कारु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारुः, पुं, (करोति इति । “कृवापाजिमीति” । उणां १ । १ । उण् ।) विश्वकर्म्मा । इति मेदिनी ॥ (भावे उण ।) शिल्पम् । इति हेमचन्द्रः ॥

कारुः, त्रि, (करोति इति । कृ + उण् । उणां । १ । १ ।) कारकः । (यथा, भट्टिः ७ । २८ । “राघवस्य ततः कार्य्यं कारुर्व्वानरपुङ्गवः । सर्व्ववानरसेनानामाश्वागमनमादिशत्” ॥) शिल्पी । इति मेदिनी ॥ (यथा, कूर्म्मपुराणे । “कारयित्वा तु कर्म्माणि कारुं पश्चान्न वञ्चयेत्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारु पुं।

चित्रकारादिः

समानार्थक:कारु,शिल्पिन्

2।10।5।1।1

कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः। कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः॥

स्वामी : कारुसङ्घे_मुख्यः

 : मालाकारः, कुम्भकारः, गृहादौ_लेपकारः, पटनिर्माता, चित्रकारः, चर्मकारः, लोहकारकः, स्वर्णकारः, ताम्रकारः, तक्षः, कारुभेदः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारु¦ त्रि॰ कृ--उण्।

१ शिल्पिनि।
“इति स्म सा कारुतरेणलेखितं नलस्य च स्वस्य च सख्यमीक्षते” नैष॰।
“कार-यित्वा तु कर्म्माणि कारुं पश्चान्न वञ्चयेत्” कूर्म्मपु॰[Page1944-a+ 38]
“उपस्तुतिं भरमाणस्य कारोः” ऋ॰

१ ,

१४

८ ,

२ ,।
“नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम्” मनुः।
“कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा” याज्ञ॰
“गोरक्षकान् बाणिजकान् तथा कारुकुशीलवान्। प्रेष्यान् वार्द्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत्” मनुः।

२ सूपकारादौ
“धान्येऽष्टमं विशां शुल्क विंशं कार्षा-पणावरम्। कर्म्मोपकरणाः शुद्राः कारवः शिल्पिनस्तथा” मनुना कारुशिल्पिनोर्भेदेन निर्द्देशात्
“कारवः सूप-कारादयः” कुल्लू॰। एतेषां च कर्म्मकरणरूप एवकरो न धनरूपादिर्मनुना कर्म्मोपकरणत्वेन तेषांनिर्द्देशात्। तत्र करप्रतिरूपकर्म्मकरणप्रकारो मनुना-दर्शितो यथा
“कारुकान् शिल्पिनश्चैवं शूद्रांश्चात्मो-पजीविनः। एकैकं कारयेत् कर्म्म मासिमासि मही-पतिः” मासि मासि कर्म्म एकैकं दिनं कारयेदित्यर्थः।
“सम्भूय कुर्व्वतामर्धं सबाधं कारुशिल्पिनाम्। अर्घस्यह्रासं वृद्धिं वा जानतां दम उत्तमः” याज्ञ॰।

३ कारकेतत्तत्क्रियानिष्पादके त्रि॰ मेदि॰।
“राघवस्य ततः कार्य्यंकारुर्वानरपुङ्गबः” भट्टिः। भावे उण्।

४ कर्म्मणि मेदि॰

५ शिल्पे हेमच॰

६ स्तोतविनिरु॰। अत्रेदं बोध्यम् उणादी-नामव्युत्पत्तिपक्षे समुदायशक्त्या शिल्पिप्रभृतितत्तदर्थवाच-कता, व्युत्पत्तिपक्षे अवयवशक्त्या अवयवार्थस्याप्युपस्थापनेनयोगेन विशिष्टार्थपरतया यौगिकत्वं तेन कार्य्यं कारुरित्यादौकर्म्मादेरन्वयः उदन्तकृद्योगाच्च तत्र कर्म्मणि न षष्ठीअसत्यवयवार्थे कर्म्मणोऽन्वयासम्भवात् न द्वितीयादि-प्रसक्तिः। स्वार्थेक। कारुकोऽपि सूपकारादौ।
“न साक्षीनृपतिः कार्य्यो न कारुककुशीलवौ” मनुः।
“अशक्नु-वंस्तु सुश्रूषां शूद्रः कर्त्तुं द्विजन्मनाम्। पुत्रदारात्ययंप्राप्ता जीवेत् कारुककर्म्मभिः। यैः कर्म्मभिः प्रचरितैःशुश्रूष्यन्ते द्विजातयः। तानि कारुककर्म्माणि शिल्पानिविविधानि च” मनुः। स्त्रियामूङ्। कारू शिल्पिन्यांरजकादिस्त्रियाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारु¦ mfn. (-रुः-रुः-रु)
1. An artist, an artificer, an agent, a maker, a doer. m. (-रुः) A name of VISWAKARMA, the artist of the gods.
2. An art, a science. E. कृञ् to do, and उण् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारु [kāru], a. (-रू f.) [कृ-उण् Uṇ.1.1]

A maker, doer, an agent, servant; राघवस्य ततः कार्यं कारुर्वानरपुङ्गवः Bk.7.28.

An artisan, mechanic, artist; कारुभिः कारितं तेन कृत्रिमं स्वप्नहेतवे Vb.1.13; इति स्म सा कारुतरेण लेखितं नलस्य च स्वस्य च सख्यमीक्षते N.1.38; Y.2.249,1.187; Ms.5.129;1.12. (They are: तक्षा च तन्त्रवायश्च नापितो रजकस्तथा । पञ्चमश्चर्मकारश्च कारवः शिल्पिनो मताः ॥)

Terrible, horrible; जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम् Mb.1.4.3.

रुः An epithet of विश्वकर्मन् the architect of the gods.

An art, a science. -Comp. -चौरः one who commits burglary, a dacoit.

जः1 a piece of mechanism, any product of manufacture.

a young elephant.

a hillock, an ant-hill.

froth.

sesamum growing spontaneously.

red orpiment.-शिल्पिगणः a. corporation of artisens and handicraftsmen; Kau. A.2.6. -हस्तः the hand of an artisan; नित्यं शुद्धः कारुहस्तः Ms.5.129.

कारु [kāru] रू [rū] कः [kḥ] का [kā], (रू) कः का An artisan; कारुकान् शिल्पिनश्चैव Ms.7.138. कारुकान्तं च शोणितम् Mb.13.135.14. ...... कारूकाश्च कुशीलवाः Śiva. B.31.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारु mf. (fr. 1. कृ) , a maker , doer , artisan , mechanic Mn. Ya1jn5. etc.

कारु m. " architect of the gods " , N. of विश्व-कर्मन्L.

कारु m. an art , science L.

कारु mfn. (only etymological) horrible MBh. i , 1657.

कारु m. (fr. 2. कृ) , one who sings or praises , a poet RV. AV.

कारु m. pl. ( अवस्)N. of a family of ऋषिs GopBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mt. of the भारतवर्ष. वा. ४५. ९२.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāru, ‘poet,’ is a word almost confined to the Rigveda.[१] There is evidence that the poet was regarded as a professional man, just as much as the physician (Bhiṣaj).[२] The poets, no doubt, mainly lived at the courts of princes amid their retainers,[३] though they would probably also sing the praises of rich merchants. There was probably no essential connexion between the priest and the poet. Though the priest was often a poet, yet poetry can hardly have been restricted to the priestly caste. Indeed, at the horse sacrifice (Aśvamedha) the Śatapatha Brāhmaṇa[४] expressly requires that one of the singers of panegyrics should be a Rājanya, while the other was a Brāhmaṇa, both singing verses of their own composition. The Anukramaṇī (Index) in several cases[५] attributes hymns of the Rigveda to princes; and even though this may often be merely the same sort of procedure[६] as has made Śūdraka the author of the Mṛcchakaṭikā, or Harṣa of the Ratnāvalī, and has given us royal teachers of the Brahman doctrine,[७] still the Indian tradition evidently saw nothing odd in the idea of nonBrāhmaṇas as poets. Most of the non-sacred poetry has, however, disappeared, for the epic is a product, as it stands, of a later period. See also Ṛṣi.

  1. i. 148, 2;
    165, 12;
    177, 5;
    178, 3;
    ii. 43, 1;
    iii. 33, 8;
    39, 7;
    v. 33, 7;
    vii. 27;
    68, 9;
    72, 4, etc.: Maitrāyaṇī Saṃhitā, i. 8, 7;
    Gopatha Brāhmaṇa, i. 2, 21.
  2. ix. 112. 3.
  3. vii. 73. 1.
  4. xiii. 1, 5, 1;
    4, 3, 5.
  5. E.g., x. 92 is attributed to Śāryāta Mānava.
  6. See Pischel, Vedische Studien, 3, 202.
  7. Weber, Episches im vedischen Ritual, 20, n. 4, sees in Av. xx. a recension of Kṣatriya character. He also finds Kṣatriyas in Viśvāmitra and Kakṣīvant, but hardly with reason. Cf. Varṇa.
"https://sa.wiktionary.org/w/index.php?title=कारु&oldid=495912" इत्यस्माद् प्रतिप्राप्तम्