असि

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिः, स्त्री, (अस्यते अवगाहनेन पापानि दूरी- करोति या । अस + इन् ।) नदीविशेषः । सा च काशीदक्षिणदिक्स्थिता । यथा । “तस्मात् विश्वेश्वराज्ञैव काशीवासेऽत्र कारणं । असिश्च वरणा यत्र क्षेत्ररक्षाकृतौ कृते ॥ वाराणसीति विख्याता तदारभ्य महामुने । असेश्च वरणायाश्च सङ्गमं प्राप्य काशिका ॥ वाराणसीह करुणामयदिव्यमूर्त्ते- रुत्सृ ज्य यत्र तु तनुं तनुभृत् सुखेन । विश्वेशदृङ्महसि यत् सहसा प्रविश्य रूपेण तां वितनुता पदवीं दधाति ॥ जातो मृतो बहुषु तीर्थवरेषु ये त्वं जन्तोर्न जातु भवशान्तिरभून्निमज्य । वाराणसीति गदतीह मृतोऽमृतत्वं प्राप्याधुना मम बलात् स्मरशासनः स्यात्” ॥ इति काशीखण्डे ३० अध्यायः ॥

असिः, पुं, (असतीति । अस दीप्तौ इनि ।) अस्त्र- भेदः । खा~डा तरवाल इत्यादि भाषा । तत्प- र्य्यायः । खड्गः २ निस्त्रिंशः ३ चन्द्रहासः ४ रिष्टिः ५ कौक्षेयकः ६ मण्डलाग्रः ७ करपालः ८ कृपाणः ९ इत्यमरः ॥ प्रबालकः १० भद्रात्मजः ११ रिष्टः १२ ऋष्टिः १३ धाराविषः १४ कौक्षेयः १५ तरवारिः १६ तरवाजः १७ कृपाणकः १८ करवालः १९ कृपाणी २० शस्त्रः २१ । इति शब्दरत्नावली ॥ विषसनः २२ । इति त्रिकांण्ड- शेषः ॥ (“पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः । वैरूप्यपौनरुक्तेन भीषणां तामयोजयत्” ॥ इति रघवंशे १२ । ४० ॥ “स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा । वृक्षगुल्मावृते चापैरसिचर्म्मायुधैः स्थले ॥” इति मनौ ७ । १९२ ॥) तस्य स्तुतिर्यथा । “असिर्व्विषसनः खड्गस्तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्म्मपालो नमोऽस्तु ते ॥ इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा । नक्षत्रं कृत्तिका ते तु गुरुर्देवो महेश्वरः ॥ हिरण्यञ्च शरीरन्ते धाता देवो जनार्द्दनः । पिता पितामहो देवस्त्वं मां पालय सर्व्वदा ॥ नीलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कृशोदरः । भावशुद्धोऽमर्षणश्च अतितेजास्तथैव च ॥ इयं येन धृता क्षौणी हतश्च महिषासुरः । तीक्ष्णधाराय शुद्धाय तस्मै खड्गाय ते नमः” ॥ इति वृहन्नन्दिकेश्वरपुराणीयदुर्गोत्सवपद्धतिधृत- वाराहीतन्त्रं ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असि पुं।

खड्गः

समानार्थक:खड्ग,निस्त्रिंश,चन्द्रहास,असि,रिष्टि,कौक्षेयक,मण्डलाग्र,करवाल,कृपाण,सायक

2।8।89।1।5

तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः। कौक्षेयको मण्डलाग्रः करवालः कृपाणवत्.।

अवयव : खड्गमुष्टिनिबन्धनम्,खड्गपिधानम्,खड्गफलम्

वृत्तिवान् : खड्गधारिः

वैशिष्ट्य : खड्गधारिः

 : विष्णुखड्गः, ह्रस्वखड्गः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असि¦ अव्य॰ अस--दीप्तौ इन् विभक्ति प्रतिरूपकम्। त्वमि-त्यर्थे
“कृतवानसि विप्रियं न मे” कुमा॰
“धन्यासि वैदर्भि!गुणैरुदारैः” नैष॰।
“शूरोऽसि कृतविद्योऽसि दर्शनीयो-ऽसि पुत्रक! इति नीतिः।

असि¦ पुंस्त्री॰ अस्यति सेवनेन पापानि इन् वा ङीप्। वारणसीदक्षिणस्थे

१ नदीभेदे वाराणसीशब्दे विवृतिः। अस्यते क्षिप्यते[Page0551-a+ 38] अस--इन्।

२ खडे पु॰
“असिर्विशसनः खड्गस्तीक्ष्णधारोदुरासदः। श्रीगर्भो विजयश्चैव धर्मपालो नमोऽस्तु ते। इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा”। खड्गपूजा-मन्त्रः,
“सर्व्वाः श्यामाः असिकरा मुण्डमाला विभूषिताः” श्यामाकवचम् खड्गलक्षणन्तु वृह॰ उक्तम्
“अङ्गुलशतार्ध-मुत्तम ऊनः स्यात्पञ्चविंशतिः खड्गः। अङ्गुल-मानाज्ज्ञेयो व्रणोऽशुभो विषमपर्वस्थः॥ श्रीवृक्षवर्ध-मानातपत्रशिवलिङ्गकुण्डलाब्जानाम्। सदृशा व्रणाःप्रशस्ता ध्वजायुधस्वस्तिकानां च॥ कृकलासकाककङ्क-क्रव्यादकबन्धवृश्चिकाकृतयः। खड्गे व्रणा न शुभदावंशानुगाः प्रभूताश्च॥ स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नोन दृङ्मनोऽनुगतः। अस्वन इति चानिष्टः प्रोक्तविप-र्य्यस्त इष्टफलः॥ क्वणितं मरणायोक्तं पराजयायप्रवर्त्तनं कोशात्। खयमुद्गीर्णे युद्धं ज्वलिते विजयो भवतिखड्गे॥ नाकारणं विवृणुयान्न विघट्टयेच्च पश्येन्न तत्रवदनम् न वदेच्च मूल्यम्। देशं न चास्य कथयेत् प्रति-मानयेच्च नैव स्पृशेन्नृपतिरप्रयतोऽसियष्टिम्॥ गोजिह्वासंस्थानो नीलोत्पलवंशपत्रसदृशश्च। करवीरपत्रशूलाग्र-मण्डलाग्राः प्रशस्ताः स्युः॥ निष्पन्नो न च्छेद्यो निकषैःकार्य्यः प्रमाणयुक्तः सः। मूले म्रियते स्वामी जननीतस्याग्रतश्छिन्ने॥ यस्मिन् त्सरुप्रदेशे व्रणो भवेत्तद्वदेवखड्गस्य। वनितानामिव तिलको गुह्ये वाच्यो मुखेदृष्ट्वा॥ अथ वा स्पृशति यदङ्गं प्रष्टा निस्त्रिंशभृत्तदव-धार्य। कोशस्थस्यादेश्यो व्रणो ऽस्ति शास्त्रं विदित्वेदम्। शिरसि स्पृष्टे प्रथमे ऽङ्गुले द्वितीये ललाटसंस्पर्शे। भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चतुर्थे च॥ नासोष्ठकपोल-हनुश्रवणग्रीवांसकेषु पञ्चाद्याः। उरसि द्वादशसंस्थस्त्रयो-दशे कक्षयोर्ज्ञेयः॥ स्तनहृदयोदरकुक्षिनाभीषु चतुर्दशा-दयो ज्ञेयाः। नाभीमूले कट्यां गुह्ये चैकोनविंशतितः॥ ऊर्वोर्द्वाविंशे स्याद् ऊर्वोर्मध्ये व्रणस्त्रयोविंशे। जानुनिच चतुर्विंशे जङ्घायां पञ्चविंशे च॥ जङ्घामध्ये गुल्फेपार्ष्ण्यां पादे तदङ्गुलीष्वपि च। षद्धिंशतिकाद्याव-त्त्रिंशदिति मतेन गर्गस्य॥ पुत्रमरणं धनाप्तिर्धनहानिःसम्पदश्च बन्धश्च। एकाद्यङ्गुलसंस्थैर्व्रणैः फलं निर्दिशेत्-क्रमशः॥ सुतलाभः कलहो हस्तिलब्धयः पुत्रमरणधन-लाभौ। क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्-प्रभृति॥ लब्धिर्हानिस्त्रीलब्धयो बधो वृद्धिमरणपरि-तोषाः। ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात्॥ [Page0551-b+ 38] वित्ताप्तिरनिर्वाणं धनागमो मृत्युसम्पदोऽस्वत्वम्। ऐश्वर्य्य-मृत्युराज्यानि च क्रमात्त्रिंशदिति यावत्॥ परतो नविशेषफलं विषमसमस्थास्तु पापशुभफलदाः। कैश्चिदफलाःप्रदिष्टास्त्रिंशत्परतोऽग्रमिति यावत्॥ करवीरोत्पल-गजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः। शुभदोऽनिष्टो गोमूत्र-पङ्कमेदःसदृशगन्धः॥ कूर्मवसासृक्क्षारोपमश्च भयदुःखदोभवति गन्धः। वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः॥ इदमौशनसं च शस्त्रपानं रुधिरेण श्रियमिच्छतः प्रदी-प्ताम्। हविषा गुणवत्सुताभिलिप्सोः सलिलेनाक्षय-मिच्छतश्च वित्तम्॥ बडवोष्ट्रकरेणुदुग्धपानं यदि पापेनसमीहते ऽर्थसिद्धिम्। झषपित्तमृगाश्ववस्तदुग्धैः करि-हस्तच्छिदये सतालगर्भैः॥ आर्कं पयो हुडुविषाणमसी-समेतं पारावताखुशकृता च युतं प्रलेपः। शस्त्रस्य तैल-मथितस्य ततोऽस्य पानं पश्चाच्छितस्य न शिलासु मवे-द्विघातः॥ क्षारे कदल्या मथितेन युक्ते दिनोषितेपायितमायसं यत्। सम्यक् शितं चाश्मनि नैति भङ्गंन चान्यलोहेष्वपि तस्य कौण्ठ्यम्” वृ॰ स॰। हेमा॰ परि॰ख॰ तु तज्जात्यादिभेदात् फलभेदादिकं दर्शितं यथा
“वत्स! पुरा भूतपूर्वैराचार्यैरुपदिष्टञ्चैव यन्मयाश्रुतं तदु-पदिशामि निबोध खड्गस्य लोहं षद्धिघं भवति। योनयःपञ्चविधाः संस्थानं चतुर्विधं करणमा, कृतिर्द्विधा द्वादशमुस्वानि गौरवं पञ्चदशधा विस्तारस्त्रिविधः वर्ण्णछायाव्रणपुङ्खगन्धस्वरेण वा यत्र विशेषा भवन्ति तत्कीर्त्त्यमानं निबोधतीक्ष्णं मृदु स्निग्धं खरं मृदुतीक्ष्णं वज्रं चेति जातयःषट्भवन्ति वालुका मृत्पाषाणः पङ्कोधातुस्रावश्चेति योनयःपञ्चधा भवन्ति। पीतेभ्यस्रीक्ष्णं भवति। नीलेभ्योमृदुभवति। स्निग्धेभ्यःस्निग्धं खरेभ्यः खरं भवति। रक्तेभ्यो-द्रव्येभ्योमृदुतीक्ष्णं भवति। रक्तसैन्धवसन्निभैर्हरिद्भिःश्चित्रं यदन्तः उत्पद्यते लौहं तद्वज्रायुधन्नाम भवति। तच्चपाषाण एव पूजित इति। भवन्ति चात्रश्लोकाः। तापंचिरादेव विचूर्ण्णितञ्च भिन्नाञ्जनाभं बहुसूक्ष्महीरम् पीतंभवेत् निर्म्मलरुक्मवर्णं सर्वाणि लोहानि भिनत्ति तीक्ष्णम्। सन्नम्यते तापमुपैति चाशु श्वेतं भवत्येव मलावनद्धम्। यत्-स्थूलहीरन्त्रपुवङ्गवर्ण्णं सर्वेषु कार्य्येष्वपि तन्मृदु स्यात्। श्वेतंभवत्यभ्यधिकं स्थिरञ्च संघट्टनामेति चिराच्च तापम्। संघा-तलोहेन चिराद्वियोगं स्निग्धञ्च लोहं प्रवदन्ति तृज्ज्ञाः। खरं विशीर्य्येत न चैति योगम् सर्वत्र योग्यं मृदुतीक्ष्ण-माहुः। यज्रातरूपं न च दह्यतेऽग्नौ तद्वज्रलोहं प्रसमीक्ष्य[Page0552-a+ 38] वाच्यम्। तीक्ष्णस्य मृदुनः खरस्य स्निग्धस्य मृदुतीक्ष्णस्यवज्रलोहस्यच विज्ञेयं कुट्टिमङ्कोशगर्भमेककोशगर्भं कुट्टि-मकोशगर्भम्। सुतीक्ष्णं करणप्रवरं भवति। मृदुतीक्ष्णं म-ध्यमगर्भं कुट्टिमञ्च कारयेन् मृदुतीक्ष्णकुट्टिमं कोशभर्भमेकगर्भा-लयं वेति तथा तीक्ष्णं मन्दं वेति विविधमायसं भवति। तीक्ष्णस्य कुलानि उपकुलानि पुनः सृष्टानि वीतर्कपु-ष्कलालावेतकं यावङ्काशिकमङ्कोल्लं मयूरं हमालं वीरंकांवरं पुष्कराकं पुष्कराङ्कक्रोडिनं वर्वरंरौद्रं शालिकं किस्किन्धंविस्फुलिङ्गंवाह्लीकं सुराष्ट्रायसं वेति तीक्ष्णयोनयो भवे-युरेकविंशतिरथ मन्दायसो वक्ष्यन्ते। कास्वोजं काण्डवारंहम्बालं सूर्य्यारङ्काष्ठमलयं पुन्नागपर्वतं यावतन्द्रं तीक्ष्णंकलिपार्वतीय सिंहालकं वानवासीसिन्धुकं मूषकं नीलाण्डंमागधं देवान्तं मेनकं वाह्लीकं पारवं क्रथं शट्टाकं शाण्डिलंपालकं नुचुरतोलकं विन्तपालं नीलामुखं कूणीराष्ट्रंमहेन्द्राष्ट्रं विचर्तुकं वेति लोहाः त्रिंशदेका भवन्ति। कुला-नां संग्रहाद्विविधा लीहा तन्निवोध सप्त भवन्ति। मार्द्द-वस्य खरस्य त्वष्टौ स्नेहान्वितस्प पुनः षड्गवन्ति। मृदु-तीक्ष्णस्य दशैवस्वुर्वज्रायसस्यैकभेयेति कुलान्येतानि संग्रहा-दुक्तानि तत्र काम्बोजं काण्डवारं हंनुपालं नीलाण्डं खर-स्यैतानि भवन्ति। पावनं वटतीक्ष्णं कालिङ्गं पार्व-तीयं सिंहालं लङ्कवालञ्च चेति स्नेहान्वितस्यैतानि कुलानिषड्भवन्ति। नीलामुखं कूणीराष्ट्रं महेन्द्राष्ट्रं विचर्त्तुकंसौर्परं काष्टमलयं पुन्नागपर्वतं सिन्धुकं मूषिकं दक्षिणामुखंचेति मृदुतीक्ष्णस्य दशैतानि कुलानि भवन्ति। षष्टन्तु लोहंवेद्यन्तरगुहासु जायते तच्च वज्रलोहमिति विद्यात्। पर-मेतानि वज्रायसविवर्जितानि त्रिंशदेकाधिकानि। मृदुतीक्ष्णं मृदुतीक्ष्णं स्निग्धं खरं चेति। वीतकादीन्येकविंशतिंक्ष्णानि वक्ष्यन्ते यत्र दृढत्वं बलवत्त्वं स्निग्धतां लाघवङ्गौरवंच विशेषात्तत्र तत्र विविधं भवति हुताशनकर्म्मणि तत्र-छिन्नपाटलानिभं भवति। यत्र वचर्स्या दृश्यन्तेत्रुटिते चूर्ण्णिते वा हुताशनेऽपि त्रुट्यमानं सकृदेव ग्रभज्यतेमूलेऽग्रे च सर्वदक्षिणतो वैवर्ण्यं भजेन्मत्स्यकण्टकच्छाया-वा स्यात् लिक्षासीसविभा वा श्वेतकृतनिस्रावतोरहान्यैवतत् मृदुलोहमिति विद्यात्। त्रयाणां चीनकादीनां लक्षणंवक्ष्यते आकृत्या संस्थानेन वर्ण्णेन गन्धेन शब्देन क्रमशः स्यात्पृथक् वेतसवञ्जुलपत्राणामाकृतिः करवीरपत्राणां वा भवति। षडश्रैर्युतं मिश्रकैरष्टाश्रैश्चतुरश्रेर्व्वा वृत्तं विपुलं वा नाल-मूलाकृतिर्वेति। संस्थानतःपरीक्षणीयम् निर्गुण्डीकुसु-[Page0552-b+ 38] मानामिव यत्र वर्णोऽञ्जनालक्तकयोर्वा मयूरकण्ठच्छविःशुकपिच्छनिभः। काककोकिलसदृशोमक्षिकाभो वेति। वर्णतः परीक्षिणीयं चानुलोहम्। तथा अङ्कोलस्योत्पलस्यमूषिकायाः पत्रस्य मधुकस्य वा गन्ध इति गन्धतः परो-क्षणयीम्। तथा कांस्यघण्टाया वलाकानां शब्दैव शब्दोविस्फुलिङ्गायायस्येति शब्दतः परीक्षणीयावि ज्ञातव्याः”। उपकुलादि विस्तरभयान्नोक्तम्
“युग्माङ्गुलाः प्रशस्ताःअयुग्माङ्गुला विगर्हिताः खड्गास्ते केऽपि ब्राह्मणस्यपरिग्रहा धमनासं दिशन्ति क्षत्रियस्यार्थविनाशं कुलक्षयंकुर्व्वति वैश्यस्य तु सद्योबधमावहन्ति शूद्रस्य नकदाचिदपि वृत्तिकराः स्युस्तथा व्रणाः छायास्निग्धवर्ण्णाःपूजिताः छिन्ना रूक्षवर्ण्णाअरूपानुज्वलाश्च भर्त्तुरपजयायस्मृतिगर्हिताः”। त्रिकोणाःपञ्चकोणाश्चतुरस्राव्रणाःप्रशस्ताः। अनुलोमाश्च प्रतिलोमाश्च प्रशस्तदीर्घतायै ख-ड्गस्य भवन्ति। ते प्रतिलोमावेदितव्याः खड्गस्यानुगताअनुलोमा व्रणापदेशो वक्ष्यते। पूजितोनिन्दितश्च यदिखड्गस्याद्येऽङ्गुले दृश्येत तदा पुत्रमरणम्। द्व्यङ्गुले पुत्र-वृद्धिस्त्र्यङ्गुले पुत्रधननाशश्चतुर्थे पुत्रमङ्गल्यम् पञ्चाङ्गुलेमरणंनरपशूनाम्। षडङ्गुले कर्म्मसिद्धिः पश्रुलाभश्चसप्ताङ्गुले कलहेन विनाशं भर्त्तुः करोति। व्रणोऽष्टाङ्गुलेमित्रप्राप्तिं धनस्थितिं च कुर्यात्। नवाङ्गुले भ्रातृबधधान्य-विनाशम्भर्त्तुः करीति, दशाङ्गुले मित्रभृत्यानां लाभंसम्पद्विद्वृद्धिञ्च, एकादशाङ्गुले संग्रहणं मित्रविरोधञ्च। द्वादशाङ्गुले मित्रलाभम्भोगं सुखं च। त्रयोदशाङ्गुले प्रभु-विनाशं चतुर्द्दशाङ्गुले प्रियतां गौरबन्धनलाभं च, पञ्च-दशाङ्गुले शत्रुविवृद्धिम्। षोडशाङ्गुले शत्रुविजयं सप्तदशाङ्गुले भयम्, स्त्रीलाभम् अष्टादशाङ्गुले, शत्रुवधम्ऊनविंशे, वृद्धिं विंशाङ्गुले, मरणम् एकविंशत्यङ्गुले, शत्रुज-नितं नाशम्भयं च। द्वाविंशत्यङ्गुले राष्ट्रपालनंपरराष्ट्रविनाशं च त्रयोविंशत्यङ्गुले विंशतिवर्षादेवमरणम्। चतुर्विंशत्यङ्गुले भूषणागमम्। पञ्चविंशत्य-ङ्गुले, भार्याविरामम्, षड्विंशत्यङ्गुले प्रियगुणलाभं,स्वभार्य्याविरागन्तु सप्रविंशत्यङ्गुले, विपुलश्रियोलाभमष्टा-विंशत्यङ्गुले, एकोनत्रिंशत्यङ्गुले वृद्वभावे भ्रातृभि र्ग्रहणं,त्रिंशदङ्गुले वृद्धिमजिरंचेति खड्गे व्रणः करोति। तथाएकत्रिंशदङ्गुले सभृत्यस्त्रीवाहनं भर्त्तारं विनाशयति। द्वात्रिंशदङ्गुले पराजयमरिभिः करोति। त्रयस्त्रिंशदङ्गुलेभर्त्तारं पीडयति नीचस्य च कर्मणो वशगङ्करोति। [Page0553-a+ 38] चतुस्त्रिंशदङ्गुले धन्यं दानधर्मभाजनं च पञ्चत्रिंशंदङ्गुलेमरणं सद्यः करोति। षट्त्रिंशदङ्गुले विजयं भर्त्तुर्ददातिसप्तत्रिंशदङ्गुले पराभवमरिभिः करोति। अष्टत्रिंशदङ्गुलेशत्रुप्रमर्दनं करोति नवत्रिंशदङ्गुले कुजनैरेव परिक्लेशंनयति। चत्वारिंशदङ्गुले कन्यालाभमरिजयं च प्राप्नोतिव्रणेन खड्गस्थितेन। तथैकचत्वारिंशदङ्गुले शत्रुभ्यःपीडनाद्भयं लभते द्विचत्वारिंशदङ्गुले स्वराष्ट्रवर्द्विमन्त्रिणं-त्रिचत्वारिंशदङ्गुले दुःखं प्राप्नोति सेनापतिरेव भर्त्ताभवति। चतुश्चत्वारिंशदङ्गुले श्रियं विपुलां लभते। पञ्च-चत्वारिंशदङ्गुले व्रणो भयङ्क षट्चत्वारिंशदङ्गुलेव्रणाः सुखावाहा भवन्ति। सप्तचत्वारिंशदङ्गुले स्वपक्षंपीडयति परपक्षं वर्द्धयति अष्टाचत्वारिंशदङ्गुले राजश्रियंभुङ्क्ते एकोनपञ्चाशदङ्गुले शत्रोर्विजयं लभते। पञ्चाशदङ्गुलेकुलवृद्धिर्भवति”। एकत्रिंशदाद्यङ्गुलिषुव्रणे फलविशेषोऽभि-हितः। अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम्। प्रधान-देहसंभूतैरन्यास्थिभिररिन्दमः। लोहं प्रधानं खड्गार्थेप्रशस्तं तद्विशेषतः। खरीकदुरुकृषिकावङ्गसूर्य्यारकेषुच। विदेहेषु तथाङ्गेषु मध्यमग्रामचेदिषु। सह-ग्रामेषु वीरेषु तथा कालञ्जरेऽपि च। लोहं प्रधानं खड्गानांनवानां शृणु लक्षणम्। खरी कटुरुजा ये च दर्शनीयाश्चते स्मृताः। कार्येदक्षाश्च कृषिकामृदवो गुरवस्तथा” तीक्ष्णाश्छेदसहा वङ्गा दृढाः सूर्य्यारकोद्रवाः। सुदृढाश्चैवविज्ञेया प्रभवन्ति विदेहजाः। अङ्गदेशोद्भवास्तीक्ष्णाःसहजास्ते दृढास्तथा। वेगवन्तस्तथा तीक्ष्णामध्यमग्राम-सम्भवाः। असारलघवस्तीक्ष्णाश्चेदिदेशसमुद्रवाः। सह-ग्रामोद्भवाः खड्गाः सुतीक्ष्णालघवस्तथा। निर्वलानिर्मला खड्गावीरदेशसमुद्रवाः। कालञ्जराभारसहास्तेषांवक्ष्यामि लक्षणम्। शतार्द्धमङ्गुलानां तु श्रेष्टः खड्गःप्रकीर्त्तितः। तदधोमध्यसंज्ञाभाक् ततोहीनं न धारयेत्। प्रमाणाभ्यधिकं देव! छिन्नवंशन्तथैव च। दीर्घः सुमधुरः-शब्दोयस्य खड्गस्य भार्गव!॥ किङ्किणीसदृशस्तस्य धारणम्श्रेष्ठमुच्यते। खड्गः पत्नपलाशाग्रोमण्डलास्यश्च शस्यते। करवीरपलाशाग्रसदृशश्च विशेषतः। महीघृतसगन्धश्चप्रद्मोत्पलसुगन्धिकः। वर्ण्णतश्चीत्प्रलाकारः सवर्ण्णोगननस्य च। समाङ्गुलस्थाः शस्यन्ते व्रणाः खड्गेषुभार्गव!। श्रीवृक्षपर्वताकारवंशवस्तनिभाश्च ये। मङ्ग-ल्यानां तथान्येषां सदृशा ये च भार्गव!। काकोलूकार्कबन्ध्याभा विषमाङ्गुलिसंस्थिताः। वंशानुगाः प्रभूताश्च न प्रशस्ता[Page0553-b+ 38] कदाचन। खड्गं{??} न पश्येद्वदनं वृथा न वृणुयादमुम्। न चास्य कथयेन्मूल्यं जातिं देशं कथञ्चन। उत्सृष्टो न स्पृशेत्खड्गं निशिकुर्याच्च शीर्षके। दिवा च पूजयदेनं गन्धमाल्यादिसम्पदा। खड्गं प्रशस्तं मणिहेमचित्रं कोशे सदा चन्दन-चर्च्चयाढ्यम्। संस्थायपेद्भूमिपतिः प्रयत्नान् यतेत चेह स्वश-रीरवच्च” विष्णुध॰। देवीपु॰।
“खड्गस्य लक्षणं वक्ष्ये त्रिशि-खस्य तु सुन्दरि!। नान्यशस्त्रोद्भवं कार्यं मृदुलोहमयन्तथा। स्फुटितं खण्डितं ह्रस्वं सव्रणं साधितं तथा। मृदुलोहे-नचारभ्य सन्धितो मरणं भवेत्। सव्रणेनापि हृद्रोगीरेखायां पातकी भवेत्। भार्य्या माता तथा पुत्रो म्रियतेखण्डितेन च। ह्रस्वेन लाघवं लोके दीर्घतापि ह्यसिद्विदा। अन्यशस्त्रोद्भवेनापि संभवेन्मरणम् ध्रुवम्। पञ्चाशदङ्गुलंखड्गं त्रिशिखञ्च सुरेश्वरि। ईदृशङ्कारयेत्खड्गमाशु सिद्विफलप्रदम्”। अस्यते क्षिप्यते अस--इन्।

३ श्वासे
“तिस्रः पत्न्योऽसिपथान् कल्पयन्त्यश्वस्य सूचीभिः” कात्या॰

२० ।

७ ।

१ ।
“असेः श्वासस्य पथः मार्गान्” कर्क॰ त्रि॰।

४ क्षिप्ते असगण्डः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असि¦ m. (-सिः) A sword, a scymitar. E. अस to cast, and इन् Una4di aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिः [asiḥ], [अस्यते क्षिप्यते; अस्-इन् Uṇ.4.139]

A sword

A knife used for killing animals.

[अस्यति सेवनेन पापानि] N. of a river to the south of Benares.

Breath (श्वास). -सि ind. The 2nd pers. sing. of the present of अस् to be, used as an indeclinable in the sense of 'त्वम्' thou; as in कृतवानसि विप्रियं न मे Ku.4.7 (where however असि may be taken as a verb). -Comp. -असिind. sword against sword. -गण्डः a small pillow for the cheeks; (असिः क्षिप्तो गण्डो यत्र Tv.). -चार्य exercise or practice of arms; Mb.1. -जीविन् a. one who earns his livelihood by means of swords, a soldier fighting for wages. -दंष्ट्रः, दंष्ट्रकः the marine monster makara or crocodile (painted on the banner of Kāmadeva).-दन्तः a crocodile. -धारा the edge of a sword; सुरगज इवं दन्तैर्भग्नदैत्यासिधारैः R.1.86,41. -धाराव्रतम् [असिधारायां स्थितिरिव दुष्करं व्रतम्]

(according to some) the vow of standing on the edge of a sword; (according to others) the vow of keeping constant company with a young wife and yet steadily resisting the temptation of sexual intercourse with her; यत्रैकशयनस्थापि प्रमदा नोपभुज्यते । असिधाराव्रतं नाम वदन्ति मुनिपुंगवाः ॥ or शयने मध्ये खड्गं विधाय स्त्रीपुंसौ यत्र ब्रह्मचर्येण स्वपतस्तत्; or युवा युवत्या सार्धं यन्मुग्धभर्तृवदाचरेत् । अन्तर्निवृत्तसङ्गः स्यादसिधाराव्रतं हि तत् Yādava.

(hence fig.) any hopelssly difficult task; सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् Bh.2.28,64; असिधारा- व्रतमिदं यदरिणा सह संवासः Pt.3. -धावः, -धावकः an armourer, furbisher. वाद्यविद्याविदग्धाश्च लुब्धकाश्चासिधावकाः । Śiva. B.31.21. -धेनुः, -धेनुका [असिर्धेनुरिव यस्याः वा कप् or असेर्धेनुका (धेनुशब्देन स्त्रीवाचकत्वं संदृश्यते)] a knife; Vikr.4.69; cf. स्याच्छस्त्री चासिपुत्री च च्छुरिका चासिधेनुका । Ak.2.8.92. -पत्र a. having sword-shaped leaves; जातं तमात्मन्यसिपत्रवृक्षम् R.14.48.

(त्रः) the sugar-cane.

a kind of tree which grows in the lower world. (Mar. त्रिधारी निवडुंग.)

a hell paved with swords.

(त्रम्) the blade of a sword.

a sheath, a scabbard. ˚वनम् a hell where the trees have leaves as sharp as swords. असिपत्रवनं चैव निशितं क्षुरसंवृतम् (ददर्श) Mb.18.2. 23; असिपत्रवनं चैव लोहदारकमेव च । Ms.4.9;

पत्रकः a sugar-cane.

white दर्भ grass, Bhāg.5.26.7.-पथः, -थम् the course of the breath. -पुच्छः, -पुच्छकः the Gangetic porpoise; see शिशुमार. -पुत्रिका, -पुत्री a knife (असेः पुत्रीव). -मेदः [असिरिव तीक्ष्णो मेदो निर्यासो यस्य] the fetid Khadira. (विट्खदिर; Mar. शेण्याखैर). -लता the blade of a sword; ददृशुरुल्लसितासिलतासिताः Śi.6.51.-हत्य a. to be killed with a sword. (-त्यम्) fighting with knives or swords. -हस्तः killing by right hand sword; (असिहस्तो दक्षिणबाहुविभ्रान्तच्छेदः । इति नीलकण़्ठटीका); असिहस्तापहस्ताभ्यां तेषां गात्राण्यकृन्तत Mb.6.9.45. -हेतिः [असिर्हेतिः साधनमस्य] a swordsman.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असि m. (2. अस्) , a sword , scimitar , knife (used for killing animals) RV. AV. etc.

असि f. N. of a river (near Benares) Va1mP. ( cf. असी); [ Lat. ensi-s.]

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the sword; particularly that of शिव. वा. ३०. १२४; १०१. २७२.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Asi usually denotes the sacrificial knife,[१] but occasionally appears to mean a knife used in war.[२] Mention is made of a sheath (vavri)[३] to which a belt (vāla)[४] was attached. The word asi-dhārā[५] also denotes ‘sheath.’

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असि पु.
तलवार (इसकी नोक वधू के शिर पर उसके पिता अथवा भाई द्वारा रखी जाती है), शां.गृ.सू. 23.3।

  1. Rv. i. 162, 20;
    x. 79, 6;
    18;
    Av. ix. 3, 9;
    x. 1, 20, etc.
  2. Av. xi. 9, 1. The use of the ‘sword’ increases in the Epic period. See Hopkins, Journal of the American Oriental Society, 13, 284.
  3. Kāṭhaka Saṃhitā, xv. 4.
  4. Ibid.;
    Maitrāyaṇī Saṃhitā, ii. 6, 5.
  5. Jaiminīya Upaniṣad Brāhmaṇa, iii. 139.
"https://sa.wiktionary.org/w/index.php?title=असि&oldid=489899" इत्यस्माद् प्रतिप्राप्तम्