धारा

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारा, स्त्री, (धार्य्यन्ते अश्वा यया । धृ + णिच् + अङ् । स्त्रियां टाप् ।) अश्वानां पञ्चधागतिः । तद्यथा । आस्कन्दितम् १ धौरितकम् २ रेचि- तम् ३ वल्गितम् ४ प्लुतम् ५ । इत्यमरः । २ । ८ । ४९ ॥ (यथा, माघे । ५ । ६० । “अव्याकुलं प्रकृतमुत्तरधेयकर्म्म धाराः प्रसाधयितुमव्यतिकीर्णरूपाः । सिद्धं मुखे नवसु वीथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयाम्बभूव ॥” “अव्यतिकीर्णरूपा असंकीर्णरूपा धारा गति- भेदाः । ‘अश्वानान्तु गतिर्धारा विभिन्ना सा च पञ्चधा । आस्कन्दितं धोरितकं रेचितं वल्गितं प्लुतम् ॥’ इति वैजयन्ती ॥ ‘गतयोऽमूः पञ्च धाराः ।’ इत्यमरश्च ॥ अश्व- शास्त्रे तु संज्ञान्तरेणोक्ताः । ‘गतिः पुला चतुष्का च तद्वन्मध्यजघा परा । पूर्णवेगा तथा चान्या पञ्च धाराः प्रकीर्त्तिताः ॥ एकैका त्रिविधा धारा हयशिक्षाविधौ मता । लध्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत् क्रमात् ॥’ तथा च पश्चदशावभेदा भवन्ति । ताः पञ्च धाराः प्रसाधयितुं परिचेतुं नवसु वीथिषु सञ्चारस्थानेषु गमयाम्बभूव ॥” इति तट्टी- कायां मल्लिनाथः ॥) सैन्याग्रिमस्कन्धः । घटादि- च्छिद्रम् । सन्ततिः । (यथा, महाभारते । ६ । ११८ । २४ । “उत्पपात ततो धारा वारिणो विमला शुभा ॥”) द्रवस्य प्रपातः । (यथा, महाभारते । १ । २२४ । ५९ । “त्वया द्बादश वर्षाणि वसोर्द्धाराहुतं हविः । उपयुक्तं महाभाग ! तेन त्वां ग्लानिराविशत् ॥”) खड्गादेर्न्निशितमुखम् । इति मेदिनी । रे, ५० ॥ (यथा, शाकुन्तले १ अङ्के । “ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ॥”) उत्कर्षः । रथचक्रम् । इति हेमचन्द्रः । ३ । ४१९ ॥ (यथा, रधुः । १३ । १५ । “आभाति वेला लवणाम्बुराशे- र्धारानिबद्धेव कलङ्करेखा ॥”) यशः । अतिवृष्टिः । (यथा, पञ्चतन्त्रे । २ । ६२ । “पर्ज्जन्यस्य यथा धारा यथा च दिवि तारकाः । सिकतारेणवो यद्बत् संख्यया परिवर्ज्जिताः । गुणाः संख्यापरित्यक्तास्तद्वदस्य महात्मनः ॥”) समूहः । इति शब्दरत्नावली ॥ घनासारवर्ष- णम् । सदृशः । इति विश्वः ॥ (प्रवाहः । यथा, याज्ञवल्क्ये । १ । २८० । “सहस्राक्षं शतधारमृषिभिः पावनं कृतम् । तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥”) दक्षिणदेशस्थपुरीविशेषः । इति विक्रमचरि- तम् ॥ * ॥ (तीर्थविशेषः । यथा, महा- भारते । ३ । ८४ । २३ । “प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ! । धारां नाम महाप्राज्ञ ! सर्व्वपापप्रमोचनीम् । तत्र स्नात्वा नरव्याघ्र ! न शोचति नराधिप ! ॥”) अथ ज्वरादिशान्त्यर्थं श्रीनरसिंहादिमूर्द्ध्नि जल- धारापातनविधिः । यथा, नृसिंहपुराणे । “तथा महाज्वरग्रस्ते धारां देवस्य मूर्द्धनि । सन्ततां नारसिंहस्य कुर्य्याद्बा कारयेत् द्बिजैः ॥ होमञ्च भोजनञ्चैव तस्य दोषः प्रशाम्यति ॥”

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारा स्त्री।

आस्कन्दितादि_पञ्चगतयः

समानार्थक:धारा

2।8।49।1।1

गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम्. कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान्.।

अवयव : अश्वगतिविशेषः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारा¦ स्त्री धार्य्यन्ते अश्वा अत्र अनया वा धारि--अङ्। अश्वानां

१ गतिभेदे अमरः। अश्वशब्दे दृश्यम् अन्यत्र च
“अश्वानान्तु गतिर्धारा बिभिन्ना सा च पञ्चधा। आस्क-न्दितं धौरितकं रेचितं वल्गितं प्लुतम्। धौरितंवल्गितं धाराप्लुतमुत्तेजितं क्रमात्। उत्तारितं चेतिपञ्च शिक्षयेत् तुरगं गतीः। उत्तेरितोऽतिवेगान्धो नशृणोति न पश्यति। धौरितं गतिमात्रे यद्योजितंबल्गितं पुरः। अग्रकायसमुल्लासात् कुञ्चितास्यंनतत्रिकम्। उत्तेजितं मध्यवेगं योजनं श्लथवल्गया। पूर्वापरोन्नमनतः क्रमादुत्तारणं प्लुतम्” अश्वशास्त्रेतु संज्ञान्तरेणोक्ताः। गतिः पुला चतुष्का च तद्वन्मध्यजवा परा। पूर्णवेगा तथा चान्या पञ्च धारा प्रकी-र्त्तिताः। एकैका त्रिविधा धारा हयशिक्षाविधौ मता। लम्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत् क्रमादिति” [Page3888-b+ 38]
“धाराः प्रसाधयितुमव्यतिकीर्णरूपाः” माघः।

३ सैन्या-ग्रिमस्कन्धे

४ अविच्छिन्नसन्तत्या द्रवद्रव्यस्य प्रपाते

५ खड-गादेर्निशितमुखे

६ पाषाणभेदे

७ ऋणे च पु॰ मेदि॰।

८ यशसि

९ अतिवृष्टौ

१० समूहे च शब्दरत्ना॰

११ प्रशान्ते

१२ उत्कर्षे

१३ रथचक्रे स्त्री हेम॰।

१४ दाक्षिणात्यपुरभेदेस्त्री
“विश्वा उत त्वया वयं धारा उदन्या इव” ऋ॰

२ ।

७ ।


“घृतस्य धारा उपयन्ति विस्रुतः” ऋ॰

१ ।

१२

५ ।


“धारां शितां रामपरश्वधस्य” रघुः।
“ध्रुवं स नीलो-त्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति” शकु॰।
“धारा जवेन पतिता जलदोदरेभ्यः” मृच्छ॰।
“तौहन्यमानौ नाराचैर्धाराभिरिव पर्वतौ” रामा॰

६ ।

१९ अ॰।
“अथ माहेश्वरीं घारां समासाद्य धराधिपः” भा॰ व॰

८५ अ॰।
“वसोः पवित्रमसि शतधारम्” यजु॰

१ ।

३ धाराधरशब्दे दृश्यम्।

१५ जनप्रवादे

१६ वाचि निरु॰वृषा॰ आद्युदात्तता

१७ वर्षणे पु॰ धारयुः।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारा [dhārā], 1 A stream or current of water, a line of descending fluid, stream, current; धारा नैव पतन्ति चातक- मुखे मेघस्य किं दूषणम् Bh.2.93; Me.55; R.16.66; आबद्ध- धारमश्रु प्रावर्तत Dk.74.

A shower, a hard or sharpdriving shower.

A continuous line or series; प्रणतौ हन्त निरन्तराश्रुधाराः Bv.2.2.

A leak or hole in a pitcher.

The pace of a horse; धाराः प्रसाधयितुमव्यतिकीर्ण- रूपाः Śi.5.6; N.1.72.

The margin, edge or border of anything; ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यव- स्यति Ś.1.18.

The sharp edge of a sword, axe, or of any cutting instrument; तर्जितः परशुधारया मम R.11.78; 6.42;1.86,41; Bh.2.28.

The edge of mountain or precipice.

A wheel or the periphery of a wheel; धारानिबद्धेव कलङ्करेखा R.13.15.

A garden-wall, fence, hedge.

The van or front line of an army.

The highest point, excellence.

A multitude.

Fame.

Night.

Turmeric.

Likeness.

The tip of the ear.

Speech.

Rumour, report.

N. of an ancient town in Mālvā, capital of king Bhoja. -Comp. -अग्रम् the broad-edged head of an arrow.

अङ्कुरः a drop of rain.

hail; धाराङ्कुरवर्षिणो जलदाः Bṛi.S.32.21.

advancing before the line of an army (to defy the enemy). -अङ्गः a sword.

अटः the Chātaka bird.

a horse.

a cloud.

a furious elephant, one in rut. -अधिरूढ a. raised to the highest pitch; किं वा धाराधिरूढं हि जाड्यं वेदजडे जने Ks.6.62. -अवनिः f. wind. -अश्रु n. a flood of tears; Amaru.1. -आवर्तः a whirlpool. -आसरः a heavy down-fall of rain, a hard or sharp driving shower; धारासारैर्महति वृष्टिर्बभूव H.3; V.4.1. -ईश्वरः king Bhoja. -उष्ण a. warm from a cow (as milk); धारोष्णं त्वमृतं पयो भ्रमहरं निद्राकरं कान्तिदम् । वृष्यं बृंहणमग्निवर्धन- मतिस्वादु त्रिदोषापहम् ॥ Rājanighaṇṭu. -गिरिः The fort of Devagiri or Daulatabad; स हि शैलो निजामस्य प्रियकारी महायशाः । प्रतापी प्रथितो लोके धारागिरिरिवापरः ॥ Śiva. B.2.-गृहम् a bath-room with water-jets, a shower-bath or a house furnished with artificial jets or fountains of water; शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपमृद्धिमन्तः R.16.49.

धरः holder of streams, a cloud; धातः किं नु विधौ विधातुमुचितो धाराधराडम्बरः Bv.1.4.

a sword.

निपातः, पातः a fall of rain, a hard or pelting shower, Me.48.

a stream of water. -यन्त्रम् a fountain, jet (of water); धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने Amaru.124; धारायन्त्र- विमुक्तसंततपयः पूरप्लुते सर्वतः Ratn.1.1. -वर्षः, -र्षम्, -संपातः a hard, sharp-driving or incessant shower; न प्रसेहे स रुद्धार्कमधारावर्षदुर्दिनम् R.4.82. -वाहिन् a. incessant, continuous; पटुर्धारावाही नव इव चिरेणापि (मन्युः) U.4.3.-विषः a crooked sword. -शीत a. (milk) cooled after having been milked.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारा f. stream or current of water

धारा f. (See. त्रि-, द्वि-, शत-, सहस्र-) , flood , gush , jet , drop (of any liquid) , shower , rain (also fig. of arrows , flowers , etc. ; वसोर् ध्, " source of good " , N. of a partic. libation to अग्निAV. S3Br. MBh. ; of a sacred bathing-place MBh. ; of अग्नि's wife BhP. )

धारा f. a leak or hole in a pitcher etc. L.

धारा f. the pace of horse S3is3. v , 60 (5 enumerated , viz. धोरित, वल्गित, प्लुत, उत्-तेजित, उत्-ते-रित, or आ-स्कन्दित, रेचितfor the two latter L. ; with परमा, the quickest pace Katha1s. xxxi , 39 )

धारा f. uniformity , sameness (as of flowing water?) L.

धारा f. custom , usage W.

धारा f. continuous line or series(See. वन-)

धारा f. fig. line of a family L.

धारा f. N. of a sacred bathing-place (also with माहेश्वरीSee. above ) MBh.

धारा f. of a town (the residence of भोज) Cat.

धारा f. (2. धाव्)margin , sharp edge , rim , blade ( esp. of a sword , knife , etc. ; fig. applied to the flame of fire) RV. S3Br. MBh. Ka1v. etc.

धारा f. the edge of a mountain L.

धारा f. the rim of a wheel Ragh. xiii , 15

धारा f. the fence or hedge of a garden L.

धारा f. the van of an army L.

धारा f. the tip of the ear L.

धारा f. highest point , summit(See. रा-धिरूढ)glory , excellence L.

धारा f. night L.

धारा f. turmeric L.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhārā : f.: Name of a tīrtha.

Described as destroying all sin (sarvapāpapraṇāśinī); by bathing there one does not grieve (na śocati) 3. 82. 22.


_______________________________
*2nd word in right half of page p369_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhārā : f.: Name of a tīrtha.

Described as destroying all sin (sarvapāpapraṇāśinī); by bathing there one does not grieve (na śocati) 3. 82. 22.


_______________________________
*2nd word in right half of page p369_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhārā denotes the ‘edge’ of a weapon,[१] as of an axe (svadhiti),[२] or of a razor (kṣura).[३] See also Asi.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारा स्त्री.
छुरी की धार, भा.श्रौ.सू. 7.11.13; आप.श्रौ.सू. 7.14.1०; ‘अङ्कति स्वधितेरन्यतरां धाराम्’; एक छन्ने के माध्यम से सतत धारा में सोमरस का प्रवाह, आप.श्रौ.सू. 12.13.1. उपांशु-ग्रह के विपरीत धाराग्रह में इस संक्रिया का निर्वहण किया जाता है। गार्हपत्य से आहवनीय तक जल-प्रोक्षण के बारे में उक्त, आश्व.श्रौ.सू. 2.2.14 (उदकधारा)

  1. Rv. vi. 3, 5;
    47, 10. Cf. viii. 73, 9;
    Taittirīya Āraṇyaka, iv. 38, 1, for metaphorical applications.
  2. Kauśika Sūtra, 44.
  3. Bṛhadāraṇyaka Upaniṣad, iii. 3, 2.
"https://sa.wiktionary.org/w/index.php?title=धारा&oldid=500478" इत्यस्माद् प्रतिप्राप्तम्