ओदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदनः, पुं क्ली, (उन्द + “उन्देर्नलोपश्च” इति २ । ७६ । उणादिः युच् + नलोपश्च ।) अन्नम् । भक्तम् । इत्यमरः ॥ भात इति भाषा । (यथा मनुः । ८ । ३२९ । “अन्येषाञ्चैवमादीनां मद्यानामोदनस्य च” ॥ “ओदनः क्षालितः स्विन्नः प्रस्रुतो विशदो लघुः । भृष्टतण्डुलजोऽत्यर्थमन्यथा स्याद्गुरुश्च सः” ॥ इति वैद्यकचक्रपाणिकृतद्रव्यगुणे मद्यादिवर्गे ॥ “ओदनस्तैः शृतो द्विस्त्रिः प्रयोक्तव्यो यथायथम् । दोषदूष्यादिबलतो ज्वरघ्नः क्वाथसाधितः” ॥ इति बाभटे चिकित्सास्थाने । १ अध्याये ॥ अस्य पर्य्यायञ्चाह भावप्रकाशकारः ॥ “भक्तमन्नं तथान्धश्च क्वचिकूरञ्च कीर्त्तितम् । ओदनोऽस्त्री स्त्रियां भिस्मा दीदिविः पुंसि भा- षितः” ॥ अस्य विवरणान्तरञ्चान्नशब्दे ज्ञेयम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदन पुं-नपुं।

सिद्धान्नम्

समानार्थक:भिस्सा,भक्त,अन्ध,अन्न,ओदन,दीदिवि,कशिपु

2।9।48।2।5

पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः। भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः॥

अवयव : भक्तोद्भवमण्डः,भक्तसिक्तकान्नावयवः

 : मुन्यन्नविशेषः, स्थालीसंस्कृतान्नादिः, केशकीटाद्यपनीयशोधितोन्नः, दग्धोदनः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदन¦ पु॰ उन्द--युच् नलोपो गुणश्च।

१ मेघे निघ॰।

२ भक्तेस्विन्नान्ने अर्द्धर्चादि॰ पु॰ न॰।
“अन्नेन व्यञ्जनम्” पा॰ स॰ गुडोदनः घृतोदनःदध्यौदन इत्यादि मिश्री-करणद्वारा सामर्थ्यम्।
“गुडोदनं पायसं च हविष्यंक्षीरषष्टिकम्। दध्योदनं हविश्चूर्ण्णं मांसं चित्रान्नमेवच” या॰ स्मृतिः गुडमिश्र ओदनः गुडौदन एवंदव्योदनः हविर्घृतौदनः” मिता॰ ततो हितादौ छ यत्वा। ओदनीय ओदन्य ओदनसाधने तण्डुलादौ।
“अमी लगद्बाष्पमखण्डिताखिलं विमुकमन्थोत्यममुकमार्द्द-वम्। रसोत्तरं गौरमपीवरं रसादभुञ्जतामोदनमोदनंजनाः
“नैषधे अन्नवर्णने
“अन्येषाञ्चैवभादीनां मद्याना-मोदनस्य च” मनुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदन¦ mn. (-नः-नं) Boiled rice. f. (-निका-नी) A plant, (Sida cordifolia, &c.) see वला E. उन्द् to be wet, ल्युट् Unadi affix, and न dropped.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदनः [ōdanḥ] नम् [nam], नम् [उन्द्-युच् Uṇ.2.76]

Food, boiled rice; e. g. दध्योदनः, घृत˚, गुड˚, मांस˚ &c.

Grain mashed and cooked with milk.

A cloud. (Sometimes ओदन is prefixed to the names of pupils to denote that the pupil's object is more to be fed by his master than be taught; e. g. ओदनपाणिनीयाः P.VI.2.69 Sk. Mbh. on P.I.1.73. -नी The plant (बला) Sida Cordifolia (Mar. चिकणा). -Comp. -आह्वया, -आह्वा, -ओदनिका N. of a medicinal plant (महासमंगा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदन mn. ( उद्Un2. ii , 76 ), grain mashed and cooked with milk , porridge , boiled rice , any pap or pulpy substance RV. AV. S3Br. MBh. etc.

ओदन m. cloud Nigh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Odana is a common expression[१] denoting a mess, usually of grain cooked with milk (kṣīra-pākam odanam).[२] Special varieties are mentioned, such as the ‘milk-mess’ (kṣīraudana),[३] the ‘curd-mess’ (dadhy-odana),[४] the ‘bean-mess’ (mudgaudana),[५] the ‘sesame-mess’ (tilaudana),[६] the ‘water-mess’ (udaudana),[७] the ‘meat-mess’ (māṃsaudana),[८] the ‘ghee-mess’ (ghṛtaudana),[९] etc.

  1. Rv. viii. 69, 14, etc.;
    Av. iv. 14, 7, etc.
  2. Rv. viii. 77, 10.
  3. Śatapatha Brāhmaṇa, ii. 5, 3, 4;
    xi. 5, 7, 5;
    Bṛhadāraṇyaka Upaniṣad, vi. 4, 13.
  4. Bṛhadāraṇyaka Upaniṣad, vi. 4, 14.
  5. Śāṅkhāyana Āraṇyaka, xii. 8.
  6. Ibid.;
    Bṛhadāraṇyaka Upaniṣad, vi. 4, 15.
  7. Ibid., vi. 4, 15.
  8. Ibid., vi. 4, 16;
    Satapatha Brāhmaṇa, xi. 5, 7, 5;
    Śāṅkhāyana Āraṇyaka, xii. 8.
  9. Śāṅkhāyana Āraṇyaka, xii. 8.
"https://sa.wiktionary.org/w/index.php?title=ओदन&oldid=494157" इत्यस्माद् प्रतिप्राप्तम्