सभा

विकिशब्दकोशः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभा, स्त्री, (सह भान्ति शोभन्ते यत्रेति । भा दीप्तौ + भिदादित्वात् अधिकरणे अङ् । सहस्य सः ।) सह भान्ति अत्र । मज्लिस् इति पार- सीक भाषा । पञ्चायित इति हिन्दी भाषा । मिटिं इति इङ्गरेजी भाषा । तत्पर्य्यायः । समज्या २ परिषत् ३ गोष्ठी ४ समितिः ५ संसत् ६ आस्थानी ७ आस्थानम् ८ सदः ९ समाजः १० । इत्यमरः ॥ पर्षत् ११ इति जटा- धरः ॥ तल्लक्षणादि यथा । मनुः । “यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः । राज्ञः प्रतिकृतो विद्वान् ब्राह्मणस्तां सभां विदुः ॥” * ॥ विद्वत्संहतावपि सभापर्य्यायपरिषच्छब्दमाह स एव । “त्रैविद्यो हैतुकस्तर्की निरुक्तो धर्म्मपाठकः । त्रयश्चाश्रमिणः पूर्व्वे परिषत् स्याद्दशावराः ॥” त्रैविद्यः त्रिवेदपारगः । हैतुकः सद्युक्ति- व्यवहारी । अतएवामरसिंहः । सभा सदसि सभ्ये च । अत्र भा दीप्तिः प्रकाशो ज्ञानमिति यावत् । तया सह साक्षात् परम्परया वा वर्त्तते इति सभा ॥ * ॥ कात्यायनः । “कुलशीलवयोवृत्तवित्तवद्भिरधिष्ठितम् । बणिगभिः स्यात कतिपयैः कुलवृद्धैरधिष्ठि- तम् ॥” सद इति शेषः । इति व्यवहारतत्त्वम् ॥ * ॥ सामाजिकः । द्यूतम् । एहम् । इति मेदिनी । समूहः । इति हेमचन्द्रः ॥ * ॥ सभायां एकाकि- गमननिषेधो यथा, -- “नैकश्चरेत् सभां विप्रः समवायञ्च वर्ज्ज- येत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभा स्त्री।

सभागृहम्

समानार्थक:वास,कुटी,शाला,सभा

2।2।6।1।4

वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम्. चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

सभा स्त्री।

सभा

समानार्थक:समज्या,परिषद्,गोष्ठी,सभा,समिति,संसद्,आस्थानी,आस्थान,सदस्,आस्था,प्रतिश्रय

2।7।15।1।4

समज्या परिषद्गोष्ठी सभासमितिसंसदः। आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः॥

अवयव : सामाजिकाः

 : देवसभा, पानसभा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

सभा स्त्री।

सभ्यम्

समानार्थक:सभा

3।3।137।2।1

क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्. सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभा¦ स्त्री सह भान्ति अभीष्टनिश्चयार्थमेकत्र यत्र गृहे। बहूनां समावेशनस्थाने

२ तदधिष्ठायिजनसमूहे च अ-मरः
“यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः। राज्ञः प्रतिकृतो विद्वान् ब्राह्मणस्तां सभां विदुः”। विद्व-तसंहतावपि सभापर्य्यायपरिषच्छब्दमाह
“त्रैविद्या॰हैतुकस्तर्की निरुक्तो धर्मपाठकः। त्रयश्चाश्रमिणः पूर्वेपरिषत् स्याद्दशावरा” मनुः।

३ द्रूते

४ गृहे मेदि॰

५ समूहेहेमच॰। समूहपरत्वे

६ त॰ न॰। दासीसभं नृपसभ-मित्यादि। व्यवहारदर्शनार्थसमास्थानञ्च वीरमि॰ दर्शितंयथा वृहस्पतिः
“दुर्गमध्ये गृहं कुर्य्याज्जलवृक्षन्वितंपृथक्। प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्याङ्कल्पयेत्स-भाम्। प्रतिमालेख्यदेवैश्च युक्तामग्न्यम्बुना तथा” इतिलक्षण्यां वास्तुशास्त्रोक्तलक्षणेन लक्षिताम्। अग्न्य-म्बुनेति समाहारद्वन्द्वः। सभाया धर्माभिकरणत्वंकात्यायन आह
“धर्मशास्त्रानुसारेण अर्थशास्त्रवियेच-नम्। यत्राधिक्रियते स्थाने धर्माधिकरणं हि तदिति”। तत्र सभ्योपवेशनमाह मनुः
“यस्मिन् देशे इत्यादि” प्रागुक्तम्त्रय इत्युपलक्षणम् अधिकानामपि स्मृतत्वात्। तच्चवक्ष्यते। अधिकृतो विद्वान् प्राड्विवाकः अत्र प्रविशेत्सभाम् सभामेव प्रविश्येत्यादिवचनात् समा सुख्यव्यवहार-दर्शनख्यानम्। अन्यान्यमुख्यानि व्यवहारस्थनानावाक्या-दवगन्तष्यानि।
“दश स्थानानि वादानां पञ्च चैवाब्रवीद्भृगुः। निर्णयं येन गच्छन्ति विवादं प्राप्य वादिनः। आरण्यास्तु स्वकैः कुर्य्युः मार्थिकाः सार्थिकैस्तथा। सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवासिभिः। उभयानुम-तञ्चैव मृह्यते स्थानमीप्सितम्। कुलिकाः सार्थमुख्याश्चपुरग्रामनिवासिनः। ग्रामपौरगणश्रेण्याश्चातुर्विद्ययवर्गिणः। कुलानि कुलिकाश्चैव नियुक्ता नृपतिस्तथा” [Page5227-b+ 38] इति। स्वकैरारण्यवैः ग्रामेऽपीत्यपिशब्दाद् वे ग्रामे-ऽरण्यादौ च निवसन्ति ते उभयवासिभिर्निर्णयं कुर्य्यु-रुभयव्यवहराभिज्ञत्वात्तेषाम् कुलिकाः कुलश्रेष्ठाः। सार्थो श्रामदेवयात्रादौ मिलितो जनसङ्घः तन्मुख्याःसार्थवाहादयः। पुरं मुख्यनगरम् तस्मादर्वाचीनोग्राम इति पुरग्रामनिवासिनोर्भेदः सार्थकुलिकादीनिपञ्च स्थानानि तानि चारण्याकादीनामेव, ग्रामादीनिदश स्थानानि साधारणानि। ग्रामो ग्रामाकारेणावस्थि-तोजनः। पौरः पुरवासिनां समूहः
“श्रेण्यो रज-काद्यष्टादश हीनजातयः। चातुर्विद्यः आन्विक्षिक्या-दिविद्याचतुष्टयोपेतः वर्गिणा गणप्रभृतयः। राज्ञःसभाप्रवेशस्तत्रैव दर्शितः। तत्र मनुः
“व्यवहारान् दिव-क्षुस्तु ब्राह्मणैः सह पार्थिवः। मन्त्रज्ञैर्मन्त्रिभिश्चैव वि-नीतः प्रविशेत् सभाम्। तत्रासीनः स्थितो वापि पा-णिमुद्यम्य दक्षिणम्। विनीतवेषाभरणः प्रश्येत् का-र्य्याणि कार्य्यिणाम्। प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्चहेतुभिः। अष्टादशसु मार्गेषु निबद्धानि पृथक् पृ-थक्। धर्मासनमधिष्ठाय संवीताङ्गः समाहितः। प्रणम्य लोकपालेभ्यः कार्य्यदर्शनमारभेत्” इति

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभा¦ f. (-भा)
1. A house.
2. An assembly. a meeting.
3. A Court of Justice.
4. A gambling-house.
5. A much frequented place. E. स for सह together, भा to shine, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभा [sabhā], [सह भान्ति अभीष्टनिश्चयार्थमेकत्र यत्र गृहे Tv.]

An assembly, a council, conclave; पण्डितसभां कारितवान् Pt.1; न सा सभा यत्र न सन्ति वृद्धाः H.1.

Company, society, meeting, large number.

Council chamber or hall; ततः सभां करिष्यामि पाण्डवस्य यशस्विनीम् Mb.2.3.4;12.47.7.

A court of justice.

A public audience (modernlevee.)

A gambling-house.

Any room or place much frequented.

A house for lodging travellers (धर्मशाला).

An eating house.

Comp. आचारः the customs of society.

court-manners.

आस्तारः an assistant at an assembly.

a member of a society.-उचितः a learned Brāhmaṇa, an educated person.-उद्देशः the neighbourhood of any place of meeting.-कारः the builder of a hall. -गृहम् an assembly-hall.

पतिः, नायकः the president of a society, chairman.

the keeper of a gaming-house. -परिषद् the session of an assembly. -पालः the keeper of a public building or assembly. -पूजा worship or reverence paid to the audience. -मण्डपः an assembly hall. -मध्ये ind. in society. -योग्य a. suitable for society. -सद् m.

an assistant at an assembly or meeting.

a member of an assembly or meeting.

an assessor, a juror. -साहः a victor in a debating hall.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभा f. (of unknown derivation , but probably to be connected with 7. स; ifc. also n( सभ). ; See. Pa1n2. 2-4. 23 etc. , and एक-सभ)an assembly , congregation , meeting , council , public audience RV. etc.

सभा f. social party , society , good society(See. comp. )

सभा f. Society (personified as a daughter of प्रजापति) AV.

सभा f. a place for public meetings , large assembly-room or hall , palace , court of a king or of justice , council-chamber , gambling-house etc. ib.

सभा f. a house for lodging and accommodating travellers Mn. MBh. etc. ; an eating-house (See. महा-स्). ([ cf. Goth. sibja ; Germ. sippa , Sippe ; Angl.Sax. sibb ; Eng. god-sib , gossip.])

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Durbar; of the king, फलकम्:F1: Br. II. २५. १०१: वा. ३०. २७९; ५४. १०५; ९६. ९२.फलकम्:/F a description of Sagara's assembly; composed of Brahmans, क्षत्रियस्, पौरजानपद, relatives and friends; फलकम्:F2: Br. III. ४९. ३१; ५०. १६, १७-20: ५४. २४: ५५. २०.फलकम्:/F of कृष्ण where there were readings of sacred texts and the पुराणस्; फलकम्:F3: M. ६९. १०-11.फलकम्:/F public halls of Tripuram; फलकम्:F4: Ib. १३०. 5.फलकम्:/F of Maya; respective seats for members; the address of the chief; फलकम्:F5: Ib. १३१. २०f.फलकम्:/F of Indra; फलकम्:F6: Ib. १४८. ६१: वा. 1. ९२.फलकम्:/F of तारक; servants with canes illtreated the devas where the seasons served him as also Siddhas, Kin- naras and Gandharvas the latter by music; फलकम्:F7: M. १५४. ३९.फलकम्:/F of हिरण्य- कशिपु; here were all trees plants and birds, animals, Apsaras and other ladies, Asuras of distinction full of splendour and wealth, the equal of which has neither been heard of nor seen. फलकम्:F8: Ib. १६१. ३८-89.फलकम्:/F [page३-536+ २६]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sabhā is the name of an ‘assembly’ of the Vedic Indians as well as of the ‘hall’ where they met in assembly. It is often mentioned in the Rigveda[१] and later,[२] but its exact character is not certain. The hall was clearly used for dicing,[३] presurnably when the assembly was not transacting public business: a dicer is called sabhā-sthāṇu, ‘pillar of the assembly hall,’ doubtless because of his constant presence there.[४] The hall also served, like the Homeric , as a meeting-place for social intercourse and general conversation about cows and so forth,[५] possibly for debates and verbal contests.[६]

According to Ludwig,[७] the Sabhā was an assembly not of all the people, but of the Brahmins and Maghavans (‘rich patrons’). This view can be supported by the expressions sabheya, ‘worthy of the assembly,’ applied to a Brahmin,[८] rayiḥ sabhāvān, ‘wealth fitting for the assembly,’[९] and so on. But Bloomfield[१०] plausibly sees in these passages a domestic use of Sabhā, which is recognized by the St. Petersburg Dictionary in several passages[११] as relating to a house, not to the assembly at all. Zimmer[१२] is satisfied that the Sabhā was the meetingplace of the village council, presided over by the Grāmaṇī. But of this there is no trace whatever. Hillebrandt[१३] seems right in maintaining that the Sabhā and the Samiti cannot be distinguished, and that the reference to well-born (su-jāta)[१४] men being there in session is to the Āryan as opposed to the Dāsa or Śūdra, not to one class of Āryan as opposed to the other. Hillebrandt also sees in Agni ‘of the hall’ (sabhya) a trace of the fire used in sacrifice on behalf of the assembly when it met.[१५]

Women did not go to the Sabhā,[१६] for they were, of course, excluded from political activity. For the Sabhā as a courthouse, cf. Grāmyavādin. There is not a single notice of the work done by the Sabhā.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सभा स्त्री.
वह प्रकोष्ठ जहाँ द्यूतस्थान (जुआ खेलने का स्थान) ‘अधिवेदन’ स्थित होता है, आप.श्रौ.सू. 15.9.2; = द्यूतशाला, आप.श्रौ.सू. 5.4.7 भाष्य (आधेय)। सन्नामन सभा 397

  1. vi. 28, 6;
    viii. 4, 9;
    x. 34, 6. Cf. sabhā-saha, ‘eminent in the assembly,’ x. 71, 10.
  2. Av. v. 31, 6;
    vii. 12, 1, 2;
    viii. 10, 5;
    xii. 1, 56;
    xix. 55, 6;
    Taittirīya Saṃhitā, i. 7, 6, 7;
    Maitrāyaṇī Saṃhitā, iv. 7, 4;
    Vājasaneyi Saṃhitā, iii. 45;
    xvi. 24;
    xx. 17;
    Taittirīya Brāhmaṇa, i. 1, 10, 6;
    Śatapatha Brāhmaṇa, ii. 3, 2, 3;
    v. 3, 1, 10;
    Kauṣītaki Brāhmaṇa, vii. 9, etc.
  3. Rv. x. 34, 6;
    Av. v. 31, 6;
    xii. 3, 46 (here dyūta is used in place of Sabhā).
  4. Vājasaneyi Saṃhitā, xxx. 18;
    Taittirīya Brāhmaṇa, iii. 4, 16, 1, with Sāyaṇa's note. Zimmer, Altindisches Leben, 172, inclines to see in the formula (Vājasaneyi Saṃhitā, iii. 45;
    xx. 17;
    Taittirīya Saṃhitā, i. 8, 3, 1;
    Kāṭhaka Saṃhitā, ix. 4;
    Maitrāyaṇī Saṃhitā, i. 10, 2) ‘what sin we have committed in the village, the jungle, the Sabhā’ a reference to attacks on the great (Mahīdhara on Vājasaneyi Saṃhitā, iii. 45), or partiality in deciding disputes (Mahīdhara, ibid., xx. 17). But it may refer to gambling or other nonpolitical activity, as Eggeling, Sacred Books of the East, 12, 398, takes it, though he renders it differently, ibid., 44, 265.
  5. Rv. vi. 28, 6. Cf. viii. 4, 9. So in Av. vii. 12, 2, the assembly is hailed as nariṣṭā, ‘merriment.’ But the same hymn (vii. 12, 3) contains a clear reference to serious speech in the Sabhā. For the blending of serious political work and amusement, cf. Tacitus, Germania, 22.
  6. So Zimmer, op. cit., 174, takes sabheya in Rv. ii. 24, 13.
  7. Translation of the Rigveda, 3, 253256. He quotes for this view Rv. viii. 4, 9;
    x. 71, 10 (passages which are quite vague). Cf. also Rv. vii. 1, 4;
    Av. xix. 57, 2.
  8. Rv. ii. 24, 13. Cf. i. 91, 20;
    Av. xx. 128, 1;
    Vājasaneyi Saṃhitā, xxii. 22, etc. Max Müller, Sacred Books of the East, 32, 276, sees in sabheya the implication of ‘courtly manners,’ but this is rather doubtful;
    manner is not conspicuous in Vedic society as in Homeric.
  9. Rv. iv. 2, 5;
    in i. 167, 3, sabhāvatī is applied to ‘speech,’ or perhaps to yoṣā, ‘woman.’
  10. Journal of the American Oriental Society, 19, 13.
  11. Av. viii. 10, 5 (where the sense is, however, clearly ‘assembly’;
    see viii. 10, 6);
    Taittirīya Saṃhitā, iii. 4, 8, 6;
    Taittirīya Brāhmaṇa, i. 1, 10, 3;
    Chāndogya Upaniṣad, viii. 14 (but here the sense is certainly ‘assembly hall,’;
    see v. 3, 6, where the king is described as going to the assembly hall: sabhā-ga) The exact sense given by the St. Petersburg Dictionary is the ‘society room’ in a dwelling-house.
  12. Altindisches Leben, 174. But he ignores Śatapatha Brāhmaṇa, iii. 3, 4, 14;
    Chāndogya Upaniṣad, v. 3, 6, which show that the king went to the Sabhā just as much as to the Samiti, and he cannot adduce any passage to show that the Grāmaṇī presided.
  13. Vedische Mythologie, 2, 123-125.
  14. Rv. vii. 1, 4.
  15. Agni is sabhya, Av. viii. 10, 5;
    xix. 55, 6. For the Rv., see iii. 23, 4;
    v. 3, 11;
    vii. 7, 5.
  16. Maitrāyaṇī Saṃhitā, iv. 7, 4.

    Cf. Zimmer, Altindisches Leben, 172174.
"https://sa.wiktionary.org/w/index.php?title=सभा&oldid=480741" इत्यस्माद् पुनः प्राप्तिः