हरिः

विकिशब्दकोशः तः
Jump to navigation Jump to search
हरिः

संस्कृतम्[सम्पाद्यताम्]

  • हरिः, विष्णुः, दशावतारः, नारायणः, कृष्णः, श्रीशः, अक्षरः, कामपालः, सिंहः, कपिः, गजः।


नामः[सम्पाद्यताम्]

  • "यद्विषितो भवति तद्विष्णुर्भवति"इति कथ्यते। विष्णुः सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च।

कपिः,महाविष्णुः गजःसिंहः

अनुवादाः[सम्पाद्यताम्]

उदाहरणम्[सम्पाद्यताम्]

  • परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
 धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिः, पुं, (हरति पापानीति । हृ + “हृपिषि- रुहीति ।” उणा० ४ । १२८ । इति इन् ।) विष्णुः । (यथा, रघुः । १० । ८६ । “हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः पतिरवनिपतीनां तैश्चकाशे चतुर्भिः ॥”) सिंहः । (यथा, रघुः । २ । ५९ । “स न्यस्तगस्त्रो हरये स्वदेह- मुपानयत् पिण्डमिवामिषस्य ।”) शुकपक्षी । सर्पः । वानरः । भेकः । इत्यमरः ॥ चन्द्रः । सूर्य्यः । वायुः । अश्वः । (यथा, महाभारते । ३ । १६६ । ५ । “ततः स हरिभिर्युक्तं जाम्बनदपरिस्कृतम् । मेघनादिनमारुह्य श्रिया परमया ज्वलन् ॥) यमः । शिवः । ब्रह्मा । किरणः । इन्द्रः । (यथा, रघुः । १२ । १०३ । “यन्ता हरेः सपदि संहृतकार्म्मुकज्य- मापृच्छ्य रावघमनुष्ठितदेवकार्य्यम् ॥”) वर्षविशेषः । इति मेदिनी ॥ मयरः । कोकिलः । हंसः । अग्निः । इति शब्दरत्नावली ॥ भर्त्तृ- हरिः । इति त्रिकाण्डशषः ॥ पिङ्गवर्णः । हरिद्वर्णः । इति हेमचन्द्रः ॥ * ॥ हरेरष्टोत्तर- शतनामानि यथा, -- त्रीसदावि उवाच । श्रीकृष्णाष्टोत्तरशतं नाम मङ्गलदायकम् । तत्शृणुष्व महाभाग ! सव्वकल्मषनाशनम् ॥ श्रीकृष्णः पुण्डरोकाक्षो वासुदेवी जनार्द्दनः । नारायणो हरिर्व्विष्णुर्म्माधवः पुरुषोत्तमः ॥ अन्यैर्व्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम् ॥ एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् ॥ पञ्चाहानि त्र्यहाणि स्युर्दोलोत्सवो विधीयते । दक्षिणाभिमुखं कृष्णं दोलयानं सकृन्नराः ॥ दृष्ट्वावराधनिचयैर्म्मुक्तास्तु नात्र संशयः ॥ १० ॥ निःक्षिप्य जलमात्रे तु मासे माधवसंज्ञिते । सौवर्णपात्रे ताम्रे वा रौप्ये वा मृण्मयेऽपि वा ॥ तोयस्थं योऽर्च्चयेद्देवं शालग्रामसमुद्भवम् । प्रत्यहं मां महाभागे तस्य पुण्यं न गण्यते ॥ दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत् । वैशाख्यां श्रावणे भाद्रे कर्त्तव्यञ्च तदर्पणम् ॥ ११ ॥ वैशाखे च तृतीयायां जलमध्ये विशेषतः । अथवा मण्डपे कुर्य्यात् मण्डले वा वृहद्ध्वुजे ॥ सुगन्धचन्दनेनाङ्गं सुपुष्टाङ्गो दिने दिने । यथा प्रयत्नतः कार्य्यः कृशाङ्गो नैव पूजितः ॥ चन्दनागुरुकस्तूरीकुष्ठं कुङ्कुमरोचना । जटामांसी वचा चैव विष्णोर्गन्धाष्टकं तथा । एतैर्गन्धयुतैश्चापि अङ्गानि च विलेपयेत् ॥ घृष्टञ्च तुलसीकाष्ठं कर्पूरागुरुयोगतः । अथवा केशरैर्योज्यं हरिचन्दनमच्युते ॥ अस्मिन् काले कृष्णभक्त्या ये प्रपश्यन्ति मानवाः । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ सुगन्धिमिश्रितैस्तोयेः स्नापयित्वा जगद्- गुरुम् । अथवा पुष्पमध्यं च स्थापयेज्जगदीश्वरम् ॥ वृन्दावनं तत्र कृत्वा उपस्कृतफलानि च । विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ॥ नारिकेलं फलं नीर कोषञ्चोद्धृत्य दापयेत् । कण्टाफलञ्च पनसं कोषमुद्धृत्य दीयते ॥ यथा पचेत्तथा दद्याद्यथाशक्तिनियोगतः । दध्ना विमिश्रितञ्चान्नं घृतेनाप्लुत्य दापयेत् ॥ पाचितं पिष्टकं धातुरष्टादश घृतेन च । तिलैश्च तिलसंमिश्रैः फलं शुद्धञ्च दापयेत् ॥ यद्यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत् । दत्त्वा नैवेद्यवस्त्रत्तादीन्नाददीत कथञ्चन ॥ त्यक्तव्यं विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः । इति ते कथितं किञ्चित् समासेन महेश्वरि ! । गोप्तव्यञ्च प्रयत्नेन स्वयोनिरिव पार्व्वति ! ॥ १२ ॥ श्रीकृष्णरूपगुणवर्णनशांस्त्रवर्गे बोधाधिकार इह चेदलमन्यपारैः । तत्प्रेमभावबलभक्तिविलासनाम- हासेषु चेद्यदि रतिः किमु कामिनीभिः ॥ तञ्चेतसा विभजतां व्रजबालकेन्द्र वृन्दावनं क्षितितलं यमुनाजलञ्च । तल्लोकनाथपद पङ्कजधूलिभिश्चे- ल्लिप्तं वपुः किल वृथागुरुचन्दनाद्यैः ॥” इति पाद्मे पातालखण्डे १२ अध्यायः ॥

हरिः, त्रि, (हरति नेत्रदुःखमिति । हृ + इन् ।) पिङ्गलवर्णः । हरिद्वर्णः । इति मेदिनी ॥ (यथा रघुः । ३ । ४३ । “शतैस्तमक्ष्णामनिमेषवृत्तिभि- र्हरिं विदित्वा हरिभिश्च वाजिभिः अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्त्तयन्निव ॥”) पीतवर्णः । इत्यनेकार्थकोषः ॥

"https://sa.wiktionary.org/w/index.php?title=हरिः&oldid=462150" इत्यस्माद् प्रतिप्राप्तम्