भेषज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेषजम्, क्ली, (भिषजोवैद्यस्येदमित्यण् निपा- तनादेत्वम् । यद्वा, भेषं रोगं जयतीति । जि + डः । औषधम् । इत्यमरः । २ । ६ । ५० ॥ (“अस्ति भेषजोजलाषः ।” इति ऋक्संहिता । २ । ३३ । ७ ।) अथ भेषजभक्षणसमयाः । “भैषज्यमभ्यवहरेत् प्रभाते प्रायशो बुधः । कषायांस्तु विशेषेण तत्र भेदस्तु दर्शितः ॥ ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम् । किञ्चित् सूर्य्योदये जाते तथा दिवसभोजने । सायन्तने भोजने च मुहुश्चापि तथा निशि ॥” वासस्वस्त्ययनप्रणिपातगमनादि । युक्तिव्यपा- श्रयं संशोधनोपशमने चेष्टाश्च दृष्टफलाः । एतच्चैव भेषजमङ्गभेदादपि द्विविधं द्रव्यभूत- मद्रव्यभूतञ्च, तत्र यद्द्रव्यभूतं तदुपायाभि- प्लुतम् । उपायो नाम भयदर्शनविस्मापनक्षो- भणहर्षणभर्त्सन वधबन्धस्वप्नसंवाहनादिरमूर्त्तो भावः यथोक्ताः सिद्ध्युपायाश्च । यत्तु द्रव्य- भूतं तद्वमनादिषु योगमुपैति । तस्यापीयं परीक्षा, इदमेवं प्रकृत्या एवंगुणमेवंप्रभाव- मस्मिन् देशे जातमस्मिन् ऋतौ एवं गृहीतमेवं निहितमेवमुपस्कृतमनया मात्रया युक्तमस्मिन् ऋतौ एवंविधस्य पुरुषस्यैतावन्तन्दोषमपकर्ष- यति उपशमयति वा अन्यदपि चैवंविधं भेषजमभूत्तच्चानेनानेन वा विशेषेण युक्तमिति । इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेषज नपुं।

औषधम्

समानार्थक:भेषज,औषध,भैषज्य,अगद,जायु,पटु

2।6।50।2।1

अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया। भेषजौषधभैषज्यान्यगदो जायुरित्यपि॥

 : वेणुजन्यौषधिविशेषः, शुण्ठीपिप्पलिमरीचिकानां_समाहारः, हरीतक्यामलकविभीतक्यां_समाहारः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेषज¦ न॰ भेष--घञ् भेषं रोगभयं जयति जि--ड।

१ औषधे। स्वार्थे ष्यञ्। भैषज्य तत्रार्थे भेषजसेवनकालादि भावप्र॰उक्तं यथा(
“अथ भेषजभक्षणसमयः
“भैषज्यमभ्यवहरेत् प्रभातेप्रायशो वुधः। कषायांस्तु विशेषेण तत्र भेदस्तुदर्शितः। ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम। किञ्चित् सूर्य्योदये जाते तथा दिवसभोजने। सावन्त{??}[Page4702-a+ 38] मोजने च मुहुश्चापि तथा निशि। तत्र प्रथमकालः
“प्रायः पित्तकफोद्रेके विरेकवमनार्थयोः। लेखनार्थे चभैषज्यं प्रभातेऽनन्नमाहरेत्”। अथ द्वितीयकालः
“भैषज्यंविगुणे पाने भोजनाग्रे प्रशस्यते। अरुचौ चित्रभो-ज्यैश्च मित्रं रुचिरमाहरेत्। समानवाते विगुणेमन्देऽग्नावतिदीपनम्। दद्याद्भोजनमध्ये च भैषज्यं{??} तु भैषज्यं भोजनान्देसमाहरेत्। हिकाक्षेप्र{??} पूर्वमन्ते च भोजनात्”। अथ तृतीयकालः
“उदाने कुपिते वाते स्वरभङ्गादिकारिणि। ग्रासग्रासान्तरे देयं भैषज्यं सान्ध्य-भोजने। प्राणे प्रदुष्टे सान्ध्यस्य भुक्तस्यान्ते प्रदीयते। औषधं प्रायशो धीरैः कालोऽयं स्यात् तृतीयकः”। अथ चतुर्थकालः
“मुहुर्मुहुश्च तृट्छर्द्दिहिक्वाश्वास-गरेषु च। सान्नञ्च भेषजं दद्यादिति कालश्चतुर्थकः”। अथ पञ्चमकालः
“ऊर्ध्वजत्रुविकारेषु लेखने वृंहणेतथा। पाचने शमने देयमनन्नं भेषजं निशि” इतिपञ्चमकालः। निरन्नस्य मेषजस्य गुणमाह
“वीर्य्याधिकंभवति भेषजमन्नहीनं हन्यात्तदामयमसंशयमाशुचैव। तद्बालवृद्धयुवतीमृदुभिश्च पीतम् ग्लानिंपरां नयति चाशु बलक्षयञ्च”। सान्नस्य भेषजस्य गुण-माह
“शीध्रं विपाकमुपयाति बलेन हिंस्यादन्नावृतन्नच मुहुर्वदनान्निरेति। एतद्धितं स्थविरबालकृशा-ङ्गनाभ्यः प्राग्भोजनाद्यदशितं किल तच्च तद्वत्” तद्वत्अन्नावृतवत् भेषजमिति शेषः।
“औषधशेषे भुक्तं भोजनशेषेयदौषधं पीतम्। न करोति गदोपशमं प्रकोपयत्यन्यरो-गांश्च”। पीतमित्युपलक्षणं लीढादिकञ्च।
“अनुलोमोऽनिलःस्वास्थ्यं क्षुत्तृष्णासुमनस्कताः। लघुत्वमिन्द्रियोद्गार-शुद्धिजीर्णौषधाकृतिः। क्लमो दाहोऽङ्गसदनं भ्रममूर्च्छाशिरोरुजः। अरतिर्बलहानिश्च सावशेषौषधाकृतिः”। अथ भेषजभक्षणविधिमाह चरकः
“देवान् गुरूंस्तथाविप्रान् पूजयित्वा प्रणम्य च। आशिषश्च समादायश्रद्धया भेशजं भजेत्। रसायनमिवर्षीणां देवाना-ममृतं यथा। सुधेवोत्तमनागानां भैषज्यमिदमस्तुते। ब्रह्मदक्षाश्विरुद्रेन्द्रमूचन्द्रार्कानिलानलाः। देवाश्चसौषधिग्रामा भूमिदेवाश्च पःन्तु वः। औषधं हेमरजतमृद्नाजनपरिस्थितम्। पिबेदाप्तजनस्याग्रे प्रसन्नव-दनेक्षणः। विश्रान्तस्तूपविथ्याथ पीत्वा पात्रमधोमुखम्। निःक्षिप्याचम्य सलिलताम्बूलाद्युपयोजयेत्। ” [Page4702-b+ 38]

२ जल

३ सुणे च निघण्टुः।

४ विष्णौ पु॰
“निर्वाणंभेषजं भिषक्” विष्णुस॰। तद्भक्षणविहितनक्षत्रादिकंज्यो॰ त॰ उक्तं यथा
“विष्णुधर्मोत्तरे। हरिं गोद्विजचन्द्रार्कसुराग्नीन् प्रति-पूज्य च। शृण्वन् मन्त्रमिमं पुण्यं विद्वान् भेषज-मारभेत्। ब्रह्मदक्षाश्विरुद्रेन्द्राभूचन्द्रार्कानिलानलाः। ऋषयश्चौषधिग्रामाभूतसङ्घाश्च पान्तु ते। रसायनमिव-र्षीणां देवानाममृतं यथा। सुधेवोत्तमनागानां भैषज्य-मिदमस्तु ते। स्वय मक्षणे तु ते इत्यत्र मे इतिवदेत्। अविशेषेण स्वयं{??}क्षणेऽपि पठेत्।
“द्व्यङ्गोदयेगुरुबुधेन्दुसितेषु तेषां वारे रवेश्च सुविधौ सुतिधौसुयोगे। भेषूग्रपन्नगविशाखशिवेतरेषु जन्मर्क्षविष्टि-रहितेष्वगदः शुभाय”।
“औषधकरणं चित्रायुगे विधि-युगे मित्रयुगे लघुषु वारुणविष्णौ। वस्तिविरेचनवेधाःशुभदिनतिथिचन्द्रलग्नेषु”। वस्तिश्चर्मपुटं विरेचनं वि-रेकः। वेधोव्रणादिवेधः।
“पौष्णाश्विनीद्रविणशक्रसमेन्द्र-पुष्याहस्तादितीन्दुहरिमूलहुताशमित्रैः, चित्रान्वितैर्भृगु-बुधेन्दुरवीज्यवारे भैषज्यपानमचिरादपहन्ति रोगान्। रत्नमालायाम् द्यूनशत्रुनिधनव्ययशुद्धौ सद्गृहेषुनिरतां बलबत्सु। आयुषश्च हित्कारिणि योगेकीर्त्तिता नियतमौषसेवा। द्यूनादिषु पापयोगेक्षण-शून्येषु। आयुष्मानित्यादिशुभयोगे। भीमपराक्रमे,
“भैषज्यपाने गुरुसोमशुक्राः शुभं विलग्नं दिवसोरवेश्च। तिथावरिक्ते करणे च शस्ते योगे च लग्ने द्विशरी{??}संज्ञे”। तत्रैव
“रोहिणी चानुराधा च शस्तमौषध-भक्षणे” इति वचनाद्रोहिण्यामपिं।
“भैषज्यं सल्लथुमृदुचरे मूलभे द्व्यङ्गलग्ने शुक्रेश्वीज्ये विदि चदिवसे चापि तेषां रवेश्च। शुद्धे रिप्फद्युनमृतिगृहेसत्तिथौ नोजनेभे” मु॰ चि॰।
“लघुमृदुचरे अश्विनीपुष्यहस्तचित्रासृगानुराधारेवतीश्रवण{??}निष्ठाशततारक-स्वातीपुनर्वसुभेषु गूले च भैषज्यम्{??}षधं प्रारब्धंभक्षितं वा सत् शुभफलदं भवतीत्यधः तथाचाहश्रीपतिः
“पौष्णद्वये चादितिभद्वये च हस्तत्रयेच श्रवणत्रये च। मैत्रे च मूले च मृगे च शस्त भैषज्य-कर्म प्रवदन्ति सन्तः”। वसिष्ठोऽपि
“हस्तत्रये चाश्विन-पौष्णभेषु मित्रेन्दुमूलेषु च सूर्य्यवारे। भैषज्यमुक्तंशुभवासरेऽपि”। अथ द्व्यङ्गलग्नें द्विस्वभावराशिषुमिथुनकन्याधनुर्मीनेषु सत्सु शुक्रेन्द्वीज्ये विदि च[Page4703-a+ 38] शुकचन्द्रवृहस्पतिबुधेषु द्विस्वभावलग्नस्थेषु सतसुच पुनस्तेषां शुक्रेन्द्वीज्यबुधानां रवेश्च दिवसे बारेसत्तिथौ रिक्तामारहिते दिने भैषज्यं सत्। उक्तञ्चदीपिकायाम्
“द्व्यङ्गोदये गुरुबुधेन्दुसितेषु तेषांवारे रवेश्च सुविधौ सुतिथौ सुयोगे”। अथ रिप्फद्युन-मृतिगृहे लग्नात् द्वादशसप्ताष्टमगृहेषु शुद्धेषु शुभपाप-रहितेषु सत्सु भैषज्यं सत् तत्र वर्षफलप्रश्नादिनासत्यायुर्द्दाययोगे औषधसेवनं हितमित्ययं विशेषोध्येयः। तदुक्तं श्रीपतिना
“द्यूनशत्रु निधनव्ययशुद्धौसद्ग्रहेषु नितरां बलवत्सु। आयुषश्च हितकारिणियोगे कीर्त्तिता नियतमौषधसेवा”। कश्यपोऽपि
“षट्-सप्ताष्टान्त्यशुद्धौ च बलिनः शुभखेचराः। आयुर्दायकरे योगे कर्त्तव्या ह्यौषधक्रियेति”। अथ जनेर्भे जन्मनक्षत्रे नो भैषज्यं सत् तदुक्तं दीपिकायां
“जन्मनक्षत्र-गश्चन्द्रः प्रशस्तः सर्बकर्मसु। क्षौरभैमज्यवादाध्वकर्त्त-नेषु च वर्जयेत्। ” पी॰ धा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेषज¦ n. (-जं)
1. A remedy, a drug, a medicament.
2. A kind of fennel, (Nigella Indica.) E. भेष here interpreted disease, जि to conquer, aff. ड; or भिषज् a root of a particular class, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेषज [bhēṣaja], a. [भेषं रोगमयं जयति जि-ड Tv.] Making well or healthy, curative.

जम् A medicine, medicament, or drug; नरानम्ब त्रातुं त्वमिह परमं भेषजमसि G. L.15; अतिवीर्य- वतीव भेषजे बहुरल्पीयसि दृश्यते गुणः Ki.2.4; व्याधिर्भेषजसंग्रहैश्च Bh.1.11.

A remedy or cure in general.

A kind of fennel.

Any spell against diseases.

Water (Ved.). -Comp. -अ(आ)गारः, -रम् an apothecary's shop. -अङ्गम् anything taken after medicine. -करणम् preparation of drugs. -कृत a. healed, cured; भेषजकृतो ह वा एष यज्ञः Ch. Up.4.17.8. -वीर्यम् the healing power of medicine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेषज mf( ई)n. (fr. 1. भिषज्)curing , healing , sanative RV. AV. AitBr.

भेषज n. a remedy , medicine , medicament , drug , remedy against( gen. or comp. ) RV. etc.

भेषज n. a spell or charm for curative purposes (generally from अथर्व- वेद) S3rS.

भेषज n. water Naigh. i , 12

भेषज n. Nigella Indica W.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Bheṣaja, denoting a ‘remedial agent,’ ‘medicine,’ is often mentioned in the Rigveda[१] and later,[२] being also used in a figurative sense.[३] Plants,[४] waters,[५] and spells[६] are repeatedly enumerated as medicines. Most of the medical practices of the Atharvaveda are merely examples of sympathetic magic. For example, in one hymn[७] the yellow of jaundice is entreated to pass into yellow birds. In another[८] fever is to be banished by means of a frog; for the frog, being a potent means of cooling fire[९] (because of its association with water), is regarded as analogously effective in banishing the fire of fever. See Bhiṣaj.

2. Bheṣaja in the plural is found in the Atharvaveda[१०] and in the Sūtras[११] denoting the hymns of the Atharvaveda in so far as they are regarded as having ‘healing’ powers.

  1. i. 89, 4;
    ii. 33, 2, etc.
  2. Av. v. 29, 1;
    vi. 21, 2, etc.
  3. Śatapatha Brāhmaṇa, xiii. 3, 1, 1;
    5, 4;
    Aitareya Brāhmaṇa, iii. 41.
  4. Rv. x. 97, and passim in the Atharvaveda.
  5. i. 23, 19. 20;
    34, 6, etc.;
    Taittirīya Saṃhitā, vi. 4, 9, 2;
    Kauṣītaki Brāhmaṇa, xvi. 7, etc. Possibly there is some truth in Zimmer's view, Altindisches Leben, 399, that the reference is to the beneficial effects of bathing.
  6. Exemplified in the medical spells of the Atharvaveda and the Kauśika Sūtra.
  7. i. 22;
    Bloomfield, Hymns of the Atharvaveda, 264, et seq.
  8. vii. 116;
    Bloomfield, op. cit., 565 et seq.
  9. Cf. Rv. x. 16, 14;
    Av. xviii. 3, 60.
  10. xi. 6, 14.
  11. Āśvalāyana Srauta Sūtra, x. 7, 3;
    Sāṅkhāyana Śrauta Sūtra, xvi. 2, 10;
    Pañcaviṃśa Brāhmaṇa, xii. 9, 10.

    Cf. Bloomfield, Hymns of the Atharvaveda, xxxi. 628.
"https://sa.wiktionary.org/w/index.php?title=भेषज&oldid=503284" इत्यस्माद् प्रतिप्राप्तम्