वर्ण

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ण, क वर्णे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) क, वर्णयति । अयं कश्चिन्न मन्यते । वर्णः शुक्लादिक्रिया । इति दुर्गादासः ॥

वर्ण, त् क स्तुतिविस्तारशुक्लाद्युद्युक्तिदीपने । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०- दीपने अक०-सेट् ।) वर्णयति वर्णापयति कविः स्तौतीत्यर्थः । वर्णयति तन्तुं विस्तारयतीत्यर्थः । वर्णयति प्रतिमां शुक्लादिवर्णां करोतीत्यर्थः । वर्णयति उद्युङ्क्ते दीप्यते वेत्यर्थः । शुक्लाद्य- त्युक्तिदीपने इत्यपि पाठः । इति दुर्गादासः ॥

वर्णम्, क्ली, (वर्णयतीति । वर्ण + अच् ।) कुङ्कुमम् । इति हेमचन्द्रः ॥

वर्णः, पुं, (व्रियते इति । वृ + “कॄवृजॄषिद्रुगुपन्य- निस्वपिभ्यो नित् ।” उणा० ३ । १० । इति नः । स च नित् ।) जातिः । सा च ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्च । एषामुत्पत्त्यादिर्यथा । यदा भगवान् पुरुषरूपेण सृष्टिं कृतवान् तदास्य शरीरात् चत्वारो वर्णा उत्पन्नाः । मुखतो ब्राह्मणाः बाहुतः क्षत्त्रियाः ऊरुतो वैश्याः पादतः शूद्रा जाताः । एतेषां वर्णानां धर्म्माः शास्त्रेषु निरूपिताः सन्ति । तत्र ब्राह्मणधर्म्मा उच्यन्ते । अध्ययनं यजनं दानञ्चेति । जीविका- स्त्रयः अध्यापनं याजनं प्रतिग्रहश्चेति । १ । क्षत्त्रियस्य त्रयो धर्म्माः । अध्ययनं यजनं दानञ्च । प्रजानां रक्षणं जीविका । २ । वैश्यस्य त्रयो धर्म्माः । अध्ययनं यजनं दानञ्च । चतस्रो जीविकाः । कृषिः गोरक्षणं बाणिज्यं कुशीद- ञ्चेति । ३ । शूद्रस्य तु ब्रह्मक्षत्त्रविशां शुश्रूषा धर्म्मो जीविका च । ४ । ब्राह्मणा आश्रम- चतुष्टयवन्तो भवन्ति । ब्रह्मचारी गृहस्थः वानप्रस्थः सन्न्यासी च । तत्र उपनयनानन्तरं नियमं कृत्वा यो गुरोः सन्निधौ स्थित्वा साङ्ग- वेदाध्ययनं करोति स ब्रह्मचारीत्युच्यते । १ । साङ्गवेदाध्ययनं समाप्य यो दारपरिग्रहं कृत्वा स्वधर्म्माचरणं करोति स गृहस्थ उच्यते । २ । पुत्त्रमुत्पाद्य यो वनवासं कृत्वा अकृष्टपच्यफलादि भक्षयित्वा ईश्वराराधनं करोति स वानप्रस्थ उच्यते । ३ । यः सर्व्वं गृहादिकं त्यक्त्वा मुण्डित- मुण्डो गैरिककौपीनाच्छादनं दण्डं कमण्डलुञ्च विभ्रत् भिक्षावृत्तिर्निर्जने तीर्थे वा स्थित्वा केवल- मीश्वराराधनं करोति स सन्न्यासीत्युच्यते ॥ ४ ॥ क्षत्त्रियवैश्ययोस्तु प्रथमाश्रमत्रयं विहितम् । शूद्रस्यैक एव गृहाश्रमः । ईश्वराराधनन्तु सर्व्वेषां वर्णानामाश्रमाणाञ्च साधारणो धर्म्मः । तन्मध्ये यस्तु विष्णूपासकः स वैष्णव उच्यते । शिवोपासकः शैवः । दुर्गादिशक्त्युपासकः शाक्तः । सूर्य्योपासकः सौरः । गणेशोपासको गाणपत्य उच्यते । इति पुराणार्थप्रकाशः ॥ * ॥ अपि च । विवेकी धनपूत्त्रादौ वितृष्णः करुणः सदा । संसारं स्वप्नवद्बीक्ष्य क्षान्तः सन्तुष्टमानसः ॥ पत्रमूलफलाहारी जलाशी वायुभोजनः । निराहारोऽथवा शुद्धोऽहर्निशं तप आचरेत् । एवं कुर्व्वन् महाभाग ब्राह्मणः सिद्धिमाप्नुयात् ॥ चतुर्थमाश्रमं वक्ष्ये मुक्तिसोपानमेव हि । गुरोः पुरोधमासास्य भिक्षुः सन्न्यासधर्म्मवित् ॥ विचरेत् सकलां पृथ्वीं लब्धाशी शान्त उत्सुकः । योगाभ्यासरतो नित्यं धर्म्मसञ्चयतत्परः । धर्म्माधर्म्मविहीनो वा भिक्षुकः सिद्धिमा- प्नुयात् ॥” इति पाद्मे स्वर्गखण्डे २५ । २६ । २७ अध्यायाः ॥ * ॥ अन्यत् नारसिंहपुराणे ५९ अध्याये मार्कण्डेय- पुराणे मदालसोपाख्याने कूर्म्मपूराणे २ । ३ अध्याये च द्रष्टव्यम् ॥ * ॥ * ॥ गजचित्रकम्बलः । हातीर झुल् इति भाषा । तत्पर्य्यायः । प्रवेणी २ आस्तरणम् ३ परिस्तोमः ४ कुथः ५ कुथा ६ । इत्यमरः ॥ प्रवेणिः ७ परिष्टोमः ८ कुथम् ९ । इति भरतः ॥ शुक्लादिः । रङ् इति ख्यातः । स च बहुविधो यथा । श्वेतः १ पाण्डुः २ धूसरः ३ कृष्णः ४ पीतः ५ हरितः ६ रक्तः ७ शोणः ८ अरुणः ९ पाटलः १० श्यावः ११ धूम्रः १२ पिङ्गलः १३ कर्व्वुरः १४ । इति चामरः ॥ गर्भस्थबालकस्य षष्ठे मासि वर्णो भवति । इति सुखबोधः ॥ यशः । गुणः । स्तुतिः । इति मेदिनी । णे, २६ ॥ स्वर्णम् । व्रतम् । रूपम् । अक्षरम् । भेदः । गीतक्रमः । चित्रम् । तालविशेषः । अङ्गरागः । इति हेमचन्द्रः ॥

वर्णः, पुं, क्ली, (वर्ण्यते भिद्यते इति । वर्ण + घञ् ।) भेदः । (वर्ण्यते दीप्यतेऽनेनेति ।) वर्ण + घञ् ।) रूपम् । (वर्णयति । वर्ण + अच् ।) अक्षरम् । (वर्ण्यते रज्यते इति । वर्ण + घञ् ।) विलेपनम् । इति मेदिनी । णे, २६ ॥ * ॥ वर्णश्च द्विविधः । ध्वन्यात्मकः अक्षरात्मकश्च । अस्योत्पत्तिप्रकारो यथा, -- “अव्नैषद्यान्मुखश्रोत्रमार्गस्याविषदाक्षरम् । अप्यव्यक्तं प्रलपति यदा सा कुण्डली तदा । मूलाधारे विष्वणति सुषुम्नां वेष्टते मुहुः ॥” इति प्रपञ्चसारः ॥ अस्यार्थः । मुखश्रोत्रमार्गस्यावैषद्यात् अनैर्म्म- ल्याद्धेतोर्यदा सा कुण्डली अविषदाक्षरं अवि- ष्पष्टमक्षरं यत्राव्यक्ते ध्वनौ तं प्रलपति अर्थात् कलभाषणादिकं करोति तदा मूलाधारे विष्व- णति शब्दायते सुषुम्नाञ्च मुहुर्व्वेष्टते । इति तट्टीका ॥ * ॥ अस्य कुण्डलीस्वरूपत्वं यथा, -- “कुण्डलीभूतसर्पाणामङ्गश्रियमुपेयुषी । त्रिधामजननी देवी शब्दब्रह्मस्वरूपिणी ॥ द्विचत्वारिंशद्वर्णात्मा पञ्चाशद्वर्णरूपिणी । गुणिता सर्व्वगात्रेण कुण्डली परदेवता ॥ विश्वात्मनापबुद्धा सा सूते मन्त्रमयं जगत् । एकधा गुणिता शक्तिः सर्व्वविश्वप्रवर्त्तिनी ॥ वलान्तस्थाने नलान्त इति सर्व्वाङ्गस्थाने सर्व्वाग इति वा पाठः । क्षेत्रपालो महाक्षोभो मातृकान्तानलक्षयः । मुखं कव्यवहानन्ता कालजिह्वा गणेश्वरः । छायापुत्त्रश्च संघातो मलयः श्रीर्ललाटकः ॥” क्षः ॥ इति नन्दनभट्टाचार्य्यविरचितं वर्णाभिधानं समाप्तम् ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ण पुं।

ब्राह्मणादिवर्णचतुष्टयवाचकः

समानार्थक:वर्ण,वर्ण

2।7।1।2।4

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ। वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वर्ण पुं।

गजपृष्टवर्ती_चित्रकम्बलः

समानार्थक:प्रवेणि,आस्तरण,वर्ण,परिस्तोम,कुथ

2।8।42।2।3

दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे। प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः॥

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : वस्त्रम्

वर्ण पुं।

शुक्लादयः

समानार्थक:वर्ण

3।3।48।1।1

वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे। अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु॥

 : शुक्लवर्णः, कृष्णवर्णः, पीतवर्णः, हरितवर्णः, रक्तवर्णः, कृष्णपीतवर्णः, कृष्णलोहितवर्णः, कपिलवर्णः, नानावर्णाः, नानारूपः, शुल्कवर्णः, ईषद्रक्तवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

वर्ण पुं।

स्तुतिः

समानार्थक:स्तव,स्तोत्र,स्तुति,नुति,वर्ण,स्तोम

3।3।48।1।1

वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे। अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु॥

पदार्थ-विभागः : , गुणः, शब्दः

वर्ण पुं।

ब्राह्मणादिवर्णचतुष्टयवाचकः

समानार्थक:वर्ण,वर्ण

3।3।48।1।1

वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे। अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वर्ण पुं-नपुं।

अक्षरम्

समानार्थक:वर्ण

3।3।48।1।1

वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे। अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु॥

पदार्थ-विभागः : , गुणः, शब्दः, वर्णात्मकः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ण¦ न॰ वर्ण--अच्।

१ कुङ्कुम न॰

२ स्वर्णे

३ व्रते

४ शुक्लादिरूपे

५ अकाराद्यक्षरे

६ भेदे

७ गीतक्रमे

८ चित्रे

९ तालभेदे

१० अङ्गरागे पु॰ हेमच॰।

११ गजचित्रकम्बले पु॰ अमरः

१२ यशसि

१३ गुणे

१४ स्तुतौ पु॰ मेदि॰। भेद रूपे अक्षरेपु॰ न॰ मेदि॰।

१५ ब्राह्मणादिजातौ पु॰ अमरः।
“चातुर्वर्ण्यं मया सृष्टम्” गीता। तत्र विप्रादिवर्णानां सृष्टिः तद्धर्माश्च मनुना उक्ता यथा
“लोकानान्तु विवृद्ध्यर्थं सुखबाहूरूपादतः। ब्राह्मणंक्षत्त्रियं वैश्यं शूद्रञ्च निरवर्त्तयत्”।
“मुस्ववाहूरूपज्जानांपृथक् कर्माण्यकल्पयत्। अध्यापनमध्ययनं यजनं[Page4850-b+ 38] याजनस्तथा”
“ब्राह्मणोऽमा मुखमासीद्बाहूराजन्यःकृतः। ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत” यजु॰

३१

११ तेषां ब्राह्मणस्य श्रैष्ठ्ये कारणं मनुनोक्तंयथा
“ऊर्ध्यनाभेर्मेध्यतरः पुरुषः परिकीर्त्तितः। तस्मान्मेध्यतमं त्वस्य मुखमुक्तं स्वयम्भुवा। उत्तमा-ङ्गोद्भवात् ज्यैष्ट्याद् ब्रह्मणश्चैव धारणात्। सर्वस्यै-वास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः” वर्णधर्माश्च जाति-धर्मशब्दे

३१

०५ पृ॰ दृश्याः। तत्र अक्षररूपवर्णोत्पत्तिक्रमः तत्भेदाश्च शब्दार्थरत्ने-ऽस्माभिरुक्ता यथा
“अथ वर्णोत्पत्तिप्रकारस्तावदभिधीयते। चेतनेन ज्ञाता-र्थविवक्षया तद्बोधकशब्दनिष्पादनाय प्रेरितमन्तःकरणंमूलाधारस्थितमनलं चालयति तच्चालितश्चानलः तत्-स्थलस्थानिलचालनाय प्रभवति तच्चालितेन चानिलेनतत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा वागित्यभि-चीयते। ततोनाभिदेशपर्य्यन्तं चलितेन तेन तद्देशसंयोगादुत्पादितः शब्दः पश्यन्तीति व्यवह्रियते एत-द्वयस्य सृक्ष्मसूक्ष्मतरतया ईश्वरयोगिमात्रगम्यता नास्म-दोयश्रुतिगीचरता। ततस्तेनैव हृदयदेशं परिसरताहृदयसंयोगेन निष्पादितः शब्दो मध्येत्युच्यते सा चस्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिद-स्याकभवि समधिगम्या। तती मुखपर्य्यन्तमागच्छता तेनकण्ठदेशं प्राप्य आहत्य मूर्द्धानं तत्प्रतिघातेन परा-वृत्य च मुखविवरे कण्ठादिषु तत्तदष्टस्थानेषु स्वाभिघाते-नोत्पादितः शब्दो वैस्वरीत्युच्यते। तदुक्तं शिक्षायाम्
“आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया। मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्। सोदीर्णो मूर्घ्न्यमिहतो वक्त्रमापद्य मारुतः। वर्णान्जनयते तेषां विभागः पञ्चधा मतः। स्वरतः कालतःस्थानात् प्रयत्नानुप्रदानतः” इति। संस्काररूपेण स्वगता-नर्थान् बुद्ध्या बुद्धिवृत्त्या समेत्य विवयीकृत्येर्थः। तथा।
“प्राणापानान्तरे देवी वाग्वै नित्यं हि तिष्ठति। स्थानेषु विकृते वायौ कृतवर्णपरिग्रहा। वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिवन्धिनी। केवलं बुद्धुव्रपादा-ना क्रमरूपानुपातिनी। प्राणवृत्तिमनुक्रम्य मध्यमावाक् प्रवर्त्तते। अविभागा तु पश्यन्ती सर्वतः संहृत-क्रमा। स्वरूपज्योतिरेवातः परा वागनपायिनीति” भारतेऽप्युक्तम्। अत्र प्राणापानान्तरे इत्यधिकरणनिदे-[Page4851-a+ 38] शादाकाशस्थायिता नित्यमित्यभिधानात् यावत्प्रलय-पर्य्यन्तस्थायिता प्राणापानादेरपि तथैव नित्यत्वाभ्युप-गमात्। न तु क्षणिकता मध्ये उत्पत्तिविनाशकल्पनेगोरवात् शब्दार्थयोर्नित्यसम्बन्धस्वीकारादनित्येन शब्देननित्यार्थमम्बन्धस्वीकारेऽयुक्तत्वापत्तेश्च। नित्यत्वेऽपि तेषांव्यञ्जकसद्भावाभावाभ्यां प्रत्ययापत्ययावित्यन्यत्र विस्तरः। स्थानेषु कण्ठताल्वाद्यष्टस्थानेषु वायौ मूलाधारस्थेविकृते विवक्षाप्रेरितमनोनियुक्ताम्बिसंक्षोभाच्चलितेइत्यर्थः। कृतवर्णपरिग्रहा वर्णभावापन्ना, तच्च स्थाने-ष्विति व्यवहितेनान्वितम्। प्राणवृत्तिनिबन्धिनीत्यनेनव्राणवृत्तेर्वायोस्तत्तद्देशपर्य्यन्तगमनमभिहितं, केबलमित्य-नेन कण्ठताल्वादिस्थानानपेक्षाभिहिता। बुद्ध्युपा-दानेत्यनेन हृदयस्थानगमनमुक्तं बुद्धेर्हृदयस्थत्वात्। सर्वतः सहृतक्रमेत्यनेन हृदयस्थानगमनानपेक्षाभि-हिता। अविभागेत्यनेन मध्यमाया विभागरूपविशे-षस्य कर्णपिधानेनाप्यवगमात् पश्यन्त्यास्तु तद्व्युदासः। अनपायिनी स्वस्थानादचलिता प्राणापानान्तरे मूला-धारस्थितेति यावत्। अतो यथाप्रदर्शितं परादीनांविभागं प्रतिपादयतीदं महाभारतीयमलं विस्तरेण। ”( अभिघातस्थानानि चाष्टविधानि सामान्यतो वेदित-व्यानि
“अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालु चेति” शिक्षाकृदुक्तेः। वर्णाश्च मतभेदेन त्रिषष्टिश्चतुःषष्टिर्वा शिक्षा-यामभिहिता वेदितव्याः। यथा
“चतुःषष्टिस्त्रिष-ष्टिवा वर्णाः सम्भवतो मताः। स्वरा विंशतिरेकश्चस्पर्शानां पञ्चविंशतिः। यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः। अनुस्वारो विसर्गश्च + कं ओपौ चापिपराश्रितौ। दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एववेति”। अस्यार्थः अ इ उ ऋ इत्येषां ह्रस्वदीर्घप्लुताःकालकृता द्वादश भेदाः ऌकारस्यैकौ भेदोऽस्य दीर्घाभावात्प्लुतस्तूत्तरं प्रतिपादितः। एवां चतुर्णां ह्रस्वाभावात्दीघप्लुतभेदेनाष्टौ भेदाः इत्येकविंशतिः स्वराः। स्पर्शाःकादयो मावसानाः पञ्चविंशतिः। यादयो हान्ताअष्टौ। यमाः वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्येपूर्बसदृशाः प्रातिशाख्ये प्रसिद्धाश्चत्वारो वर्णाः। यथापलिक्ं क्री चख्ं ग्नतुः। अग्ं ग्निः। पतिघ्ं ध्नी-त्यादौ। अनुस्वारादयश्चत्वारः स्पष्टाः। + कं पौचापि परामितावित्युक्तिस्तु फखयोः परवोरेकविधः[Page4851-b+ 38] पफयो परयोरन्यविधः कण्ठ्योष्ठ्यत्वभेदादिति ज्ञाप-नाय। दुःस्पृष्टः ईषत्स्पृष्टः ऌकारः।
“अचोऽस्पृष्टाषणस्त्वीषन्नेमस्पृष्टाः शलस्तथा” इत्यनेन प्रतिपादितस्ययण्पदाभिधेययवरलो धर्मस्य ईषत्स्पृष्टत्वस्य ऌकारे कथ-नात् ऌकारस्य स्वरत्वयण्त्वोभयधर्मसमावेशात् द्विवि-धता इति त्रिषष्टिर्भेदाः। ऌकारस्य प्लुतत्वे चतु{??}-षष्टिर्भेदाः। एवं वर्णानां सामान्यतो भेदे वोघितेएतेषामुत्पत्तिस्थानानि बाह्याभ्यन्तरप्रयत्नमेदान प्रद-र्श्यन्ते। तत्र स्थानानि
“हकारं पञ्चमैर्युक्तमन्त-स्थाभिश्च संयुतम्। औरस्यन्तं विजानीयात् कण्ठ्य-माहुरसंयुतम्। कण्ठ्यावहाविचुयशास्तालव्या अ{??}जावुपू। स्युर्मूर्द्धन्था ऋटुरषा दन्त्या ऌतुलसाःस्मृताः। जिह्वामूले तु कुः प्रोक्तः दन्त्यौष्ट्यो वः स्मृतोबुधैः। ए ऐ तु कण्ठ्यतालव्यावोऔ कण्ठ्योष्ठजौस्मृतौ। अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत्। ओकारौकारयोस्तद्वदिति”।
“अनुस्वारयमानाञ्च नासिकास्थानमुच्यते। अयोगवाहा विज्ञेया आश्रयस्थान॰भागिन इति शिक्षाकृदुक्तानि बेदितव्यानि। यद्यपिसर्वेषां वर्णानामुच्चारणे कण्ठव्यापार आवश्यकस्तथापिचकाराद्युच्चारणे ताल्वादिव्यापारोऽप्यपेक्षित इति तन्मा-त्रामात्रकृतत्वेन वर्णानां वैलक्षण्यम्।
“जिह्वमूले तुकुः प्रोक्तः” इति पाणिनिशिक्षाभिधानात् कवर्गस्यकण्ठ्यत्वव्यवहारस्तु कण्टशब्दस्य कण्टमूलपरतयाभाक्त एव तवर्गस्य दत्तमूलीयत्वेन दन्त्यत्ववत्{??}न्यथाभग्नदन्तस्य तदनुच्चारापत्तेः। जिह्वामूलीयस्य आश्र-यस्थानभागित्वेन तदाश्रयस्य कोरपि जिह्वामूलस्थान-त्वौचित्यात्। दन्त्योष्ठ्योव इत्यादावुभयोरेव प्रत्येकवकारस्थानत्वं नं तु समुदितयोः तथा सति दन्तोष्ठ्यइत्येव परिशिक्ष्येत। अतस्तस्य दन्त्वौष्ठ्योमयकार्य्यनि-मित्तता एवम{??} द्रष्टव्यम्।{??}नां प्रातिशाख्य-प्रसिद्धानां कां दिचतुष्टयानां पूर्वोदितानां यम्संज्ञा-नोधितानाञ्च नासिकापि स्थानमधिकमुपदिश्यते। तत्राच यमेत्युपलक्षणम्।
“अमोऽनुनासिका नह्रौ” इत्युक्त्य। हकाररकारभिन्नानाममानां नासिका स्थानत्वाभिधानात्नासामनुगतः स्थानत्वेनेत्यनुनासिकशब्दव्युत्पत्त्या ना-सिकास्थानत्वप्राप्तेश्च। तत्र नह्राविति पुनः हकार-रकारयोः पर्य्युदासः।
“मुखनासिकावचनोऽनुनासिका{??}इति पा॰ सूत्रे मुखपदस्य कण्ठादितत्तत्स्थानपरतया[Page4852-a+ 38] यमानामुभयस्थानत्वम्। अयोगवाहा विसर्गा जिह्वा-मूलीयोपाध्मानीययोरपि विसर्गविशेषरूपत्वेनाश्रयस्थान-भागित्वम। आश्रयस्थानभागित्वञ्च यमाश्रित्यैतेउच्चार्य्यन्ते तत्स्यानभागित्वमतः विसर्गस्य कखयोःपरयोर्जिह्वामूलोच्चार्य्यमाणयोराश्रयत्वेन तत्स्थानभागि-त्वात् जिह्वामूलीयरूपान्वितनामता समुन्नेया। पफयोःपरयोरोष्ठोच्चार्य्यमाणयोराश्रयत्वेनोप ध्मानीयता। उश्चपश्च आध्मायेते अनेन स्थाननेति व्युत्पत्तेः उपाध्मानशब्द ओषवचनः। तत्स्थानयोग्यत्वादन्वितनामताचावधेया। अतएव
“कौमुद्यां जिह्वामूलीयस्य जिह्वा-मूलमुपाध्मानीयस्योष्ठावित्युक्तम्। यद्यपि सर्वेषां वर्णा-नामाकाशस्थानत्वं करणत्वञ्च कण्ठादीनां तदुत्पत्तौयुक्तं तथापि तेषां स्थानत्वव्यवहारो वर्णाभिव्यञ्जक-ताल्वादौ वर्णजनकवायुसंयोगाधारे वर्णाधारत्वारोपे{??}भाक्त एव। तत्तत्स्थानेषु जिह्वाग्रादिसम्बन्धेन वर्णोत्-पत्त्या जिह्वाग्रादिस्थिते तत्सम्बन्धजनकप्रयत्नविशेषेआभ्यन्तरप्रयत्नवाच्ये स्पृष्टतादावेव करणत्वव्यवहारःसमुचित। वर्णाभिव्यक्त्यनन्तरभाविनस्त आन्तरतम्य-परीक्षोपयुक्ताः कण्ठविवरविकाशादेरास्यवहिर्देशाव-च्छिन्नकार्य्यस्य जनका बाह्या यत्ना गुणशब्देनोच्यन्तेइत्यादिकं शेखरादौ स्पष्टम्। आभ्यन्तरप्रयत्नास्तुवर्णोत्पत्तेः प्राग्भाविनो वाह्यास्तु तदुत्पत्तेः पश्चाद्भाविनइति विवेकः। तथाहि नाभिदेशात् प्तयत्नप्रेरितःप्राणवायुरूर्द्ध्वमागच्छन्नुरःप्रमृतीनि स्थानान्याहन्तिउत्पादयति च ततो वर्णान् तदभिव्यञ्जकध्वनींश्च तत्रवर्णोत्पत्तेः प्राक् जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानं ताल्वादिकं यदा सम्यक् स्पृशन्ति तदास्पृष्टता प्रयत्नो यदा ईषत् स्पृशन्ति तथा ईषत्स्पृष्टतासमीपावस्थाने संवृतता दूरावस्थाने विवृतता इत्येव-माभ्यन्तरप्रयत्नभेदात् वर्णानां भेदाः। अतएव इच-वर्गयशानां तालव्यत्वाविशेषेऽपि चवर्गोच्चारणे कर्त्तव्येतालुस्थानेन सह जिह्वाग्रादीनां सम्यक् स्पर्शः, यका-रोच्चारणे तु ईषत् स्पर्शः शकारेकारोच्चारणे दूरमनो-पावस्थानमिति। एतेषां चाभ्यन्तरत्वं ओष्ठप्रभृति-काकलीजनककाकलस्थानपर्य्यन्तरूपास्यान्तर्गततत्तत्स्थानेषुजिह्वाग्रादीनां स्पर्शादिचतुष्टयरूपाभ्यन्तरकार्य्यकारि-त्वात् वर्णोत्पत्त्यव्यवहितप्राग्भावित्वाच्च बोध्यम्। विवारसंवारौ तु गलतिलस्य विकाशाविकाशात्मकौ[Page4852-b+ 38] बाह्यौ प्रयत्नौ विवृतसंवृताभ्यां भिन्नावेव तयोः समीप-दूरावस्थानात्मकत्वादिति विवेक्तव्यम्। ते च आभ्य-न्तराः प्रयत्नाः केषां वर्णानाङ्के इत्येतत्तावदधीयते। कादिमावसानानां स्पृष्टता अतएव तेषां सक्यक्स्पर्श-वत्त्वेन स्पर्शपदवाच्यता। यणः ईषत् स्पृष्टता। तेषाञ्चस्पृष्टविवृतयोर्मध्यस्थितत्वेन लौकिकव्यवहारेष्वपि शसा-दीनां वर्ग्याणाञ्च मध्यस्थितत्वेन चान्तःस्थवर्णत्वम् अन्तः-स्थाभिश्च संयुतमित्युक्तेरन्तःस्थाशब्दः आदन्तः। शषसहानांअचाञ्च विवृतता। शसहानाञ्च उष्मशब्दाभिधेयवायु-प्रधानत्वात् ऊष्मशब्दवाच्यता। अचाञ्च स्वयं राजमान-त्वात् उदात्तादिस्वरवत्त्वाच्च स्वराभिधेयता।
“अचः स्वयंविराजन्ते” इत्युक्तेः
“उदात्तश्चानुदात्तश्च स्वरितश्च स्वरा-स्त्रयः। ह्रस्वो दीर्घः प्लुतश्चेति कालतो नियमा अचि-त्युक्तेश्च। तत्र ह्रस्वस्य संवृतता।
“संवृतं त्वेकमात्रं स्यात्विवृतन्तु द्विमात्रकम्” इत्युक्तेः ह्रस्वस्यैकमात्रतया प्रयोगेसंवृतता प्रक्रियायान्तु विवृततैव। तत्र मूलं
“अचो-स्पृष्टा यणस्त्वोषन् नेमस्पृष्टाः शलस्तथा। शेषाःस्पृष्टा हलः प्रोक्ता” इति शिक्षावाक्यमेव बोध्यम्। अत्राचः स्पर्शाभावरूपविवृतत्ववन्तः यणः यवरणस्त्वीषत्स्पृष्टा इत्यर्थः नेमैत्यर्द्धवाची। शलः शषसहा नेम-स्पृष्टा अर्द्धस्पृष्टा अर्थादर्द्धविवृताः।
“स्वराणामुश-णाञ्चैव विवृतं करणं स्मृतम्” इत्येकवाक्यत्वात्। एते चस्थानप्रयत्नाः सवर्णसंज्ञायामुपयुक्ताः बाह्यप्रयत्नास्तुआन्तरतम्यपरीक्षायासेवोपयोगिन इति
“तुल्यास्यप्रयत्नंसवणमिति” पा॰ सूत्रभाष्यादौ स्पष्टम्। तेन तकारस्थानेविवा{??}श्वासघोषाल्पप्राणरूपबाह्यप्रयत्नसाम्येन चकारटका-रादेशः
“स्थानेऽन्तरतमः” इति पा॰ सूत्रभाष्ययोः स्पष्टम्। बहुसमानघर्मत्वमेवान्तरतम्ये हेतुरिति बोध्यम्। ”
“बाह्याःप्रयत्नाश्चाष्टविधाः काकलकाधःस्थलगलबिलसङ्कोच-विकाशश्वासोत्पत्तिध्वनिविशेषघोषाल्पघोषप्राणाल्पत्वमहत्त्वरूपकार्य्यकरा यथाक्रमं विवारसवारश्वासनादघोषाल्प-घोषाल्पप्राणमहाप्राणनामानो मन्तव्याः। प्रयत्नप्रेरितोवायुर्वर्णानभिव्यञ्ज्य यत्नविशेषेण गलविलविकाशादीनपिसम्पादयति अतो गलबिलविकाशादिकरत्वादास्यवहि-र्देशकार्य्यकरत्वात् चैते बाह्या इति। ते च
“स्वयांयमाः खयः + कं पौ विसर्गः शर एव च। एते श्वासा-नुप्रदाना अघोषाश्च विवृण्वते। कण्ठमन्ये तु घोषाःस्युः संवारा नादभागिनः। अयुग्मा वर्गयमगायणश्चा-[Page4853-a+ 38] ल्पासवः स्मृताः” इति सिद्धान्तकौमुद्युक्तदिशावसेयाः। खयां स्थाने जाता ये यमाः पूर्वोक्ताः प्रातिशाख्येप्रसिद्धाः। खयः, शरः शषसहाः। एते श्वासानुप्रदानाअघोषाः कण्ठं विवृण्वते च। अन्ये एतद्भिञ्चाः सर्वेवर्णा घोषसंवारनादबाह्यप्रयत्नवन्तः। वर्गीयप्रथमतृतीय-पञ्चमवर्णाः प्रथमतृतीयवर्गजातयमाश्च पूर्वोक्ताः यणश्चएते अल्पपाणास्तद्भिन्नाः सर्वे महाप्राणा इतिविवेकः। ”
“तथा उदात्तानुदात्तस्वरितरूपास्त्रिविधाःस्वरा ह्रस्वदीर्घप्लुतकालभेदाश्च स्वराणां विशेषाधानेहेतवो वेदितव्याः। तथा हि
“विभागः पञ्चधा मतः” इत्युपक्रम्य
“स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः” इति स्वरकालस्थानप्रयत्नानुप्रदानाभिधेयबाह्यप्रयत्नान्वर्णविमाजकान् पञ्च सामान्यतो निर्दिश्य शिक्षाकृताउदात्तश्चानुदात्तश्चेत्यादिना अच्येव स्वरकालयोर्विभा-जकताऽभिहिता। तत्र ताल्वादिषु स्थानेषूर्द्धभागेनिष्पन्नोजुदात्तः नीचैरुच्चार्य्यमाणोऽनुदात्तः प्रथममर्द्ध-मुदात्ततयोच्चार्य्य उत्तरार्द्धमनुदात्ततयोचार्य्यमाणः स्व-रितः इति
“उच्चैरुदात्तः नीचैरनुदात्तः समाहारःस्वरितः तस्य आदित उदात्तमर्द्धह्रस्वमिति” पाणिनि-सूत्रजातेभ्यः। तदेवं परस्परविभाजकस्थानबाह्या-भ्यन्तरप्रयत्नस्वरकालकृतविशेषात् वर्णानां परस्परविशेष-रूपता। सर्वे हि वर्णाः पुरस्कृत्यैव किञ्चिद्विशेषंविशेषताभाजो भवन्तीति। ” विवाहोपयोगिनि नक्षत्रविशेषकृते

१६ वर्णकूटे उपयमशब्दे वर्णकूटोक्तौ

१२

४९ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ण¦ m. (-र्णः)
1. A tribe, a class, a caste, an order.
2. Colour, hue, tint.
3. Coloured cloth thrown over the back of an elephant, an elephant's housings.
4. Quality, property.
5. Fame, celebrity.
6. Praise.
7. Gold.
8. Religious observance.
9. The order or arrange- ment of a song or poem.
10. A musical mode.
11. Staining the body with coloured unguents.
12. Beauty, lustre.
13. Theatrical dress or embellishment.
14. A cloak. mn. (-र्णः-र्णं)
1. Perfume for the person.
2. A letter of the alphabet.
3. Form, figure.
4. Sort, kind.
5. Touch, the purity of gold, as ascertained by its streak on the touch-stone.
6. In arithmetic, a co-efficient. n. (-र्णं) Saffron. f. (-र्णा) A leguminous shrub, (Cytisus cajan.) E. वर्ण् to paint, &c., aff. अच् or घञ्; or वृ to cover or screen, Una4di aff. नक् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्णः [varṇḥ], [वर्ण्-अच् Uṇ.3.1]

A colour, hue; अन्तः- शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः Me.51.

A paint, dye, paint-colour; see वर्ण् (1).

Colour, complexion, beauty; विविक्तवर्णाभरणा सुखश्रुतिः Ki.14.3; त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे Me.48; R.8.42.

Look, countenance; मध्यस्थवर्ण इव दृश्यते Madhyamavyāyoga 1; किं त्वं शङ्कितवर्ण इव Chārudatta 4; अवदातिका परशङ्कितवर्णेव दृश्यते Pratimā 1.

A class of men, tribe, caste (especially applied to the four principal castes, ब्राह्मण, क्षत्रिय, वैश्य and शूद्र); वर्णानामानुपूर्व्येण Vārt; न कश्चिद्वर्णानामपथमपकृष्टो$पि भजते Ś.5. 1; R.5.19.

A class, race, tribe, kind, species; as in सवर्णम् अक्षरम्; ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम् Mb.12. 188.1.

(a) A letter, character, sound; न मे वर्ण- विचारक्षमा दृष्टिः V.5; Ki.14.3. (b) A word, syllable; S. D.9.

Fame, glory, celebrity, renown; राजा प्रजा- रञ्जनलब्धवर्णः R.6.21.

A good quality, merit, virtue; त्रिवर्णा वर्णिता$स्माभिः किं भूयः श्रोतुमिच्छसि Bhāg.11.3.16.

Praise; स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः Śi.16. 29.

Dress, decoration.

Outward appearance, form, figure.

A cloak, mantle.

A covering, lid.

The order or arrangement of a subject in a song (गीतक्रम); अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत Kaṭh.1.28; उपात्तवर्णे चरिते पिनाकिनः Ku.5.56 'celebrated in song, made the subject of a song.'

The housings of an elephant.

A quality, property; जङ्गमानामसंख्येयाः स्थावराणां च जातयः । तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥ Mb.12.188.9.

A religious observance.

An unknown quantity.

The number 'one'.

Application of perfumed unguents to the body.

Gold.

A musical mode. -र्णा Cajanus Indicus (Mar. तूर).

र्णम् Saffron.

A coloured unguent or perfume. -Comp. -अङ्का a pen. -अधिपः a planet presiding over a caste or class. -अनुप्रासः alliteration.

अन्तरम् another caste. ˚गमनम् the passing into another caste.

change of sound. -अपसदः an outcast.-अपेत a. devoid of any cast, outcast, degraded; वर्णा- प्रेतमविज्ञातं ...... कर्मभिः स्वैर्विभावयेत् Ms.1.57. -अवकृष्टः a Śūdra; अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी Mb.12.24.34.-अर्हः a kind of bean. -अवर a. inferior in caste.-आगमः the addition of a letter; भवेद्वर्णागमाद्धंसः Sk.-आत्मन् m. a word. -आश्रमाः the (four) castes and stages of life; वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे R.5.19. ˚गुरुः N. of Śiva. ˚धर्मः the duties of caste and order. -उदकम् coloured water; वर्णोदकैः काञ्चनशृङ्गमुक्तै- स्तमायताक्ष्यः प्रणयादसिञ्चन् R.16.7. -कविः N. of a son of Kubera. -कूपिका an ink-stand.

क्रमः the order of castes or colours.

alphabetical order or arrangement. -गत a.

coloured.

algebraical. -गुरुः a king, prince. -ग्रथणा a method (artificial) of writing verses.-चारकः a painter. -ज्येष्ठः a Brāhmaṇa. -तर्णकम्, -तर्णिका woollen cloth used as a mat. -तालः (in music) a kind of measure. -तूलिः, -तूलिका, -तूली f. a pencil, paint-brush. -द a. colouring. (-दम्) a kind of fragrant yellow wood. -दात्री turmeric. -दूतः a letter.-दूषक a. violating the distinctions of castes; यत्र त्वेते परिध्वंसा जायन्ते वर्णदूषकाः Ms.1.61. -धर्मः the peculiar duties of a caste. -नाथः the planetary regent of a caste.-पत्रम् a pallet. -परिचयः skill in song or music. -पातः the omission of a letter. -पात्रम् a paint-box. -पुष्पम् the flower of the globe-amaranth. -पुष्पकः the globeamaranth. -प्रकर्षः excellence of colour. -प्रसादनम् aloe-wood. -बुद्धिः the notion connected with particular letters or sounds. -भेदिनी millet. -मातृ f. a pen, pencil.-मातृका N. of Sarasvatī. -माला, -राशिः the alphabet.-रे(ले)खा, -लेखिका chalk. -वर्तिः, -वर्तिका f.

a paint-brush; फलकमादाय मणिसमुद्गकाद्वर्णवर्तिकामुद्धृत्य Dk.2.2.

a pencil. -वादिन् m. a panegyrist. -विक्रिया enmity against the castes. -विपर्ययः the substitution or change of letters; (भवेत्) सिंहो वर्णविपर्ययात् Sk. -विलासिनी turmeric.

विलोडकः a house-breaker.

a plagiarist (lit. word-stealer). -वृत्तम् a metre regulated by the number of syllables it contains (opp. मात्रावृत्त). -व्यव- -स्थितिः f. the institution of caste, caste-system. -शिक्षा instruction in letters. -श्रेष्ठः a Brāhmaṇa; वर्णश्रेष्ठो द्विजः पूज्यः H.4.21. -संयोगः marriage between persons of the same caste. -संसर्गः confusion of castes, marriage with members of other castes; Ms.8.172. -संहारः an assemblage of different castes.

संकरः confusion of castes through intermarriage; स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण- संकरः Bg.1.41.

mixture or blending of colours; चित्रेषु वर्णसंकरः K. (where both senses are intended); Śi.14.37. -संघातः, -समाम्नायः the alphabet. -स्थानम् an organ of utterance. -हीन a. outcast.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्ण m. (or n. g. अर्धर्चा-दि, prob. fr. 1. वृ; ifc. f( आ). )a covering , cloak , mantle L.

वर्ण m. a cover , lid Ya1jn5. iii , 99

वर्ण m. outward appearance , exterior , form , figure , shape , colour RV. etc.

वर्ण m. colour of the face , ( esp. ) good colour or complexion , lustre , beauty Mn. MBh. etc.

वर्ण m. colour , tint , dye , pigment (for painting or writing) MBh. Ka1v. etc.

वर्ण m. colour = race , species , kind , sort , character , nature , quality , property (applied to persons and things) RV. etc.

वर्ण m. class of men , tribe , order , caste (prob. from contrast of colour between the dark aboriginal tribes and their fair conquerors ; in RV. esp. applied to the आर्यs and the दासs ; but more properly applicable to the four principal classes described in मनु's code , viz. Brahmans , क्षत्रियs , वैश्यs , and शूद्रs ; the more modern word for " caste " being जाति; See. IW. 210 n. 1 ) ib.

वर्ण m. a letter , sound , vowel , syllable , word Br. Pra1t. etc.

वर्ण m. a musical sound or note (also applied to the voice of animals) MBh. R. Pan5cat.

वर्ण m. the order or arrangement of a song or poem W.

वर्ण m. praise , commendation , renown , glory Mr2icch. Kum. Ra1jat.

वर्ण m. (in alg. ) an unknown magnitude or quantity

वर्ण m. (in arithm. ) the figure , " one "

वर्ण m. ( accord. to some) a co-efficient

वर्ण m. a kind of measure L. (See. -ताल)

वर्ण m. gold L.

वर्ण m. a religious observance L.

वर्ण m. one who wards off , expeller Sa1y. on RV. i , 104 , 2

वर्ण n. saffron L. [ cf. accord. to some , Slav. vranu8 , " black " , " a crow " ; Lith. vA7rnas , " a crow. "]

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a सुधर्मान god. Br. IV. 1. ६०.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VARṆA : Caste. The four castes of Brāhmaṇa, Kṣatriya, Vaiśya and Śūdra and the eleven castes produced by the intermingling of these four castes, only these are taken into account when we speak of Varṇa. To under- stand about the four castes of Brāhmaṇa, Kṣatriya, Vaiśya and Śūdra, see under Cāturvarṇya.

To know about the eleven mixed castes that originated from the four castes, see under Ekādaśasaṅkara Varṇas.


_______________________________
*2nd word in left half of page 832 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वर्ण&oldid=457960" इत्यस्माद् पुनः प्राप्तिः