दास

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दास, ऋ ञ दाने । इति कविकल्पद्रुमः ॥ (भ्वां- उभं-सकं-सेट् ।) ऋ, अददासत् । ञ, दासति दासते । इति दुर्गादासः ॥

दास, र न वधे । इति कविकल्पद्रुमः ॥ (स्वां-परं- सकं सेट् ।) र वैदिकः । न, दास्नोति । इति दुर्गादासः ॥

दासः, पुं, (दसतीति । दसि + “दंसेष्टटनौ न आत् ।” उणां ५ । १० । इति टः नकारस्य चारारः ।) शूद्रः । (यथा, ऋग्वेदे । २ । १२ । ४ । “यो दासं वर्णमधरं गुहाकः ॥” अधुना कायस्थानां उपाधिभेदः । स तु अष्टसिद्ध- मौलिकानामन्यतमः । यथा, कुलदीपिकायाम् । “गौडेऽष्टौ कीर्त्तिमन्तश्चिरवसतिकृता मौलिका ये हि सिद्धा- स्ते दत्ता सेनदासाः करगुहसहिताः पालिताः सिंहदेवाः ॥”) ज्ञातात्मा । धीवरः । इति मेदिनी । से, ४ ॥ दानपात्रम् । इति विश्वः ॥ शूद्राणां नामान्त- प्रयोज्यपद्धतिविशेषः । यथा, -- “शर्म्मान्तं ब्राह्मणस्यस्यात् वर्म्मान्तं क्षत्त्रियस्यच । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥” इत्युद्बाहतत्त्वम् ॥ * ॥ दास्यते दीयते भूतिमूल्यादिकं यस्मै सः । चा- कर इति भाषा । तत्पर्य्यायः । भृत्यः २ दासेरः ३ दासेयः ४ गोप्यकः ५ चेटकः ६ नियोज्यः ७ किङ्करः ८ प्रैष्यः ९ भुजिष्यः १० परिचारकः ११ । इत्यमरः । २ । १० । १७ ॥ प्रेष्यः १२ प्रेषः १२ प्रैषः १४ । इति भरतः ॥ परिकर्म्मा १५ परिचरः १६ सहायः १७ उपस्थाता १८ सेवकः १९ अभिसरः २० अनुगः २१ । स पञ्चदशविधः । यथा नारदः । “गृहजातस्तथा क्रीतो लब्धो दायादुपागतः । अन्नाकालभृतस्तद्वदाहितः स्वामिना च यः ॥ मोक्षितो महतश्चर्णात् युद्धे प्राप्तः पणे जितः । तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ॥ भक्तदासश्च विज्ञेयस्तथैव वडवाकृतः । विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥” अस्यार्थः । गृहजातो दास्यामुत्पन्नः । दाया- दुपागतः क्रमागतः । अन्नाकालभृतः दुर्भिक्ष- पोषितः । स्वामिना आहितो बन्धकीकृतः । मोक्षितः ऋणमोचनेनाङ्गीकृतदास्यः । तवाह- मित्युपगतः कस्याप्यदासः सन् स्वयं दासत्वेन दत्तरूपः । प्रव्रज्यावसितः सन्न्यासभ्रष्टः । कृतः केनचिन्निमित्तेन एतावत्कालपर्य्यन्तं तवाहं दास इति कृतसमयः । भक्तदासः सुभिक्षेऽपि भक्तार्थमङ्गीकृतदास्यः । वडवाकृतः वडवा दासी तल्लोभादङ्गीकृतदास्यः । इति श्रीकृष्णतर्का- लङ्कारकृतक्रमसंग्रहः ॥ तस्य कर्म्म यथा, -- “कर्म्मापि द्बिविधं ज्ञेयमशुभं शुभमेव च । अशुभं दासकर्म्मोक्तं शुभं कर्म्मकृतां स्मृतम् ॥ गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् । गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥ अशुभं कर्म्म विज्ञेयं शुभमन्यदतः परम् ॥” इति मिताक्षरायां नारदः ॥ “विप्रस्य किङ्करा भूपो वैश्यो भूपस्य भूमिप ! । सर्व्वेषां किङ्कराः शूद्रा ब्राह्मणस्य विशेषतः ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डम् ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दास पुं।

दासः

समानार्थक:भृत्य,दासेर,दासेय,दास,गोप्यक,चेटक,नियोज्य,किङ्कर,प्रैष्य,भुजिष्य,परिचारक

2।10।17।1।4

भृत्ये दासेरदासेयदासगोप्यकचेटकाः। नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दास¦ --दाने भ्वा॰ उभ॰ सक॰ सेट्। दासति ते अदासीत् अदा-सिष्ट। ऋदित् णिच् अददासत् त। हनने च
“यो नःकदाचिदपि दासति द्रुहः” ऋ॰

७ ।

१०

४ ।

७ । दासति हन्ति” भा॰
“स्वादिगणीयोऽप्येष दाशधातौ दृश्यः।

दास¦ त्रि॰ दन्स--दशने
“दंसेष्टटनौ नस्य आत्” उणा॰

१ ज्ञातात्मनि

२ शूद्रे

३ धीवरे च पुंस्त्री स्त्रियां ङीष्। दास्यते भृतिरस्मै दासति ददात्यङ्गं स्वामिने उपचा-राय वा दास अच् वा।

४ भृत्ये (चाकर)। दास--दानेसम्प्रदाने घञ

५ दानपात्रे सम्प्रदाने

६ शूद्राणां नामान्तप्रयोज्योपाधिभेदे
“शर्म्मान्त ब्राह्मणस्य स्यात् वर्म्मान्तंक्षक्षियस्य तु। गुप्तदासान्तकं नाम प्रशस्तं बैश्यशूद्रयोः” उद्वाह॰ त॰। दासशब्दनिरुक्तिभेदादिक वीरमित्रोदयेदर्शितं यथा[Page3561-b+ 38](
“शिष्यान्तेवासिभृतकाधिकर्मकरेभ्यो दासानाम्भेदन्दासशब्दव्युत्पत्तिप्रदर्शनमुखेनाह कात्यायनः
“स्वतन्त्रस्यात्मनोदानाद्दासत्वं दारवद्भृगुरिति”।
“यथा भर्त्तुःसम्भोगार्थं स्वशरीरदानाद्दारत्वम्। तथास्वतन्त्रस्यात्मनःपरार्थत्वेन दानाद्दासत्वमिति भृगुराचार्योमन्यत इत्यर्थः।
“अनेनात्यन्तपारार्थ्यमासाद्य शुश्रूषका दासाः। पारा-र्थ्यमात्रमासाद्य शुश्रूषकास्तु कर्मकरा इति भेदोऽप्युक्तइत्यवगन्तव्यम्। अत्यन्तपारार्थ्यं तु तेषाम्भवति यैःस्वपुरुषार्थवृत्तिनिरोधेन परार्थत्वमाश्रितमिति स्मृतिचन्द्रिका। दासत्वं ब्राह्मणव्यतिरिक्तेष्वेव
“त्रित्युवर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचिदिति” तेनैवाभिधा-नात्। अनेन दासानां जातितो भेद उक्तः। विप्रेतरे-ष्वपि दास्यमानुलोम्येनैव भवति
“वर्णानामानु-लोम्येन दास्यन्न प्रतिलोमतः। राजन्यवैश्यश्रूद्राणान्त्य-जताञ्च स्वतन्त्रतामिति” तेनैवोक्तत्वात्। स्वतन्त्रतां त्यज-ताम् अत्यन्तपारार्थ्यम्भजतामित्यर्थः। न प्रतिलोमतइति स्वधर्मपरित्यागिभ्योयतिभ्योऽप्यन्यत्र द्रष्टव्यम्। अ-तएव नारदः”
“वर्णानां प्रातिलोम्येन दासत्वन्न विधी-यते। स्वधर्भत्यागिनोऽन्यत्र दारवद्दासता मतेति”।
“यथोत्तमवर्णं प्रति हीनवर्णा सवर्णावा भार्या भवति नपुनर्हीनवर्णं प्रत्युत्तमवर्णा तथैव दासोऽपि भवेदित्यर्थः। एतच्च प्रव्रज्यावसितो हीनवर्णस्यापि दासोभवतीत्य-भिधानं क्षत्रियवैश्यप्रव्रज्यावसितविषयन्न तु ब्राह्मणप्रव्रज्यावसितविषयम् तस्य निर्वास्यत्वाभिधानेन दासत्वा-भावात्। तस्य निर्वास्यत्वं दर्शितं कात्यायनेन”
“प्रब-ज्यावसिता यत्र त्रयो वर्णा द्विजातयः। निर्वासं कारये-द्विप्रं दासत्वं क्षत्रविट् भृगुरिति”।
“कारयेद्राजेति शेषःक्षत्रञ्च विट्च क्षत्रविट् सर्वोद्वन्द्वोविभाषैकवद्भवतीति वचनादेकवद्भावः। निर्वासनञ्च श्वपदेनाङ्कयित्वा कर्त्तव्यमित्या-हतुर्दक्षनारदौ”
“पारिव्रज्यं गृहीत्वा तु यः स्वध-र्मे न तिष्ठति। श्वपदेनाङ्कयित्वा तु राजा शीघ्रं प्रवा-सवेदिति”। न चैवं सति
“राज्ञ एव तु दासः स्यात्पव्रज्यावसितो नरः। न तस्य प्रतिमोक्षोऽस्ति न विशुद्धःकथञ्चनेति” नारदेन प्रव्रज्यावसितोराज्ञ एव दासो नान्य-स्येत्यभिधानात् स्वधर्मत्यागिनोऽन्यत्रेति यत्तेनैबोक्तंतन्निर्विषयमितीति वाच्यम्। यतोऽवेष्ट्यधिकरणन्यायेनक्षत्रियमात्रवचनेनापि राजशब्देनात्र लक्षणया प्रजापा-लस्य ग्रहणात् प्रजापालकत्वञ्च राज्याधिकृते वैश्यादावपि[Page3562-a+ 38] सम्भवाद यः क्षत्रियः प्रव्रज्यावसितः स हीनवर्णस्यापिप्रजापालस्य वैश्यस्य दासो भवतीति प्रतिपादनार्थत्वात्। केचित्तु प्रव्रज्यावसितस्य ब्राह्मणस्य दासत्वनिर्बासनयो-र्विकल्पमाहुः तन्न पूर्वोक्तप्रकारेण सम्भवन्त्याङ्गतौ अष्ट-दोषदुष्टविकल्पाङ्गीकरणस्यान्याय्यत्वात्
“दास्यं विप्रस्यन क्वचिदिति” निषेधाच्च। दारवद्दासतेति वचनाद्ब्राह्म-णस्य सवर्णं प्रति दासत्वं प्राप्तं तन्निषेधार्थमाह कात्या-यनः”।
“सवर्णोऽपि हि विप्रं तु दासत्वन्नैव कारयेदिति” यदि ब्राह्मणः स्वेच्छया दास्यम्भजते तदाऽसावशुभङ्कर्म नकुर्यादित्याह स एव
“शीलाध्ययनम्पन्ने तदूनं कर्म-कामतः। तत्रापि नाशुभं कर्म प्रकुर्वीत द्विजोत्तमः” इति।
“यस्मात्परोपकारः कर्त्तव्य इति विधिः तत्तस्मादूनंकर्ममध्यमोत्तमव्यतिरिक्तमपि कर्म कामतो वेतनमन्तरेण-स्वेच्छया परोपकारार्थं कुर्यावित्यर्थः पूर्वार्द्ध्वस्य। तत्रापितेष्वपि हीनकर्मसु यदशुभङ्कर्म गृहद्वारशोधनादिक तन्नकुर्यादित्युत्तरार्द्धार्थः। क्षत्रियवैश्यविषये स्वामिनःकर्त्तव्यमाह मनुः”
“क्षत्रियञ्चैव वैश्यञ्च ब्राह्मणो-वृत्तिकर्षितौ। बिभृयादानृशंस्येन स्वामी कर्माणि कारयन्निति”। आनृशंस्येन अक्रौर्येण। अयमर्थः। वृत्तिकर्षितं क्षत्रियं वैश्यञ्च दासीभूतमक्रौर्येण स्वानिकर्माणि कारयन् स्वामी पोषयेदिति। अत्र स्वामीत्यनेनन सम्बन्धिजनककर्माणि कारयेदित्याह कर्माणीतिसामान्याभिधानेन जघन्यकर्माण्येव कारयितव्यानीतिनियमो नास्तीति सूचयति। वृत्तिकर्षितावित्यनेन,गत्यन्तराभावे एव क्षत्रियवैश्ययोर्दासत्वाङ्गीकारः कार्योन तु गत्यन्तरसम्भवे इति दर्शयति। बलाद्दासी-करणे दण्डमाह मनुः”
“दास्यन्तु कारयं ल्लोभाद्-ब्राह्मणः संस्कृतान् द्विजान्। अनिच्छतः प्रभावत्वाद्राज्ञादाप्यः शतानि षडिति”।
“प्रभोः भावः प्रभावम्तस्मात् प्रभुत्वादित्यर्थः। साधारणादिभ्यः स्वार्थे अञ्-वक्तव्य इति वार्त्तिकादञ्। द्विजातिपदान्न दण्डः शूद्र-विषय इति दर्शयति। अत एवाह
“शूद्रन्तु कारये-द्दास्यं क्रीतमक्रीतमेव वा। दास्यायैव हि सृष्टोऽसौ-ब्राह्मणस्य स्वयम्भुवेति”। स च दासः पञ्चदशप्रकारइत्याह नारदः
“गृहजातस्तथा क्रीतो लब्धोदाया-दुपागतः। अनाकालभृतश्चैव आहितः स्वामिना च यः। मोक्षितो महतश्चर्णात् युद्धप्राप्तः पणे जितः। तवाह-मित्युपगतः प्रव्रज्यावसितः कृतः। भक्तदासश्च विज्ञेय-[Page3562-b+ 38] स्थथैव बडवाहृतः। विक्रेता चात्मनः शास्त्रे दासाःपञ्चदश स्मृताः” इति। गृहजातः स्वगृहे दास्या-ञ्जातः। क्रीतो मूल्येन स्वाम्यन्तरात् प्राप्तः। लब्धः ततएव प्रातग्रहादिना। दायादुपागतः रिकथग्राहित्वेनलब्धः। अनाकालभृतोदुःर्मिक्षे यो भरणाद्दासत्वायरक्षितः। आहितः स्वामिना ऋणदातर्याधितां नीतः। ऋणमोचनेन दासत्वमभ्युपगतः ऋणदासः। युद्धपाप्तःसमरे विजित्य गृहीतः। पणे जितः दासत्वपणकेद्यूतादौ जितः। तवाहमित्युपगतः तवाहन्दासोऽ-स्मीति स्वयमेवोपगतः। प्रब्रज्यावसितः प्रव्रज्यातश्च्युतः। कृतः एतावन्तं तव दासोभबामीत्यभ्युपगतः। भक्तदासःसर्वकालम्भक्तार्थमेव दासत्वमभ्युपगम्य यः प्रविष्टः। भक्षित यावत्ते मूल्यद्वारेण ददामि तावद्दास इत्यभ्युपगतइति स्मृतिचन्द्रिका। बडवाहृतः बडवा गृह-दासी तया हृतस्तल्लोभेन तामुद्बाह्य दासत्वेन पविष्टः। यश्चात्मानं विक्रीणीते असावात्सविक्रेतेत्येवं धर्मशास्त्रेदासभेदाः पञ्चदशप्रकाराः स्मृताइत्यर्थः। अत्राद्यानांगृहजातक्रीतलब्धदायागतानाञ्चतुर्णां दासत्वापगमःस्वामिप्रसादादेव नान्यथेत्याह स एव”
“तत्र पूर्वश्चतुर्वर्गोदासत्वान्न बिमुच्यते। प्रसादात् स्वामिनोऽन्यत्र दास्यमेषां क्रमागतमिति”। आत्मविक्रेतुरपि दासत्वं स्वामि-प्रसादादन्यतो नापैतीत्याह स एव
“विक्रीणीते स्वतन्त्रःसन् य आत्मानन्नराधमः। सजघन्यतमस्तेषां सोऽपि दा-स्यान्न मुच्यत इति” अत्र प्रसादात् स्वामिनोऽन्यत्रइत्यनुषज्यते। ततश्चायमर्थः। आत्मविक्रेतापि गृह-जातादिवत् स्वमिप्रसादं विना दास्यान्न विमुच्यत इतिएवञ्च गृहदासादयोऽप्यात्मविक्रेतृपञ्चमाः स्वामिप्रसा-दादकालभृता इव दास्यन्मुच्यन्त इति वचीभङ्ग्या-दर्शितमिति मन्तव्यम्। स्वामिप्राणरक्षणादगृहजाताद-योऽकालभृताश्च सर्वेऽपिदास्यान् मुच्यन्ते इत्याह स एव
“यश्चैषां स्वामिनं कश्चिन्मोचयेत् प्राणसंशयात्। दासत्वात् स विमुच्येत पुत्रभागं लभेत चेति”। एषा-मिति निर्द्धारणे षष्ठी पञ्चदशानां मध्ये अन्यतमैत्यर्थः। यत्तु
“ध्वजाहृतोभक्तदासोगृहजः क्रीतदत्त्रिमौ। पैतृकोदण्डदासश्च सप्तैते दासयोनयः इति मनुवचने सप्तविधत्वमुक्तत्तेषां दासत्वप्रतिपादनाय न परिसंख्यार्थम्। ध्वजा गृहदासी। एतच्च स्वामिप्रसादात् प्राणरक्षणात्वा दास्यापगमनं प्रव्रज्यावसितभिन्नदासेषु द्रष्टव्यम्। [Page3563-a+ 38] तस्य दासत्वोन्मोकाभावात्। अतएव याज्ञवल्क्यः
“प्रव्रज्यावसितोराज्ञोदास आमरणान्तिकम्” इति। राज्ञो-दासः पार्थिवस्यैव दासो नान्यस्येत्यर्थः। अनाकालभृताटीनां प्रव्रज्यावसितात्मविक्रेतृव्यतिरिक्तानान्नवा-नान्दास्यापनयनप्रकारमाह नारदः
“अनाकालभृतोदास्यान्मुच्यते गोयुगन्ददत्। आहितोऽपि धनंदत्त्वा स्वामी यद्येनमुद्धरेत्। ऋणं तु सोदयदत्त्वा ऋणीदास्यात् प्रमुच्यते। तवाहमित्युपगतो युद्धपाप्तः रणे-जितः। प्रतिशीर्षप्रदानेन मुच्येरंस्तुल्यमर्मणा। कृतकालव्यपगमात् कृतदासो विमुच्यते। भक्तस्योत्-क्षेपणात् सद्यो भक्तदासः प्रमुच्यते। निग्रहाद्बडवायास्तुमुच्यते बडवाभृतः” इति। एतदुक्तं भवति दुर्भिक्षे पोष-णेन कारितो दासो गोयुग्मार्पणान्मुच्यते। आहितदासस्तु स्वामिना गृहीते ऋणे प्रत्यर्पिते सति उत्तमर्ण-दास्याद्विमुच्यते। ऋणदासस्तु स्वकृतमृणं येनोत्तमर्णाययावद्धनन्दत्त्वापाकृतं तस्मै तावद्धनं सवृद्धिकं दत्त्वाविमुच्यये। तवाहमित्युपगतादयस्त्रयोदासाः स्व-निर्वर्त्त्य स्वीयव्यापारनिर्वर्त्तकदासान्तरप्रदानाद्विमुच्यन्ते। कृतकालस्तु दासो दास्यावधित्वेन परिभाषितका-लस्यातिक्रमणाद्विमुच्यते। भक्तदासस्तु भक्तस्योत्-क्षेपणाद्भक्षितभक्तमूल्यसमर्पणाद्विमुच्यते। गृहदासीलो-भेन दासत्वं प्राप्तस्तत्सम्भोगत्यागाद्विमुच्यत इति। ब-लात्दासीकृतानान्त्यागमाह याज्ञवल्क्यः
“बलाद्दासी-कृतश्चौरैर्विक्रीतश्चापि मुच्यते” इति। अपिशब्देनदत्ताहितौ गृह्येते। ततश्चायमर्थः। बलात्कारेण योदासीकृतः यश्च चौरैरपहृत्य दासत्वेन बिक्रीत आहितो-दत्तो वा स यस्य पार्श्वे दासभावेन तिष्ठति तेन प्रागुक्तमोचनहेतुमन्तरेणैव शीघ्रं मोचनीय इत्यर्थः। यदितेन लोभादिवशादसौ न मुक्तस्तदा राज्ञा मोचयितव्यइत्याह नारदः
“चौरापहृतविक्रीता ये च दासीकृताबलात्। राज्ञा मोचयितव्यास्ते दास्यन्तेषु हि नेष्यते” इति। चौरेणापहृताश्च ते विक्रीताश्चेति कर्मधारयः। यस्त्वेकस्य दास्यं पूर्वमङ्गीकृत्यापरस्यापि दासत्वमङ्गीक-रोति असावपरेणापि विवर्जनीय इति स एवाह।
“तवाहमिति चात्मानं योऽस्वतन्त्रः प्रयच्छति। न सतं प्राप्नुयात्कामं पूर्वस्वामी लभेत तमिति”। अस्वतन्त्रःपरदासत्वेनास्वतन्त्रः कामं नूतनस्वामिदास्यं काम्यमानम्इतरदासीभवन्तं दासं पूर्वस्वामी गृह्णीयादित्यर्थः। [Page3563-b+ 38] एव यदेतद्दासमधिकृत्योक्तन्तत्सर्वं दास्यामपि समानन्याय-त्वाद् योजनीयम्। दासीस्वामिनमधिकृत्य विशेषमाहकात्यायनः
“स्वां दासीं यस्तु सङ्गच्छेत् प्रसूता च गवे-त्ततः। अवेक्ष्य वीजं कार्य्या स्याददासी सान्वया तुसेति”। स्वकृतगर्भाधानमनुसन्धाय सा दासी सन्तानसहिता दासत्वविमोकविधिना स्वकृतगर्भादेर्दासत्वपरि-हारार्थं अदासीत्वेन कार्य्या स्यादित्यर्थः। कः पुन-र्दासत्वविमोचकोविधिरित्याकाङ्क्षायामाह नारदः
“स्वन्दासमिच्छेद् यः कर्तुमदासं प्रीतमानसः। स्कन्धा-दादाय तस्यासौ भिन्द्यात् कुम्भं सहाम्भसा। साक्षताभिःसपुष्पाभिर्मूर्द्धन्यद्भिरवाकिरेत्। अदास इति चीक्त्वात्रिः प्राङ्मुखन्तमथोत्सृजेदिति”। अत्रापि दासशब्देनदास्या अपि ग्रहणम् लिङ्गस्योद्देश्यविशेषणत्वेनग्रहाधिकरणन्यायेनाविवक्षितत्वात्। एवमुत्सर्गे सतियद्भवति तदाह स एव
“ततः प्रभृति वक्तव्यः स्वा-म्यनुग्रहपालितः। भोज्यान्नोऽप्यप्रतिग्राह्यो भवत्यभि-मतः सतामिति”। स्वाम्यनुग्रहेण दास्यापाकरणरूपेणवक्तव्यः सम्भाषणार्हः। अदास्या अपि दासेन परि-णिताया दासीत्वमेव भवतीत्याह कात्यायनः
“दासेनोढा त्वदासी या सापि दासीत्वमाप्नुयात्। यस्माद्भर्त्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभुर्यतः” इति। दासधनस्यापि तत्स्वामिधनत्वमित्याह स एव
“दासस्यतु धनं यत्स्यात् स्वामी तस्य प्रभुः स्मृतः” इति। ब्राह्म-ण्यादिषु दासीकरणे दण्डमाह कात्यायनः
“आदद्याद्ब्रह्माणीं यस्तु विक्रीणीत तथैव च। राज्ञा तदकृतंकार्यं दण्ड्याः स्युः सर्व एव ते। कामात्तु सश्रितांयस्तु कुर्य्याद्दासीं कुलस्त्रियम्। संक्रामयन् तथान्यत्रदण्ड्यास्तच्चाकृतम्भवेत्। बालधात्रीमदासीञ्च दासीमिवभुनक्ति यः। परिचारकपत्नीं वा प्राप्नुयात्पूर्वसाहस-मिति”। तत्कार्यं अकृत निवर्तनीयमित्यर्थः। तेनराज्ञा दण्ड्याः स्युरिन्वयः। विष्णुरपि
“यस्तूत्तमवर्णंदास्ये नियोजयति तस्योत्तमसाहसोदण्ड” इति। क्वचि-द्दासीविक्रयणे दण्डमाह कात्यायनः
“विक्रोशमानांयो भक्तां दासीं विक्रेतुमिच्छति। अनापदिस्थः शक्तःसन् प्राप्नुयात् द्विशतं दममिति”। द्विशतं पणानामितिशेषः। भक्तामित्यनेन दुष्टाया विक्रयणे दण्डाभावइति दर्शितमिति”।
“चूडाद्या यदि संस्कारा निजगोत्रेण वै कृताः। दत्ता-[Page3564-a+ 38] द्यास्तनयास्ते स्युरन्यथा दास उच्यते” कालिकापुरा-णोक्ते निजगोत्रेण संस्कारं विना गृहीते

७ दत्तकादौच तेषां च दासवद्भरणीयतया तथात्वम् दत्तकशब्दे मूलंदृश्यम्। स्त्रियां ङीप्। दास--उपक्षेपे अच्।

८ उप-क्षेपके त्रि॰।

९ वृत्रासुरे पु॰ दासपत्नीशब्दे दृश्यम्।

१० दस्यौच दासवेशशब्दे दृश्यम्। दासस्वापत्यं नडा॰ फक्। दासायन दासापत्ये पुंस्त्री॰। दास + भृशा॰ अभूततद्भावेक्यङ्। दासायते अदासो दासो भवतीत्यर्थः। अदासंदासं करोत्यर्थे च्विकृञाद्यनु प्रयोगः अदासो दासोभवति दासीभवति अदासं दासं करोति दासीकरोती-त्यादि संज्ञायां कन्। दासक गोत्रप्रवर्त्तकर्षिभेदे तस्य गो-त्रापत्यम् अश्वा॰ फक। दासकायन तद्गोत्रापत्ये पुंस्त्री।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दास (ऋ) दासृ¦ r. 1st cl. (दासति-ते) To give; also दाश r. 5th cl. (दास्नोति) To hurt, to injure, to wound or kill: this and दाश, in the last sense, are restricted by some authorities to the Vedas. भ्वा० उभ० सक० सेट् | स्वा० पर० |

दास¦ m. (-सः)
1. A fisherman.
2. A servant, a slave.
3. A Sudra or man of the fourth tribe.
4. A Sudra affix or appellation.
5. A person to whom it is proper to make gifts.
6. A sage, one to whom it is proper nature of the soul is known. f. (-सी) A female servant or slave.
2. The wife of a slave, a fisherman or Sudra.
3. A harlot.
4. A plant, a sort of Barleria. E. दास् to give, affix घञ्, to whom wages, &c. are given; also दाश; otherwise, दश or दंश to bite, &c. Unadi affix ठन्, and the short vowel and nasal changed to आ |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दासः [dāsḥ], 1 Slave, servant in general; गृहकर्मदासाः Bh. 1.1; गृह˚, कर्म˚ &c.

A fisherman; निषादो मार्गवं सूते दासं नौकर्मजीविनम् Ms.1.34.

A Śūdra, a man of the fourth caste.

A knowing man, one who knows the universal spirit.

N. of Vṛitrāsura.

A demon.

A savage, barbarian (opp. आर्य).

A worthy recipient (दानपात्र).

A word added to the name of Śūdra; cf. गुप्त. -Comp. -अनुदासः 'a slave of a slave', the humblest of the servants; (sometimes used by the speaker as a mark of humility). -जनः a servant or slave; कमपराधलवं मयि पश्यसि त्यजसि मानिनि दासजनं यतः V. 4.29; (दासस्यकुलम् is used as a compound in the sense of 'the mob or the common people'). -भावः servitude.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दास m. fiend , demon

दास m. N. of certain evil beings conquered by इन्द्र( e.g. नमुचि, पिप्रु, शम्बर, वर्चिन्etc. ) RV.

दास m. savage , barbarian , infidel (also दास, opp. to आर्य; See. दस्यु)

दास m. slave , servant RV. AV. Mn. etc.

दास m. a शूद्रL. Sch.

दास m. one to whom gifts may be made W.

दास m. a fisherman( v.l. for दाश)

दास mfn. ifc. of names , esp. of शूद्रs and काय-स्थs (but See. also कालि-)

दास mf( ई)n. fiendish , demoniacal , barbarous , impious RV.

दास m. a knowing man , esp. a knower of the universal spirit L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--servants entertained in a श्राद्ध; फलकम्:F1: M. १७. ५७ and ६२; वा. ६०. ३७.फलकम्:/F appellation of the शूद्रस्. फलकम्:F2: Vi. III. १०. 9.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DĀSA : A term used as a suffix to the name of a Śūdra. In ancient India the rule was that the proper suffix for a Brahmin's name should be ‘Śarmā’, for a Kṣatriya's name, ‘Varmā’, for a Vaiśya's name, ‘Gupta’ and for a Śūdra's name, ‘Dāsa’. (See under Cāturvarṇya).


_______________________________
*1st word in right half of page 203 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दास&oldid=455764" इत्यस्माद् पुनः प्राप्तिः