उशीनर

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उशीनरः, पुं, (उशीप्रदो वाञ्छाप्रदो नरो यत्र ।) देशभेदः । तत्पर्य्यायः । गान्धारः २ । इति जटा- धरः ॥ चन्द्रवंशोद्भवराजविशेषः । स तु शिवि- राजपिता । इति श्रीभागवतम् ॥ (पुरुवंशीयो नृपभेदः । यथा महाभारते । श्येनकपोतीये । ३ । १३० । २१-२३ । “उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत ॥ तां देवसमितिं तस्य वासवश्च विशाम्पते । अभ्यगच्छन्नृपवरं ज्ञातुमग्निश्च भारत ॥ जिज्ञासमानौ वरदौ महात्मानमुशीनरं । इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः” ॥ तस्य चारित्रं तत्रैव १३१ अध्याये द्रष्टव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उशीनर¦ पु॰

१ वृष्णिवंशोद्भये क्षत्रियभेदे।
“उशीनरश्च विक्रान्तोवृष्णयस्ते प्रकीर्त्तिताः” भा॰ आ॰

१८

६ अ॰।

२ पौरवे नृ-पभेदे
“शृणु पूरोर्महाराज! वंशमुत्तमपौरुषम्” इत्यु-पक्रम्य
“सृञ्चयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः। जनमेजयी महाराजो पुरञ्चयसुतोऽभवत्। जनमेजययस्य राजर्षेर्महाशीलोऽभवत् सुतः। महामना नामसुतो महाशीलस्य धार्मिकः। महामनास्तु द्वौ पुत्रौजनयामास भारत!। उशीनरं च धर्मज्ञंतितिक्षुञ्च महाब-लम्” हरिवं॰

३१ अ॰ तस्य चरितं वर्णितम्” भा॰ व॰
“अत्रागच्छन्नृपवरं ज्ञातुमग्निः सवासवः। जिज्ञासमानीवरदो महात्मानमुशीनरम्। इन्द्रःश्येनः कपोतोऽग्निर्भूत्वायज्ञेऽभिजग्मतुः। ऊरुं राज्ञः समासाद्य कपोतः श्येन-जाद्भयात्। शरणार्थी तदा राजन्! निलिल्येभयपी-डितः”

१३

० अ॰।
“श्येन उपाच। धर्म्मात्मानंत्वा रेकं सर्व्वे राजन्महीक्षितः। स वै धर्म्मविरुद्धंत्वं कस्मात् कर्म्म चिकीर्षसि?। विहितं भक्षणं राजन्!पीड्यमानस्य मे क्षुधा। मा रक्षीर्धर्म्मलोभेन धर्म्ममुत्-सृष्टवानसि। राजोवाच। सन्त्रस्तरूपस्त्राणार्थी त्वत्तोभीतो महाद्विज!। मत्सकाशमनुप्राप्तः प्राणगृध्नुरयंद्विजः। एवमभ्यागतस्येह कपोतंस्याभयार्थिनः। अप्र-दाने परं धर्म्मं कथं श्येन! न पश्यसि?। प्रस्पन्दमानःसंभ्रान्तः कपोतः श्येन! लक्ष्यते। मत्सकाशे जीवितार्थी[Page1376-a+ 38] तस्य त्यागो विगर्हितः। यो हि कश्चिद्द्विजान् हन्याद्गांवा लोकस्य मातरम्। शरणागतञ्च त्यजते तुल्यं तेषां हिहि पातकम्। श्येन उवाच। आहारात् सर्व्वभूतानिसम्भवन्ति महीपते!। आहारेण विवर्द्धन्ते तेनजीवन्ति जन्तवः। शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जी-वितुम्। न तु भोजनमुत्सृज्य शक्यं वर्त्तयितुं चिरम्। भक्ष्याद्वियोजितस्याद्य मम प्राणा विशाम्पते!। वि-सृज्य कायमेष्यन्ति पन्थानमकुतोभयम्। प्रमृते मयिधर्म्मात्मन्! पुत्रदारं विनङ्क्ष्यति। रक्षमाणः कपोतंत्वं बहून् प्राणान्न रक्षसि। धर्म्मं यो बाधते धर्म्मोन स धर्म्मः कुधर्म्मवत्। अविरोधात्तु यो धर्म्मः सधर्म्मः सत्यविक्रम!। विरोधिषु महीपाल! निश्चित्य गुरु-लाघवम्। न बाधा विद्यते यत्रतं धर्म्मं समुपाचरेत्। गुरुलाघवमादाय धर्म्माधर्म्मविनिश्चये। यतो भूयांस्ततोराजन्! कुरुष्व धर्म्मनिश्चयम्। राजोवाच। बहुकल्याण-संयुक्तं भाषसे विहगोत्तम!। सुपर्णः पक्षिराट् किं त्वंधर्म्मज्ञश्चास्यसंशयम्। तथा हि धर्म्मसंयुक्तं बहु चित्रञ्चभाषसे। न तेऽस्त्यविदितं किञ्चिदिति त्वां लक्षयाम्यं-हम्। शरणैषिपरित्यागं कथं साध्विति मन्यसे। आ-हारार्थं समारम्भस्तव चायं विहङ्गम!। शक्यश्चाप्यन्यथाक्वर्त्तुमाहारोऽप्यधिकस्त्वया। गीवृषो वा वराहो बा मृगोवा महिषोऽपि वा। त्वदर्थमद्य क्रियतां यद्वान्यदिहकाङ्क्षसि। श्येन उवाच। न वराहं न चोक्षाणं नमृगान् विविधांस्तथा। भक्षयामि महाराज! किं ममा-न्येन केनचित्। यस्तु मे दैवविहितो भक्ष्यः क्षत्रियपु-ङ्गव!। तमुत्सृज महीपाल! कपोतमिममेव मे। श्येनःकपोतमत्तीति स्थितिरेषा सनातनी। मा राजन्! सा-रमज्ञात्वा कदलीस्कन्धमासजः। राजोवाच। राष्ट्रंशिवीनामृद्धं वै ददानि तव खेचर!। यं वा कामयसेकामं श्येन! सर्वं ददानि ते। विनेमं पक्षिणं श्येन! श-रणार्थिनमागतम्। येनेमं वर्जयेथास्त्वं कर्म्मणा पक्षि-सत्तम!। तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम्। श्येन उवाच। उशीनर! कपोते ते यदि स्नेहो नरा-धिप!। आत्मनो मांसमुत्कृत्य कपोततुलया धृतम्। यदा समं कपोतेन तव मांसं नृपोत्तम!। तथा देयन्तुतन्मह्यं सा मे तुष्टिर्भविष्यति। राजोवाच। अनुग्रहमिमंमन्ये श्येन। यन्माभियाचसे। तस्मात्तेऽद्य प्रदास्यामिस्वमांसं तुलया धृतम्। लोमश उवाच। उत्कृत्य स[Page1376-b+ 38] स्वयं मांसं राजा परमधर्म्मवित्। तुलयामास कौन्तेय!कपोतेन समं विभो। ध्रियमाणः कपोतस्तु नांसेनाप्य-तिरिच्यते। पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः। न विद्यते यदा मांसं कपोतेन समं धृतम्। तत उत्-कृत्तमांसोऽसावारुरोह स्वयं तुलाम्। श्येन उवाच। इन्द्रोऽहमस्मि धर्मज्ञ! कपोतो हव्यवाडयम्। जिज्ञास-मानौ धर्मे त्वां यज्ञवाटमुपागतौ। यत्ते मांसानि गात्रे-भ्य उत्कृत्तानि विशाम्पते!। एषा ते भास्वरी कीर्त्तिर्लो-कानभिभविष्यति। यावल्लोके मनुष्यास्त्वां कथयिष्यन्तिपार्थिव!। तावत् कीर्त्तिश्च लोकाश्च स्थास्यन्ति तव शाश्व-ताः। इत्येवमुक्त्वा राजानमारुरोह दिवं पुनः। उ-शीनरोऽपि धर्म्मात्मा धर्म्मेणावृत्य रोदसी। विराजमानोवपुषा प्रारुरोह त्रिपिष्टपम्”

१३

१ अ॰। उशीपूरकोवाञ्छापूरको नरो यत्र।

३ तदधिकृतदेशे जटाधरः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उशीनर¦ m. (-रः)
1. The name of a country, (Candahar.)
2. A king, the father of SIVI. E. उशी desire, नर a man.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उशीनर/ उशी--नर m. pl. (Comm. on Un2. iv , 1 ), N. of an ancient people in Central India AitBr. Pa1n2. MBh. etc.

उशीनर/ उशी--नर m. a king of that people MBh. Hariv. VP. etc.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--Had शिबि, grandson of ययाति for son. A son of महामन; had five queens of राजऋषि families, each of whom bore a son; (four sons, शिबि and others, ब्र्। प्।). भा. I. १२. २०; IX. २३. 2-3; Br. III. ७४. १७; M. ४२. १९; ४८. १५-18; वा. ९९. १८-19; Vi. IV. १८. 8-9.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Uśīnara : m. (pl.): Name of a people.

A. Description: According to Bhīṣma they were spirited and skilled in the use of all kinds of weapons (sarvaśastreṣu kuśalāḥ sattvavanto hy uśīnarāḥ) 12. 102. 4.

B. Degradation: Bhīṣma mentioned Uśīnaras among those who became Śūdras because they showed no respect for Brāhmaṇas (pulindāś cāpy uśīnarāḥ/…vṛṣalatvaṁ parigatā brāhmaṇānām adarśanāt) 13. 33. 20-21 (Nī. on Bom. Ed. 13. 33. 21: adarśanāt ananugrahāt).

C. Epic event: Saṁjaya mentioned Uśīnaras among those who were killed by Arjuna on the seventeenth day of the war (kṣudrakāś cāpy ūśīnarāḥ/… te hatāḥ samare rājan pārthena) 8. 4. 46, 50.

_______________________________
*2nd word in right half of page p640_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Uśīnara--In the Aitareya Brāhmaṇā[१] the Kuru-Pañcālas are mentioned as dwelling together in the ‘Middle Country’ with the Vaśas and the Uśīnaras. In the Kauṣītaki Upaniṣad[२] also the Uśīnaras are associated with the Kuru-Pañcālas and Vaśas, but in the Gopatha Brāhmaṇa[३] the Uśīnaras and Vaśas are regarded as northerners. In the Rigveda[४] the people is alluded to in one passage by reference to their queen, Uśīnarāṇī. Zimmer[५] thinks that the Uśīnaras earlier lived farther to the north-west, but for this there is no clear evidence. His theory is based merely on the fact that the Anukramaṇī (Index) of the Rigveda ascribes one hymn[६] to Śibi Auśīnara, and that the Śibis were known to Alexander's followers as ,[७] living between the Indus and the Akesines (Chenab). But this is in no way conclusive, as the Śibis, at any rate in Epic times,[८] occupied the land to the north of Kurukṣetra, and there is no reason whatever to show that in the Vedic period the Uśīnaras were farther west than the ‘Middle Country.’

  1. viii. 14.
  2. iv. 1. See Keith Śāṅkhāyana Āranyaka, 36.
  3. ii 9.
  4. x. 59, 10.
  5. Altindisches Leben, 130.
  6. Rv. x. 179.
  7. Diodorus, xvii. 19.
  8. See Pargiter's map. Journal of the Royal Asiatic Society, 1908. p. 322.

    Cf. Weber, Indische Studien, 1, 213, 419;
    Hultzsch Indian Antiquary, 34, 179.
"https://sa.wiktionary.org/w/index.php?title=उशीनर&oldid=493578" इत्यस्माद् प्रतिप्राप्तम्