गोत्र

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोत्रम्, क्ली, गवते शब्दयति पूर्ब्बपुरुषान् यत् । इति भरतः ॥ (गु + “गुधृवीपतीति ।” उणां । ४ । १६६ । इति त्रः ।) तत्पर्य्यायः । सन्ततिः २ जननम् ३ कुलम् ४ अभिजनः ५ अन्वयः ६ वंशः ७ अन्ववायः ८ सन्तानः ९ । इत्यमरः । २ । ७ । १ ॥ आख्या । (यथा, कुमारे । ४ । ८ । “स्मरसि स्मरमेखलागुणै- रुत गोत्रस्खलितेषु बन्धनम् ॥”) सम्भावनीयबोधः । काननम् । क्षेत्रम् । वर्त्म । इति मेदिनी । रे । २६ ॥ छत्रम् । इति हेम- चन्द्रः ॥ संघः । वृद्धिः । इति शब्दचन्द्रिका ॥ वित्तम् । इति विश्वः ॥ * ॥ “वंशपरम्पराप्रसिद्धं आदिपुरुषं ब्राह्मणरूपम् । क्षत्त्रियवैश्ययोरुपदिष्टातिदिष्टगोत्रं शूद्रस्याति- दिष्टातिदिष्टगोत्रम् ।” इत्युद्वाहतत्त्वम् ॥ क्षत्त्रिय- वैश्य शूद्राणामतिदिष्टातिदिष्टगोत्रप्रवरमतएवै- तेषां पुरोहितगोत्रप्रवरमित्यर्थः । तथा चाग्नि- पुराणे वर्णसङ्करोपाख्याने । “क्षत्त्रियवैश्यशूद्राणां गोत्रञ्च प्रवरादिकम् । तथान्यवर्णसङ्कराणां येषां विप्राश्च याजकाः ॥” गोत्राणि तु चतुर्व्विंशतिः तथा च मनुः । “शाण्डिल्यः काश्यपश्चैव वात्स्यः सावर्णकस्तथा । भरद्वाजो गौतमश्च सौकालीनस्तथापरः ॥ कल्किषश्चाग्निवेश्यश्च कृष्णात्रेयवशिष्ठकौ । विश्वामित्रः कुशिकश्च कौशिकश्च तथापरः ॥ घृतकौशिकमौद्गल्यौ आलम्यानः पराशरः । सौपायनस्तथात्रिश्च वासुकी रोहितस्तथा ॥ घैयाघ्रपद्यकश्चैव जामदग्न्यस्तथापरः । चतुर्व्विंशतिर्वै गोत्रा कथिताः पूर्ब्बपण्डितैः ॥” तथा च मनुः । “जमदग्निर्भरद्वाजो विश्वामित्रात्रिगौतमाः । वशिष्ठकाश्यपागस्त्या मुनयो गोत्रकारिणः ॥ एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते ॥” एतदुपलक्षणमन्येषामपि दर्शनात् । तथा च । “सौकालीनकभौद्गल्यौ पराशरबृहस्पती । काञ्चनो विष्णुकौशिक्यौ कात्यायनात्रेय- काण्वकाः ॥ कृष्णात्रेयः साङ्कृतिश्च कौण्डिल्यो गर्गसंज्ञकः । आङ्गिरस इति ख्यातः अनावृकाख्यसङ्गितः ॥ अव्यजैमिनिवृद्धाख्याः शाण्डिल्यो वात्स्य एव च । सावर्ण्यालम्यानवैयाघ्रपद्यश्च घृतकौशिकः ॥ शक्त्रिः काण्वायनश्चैव वासुकी गौतमस्तथा । शुनकः सौपायनश्चैव मुनयो गोत्रकारिणः ॥ एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते ॥” सर्व्वे चत्वारिंशद्गोत्राः । इति कुलदीपिका- धृतधनञ्जयकृतधर्म्मप्रदीपः ॥ (मेघः । इति निघण्टुः । १ । १० । यथा, ऋग्वेदे । १ । ५१ । ३ । “त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शत- दुरेषु गातुवित् ॥”)

गोत्रः, पुं, (गां पृथिवीं त्रायते रक्षतीति । गो + त्रै + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) पर्व्वतः । इत्यमरः । २ । ३ । १३ ॥ (यथा, भागवते । २ । ६ । ९ । “नाड्यो नदनदीनान्तु गोत्राणामस्थिसंहतिः ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोत्र पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

2।3।1।2।2

महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः॥ अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

गोत्र नपुं।

वंशः

समानार्थक:सन्तति,गोत्र,जनन,कुल,अभिजन,अन्वय,वंश,अन्ववाय,सन्तान,अनूक,निधन

2।7।1।1।2

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ। वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

 : सगोत्रः, ब्राह्मणादिवर्णचतुष्टयवाचकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

गोत्र पुं।

नाम

समानार्थक:आह्वय,आख्या,आह्वा,अभिधान,नामधेय,नामन्,संज्ञा,अभिख्या,गोत्र,प्रादुस्

3।3।181।1।2

मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च। सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च॥

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोत्र¦ पु॰ गां भूमिंत्रायते त्रैङ् पालने क।

१ पर्व्वते तस्यविष्कम्भरूपेण पृथिव्या धारकत्वात् तथात्वम् गोत्रभित्। गूयते शब्द्यतेऽनेन गूङ् शब्दे करणे ष्ट्रन् गूधृपची-त्यादिना त्रो वा।

२ आख्यायां नामनि तया शब्द्य-मानत्वात्तस्यास्तथात्वम् गोत्रस्ख्यलनम्।

३ सम्भावनीयबोधे

४ कानने

५ क्षेत्रे

६ मार्गे च मेदि॰।

७ छत्रे हेमच॰।

८ संघे

९ वृद्धौ शब्दच॰।

१० वित्ते धने विश्वः

११ मुनि-भेदस्यापत्यादिबंशे न॰। गोत्रकाराश्चाष्टौ सुप्रसिद्धाःयथाह नि॰ सि॰ वौधायनः
“विश्वामित्रोजमदग्निर्भरद्वाजोऽथ गोतमः। अत्रिर्वसिष्ठःकश्यप इत्येते सप्त ऋषयः सप्तानामृषीणामगस्त्याष्टमानांयदपत्यं तद्गोत्रमिति” मनुस्तु सप्ताह यथा
“जमदग्निर्भर-द्वाजो विश्वामित्रात्रिगोतमाः। वशिष्ठकाश्यपागस्त्यामुनयो गोत्रकारिणः। एतेषां यान्यपत्त्यानि तानि गो-त्राणि मन्यते” एतदुपलक्षणमन्येषामपि दर्शनात्। तथाच धर्म्मप्रदीपे गोत्राणि तु चतुर्विंशतिरित्याह तथा च[Page2697-a+ 38] वृद्धमनुः
“शाण्डिल्यः कश्यपश्चैव वात्स्यः सावर्णकस्तथा। भरद्वाजो गोतमश्च सौकालीनस्तथापरः। कल्मषश्चा-ग्निवेश्यश्च कृष्णात्रेयवशिष्ठकौ। विश्वामित्रः कुशिकश्चकौशिकश्च तथापरः। घृतकौशिकमौद्गल्यौ आलम्ब्यानःपराशरः। सौपायनस्तथाऽत्रिश्च वासुकीरोहितस्तथावैयाघ्रपद्यकश्चैव जामदग्न्यस्तथापरः। चतुर्विंशतिर्गोत्राणां कथिता पूर्ब्बपण्डितैः”।
“सौकालीनक-मौद्गल्यौ पराशरवृहस्पती। काञ्चनो विष्णुकोशिक्यौकात्यायनात्रेयकाण्वकाः। कृष्णात्रेयः साङ्कृतिश्च कौ-ण्डिल्यो गर्गसंज्ञकः। आङ्गिरस इति ख्यातः अना-वृकाख्यसंज्ञितः। नव्यजैमिनिवृद्धाख्याः शाण्डिल्योवत्सएव च। सावर्ण्यालम्ब्यानवैयाघ्रपद्या घृतकौशिकः। शक्त्रिः काण्वायनश्चैव वासुकिर्गोतमस्तथा। शुनकःसौपायनश्च मुनयो गोत्रकारिणः। एतेषां यान्यप-त्त्यानि तानि गोत्राणि मन्यते”। सर्व्वेद्विचत्त्वाविंश-द्गोत्रकाराः।
“अपत्यं पौत्रप्रभृति गोत्रम्” पा॰

१२ उक्तेपौत्रप्रभृतौ अपत्यत्वेन विवक्षिते वंश्ये न॰ तस्यायमाशयः-प्रवराध्यायप्रसिद्धं लोके गोत्रमिह तु तदप्रसिद्धस्यापिसंज्ञार्थमिदम् पौत्रादेरप्यपत्यत्वाव्यभिचारादपत्यपदस्या-पत्यत्वेन विवक्षितमित्यर्थः तेन पौत्रादेस्तत्त्वेन विव-क्षायामेव गोत्रत्वम्। पौत्रापत्यशब्दयोः ससम्बन्धि-कतया यदीयपौत्रादि तं प्रत्येव तस्य गोत्रत्वम् इति। अस्य प्रयोजनं तु
“एकोगोत्रे” पा॰ नियमार्थं तथाहिगोत्रे एक एवापत्यप्रत्ययः स्यात्। उपगोर्गोत्रापत्यम्उपगवः। गार्ग्यः। नाडायनः।
“गोत्रे स्वैकोनसंख्यानां प्रत्ययानाम्परम्परा। यद्वा स्वद्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते। अपत्यम्पितुरेव स्यात्ततःप्राचामपीति च। मतभेदेन तद्ध्यन्ये सूत्रमेतत्तथोत्त-रम्” सि॰ कौ॰ अयमर्थः पितुरेवापत्यमिति पक्षे हिउपगोस्तृतीये वाच्ये औपगवादि स्यात्। चतुर्थे त्वजी-वज्येष्ठे मृतवंश्ये औपगवेः फक्। इत्थमिञ्फकोःपरम्परायां मूलाच्छततमे गोत्रे एकोनशतम्प्रत्ययाः स्युः। पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्येउपगोरणा इष्टे सिद्धेऽपि अणन्तादिजपि स्यात् चतुर्थेफगिति ततः फगिञाः परम्परायां शततमे गोत्रेऽष्टन-वतिरनिष्टप्रत्ययाः स्युः। अतो नियमार्थमिदं सूत्रम्”। इतिगोत्रापत्ये अनेकप्रत्ययाः पा॰ विहिता विस्तरभयान्नोक्ताः। गोत्रान्तरे जातस्यापि दानादितो गोत्रान्तरत्वं स्मृतिबि-[Page2697-b+ 38] हितं यथा
“गोत्ररिक्थे जनयितुर्न भजेत् दत्त्रिमः सुतः। गोत्ररिक्थानुगः पिण्डोव्यपैति ददतः स्वधा” मनुः। अयमाशयः दानात् जनयितुः स्वत्वे जिवृत्ते द्वादश-विधपुत्रान्तर्गतत्वेन दत्तदाकीनां पुत्रनिधित्वेन विधा-नात् विधानेन संस्कारादिना च ग्रहीतुः पुत्रत्वेतद्गोत्रत्वम्। दत्तकन्यायान्तु वचनादेय पितृगोत्रापहा-रेण पतिगोत्रप्राप्तिः तथा च उ॰ त॰ व्यपस्थापितं यथा(
“तदानीं गोत्रापहारमाह लघुहारीतः।
“स्वगो-त्राद्भ्रश्यते नारी विवाहात् सप्तमे पदे। पतिगो-त्रेण कर्त्तव्या तस्याः पिण्डोदकक्रिया”। पाणिग्र-हणादपि पितृगोत्रापहारमाह श्राद्धविवेके वृहस्पतिः।
“पाणिग्रहणिका मन्त्राः पितृगोत्रापहारकाः। भर्त्तुर्गोत्रेण नारीणां देयं पिण्डोदकं ततः”। यत्तुसपिण्डनस्य गोत्रापहारित्वप्रतिपादकवचनम्।
“सं-स्थितायान्तु भार्यायां सपिण्डीकरणान्तिकम्। पैतृकंभजते गोत्रमूर्द्ध्वन्तु पतिपैतृकम्” इति कात्यायनीयंतत् शाख्यन्तरीथं शिष्टव्यवहाराभावात्। अतएव
“अनु-मन्त्रिता गुरुं गोत्रेणाभिवादयेत” इति गोभिलोक्तंसप्तपदीगमनानन्तरं पत्युरभिवादनं तत् पतिगोत्रेणकर्त्तव्यमिति भट्टनारायणैरुक्तम् एतेन पितृगोत्रेणेतिसरलाभवदेवभट्टाभ्यामुक्तं हेयम्। श्राद्धे गोत्रोल्लेखेविशेषः श्रा॰ त॰ प्रचेताः
“गोत्रसम्बन्धनामानि पितॄणां परि-कल्पयन्”। सामगानां श्राद्धादिकर्मभेदे तस्य विभक्तिविशे-षान्ततामाह तत्रैव गोभिलः
“गोत्रं स्वरान्तं सर्वत्रगोत्रस्याक्षष्यकर्मणि। गोत्रस्तु तर्पणे प्रोक्त एवं कर्त्तान मुह्यति” शाखिभेदेन प्रेततर्पणे तु विशेषः व्रह्मपु॰उक्तः।
“अमुकामुकगोत्रस्तु प्रेतस्तृप्यत्विदं जपन्”।
“स्नात्वा सचेलमाचम्य सिञ्चेयुरुदकं जले। गोत्रनामा-नुवादादि तर्पयामोति चोत्तरम्” छन्दोगविषयं गो-भिलवाक्यम्
“विपक्षगोत्रं दयितेन लम्भिता” किरा॰
“स्फुटमिन्द्रताद्य मयि गोत्रभिदा” माघ॰।
“गोत्रबिस्ख-लितमूचुरङ्गनाः” रघुः।
“स्मरसि स्मर! मेखलागुणैरुतगोत्रस्खलितेषु बन्धनम्” कुमा॰।
“गोत्रभिदोऽप्यमर्षण” रघुः। गोत्रं करोति कृ--णिनि। गोत्रकारिन् गोत्र-प्रवर्त्तक ऋषिभेदे।
“सप्तैते गोत्रकारिणः” वौधा॰। तृच् गोत्रकर्त्तृ तत्रार्थे
“तपस्विनो ब्रह्मविदो गोत्रकर्त्तारएव च” भा॰ आनु॰

४ अ॰। गां भूमिं वृष्ट्या त्रायते त्रै--क।

१३ मेघे निरु॰। गोत्रमिच्छब्दे दृश्यम्। [Page2698-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोत्र¦ n. (-त्रं)
1. Family, race, lineage, kin.
2. A name, an appellation.
3. A forest.
4. A field.
5. A Ch'hattra, an umbrella or parasol.
6. A road.
7. Knowledge of futurity, inspiration.
8. A genus, a class or species
9. A caste, a tribe or subdivision of it into families, as in that of the Brahman; twenty-four Gotras are reckoned, supposed to be sprung from and named after celebrated teachers, as SANDILYA, KASYAPA, GAUTAMA, BHARADWAJA, &c.
10. Increase.
11. Wealth. f. (-त्रा)
1. The earth.
2. A herd of kine. m. (-त्रः) A mountain. E. गु to sound, and त्र Unadi affix, or गो the earth, &c. and त्र what pre- serves, from त्रै with क aff. गां भूमिं त्रायते त्रैङ् पालने क |

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोत्र/ गो--त्र n. ( त्रै)protection or shelter for cows , cow-pen , cow-shed , stable for cattle , stable (in general) , hurdle , enclosure RV. (once m. viii , 50 , 10 )

गोत्र/ गो--त्र n. " family enclosed by the hurdle " , family , race , lineage , kin ChUp. S3a1n3khS3r. Kaus3. etc. (a polysyllabic fem. in ईshortens this vowel before गोत्रin comp. [ e.g. ब्राह्मणिगोत्रा, " a Brahman woman only by descent or name " Ka1s3. ] Pa1n2. 6-3 , 43 ff. )

गोत्र/ गो--त्र n. the family name A1s3vGr2. MBh. xiii , 548 VarBr2S.

गोत्र/ गो--त्र n. name (in general) S3ak. vi , 5 Ragh. etc.

गोत्र/ गो--त्र n. (in Gr. )the grandson and his descendants if no older offspring of the same ancestor than this grandson lives (if the son lives the grandson is called युवन्) Pa1n2. 2-4 , 63 ; iv , 1 , 89 ff. and 162 ff. ; 2 , 111 and 3 , 80 and 126

गोत्र/ गो--त्र n. an affix used for forming a patr. L.

गोत्र/ गो--त्र n. a tribe , subdivision (in the Brahman caste 49 गोत्रs are reckoned and supposed to be sprung from and named after celebrated teachers , as शाण्डिल्य, कश्यप, गौतम, भरद्-वाज, etc. ) W.

गोत्र/ गो--त्र n. a genus , class , species W.

गोत्र/ गो--त्र n. a multitude L.

गोत्र/ गो--त्र n. increase L.

गोत्र/ गो--त्र n. possession L.

गोत्र/ गो--त्र n. a forest L.

गोत्र/ गो--त्र n. a field L.

गोत्र/ गो--त्र n. an umbrella or parasol L.

गोत्र/ गो--त्र n. knowledge of probabilities L.

गोत्र/ गो--त्र m. a mountain (a meaning probably derived fr. -भिद्) BhP. ii , iii , vi

गोत्र/ गो--त्र m. a cloud(See. -भिद्) Naigh. i , 10

गोत्र/ गो--त्र m. a road L.

गोत्र/ गो-त्र etc. See. ib. , col. 3.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of ऊर्जा and वसिष्ठ. Vi. I. १०. १३.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GOTRA : A son of Vasiṣṭha. Vasiṣṭha had of his wife Ūrjjā seven sons named Rajas, Gotra, Ūrddhvabāhu, Savana, Anagha, Sutapas and Śukra. These holy men were saptarṣis in the third Manvantara. (Chapter 1, Viṣṇu Purāṇa).


_______________________________
*19th word in left half of page 295 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gotra occurs several times in the Rigveda[१] in the account of the mythic exploits of Indra. Roth[२] interprets the word as ‘cowstall,’ while Geldner[३] thinks ‘herd’ is meant. The latter sense seems to explain best the employment which the term shows in the later literature as denoting the ‘family’ or ‘clan,’ and which is found in the Chāndogya Upaniṣad.[४]

In the Gṛhya Sūtras[५] stress is laid on the prohibition of marriage within a Gotra, or with a Sapiṇḍa of the mother of the bridegroom--that is to say, roughly, with agnates and cognates. Senart[६] has emphasized this fact as a basis of caste, on the ground that marriage within a curia, phratria, or caste (Varṇa) was Indo-European, as was marriage outside the circle of agnates and cognates. But there is no evidence at all[७] to prove that this practice was Indo-European, while in India the Śatapatha[८] expressly recognizes marriage within the third or fourth degree on either side. According to Sāyaṇa, the Kāṇvas accepted marriage in the third degree, the Saurāṣṭras only in the fourth, while the scholiast on the Vajrasūcī[९] adḍs to the Kāṇvas the Andhras and the Dākṣiṇātyas, and remarks that the Vājasaneyins forbade marriage with the daughter of the mother's brother. All apparently allowed marriage with the daughter of a paternal uncle, which later was quite excluded. Change of Gotra was quite possible, as in the case of Śunaḥśepa and Gṛtsamada, who, once an Aṅgirasa, became a Bhārgava.[१०]

  1. i. 51, 3;
    ii. 17, 1;
    23, 18;
    iii. 39, 4;
    43, 7;
    viii. 74, 5;
    x. 48, 2;
    103, 7.
  2. St. Petersburg Dictionary, s.v.
  3. Vedische Studien, 2, 275, 276, where he divides the passages according as real or mythical herds are meant.
  4. iv. 4, 1. So Śāṅkhāyana Śrauta Sūtra;
    i. 4, 16, etc.;
    Āśvalāyana Gṛhya Sūtra, iv. 4, etc.;
    Kauṣītaki Brāhmaṇa, xxv. 15.
  5. Gobhila Gṛhya Sūtra, iii. 4, 4;
    Āpastamba Dharma Sūtra, ii. 5, 11, 15. 16, in Max Müller, Ancient Sanskrit Literature, 387. For sapiṇḍa, see Gautama Dharma Sūtra, xiv. 13;
    Vasiṣṭha Dharma Sūtra, iv. 17-19.
  6. Les Castes dans l'Inde, 210 et seq. Cf. De la Vallée Poussin, Le Védisme, 15.
  7. Keith, Journal of the Royal Asiatic Society, 1909, 471, 472.
  8. i. 8, 3, 6.
  9. See Weber, Indische Studien, 10, 73-76.
  10. Hillebrandt, Vedische Mythologie, 2, 157;
    Festgruss an Roth, 108.

    Cf. Jolly, Recht und Sitte, 61 et seq.;
    Zimmer, Altindisches Leben, 323.
"https://sa.wiktionary.org/w/index.php?title=गोत्र&oldid=499367" इत्यस्माद् पुनः प्राप्तिः