paṭalam], [पट् वेष्टने कलच्]

A roof, thatch; विनमितपटलान्तं दृश्यते जीर्णकुड्यम् Mu.3.15.

A cover, covering, veil, coating (in general); शिरसि मसीपटलं दधाति दीपः Bv.1. 74.

A film or coating over the eyes.

A heap, multitude, mass, quantity; रथाङ्गपाणेः पटलेन रोचिषाम् Śi. 1.21; जलदपटलानि Pt.1.361; क्षौद्रपटलैः R.4.63; मुक्तापटलम् 13.17; तारकपटल Gīt.7.

A basket.

Retinue, train.

A mark on the forehead or any other part of the body.

लः, ली A tree.

A stalk.

A collection; आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद् भङ्गुरम् Bh. -लः, लम् A section or chapter of a book. -Comp. -प्रान्तः the edge of a roof.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटल n. (and rarely f( ई). )a roof , thatch Var.

पटल n. a veil , cover Ka1v. Pur. Sa1h. ( ifc. f( आ). )

पटल n. a basket , chest , box Ba1lar.

पटल n. a heap , mass , multitude ( esp. in comp. with a word denoting " cloud ") MBh. Ka1v. etc.

पटल nm. an enclosing or surrounding skin or membrane ( esp. of the eyes) , a film over the eyes , cataract etc. Sus3r. Ka1ran2d2.

पटल n. a chip , piece , portion Ka1d.

पटल n. a section or chapter of a book ( esp. of RPra1t. )

पटल n. train , retinue L.

पटल n. a (sectarian or ornamental) mark on the forehead or other parts of the body with sandal-wood L.

पटल m. v.l. for पटर(See. above )

पटल mf. a tree or a stalk( वृक्षv.l. वृन्त) L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paṭala as early as the Aitareya Brāhmaṇa[१] denotes ‘section’ of a work, a sense occurring in the Sūtras[२] and later.

  1. i. 21. 22.
  2. Śāṅkhāyana Srauta Sūtra, xi. 9. 20;
    xiii. 21, 2;
    Āśvalāyana Śrauta Sūtra, iv. 6. 7.
"https://sa.wiktionary.org/w/index.php?title=पटल&oldid=500760" इत्यस्माद् प्रतिप्राप्तम्