जाति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातिः, स्त्री, (जायतेऽस्यामिति । जन् + अधि- करणे क्तिन् ।) गोत्रम् । (जन + भावे क्तिन् ।) जन्म ॥ अश्मन्तिका । आमलकी । सामान्यम् । तत्तु ब्राह्मणक्षत्त्रियवैश्यशूद्रात्मकम् । छन्दः । जातीफलम् । मालती । इति मेदिनी । ते, १९ ॥ (अस्याः पर्य्याया यथा, -- “जातिर्ज्जाती च सुमना मालती राजपुत्त्रिका । चेतिका हृद्यगन्धा च सा पीता स्वर्णजातिका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) काम्पिल्लः । इति विश्वः ॥ गोत्वादिः । तस्य लक्षणं यथा, मुग्धबोधे । “आकृतिग्रहणा जातिर्लिङ्गानाञ्च ब सर्व्वभाक् । सकृदाख्यातनिर्ग्राह्या गोत्रञ्च चरणैः सह ॥” अस्यार्थः । “आक्रियते व्यज्यतेऽनयेति आकृतिः संस्थानं आकृत्या ग्रहणं ज्ञानं यस्याः सा आकृतिग्रहणा जातिराकृतिग्रहणा भवति संस्थानव्यङ्ग्या इत्यर्थः । तेन मनुष्यगोमृगहंसा- दीनां पृथक् पृथक् संस्थानैर्व्यज्यमाना मनुष्यत्व- गोत्वमृगत्वहंसत्वादिर्जातिः । एवं ब्राह्मण- क्षत्त्रियवैश्यशूद्राणां पृथक् संस्थानाभावाद्ब्राह्म- णत्वादेर्जातित्वं नायातमिति लक्षणान्तरमाह लिङ्गानाञ्च न सर्वभागिति या सर्व्वाणि लिङ्गानि न भजते सा च जातिरित्यर्थः । स्त्रीपुंसयोरपत्यान्ता द्विचतुःषट्पदोरगाः । जातिभेदाः पुमाख्याश्च इत्यमरसिंहे जाति- भेदानां स्त्रीपुंसयोरेवेति नियमे ब्राह्मणादीनां सर्व्वलिङ्गभाजित्वाभावाज्जातित्वम् । किन्तु अज्ञातहंसस्य जनस्य हंसं दृष्टवतोऽपि तस्य संस्थानेन हंसत्वं व्यञ्जितुं न शक्यते इति हंस- स्यापि जातित्वं नायातमिति पूर्ब्बलक्षणस्य दोषः । एवं देवदत्तादिसंज्ञाशब्दस्यापि सर्व्व- लिङ्गभाजित्वाभावाज्जातित्वापत्तिरिति द्वितीय- लक्षणस्य दोषः इति दोषद्बयमपाकर्त्तुं द्बयो- र्लक्षणयोर्विशेषणमाह सकृदाख्यातनिर्ग्र्याह्येति सकृदेकवारमाख्यातेन उपदेशेन निर्निश्चयेन ग्राह्या ग्रहीतुं शक्या इत्यर्थः । तेन ईदृशो हंस इत्युपदेशे हंसं दृष्टवतस्तस्य संस्थानेन हंसत्वं व्यञ्जितुं शक्यत एवेति पूर्ब्बलक्षणस्य न दोषः । एवं देवदत्तादिसंज्ञाशब्दस्य एकस्मिन्नु- पदेशेऽपि अन्यस्मिन् ज्ञानाभावात् जातित्वं न स्यादिति परलक्षणस्यापि न दोषः । गार्ग्य- पुरुषः गार्गी स्त्री गार्ग्यं कुलमिति सर्व्वलिङ्ग- भाजित्वात् संस्थानव्यङ्ग्यत्वाभावाच्च गार्ग्यादीनां जातित्वानुपपत्तौ तृतीयलक्षणमाह गोत्रञ्चेति । पुत्त्रपौत्त्रप्रभृतिकमपत्यं गोत्रमिति पूर्ब्बाचार्य्य- परिभाषितं गोत्रमिह ग्रह्यते गार्गीवात्सी- त्यादि । चतुर्थलक्षणमाह चरणैः सहेति चर- णञ्च जातिरित्यर्थः । चरणशब्दो वेदैकदेशवाची कठादिरूपः स च अध्ययनक्रियासम्बन्धेन प्रवृ- त्तत्वात् क्रियावाचक एव न तु जातिवाचकः तेनास्य जातिसंज्ञार्थं चरणैः सहेत्युक्तं गार्ग्या- दिनां षित्वादीपि सिद्धेऽपि जातिसंज्ञा फलन्तु गार्गी भार्य्या यस्यासौ गार्गीभार्य्य इत्यादौ नोप्ताककोङित्यादिना पुंवद्भावनिषेधः । गार्गी चासौ भार्य्या चेति गार्ग्यभार्य्या इत्यादौ कोङादिः पुंवदित्यादिना पुनः पुंवद्भावः ।” इति दुर्गादासः ॥ “सामान्यं द्विविधं प्रोक्तं परञ्चापरमेव च । द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥ परभिन्ना तु या जातिः सैवापरतयोच्यते । व्यापकत्वात् परापि स्यात् व्याप्यत्वादपरापि च ॥ द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥” इति भाषापरिच्छेदे । ८-९ ॥ तल्लक्षणन्तु “नित्यत्वे सत्यनेकसमवेतत्वम् ।” इति सिद्धान्तमुक्तावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाति स्त्री।

घटत्वादिजातिः

समानार्थक:जाति,जात,सामान्य

1।4।31।1।1

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता। चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः॥

पदार्थ-विभागः : , सामान्यम्, जातिः

जाति स्त्री।

मालती

समानार्थक:सुमनस्,मालती,जाति

2।4।72।2।3

अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता। सुमना मालती जातिः सप्तला नवमालिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

जाति स्त्री।

जननम्

समानार्थक:जनुस्,जनन,जन्मन्,जनि,उत्पत्ति,उद्भव,जाति,भव,भाव

3।3।68।1।2

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः। प्रचारस्यन्दयो रीतिर्डिम्बप्रवासयोः॥

वैशिष्ट्य : प्राणी

पदार्थ-विभागः : , क्रिया

जाति स्त्री।

सामान्यम्

समानार्थक:जाति

3।3।68।1।2

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः। प्रचारस्यन्दयो रीतिर्डिम्बप्रवासयोः॥

पदार्थ-विभागः : , सामान्यम्, जातिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाति¦ स्त्री जन--क्तिन्।

१ जन्मनि,

२ अनुगतैकाकारबुद्धि-जननसमर्थे, अवयवव्यङ्ग्ये सकृदुपदेशव्यङ्ग्ये च

३ धर्मभेदे,व्याकरणोक्ते पौत्राद्यपत्यात्मके

४ गोत्रे,

५ वदशाखाभेदेच। न्यायोक्ते साधर्म्म्यवैधर्म्म्याभ्यां व्याप्तिनिरपेक्षाभ्यांवादिवाक्येषु

६ दूषणदानरूपे वाक्ये,

७ षड्जादिषु सप्तसुस्वरेषु,

८ अलङ्कारभेदे,

९ चूल्ल्याम्, शब्दार्थचि॰। आमलक्यां,

१० जातिफले,

११ मालत्यां, (चामेली)पुष्पप्रधानवृक्षे च मेदि॰

१२ काम्पिल्ले विश्वः। तत्र व्याकरणोक्ते जातिलक्षणं यथा
“चाकृतिग्रहणा जातिर्लिङ्गानाञ्च न सर्वभाक्। सकृदा-ख्यातनिर्ग्राह्या गोत्रञ्च चरणैः सह” भा॰। अस्यार्थः। आक्रियते व्यज्यतेऽनयेति आकृतिः संस्थानम्। गृह्यते-इति ग्रहणं ज्ञानम्। आकृत्या ग्रहणं यस्याः[Page3092-b+ 38] सा आकृतिग्रहणा। जातिराकृतिग्रहणा संस्थान-व्यङ्ग्येत्यर्थः। तेन मनुष्यगोमृगहंसादीनां पृथक्पृथक्संस्थानैर्व्यज्यमानत्वात् मनुष्यत्वगोत्वमृगत्वहंसत्वादिर्जातिः। एवं ब्राह्मणक्षत्त्रियवैश्यशूद्राणां पृथक्संस्थानाभावात् ब्राह्मणत्वादेर्जातित्वं न स्यादितिलक्षणान्तरमाह लिङ्गानाञ्च न सर्वभागिति। यासर्वाणि लिङ्गानि न भजते सा च जाति रित्यर्थः। स्त्रीपुंसयोरपत्यन्ताद्विचतुःषट्पदोरगाः। जातिभेदाःपुमानाख्या” इत्यररसिंहेन जातिभेदानां स्त्रीपुंसयोरेवेतिनियमेन ब्राह्मणादीनां सर्वलिङ्गभागित्वाभावाज्जाति-त्वम्। किन्तु अज्ञातहंसस्य जनस्य हसं दृष्टवतोऽपितस्य संस्थानेन हंसत्वं व्यञ्जितुं न शक्यते इति हंसत्व-स्यापि जातित्वं न स्यादिति पूर्वलक्षणस्य दोषः। एवंदेवदत्तादिसंज्ञाशब्दस्यापि सर्वलिङ्गभागित्वाभावाज्जाति-त्वापत्तिरिति द्वितीयलक्षणस्य दोषः इति दोषद्वय-मपाकर्त्तुं द्वयोर्लक्षणयोर्विशेषणमाह सकृदाख्यातनिर्ग्राह्येति। सकृदेकवारमाख्यातेन उपदेशेन निश्च-येन ग्राह्या ग्रहीतुं शक्या इत्यर्थः। तेन ईदृशोहंसैत्युपदेशे हंसं दृष्टवतस्तस्य संस्थानेन हंसत्वं व्यञ्जितुशक्यत एवेति पूर्वलक्षणस्य न दोषः। एवं देवदतादिसंज्ञाशब्दस्यैकस्मिन्नुपदेशेऽपि अन्यस्मिन् ज्ञानाभावात्जातित्वं न स्यादिति परलक्षणस्यापि न दोषः। गार्ग्यःपुरुषः गार्गी स्त्री गार्ग्यं कुलमिति सर्वलिङ्गभागित्वात्संस्थानव्यङ्ग्यत्वाभावाच्च गार्ग्यादीनां जातित्वानुपपत्तीतृतीयलक्षणमाह। गोत्रञ्चेति। पुत्रपौत्रप्रभृतिक-मपच्यं गोत्रमिति पूर्ब्बात्तार्य्यपरिभाषितं गोत्रमिहगृह्यते गार्गी वात्सीत्यादि। चतुर्थलक्षणमाह चरणैःसहेति चरणञ्च जातिरित्यर्थः। चरणशब्दा वेदैकदेश-वाची कठादिरूपः स च अध्ययनक्रियासम्बन्धेन प्रवृत्त-त्वात् क्रियावाचक एव न तु जातिबाचकः। तेनास्यजातिसंज्ञार्थं चरणैः सहेत्युक्तम्। मागर्पादीनांयञश्चेति ङीपि सिद्धेऽपि जातिसंज्ञाफलन्तु स्वरार्थम्तथा गार्गी भार्य्या यस्यासु गार्गीभार्य्य इत्यादौ
“जातेश्चेति” पुम्वद्भावनिषेधः। गार्गी चासौ भार्य्याचेति गार्ग्यभार्य्या इत्यादौ
“पुंवत् कर्मधारयेति” पुनः पुंवद्भावः”
“प्रादुर्भावविनाशाभ्यां सत्वस्य युग-पद् गुणैः। असर्वलिङ्गां बह्वर्थां तां जातिं कवयेविदुः” इति महाभाष्ये लक्षणान्तरमुक्तम्[Page3093-a+ 38] ईदृशान्यतमार्थकशब्दानां जातिशब्दत्वेन व्याकरणे व्यव-ह्रियते उदा॰ दृश्यते चोपरिष्टात्। ( अनुगतधर्मरूपजातेर्ब्रह्मरूपत्वम्। हरिणोक्तं यथा
“सम्बन्धभेदात् सत्तैव भिद्यमाना गवादिषु। जातिरित्यु-च्यते तस्यां सर्वे शब्दा व्यवस्थिताः। तां प्रादिपदिकार्थञ्चधात्वर्थञ्च प्रचक्षते। सा नित्या सा महानात्मा तामा-हुस्त्वतलादयः” इति। प्रतिपादिता च तेनैव अनेक-व्यक्तीनामनित्यतया जातेरैकरूप्यात् स्फोटात्मशब्द-वाच्यता यथा
“अनेकव्यक्त्यमिव्यङ्ग्या जातिः स्फोटइति स्मृता। कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रक-ल्पिताः” इति। अत्र च जातिस्फोटयोः सामानाधिकरण्यनिर्द्देशात् वाच्यवाचकयोरभेद इति बोध्यम्। वैशेषिकमतसिद्धेषु षट्सु भावेषु मध्ये अनुगतबुद्धिनिया-मकधर्मभेदरूपभावपदार्थसामान्यलक्षणभेदादिकं कणा॰सू॰ वृत्तौ दर्शितं यथा(
“सामान्यं विशेष इति बुद्ध्यपेक्षम्”। सू॰(
“पदार्थत्रयोद्देशलक्षणानन्तरमिदानीमुद्दिष्टस्य सामा-न्यपदार्थस्य लक्षणमाह सामान्यं द्विविधं परमपरञ्चपरं सत्ता अपरं सत्ताव्याप्यं द्रव्यत्वादि तत्र सामान्यस्यतद्विशेषस्य च लक्षणं बुद्धिरेव। अनुवृत्तबुद्धिः सामा-म्यस्य, व्यावृत्तबुद्धिर्विशेषस्य इतिना द्वयमवच्छिद्यपरामृश्यते तेन बुद्ध्यपेक्षमिति नपुंसकनिर्द्देशः। वृत्तिकारस्तु विशेषान्धयमाह परन्तु
“नपुंसकमनपुंसके-नैकवच्चान्यतरस्याम्” पा॰ इत्यनेनैकवद्भावी नपुंसकताचेत्याह। बुद्धिरपेक्षा लिङ्गं लक्षणं वा यस्य तद्बुद्ध्यपेक्षं तत्र नित्यमनेकव्यक्तिवृत्ति सामान्यं नित्यत्वे सतिस्वाश्रपान्येन्याभावसमानाधिकरणं वा परमपि सामान्य-मपरमपि तथा। परन्तु सामान्यं विशेषसंज्ञामपि लभतेतथा द्रव्यमिदं द्रव्यमिदमित्यनुवृत्तप्रत्यये सत्येव नायंगुणो नेदं कर्मेति विशेषप्रत्ययः। तथा च द्रव्यत्वादीनांसामान्यानामेव विशेषत्वम्। ननु विधिरूपं सामान्यंनास्त्येव अनुगतमतेरतद्व्यावृत्त्यैवोपपत्तेः भवति हिगौरयमिति--प्रतीतेरगोव्यावृत्तोऽयमिति विषयः जाति-वादिनाऽपि गोत्वादिविशिष्टप्रत्ययस्य तद्विषयत्वाभ्युप-गमात् नहि वैशिष्ठ्यमतद्व्यावृत्तेरन्यत्, गवादिपदप्रवृत्ति-निमित्तमप्यगोव्यावृत्त्यादिरेव। किञ्च गोत्व कुत्रवर्त्तते न तावद्गवि गोत्ववृत्तेः पूर्वं तम्वाभावात्नाप्यगवि, विरोधात् यत्र गोपिण्ड उत्पद्यते तत्र कुत[Page3093-b+ 38] आगत्य गेत्वं वर्त्तते न तावत्तत्रैवासीत् देशस्यापि तस्यगोत्वापत्तेः नापि गोत्वमपि तदानीमेवोत्पन्नं नित्यत्वा-भ्युपगमात् नाप्यन्यत आगतं निष्क्रियत्वाभ्युपगमात्नच एकस्यैव नित्यस्य नानाव्यक्तिवृत्तित्वं कार्त्स्त्र्यैकदेश-विकल्पानुपपत्तेः। नहि कृत्स्नमेकत्रैव वर्त्ततेअन्यत्र तद्विशिष्टप्रत्ययानुदयप्रसङ्गात्। नाप्येकदेशेनजातेरेकदेशस्याभावात्। तदुक्तं
“न याति नच तत्रा-सीन्नचोत्पन्नं नचांशवत्। जहाति पूर्वं नाधारमहो-व्यसनसन्ततिः” इति। सामान्यमस्ति तच्च संस्थान-मात्रव्यङ्ग्यं गोत्वघटत्वादिवत् न तु गुणकर्मगतमपीतिसगोत्रकलहः। अत्रोच्यते सामान्यं नित्यं व्यापकञ्चव्यासकत्वमपि स्वरूपतः सर्वदेशसम्बद्धत्वं न देशानांगोव्यवहारापत्तिः समवायेन तद्व्यवहारस्याभ्युपगमात्काले रूपादिमत्त्वेऽपि कालो रूपवानित्यप्रतीतिव्यवहा-रवत् न च कालो नास्त्येव पञ्चस्कन्धसज्ञाभेदमात्रमित्य-भ्युपगमादिति वाच्यं कालस्य साधयिष्यमाणत्वात्। तथाच यत्र पिण्ड उत्पद्यते तत्रस्थमेव गत्वं तेन सम्ब-ध्यते जातः सम्बद्धश्चेत्येकः काल इत्यभ्युपगमात्। एतेनकीदृश्याश्रये वर्त्तते इत्यत्र यत्र प्रतीयते इत्युत्तरम्, कुत्रप्रतीयते इत्यत्र यत्र वर्त्तते इत्युत्तरम्। गत्ववृत्तेः पूर्वंस पिण्डः कीदृगासीदित्यत्र नासीदित्येवोत्तरम्। एवञ्च
“न याति नच तत्रासीत् इत्यादिकं परिदेवनमात्रम्,अतद्व्यावृत्तिरेव गोत्वमित्यम्य गौरयमिति विधिमुखःपत्यय एव बाधकः। नह्यनुभवोऽपि व्याख्यायते तदुक्तं
“विधिजः प्रत्ययोऽन्योऽयं व्यतिरेकासमर्थकः” इति न हिगौरयमिति प्रत्ययेऽगोव्यावृत्तिरपि भासते। कात्र्स्न्यैकदे-शविकल्पस्तदाभवेत् यद्येकस्य सामानस्य कातर्स्नां भवेदेक-देशो वा कृत्स्नता ह्यनेकाशेषता। सा चैकस्मिन्नोपपन्नागौरयमित्यनुभव एवासद्विषयो न वस्तुव्यवस्थापनक्षमइत्यत्रोत्तरं वक्ष्यते। प्राभाकरास्तु संस्थानमात्रव्यङ्ग{??}ंसामान्यमाचक्षते तद्यद्यनुगतप्रतीतिसाक्षिकं तदा किम-पराद्धं गुणकर्मगतैः सामान्यैः, भवति हि रूपरसाद्यनु-गतधीः सा च जातिव्यवस्थापिकैव बाधकाभात् रूपत्वा-दिजातिषु न त वद्व्यक्त्यभेदो बाधकः आकाशत्वादिवत्,रूपरसादिव्यक्तोनामनेकत्वात् नापि बुद्धित्वज्ञानत्वादिवत्घटत्वकलसत्वादिवद्वा तुल्यत्वं बाधकं तच्च न्यूनानतिरिक्त-व्यक्तिकत्वं गुणत्वापेक्षया न्यूनव्यक्तिकत्वात् नीलत्पाद्यपे-क्षया चाधिकव्यक्तिकत्वात् स्वतएव न सङ्करः भूतत्वमूर्त्त। [Page3094-a+ 38] त्ववत्, परस्परात्यन्ताभावसामानाधिकरण्ये सति जात्यन्त-रेण सामानाधिकरण्याभावात् नाप्यनवस्था रूपत्वादिगत-सामान्यान्तरानभ्युपगमात् नापि रूपहानिर्विशेषत्ववत्यदि विशेषाः द्रव्याश्रितत्वे सति जातिमन्तः स्युः गुणाःकर्माणि वा स्तुः विभुवृत्तित्वे सति यदि जातिमन्तःस्युर्गुणाः स्युरिति यथा विशेषपदार्थस्वरूपहानिस्तथाप्रकृतेऽभावात् नापि समवायत्ववदसम्बन्धः समवायेसमवायाभ्युपगमेऽनवस्थाभयात्तथास्तु, प्रकृते तु समवाय-स्यैव सम्बन्धस्याभ्युपगमात्। यद्यपि समवायत्वजाति-बाधकोव्यक्त्यभेदएव तथापि यन्मते उत्पादविनाशशीलाःबहवः समवायास्तन्मते द्रष्टव्यम्। अभावत्वादिजात्यभ्युप-गमे वा बाधकमेतत्, (व्यक्तेरभेदस्तुलत्वं सङ्करोऽथानव-स्थितिः। रूपहानिरसम्बन्धो जातिबाधकसंग्रहः)। विवादपदमनुगतबुद्धिः अनुगतनिमित्तसाध्या अबाधि-तानुगतमतित्वात् दामकुसुमबुद्धिवत् इति जातौ मान-मिति वृत्तिकारास्तच्चिन्त्यम्”। उप॰ वृत्तिः। (
“भावोऽनुवृत्तेरव हेतुत्वात् सामान्यमेव”। सू॰(
“सामान्यं विशेष इति द्वैविध्यं तदुपपादयन्नाह। भावः सत्ता अनुवृत्तेरेव हेतुः न तु व्यावृत्तेरपि हेतुःतथा च विशेषसंज्ञां लभते”। उप॰ वृत्तिः(
“द्रव्यत्वं गुणत्वं कर्मत्वञ्च सामान्यानि विशे-याश्च”। सू॰(
“केषां सामान्यानां विशेषसंज्ञेत्यपेक्षायामाह। चकारःपृथिवीत्वादीनि द्रव्यगतजातीः रूपत्वादीनि गुणगतजातीःउत्क्षेपणत्वादीनि कर्मगतजातोः समुच्चिनोति। द्रव्यत्व-मित्यादावसमासः परस्परं व्याप्यव्यापकभावाभावसूचनार्थम्सामान्यानि विशेषाश्चेत्यत्रासमासः सामान्यत्वे सत्येवविशेषत्यं यथा ज्ञायेत तदर्थम्, अन्यथा सामान्यविशेषाइति षष्ठीसमासभ्रमः स्यात् तथाच सामान्यत्वे सतिविशेषत्वं न प्रतीयते। ननु द्रव्याकारानुगतमतिसा-क्षिकं न द्रव्यत्वम्, पृथिव्यादौ कथञ्चित्, तत्सत्त्वेऽपिवाय्वाकाशादौ तदसम्भवात् न च गुणत्वावच्छिन्नकार्य्यसम-वायिकारणतावच्छेदकतया तत्सिद्धिः नित्यानित्यवृत्तितयागुणत्वस्य कार्य्यतानवच्छेदकत्वात् गुणत्वार्थमपि पर्य्य-नुयोगस्य तादवस्थ्यात्, मैवं संयोगत्वावच्छिन्नकार्य्यसम-वायिकारणतावच्छेदकतया द्रव्यत्वसिद्धेः सा हि न पृथि-वीत्वाद्यवच्छेद्या न्यून{??}त्तत्वात नापि सत्तावच्छेद्याऽधिकवृत्तित्वात् अवश्यं ह्यवच्छेदकेन भवितव्यम्, अन्य-[Page3094-b+ 38] थाकस्मिकतापत्तेः तत्र परमाणुषु द्व्यणुकासमवायि-कारणवतया द्व्यणुकेषु त्र्यणुकासमवायिकारणवत्तयाविभुचतुष्टयस्य सर्वमूर्त्तसंयोगितयैव सिद्धेः मनसिइन्द्रियमनःसंयोगाधारतया वायौ तृणादिनोदनाश्रय-तया प्रत्यक्षद्रव्येषु प्रत्यक्षतयैव संयोगाभ्युपगमस्यावश्य-कत्वात् अजस्तु संयोगो नास्त्येव येन संयोगत्वस्यापिकार्य्याकार्य्यवृत्तितया कार्य्यतावच्छेदकता न स्यात् एवंविभागसमवायिकारणतावच्छेदकतयाऽपि द्रव्यत्वसिद्धेःसुप्रतिपदत्वात्। गुणत्वन्तु संयोगविभागसमवायिकारण-त्वःसमवायिकारणत्वशून्ये सामान्यवति यत्ककारणत्वंतदवच्छेदकतयैव सिद्धमित्युक्तत्वात् कर्मत्वमपि प्रत्यक्ष-द्रव्येषु चलतीति--प्रत्ययसाक्षिकम्, अन्यत्र तु संयोग-विभागानुमेयं संयोगविभागोभयासमवायिकारणताव-च्छेदकतयाऽपि कर्मत्वसिद्धेरावश्यकत्वात्”। उप॰ वृत्तिः

१३ ब्रह्मणादिवर्णे वर्णरूपजातिश्च द्विविधा शुद्धा सङ्कीर्णाच तत्र शुद्धाजातयः ब्राह्मणादयः। सङ्कीर्णजातयश्चमूर्द्धावसिक्तादयः नाना तदेतत् मनुना

१० अ॰ उक्तं यथा(
“व्राह्मणः क्षत्त्रियोवैश्यस्त्रयो वर्णा द्विजातयः। चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः। सर्ववर्णेषुतुल्यासु पत्नीष्वक्षतयोनिषु। आनुलोम्येन सम्भूताजात्या ज्ञेयास्त एव ते। स्त्रीष्वनन्तरजातासु द्विजैरु-त्पादितान् सुतान्। सदृशानेव तानाहुर्म्मातृदोषविगर्हितान्। अनन्तरासु जातानां विधिरेव सनातनःद्व्येकान्तरासु जातानां धर्म्म्यं विद्यादिमं विधिम्ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते। निषादशूद्रकन्यायां यः पारशव उच्यते। क्षत्त्रियाच्छ्रूद्रकन्यायाक्रूराचारविहारवान्। क्षत्त्रशूद्रवपुर्जन्तुरुग्रो नामप्रजायते। विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः। वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः। क्षत्त्रिया-द्विप्रकन्यायां सूतो भवति जातितः। वैश्यान्मागधवैदेहौराजविप्राङ्गनासुतौ। शूद्रादायोगवः क्षत्ता चाण्डाल-श्चाधमो नृणाम्। वैश्यराजन्यविप्रासु जायन्ते वर्ण-सङ्कराः। एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ। क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि। पुत्रा येऽन-न्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम्। ताननन्तरनाम्नस्तुमातृदोषात् प्रचक्षते। ब्राह्मणादुग्रकन्यायामावृतो नामजायते। आभीरांऽम्बष्ठकन्यायामायोगव्यान्तु धिग्वणः। अयोगवश्च क्षत्ता च चाण्डालश्चाधमो नृणाम्। प्राति-[Page3095-a+ 38] लोम्येन जायन्ते शूद्रादपसदास्त्रयः। वैश्यान्मागधवैदेहौक्षत्त्रियात्सूत एव तु। प्रतीपमेते जायन्ते परेऽप्यपसदा-स्त्रयः। जातो निषादाच्छ्रूद्रायां जात्या भवति पुक्वसः। शूद्राज्जातो निषाद्यान्तु स वै कुक्कुटकः स्मृतः। क्षत्तु-र्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते। वैदेहकेनत्वम्बष्ठ्यामुत्पन्नो वेण उच्यते। द्विजातयः सवर्णासुजनयन्त्यव्रतांस्तु यान्। तान् सावित्रीपरिभ्रष्टान् व्रात्याइति विनिर्दिशेत्। व्रात्यात्तु जायते विप्रात् पापात्माभूर्जकण्टकः। आवन्त्यवाटधानौ च पुष्पधः शैखएवच। झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च। नटश्च करणश्चैव खसो द्रविडएव च। वैश्यात्तु जायतेव्रात्यात् सुधन्वाचार्य्यएव च। कारुषश्च विजन्मा चमैत्रः{??}त्वतएव च। व्यभिचारेण वर्णानामवेद्यावेदनेनच। स्वकर्मणाञ्च त्यागेन जायन्ते वर्णसङ्कराः। सङ्की-र्णयोनयो ये तु प्रतिलोमानुलोमजाः। अन्योन्यव्यति-षक्ताश्च तान् प्रवक्ष्याम्यशेषतः। सूतोवैदेहकश्चैव चण्डा-लश्च नराधमः। मागधः क्षतृजातिश्च तथाऽयोगवएवच। एते षट् सदृशान् वर्णान् जनयन्ति स्वयोनिषु। मातृजात्यां प्रसूयन्ते प्रवरासु च योनिषु। यथा त्रयाणांवर्णानां द्वयोरात्मास्य जायते। आनन्तर्य्यात् स्वयोन्यान्तुतथा बाह्येष्वपि क्रमात्। ते चापि बाह्यान् सुबहूं-स्ततोऽप्यधिकदूषितान्। परस्परस्य दारेषु जनयन्तिविगर्हितान्। यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुंप्रसूयते। तथा बाह्यतरं वाह्यश्चातुर्वर्ण्ये प्रसूयते। प्रतिकूलं वर्त्तमाना बाह्या बाह्यतरान् पुनः। हीनाहीनात् प्रसूयन्ते वर्णान् पञ्चदशैव तु। प्रसाधनोप-चारज्ञमदास दासजीवनम्। सैरिन्ध्रं वागुरावृत्तिं सूतेदस्युरयोगवे। मैत्रेयकन्तु वैदेहो माधुकं सम्प्रसूयते। नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये। निषादोभार्गवं सूते दाशं नौकर्म्मजीविनम्। कैवर्त्तमिति यंप्राहुरार्य्यावर्त्तनिवासिनः। मृतवस्त्रभृन्नारीषु गर्हि-तान्नाशनासु च। भवन्त्यायोगवीष्वेते जातिहीनाःपृथक् त्रयः। कारावरोनिषादात्तु चर्म्मकारः प्रसूयते। वैदेहकादन्ध्रमेदो बहिर्ग्रामप्रतिश्रयौ। चण्डालात्पाण्डुसोपाकस्त्वक्सारव्यवहारवान्। आहिण्डिकोनिषा-देन वैदेह्यामेव जायते। चण्डालेन तु सोपाको मूल-व्यसनवृत्तिमान्। पुक्कस्यां जायते पापः सदा सज्जन-गर्हितः। निषादस्त्री तु चण्डालात् पुत्रमन्त्यावसा-[Page3095-b+ 38] यिनम्। श्मशानगोचरं सूते बाह्यानामपि गर्हितम्। सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः। प्रच्छन्नावा प्रकाशा वा वेदितव्याः स्वकर्मभिः। सजातिजानन्त-रजाः षट् सुता द्विजधर्मिणः। शूद्राणान्तु सधर्म्माणःसर्वेऽपध्वंसजाः स्मृताः। तपोवीजप्रभावैस्तु ते गच्छन्तियुगे युगे। उत्कर्षञ्चापकर्षञ्च मनुष्येष्विह जन्मनः। शनकैस्तु क्रियालोपादिमाः क्षत्त्रियजातयः। वृषलत्वंगता लोके व्राह्मणादर्शनेन च। पौण्ड्रकाश्चौड्रद्रविडाःकाम्बोजा जवनाः शकाः। पारदाः पह्नवाश्चीनाः किरातादरदाः खसाः। मुखबाहूरुपज्जानां या लोके जातयोबहिः। म्लेच्छवाचश्चार्य्यवाचः सर्वे ते दस्यबः स्मृताः। ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः। ते निन्दि-तैर्वर्त्तयेयुर्द्विजानामेव कर्मभिः। सूतानामश्वसारथ्यमम्ब-ष्ठानां चिकित्सितम्। वैदेहकानां स्त्रीकार्य्यं मागधानांवणिक्पथः। मत्स्यघाती निषादानां तष्टिस्त्वायोगवस्यच। मेदान्ध्रचञ्चुमद्गूनामारण्यपशुहिंसनम्। क्षत्त्रु-ग्रपुक्कसानान्तु बिलौकीबधबन्धनम्। धिग्वणानां चर्म्म-कार्य्यं वेणानां भाण्डवादनम्। चैत्यद्रुमश्मशानेषु शैले-सूपवनेषु च। वसेयुरेते विज्ञाता वर्त्तयन्तः स्वकर्मभिः। चण्डालश्वपचानान्तु बहिग्रामात् प्रतिश्रयः। अपपात्राश्चकर्त्तव्या धनमेषां श्वगर्दभम्। वासांसि मृतचेलानिभिन्नभाण्डेषु भोजनम्। कार्ष्णायसमलङ्कारः परि-व्रज्या च नित्यशः। न तैः समयमन्विच्छेत् पुरुषो धर्म-माचरन्। व्यबहारो मिथस्तेषां विवाहः सदृशैः सह। अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने। रात्रौ नविचरेयुस्ते ग्रामेषु नगरेषु च। दिवा चरेयुः कार्य्यार्थंचिह्निता राजशासनैः। अबान्धवं शवञ्चैव निर्हरेयुरितिस्थितिः। बध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया। बध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च। वर्णापेत-मविज्ञातं नरं कलुषयोनिजम्। आर्य्यरूपमिबानार्य्यंकर्म्मभिः स्वैर्विभावयेत्। अनार्य्यता निष्ठुरता क्रूरतानिष्क्रियात्मता। पुरुषं व्यञ्जयन्तीह लोके कलुषयो-निजम्। पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा। न कथञ्चन दुर्य्योनिः प्रकृतिं स्वां नियच्छति। कुलेसुख्येऽपि जातस्य यस्य स्यात्योनिसङ्करः। संश्रयत्येवतच्छीलं नरोऽल्पमपि वा बहु। यत्र त्वेते परिध्वंसाजायन्ते वर्णदूषकाः। राष्ट्रिकैः सह तद्राघ्रं क्षिप्रमेवविनश्यति। ब्राह्मणार्थे गवार्थे वा देहत्यागोऽ{??}पस्कृतः। [Page3096-a+ 38] स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम्। अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः। एतं सामा-सिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः। शूद्रायां ब्राह्मणा-ज्जातः श्रेयसा चेत् प्रजायते। अश्रेयान् श्रेयसींजातिं गच्छत्यासप्तमाद्युगात्। शूद्रोब्राह्मणतामेतिब्राह्मणश्चैति शूद्रताम्। क्षत्रियाज्जातमेवन्तु विद्याद्वैश्या-त्तर्थैव च। अनार्य्यायां समुत्पन्नोव्राह्मणात्तु यदृच्छया। ब्राह्मण्यामप्यनार्य्यात्तु श्रेयस्त्वं क्केति चेद्भवेत्। जातो-नार्य्यामनार्य्यायासार्य्यादार्य्योभवेद्गुणैः। जातोऽप्यना-र्य्यादार्य्यायामनार्य्य इति निश्चयः। तावुभावप्यसंस्का-र्य्याविति धर्मोव्यवस्थितः। वैगुण्याज्जन्मनः पूर्वमुत्तरःप्रतिलोमतः। सुवीजञ्चैव सुक्षेत्रे जातं सम्पद्यतेयथा। तथार्य्याज्जात आर्य्यायां सर्वं संस्कारमर्हति। वीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः। वीजक्षेत्रेतथैवान्ये तत्रेयन्तु व्यवस्थितिः। अक्षत्रे वीजमुत्सृष्ट-मन्तरैव विनश्यति। अवीजकमपि क्षेत्रं केवलं स्थण्डिलंभवेत्। यस्माद्वीजप्रभावेण तिर्य्यग्जा ऋषयोऽभवन्। पूजिताश्च प्रशस्ताश्च तस्माद्वीजं प्रशस्यते। अनार्य्य-मार्य्यकर्म्माणमार्य्यं चानार्य्यकर्म्मिणम्। सम्प्रधार्य्या-व्रवीद्धाता न समौ नासमाविति। ” जातिभेदा वृद्धहारीतेनाप्युक्ता यथा(
“व्राह्मणाः क्षत्त्रिया वैश्याः शूद्रां वर्णा यथाक्रमम्। आद्यास्त्रयो द्विजाः प्रोक्तास्तेषां वै मन्त्रसत्क्रियाः। सवणभ्यः सवर्णासु जायन्ते हि सजातयः। तेषासङ्करयोगाश्च प्रतिलोमानुलोमजाः। विप्रान् मर्द्धाव-सक्तस्तु क्षत्त्रियायामजायत। वैश्यायान्तु तथाम्वष्ठोनिपादः शूद्रया तथा। राजन्याद्वैश्याशूद्र्योस्तु माहि-ष्योग्रौ तु तौ स्मृतौ। शूद्र्यां वैश्यात् तु करणस्त्रिधैवतेऽनुलोमजाः। विप्रायां क्षत्त्रियात् सूतः वैश्याद्वैदेहकस्तथा। चण्डालस्तु तथा शूद्रात्सर्वकर्मसुगर्हितः। मागधः क्षत्त्रियायां वै वैश्यात्, क्षत्ताशूद्रतः। शूद्रादयोगवं वैश्या जनयामास वै सुतम्। रथकारः करण्यान्तु माहिष्येण प्रजायते। असत्सन्ततयो ज्ञेयाः प्रतिलोमानुलोमजाः। प्रतिलोमासु वैजाता गर्हिताः सर्वकर्मसु”। उशन साऽप्युक्ता यथा(
“अतः परं प्रवक्ष्यामि जातिवृत्तिविधानकम्। अनुलोमविधानञ्च प्रतिलोमविधिं तथा। सान्तरालक-[Page3096-b+ 38] संयुक्तं सर्वं संक्षिप्य चोच्यते। नृपाद् व्राह्मणकन्यायांविवाहेषु समन्वयात्। जातः पुत्रोऽत्र निर्दिष्टः प्रति-लोमबिधिर्द्विजः। वेदानर्हस्तथा चैषां धर्माणामनु-बोधकः। सूताद्विप्र प्रसूतायां सूतो वेणुक उच्यते। नृपायामेव तस्यैव जातो यश्चर्मकारकः। ब्राह्मण्यांक्षत्त्रियाच्चौर्य्याद्रथकारः प्रजायते। वृत्तञ्च शूद्रवृत्तस्यद्विजत्वं प्रतिषिध्यते। यानानां ये च वाढारस्तेषाञ्चपरिचारकाः। शूद्रवृत्त्या तु जीवन्ति न क्षात्त्रं धर्म-माचरेत्। ब्राह्मण्यां वैश्यसंसर्गाज्जातोमागध उच्यते। वन्दित्वं व्राह्मणानाञ्च क्षत्त्रियाणां विशेषतः। प्रशंसा-वृतिको जीवेद्वैश्यप्रेष्यकरस्तथा। ब्राह्मण्यां शूद्रसंसर्गा-ज्जातश्चाण्डाल उच्यते। सीसमाभरणं तस्य कार्ष्णाय-समथापि वा। वधीं कण्ठे समाबध्य झल्लरीं कक्षतोऽपिवा। मल्लापकर्षणं ग्रामे पूर्व्वाह्णे पपिशुद्धिकम्। नापराह्णे प्रविष्टोऽपि बहिर्ग्रामाच्च नैरृते। पिण्डीभूताभवन्त्यत्र नो चेद् बध्या विशेषतः। चाण्डालाद्वैश्य-कन्यायां जातः श्वपच उच्यते। श्वमांसभक्षणं तेषांश्वान एव च तद्वलम्। नृपायां वैश्य{??}ंसर्गादायोगवइति स्मृतः। तन्तुवाया भवन्त्येव वसुकांस्योपजीविनः। शीलिकाः केचिदत्रैव जीवनं वस्त्रनिर्मिते। आयोगवेनविप्रायां जातास्ताम्रोपजीविनः। तस्यैव नृपकन्यायांजातः सूनिक उच्यते। सूनिकस्य नृपायान्तु जाताउद्बन्धकाः स्मृताः। निर्णेजयेयुर्वस्त्राणि अस्पृश्याश्चभवन्त्यतः। नृपायां वैश्यतश्चौर्य्यात् पुलिन्दः परिकी-र्त्तितः। पशुवृत्तिर्भवेत्तस्य हन्युस्तान् दुष्टसत्वकान्। नृपायां शूद्रसंसर्गाज्जातः पुक्कश उच्यते। सुरावृत्तिंसमारुह्य मधुविक्रयकर्मणा। कृतकानां सुराणाञ्च विक्रेतापाचको भवेत्। पुक्कशाद्वैश्यकन्यायां जाती रजकउच्यते। नृपायां शूद्रतश्चौर्य्याज्जातोरञ्जक उच्यते। वैश्यायां रञ्जकाज्जातो नर्त्तको गायको भवेत्। वैश्यायांशूद्रसंसर्गाज्जाती वैदेहकः स्मृतः। अजानां पालनंकुर्य्यान्महिषीणां गवामपि। दधिक्षीराज्यतक्राणांविक्रयाज्जीवनं भवेत्। वैदेहकात्तु विप्रायां जाताश्च-र्म्मोपजीविनः। नृपायामेव तस्यैव कुचिकः पाचकःस्मृतः। वैश्यायां शूद्रतश्चौर्य्याज्जातश्चक्री स उच्यते। तैलपिष्टकजीवी तु लवणं भाबयन् पुनः। विधिनाब्राह्मणः प्राप्य नृपायान्तु समन्त्रकम। जातः सुवर्णइत्युक्तः सानुलोमद्विजः स्मृतः। अथ वर्णक्रियां कुर्व-[Page3097-a+ 38] न्नित्यनैमित्तिकीं क्रियाम। अश्र रथं हस्तिनं वाबाहयेद्वा नृपाज्ञया। सैनापत्यञ्च भैषज्यं कुर्य्याज्जीवेत्तुवृत्तिषु। नृपायां विप्रतश्चौर्य्यात् संजाती यो भिषक्स्मृतः। अभिषिक्तनृपस्याज्ञां परिपाल्ये स वैद्यकम्। आयुर्वेदमथाष्टाङ्गं तन्त्रोक्तं धर्म्ममाचरेत्। ज्योतिषंगणितं वापि कायिकीं वृत्तिमाचरेत्। नृपाया विधिनाविप्राज्जातो नृप इति स्मृतः। नृपायां नृपसंसर्गात्प्रमादाद गूढजातकः। सोऽपि क्षत्रिय एव स्यादभिषेकंच वर्जितः। अभिषेकं विना प्राप्तो गोज इत्यभिधानकम्। सर्वन्तु राजवत्तस्य शस्यते पदवन्दनम्। पुनर्भूकरणेराज्ञां नृपकालीन एव च। वैश्यायां विधिना विप्रा-ज्जातो ह्यम्बष्ट उच्यते। कृष्याजीवो भवेत्तस्य तथैवाग्नेयवृत्तिकः। ध्वजिनी जीविका वापि अम्बष्ठाः शस्त्रजी-विनः। वैश्यायां विप्रतश्चौर्य्यात् कुम्मकारः स उच्यते। कुलालवृत्त्या जीवेत्तु नापिता वा भवन्त्यतः। सूतकेप्रेतके वापि दीक्षाकालेऽथ वापनम्। नाभेरूर्द्धन्तु वपनंतस्मान्नापित उच्यते। कायस्य इति जीवेत्तु विचरेच्चइतस्ततः। काकाल्लौल्यं यमात् क्रौर्य्यं स्थपतेरथकृन्तनम्। आद्याक्षराणि संगृह्य कायस्थ इति की-र्त्तितः। शूद्रायां विधिना विप्राज्जातः पारशवोमतः। भद्रकादीन् समाश्रित्य जीवेयुः पूजकाः स्मृताः। शिवा-द्यागमविद्याद्यैस्तथामण्डलवृत्तिभिः। तस्यां वै चौरिकावृत्त्या निषादो जात उच्यते। वने दुष्टमृगान् हत्वाजीवनं मांसविक्रयम्। नृपाज्जातोऽथ वैश्यायां गृह्यायविधिना सुतः। वैश्यवृत्त्या तु जीवेत्तु क्षात्रधर्मं नचाचरेत्। तस्यां तस्यैव चौरेण मणिकारः प्रजायते। मणीनां रचनां कुर्य्यान्मुक्तानां वेधनक्रियाम्। प्रवा-लानाञ्च सूत्रित्वं शाखानां बलयक्रियाम्। सूद्रायांविप्रसंसर्गाज्जात उग्र इति स्मृतः। नृपस्य दण्डधारःस्याद्दण्डं दण्ड्येषु सञ्चरेत्। तस्येव चौरसंवृत्त्या जातःशुण्डिक उच्यते। जातिदुष्टान् समारोप्य शण्डाकर्मणियोजयेत्। शूद्रायां वैश्य संसर्गाद्बिधिना सूचकः स्मृतः। सूचकाद्विप्रकन्यायां जन्तस्तक्षक उच्यते। शिल्पकर्म्माणिचान्यानि प्रासादलक्षणं तथा। नृपायामेव तस्यैवजातो यो मत्स्यबन्धकः। शूद्रायां वैश्यतश्चौर्य्यात् कट-कार इति स्मृतः। यशिष्ठशापात्त्रेतायां केचित् पार-शवास्तथा। वैखानसेन केचित्तु केचिद्भागवतेन च। नेदशास्त्राबलम्बास्ते भविष्यन्ति कलौ युगे। कटकारास्ततः[Page3097-b+ 38] पश्चान्नारायणगणाः स्मृताः। शाखा वैखानसेनोक्तातन्त्रमार्गबिधिक्रियाः। निषेकाद्याः श्मशानान्ताः क्रियाःपूजाङ्गसूचिकाः। पञ्चरात्रेण वा प्राप्तं प्रोक्तं धर्मंसमाचरेत्। शूद्रादेव तु शूद्रायां जातः शूद्र इति स्मृतः। द्विजशुश्रूषणपरः पाकयज्ञपरान्वितः। सच्छूद्रं नंविजानीयादसच्छूद्रस्ततोऽन्यथा। चौर्य्यात् काकवचोज्ञेयश्चाश्वानां तृणवाहकः। एतत् संक्षेपतः प्रोक्तंजातिवृत्तिविभागशः। जात्यन्तराणि दृश्यन्ते संकल्पा-दित एव तु।
“पराशरोक्तादासादिजातयस्तत्तच्छब्दे दृश्याःअन्या अपि जातयो ब्रह्मवै॰ व्र॰ ख॰

१० अ॰ दर्शिता यथा(
“बभूवुर्ब्रह्मणो वक्त्रादन्याब्राह्मणजातयः। ब्रह्मणोबाहुदेशाच्च जाताः क्षत्रियजातयः। ऊरुदेशाच्च वैश्याश्चपादतः शूद्रजातयः। तासां सङ्करजातेन बभूबुर्वर्णस-ङ्कराः। गोपनापितलोलाश्च तथा मोदकमूलबौ। ताम्बूलिपर्णकारौ च तथा बणिजजातयः। इत्येव-माद्या विप्रेन्द्र! सच्छूद्राः परिकीर्त्तिताः। शूद्रावि-शोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः। विश्वकर्म्मा चशूद्रायां वीर्य्याधानं चकार सः। ततो बभूवुः पुत्राश्चनवै ते शिल्पकारिणः। मालाकारः कर्मकारः शङ्खकारःकुविन्दकः। कुम्भकारः कंसकारः षडते शिल्पिनां वराः। सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च। पतितास्ते ब्रह्मशा-पादयाज्या वर्णसङ्कराः। स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्म-णानां द्विजोत्तम!। वभूव सद्यः पतितो ब्रह्मशापेन कर्मणा। सूत्रधारो द्विजातीनां शापेन पतितो भुवि। शीघ्रञ्चयज्ञकाष्ठञ्च न ददौ तेन हेतुना। व्यतिक्रमेण चित्राणांसद्यश्चित्रकरस्तथा। पतितो ब्रह्मशापेन ब्राह्मणानाञ्चकोपतः। कश्चिद् बणिक्विशेषश्च संसर्गात् स्वर्णकारिणः। स्वर्णचौर्य्यादिदोषेण पतितो ब्रह्मशापतः। कुलटायाञ्चशूद्रायां चित्रकारस्य वीर्य्यतः। बभूवाट्टालिकाकारःपतितो जारदोषतः। अट्टालिकाकारवीर्य्यात् कुम्भकारस्ययोषिति। बभूव कोटिकः सद्यः पतितो गृहकारकः। कुम्भकारस्य वीर्य्येण सद्यः कोटिकयोषिति। बभूवतैलकारश्च कुटिलः पतितो भुवि। पुद्यः क्षत्रियवीर्य्येणराजपुत्रस्य योषिति। बभूव तीवरश्चैव पतितो जार-दोषतः। तीवरस्य तु वीर्य्येण तैलकारस्य योषिति। बभूय पतितो दस्युर्लेटश्च परिकीर्त्तितः। लेटस्तीवर-कन्यायां जनयामास षण्नरान्। झल्लं मल्लं माठरञ्चभडं कोलञ्च कन्दरम्। ब्राह्मण्यां शूद्रवीर्य्येण पतितो[Page3098-a+ 38] जारदोषतः। सद्यो बभूव चाण्डालः सर्वस्मादधमो-ऽशुचिः। तीवरेणैव चाण्डाल्यां चर्मकारो बभूव ह। चर्मकार्य्याञ्च चाण्डालात् मांसच्छदी बभब ह। मांस-च्छेद्यां तीवरेण कों चश्च परिकीर्त्तितः। कों चस्त्रियान्तुकैवर्त्तात् काण्डारः परिकीर्त्तितः। सद्यश्चाण्डालकन्यायांलेटवीर्य्येण शौनक!। बभूवतुस्तु द्वौ पुत्रौ हड्डिक-शौण्डिकौ तथा। क्रमेण हड्डिकन्यायां सद्यश्चाण्डाल-वीर्यतः। बभूवुः पञ्च पुत्राश्च भ्रष्टा वनचराश्च ते। लेटात्तीवरकन्यायां गङ्गातीरे च शौनक!। बभूव सद्यो-यो वालो गङ्गापुत्रः प्रकीर्त्तितः। गङ्गापुत्रस्य कन्यायांवीर्य्येण वेशधारिणः। वभूव वेशधारी च पुत्रो युङ्गीप्रकीर्त्तितः। वैश्यात्तीवरकन्यायां सद्यः शुण्डी वभूव ह। शुण्डीयोषिति वैश्यात्तु पौण्ड्रकश्च प्रकीर्त्तितः। क्षत्रात्करणकन्यायां राजपुत्रो बभूव ह। राजपुत्र्यान्तु कर-णादागरीति प्रकीर्त्तितः। क्षत्रवीर्य्येण वैश्यायां कैवर्त्तःपरिकीर्त्तितः। कलौ तीवरसंसर्गाद्धीवरश्च प्रकीर्त्तितः। तीवर्य्यां थीवरात् पुत्रो बभूव रजकः स्मृतः। रजक्यांतीवराच्चापि कोदाली च वभूव ह। नापिताद्गोपकन्यायांसर्वस्वी तस्य योषिति। क्षत्राद्बभूव व्याधश्च बलवान्मृगहिंसकः। तीवरात् शुण्डिकन्यायां बभुवुः सप्त-पुत्रकाः। ते कलौ हड्डिसंसर्गाद्बभूवुर्दस्यवः सदा। ब्राह्मण्यामृषिवीर्य्येण ऋतीः प्रथमवासरे। कुत्सितश्चो-दर जातः कूदरस्तेन कीर्त्तितः। तदशौचं विप्रतुल्यंपतितोह्यृतुदोषतः। सद्यः कोटिकसंसर्गादधमो जगती-तले। क्षत्रवीर्य्येण वैश्यायामृतोः प्रथमवासरे। जातःपुत्रो महादस्युर्बलवांश्च धनुर्धरः। चकार वागतीतञ्चक्षत्रियो वारितस्तया। तेन जात्या स पुत्रश्च वागतीतःप्रकीर्त्तितः। क्षत्रवीर्य्येण शूद्रायामृतुदोषेण पापतः। बलवत्यो दुरन्माश्च बभूवुर्म्लेच्छजातयः। अबिद्धककर्णाःक्रूरा निर्भया रणदुजयाः। शीचाचारविहीनाश्चदुर्द्धर्षा धर्मवर्ज्जिताः। म्लेच्छात् कुविन्दकन्यायांशराकः परिकीर्त्तितः। वर्णसङ्करदोषेण बह्व्यश्च शठ-जातयः। तासां नामानि संख्याश्च को वा वक्तुं द्विज!क्षमः। वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति। वैद्यवीर्य्येण शूद्रायां बभूवुबैहवो जनाः। ते च ग्राम्य-गुणज्ञाश्च मन्त्रौषधिपरायणाः। तेभ्यश्च जाताः शूद्रायांते व्यालग्राहिणो भुवि”। षोडशपदार्थमध्ये जातिरूपपदीर्थभेदश्च गौ॰ सू॰ उक्तो यथा[Page3098-b+ 38]
“साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः” सू॰। विवृतञ्चैतत्विश्वनाथेन।
“क्रमप्राप्तां जातिं लक्षयति। साधर्म्यबैध-र्म्याभ्यामिति सावधारणोनिर्देशस्तेन व्याप्तिनिरपेक्षाभ्यांसाधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं दूषणाभिधानं जातिरित्यर्थःयद्यप्युभाभ्यां प्रत्यवस्थानस्य प्रत्येकप्रत्यवस्थानेऽव्याप्तिरेक-प्रत्यवस्थानस्य लक्षणत्वे परप्रत्यवस्थानेऽव्याप्तिर्नवान्यत-रप्रत्यवस्थानं नियतं सर्वत्र जातावभावात्तथापि व्याप्ति-निरपेक्षतया दूषणाभिधानमित्येव वाच्यं तेन च सन्द-र्भेण दूषणासमर्थत्वं स्वव्याघातकत्वं वा दर्शितं तथा चछलादिभिन्नदूषणासमथमुत्तरं स्वव्याघातकमुत्तरं वाजातिरिति सूचितं साधर्म्यसमादिचतुविंशत्यन्यान्यत्वंतदर्थैत्यपि वदन्ति”। तद्भेदाश्चतुर्विंशतिस्ते च गौतमेन दर्शिता यथा(
“साधम्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्य-प्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्यर्थापत्त्यबि-शेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्य्यसमाः” सू॰
“तत्र च विशेषलक्षणार्थं जातिं विभजते” सू॰। अत्र च साधर्म्यादीनां कार्य्यान्तानां द्वन्द्वे तैः समा इत्य-र्थात् साधर्म्यसमादयश्चतुर्विंशतिर्जातय इत्यर्थः अत्र चजातेर्विशेष्यत्वात् समाशब्दं मन्यन्ते भाष्यवार्त्तिकादौसमाशब्दः अग्रिमसूत्रेषु तु समशब्दो निर्विवाद एवतत्र जातिशब्दस्य स्त्रीलिङ्गतया यद्यपि नान्वयस्तथापिप्रतिषेधो विशेष्य इति भाष्यादयः। वयन्तु तद्विकल्पादितिसूत्रस्थविकल्पस्यैव विशेष्यत्वं विविधः कल्पः प्रकारोविकल्पः तथा चैते साधर्म्यसमादयोजातिविकल्पा एव-मग्रिमसूत्रेष्वपि। इत्थञ्च जातेर्विशेष्यत्वे साधर्म्यसमेत्य-पीति व्रूमः समीकरणार्थं प्रयोगः समैति वार्त्तिकंयद्यपि नैतावता समीकरणं तथापि समीकरणोद्देश्यक-त्वमस्त्र्येव अथ वा साधर्म्यमेव ममं यत्र स साधर्म्यसमःएकत्र व्याप्तेराधिक्येऽपि साधर्म्यं सममेवेति भावः” वृत्तिः
“साधर्म्य्यवैधर्म्य्याभ्यामुपसंहारे तद्धर्म्मविपर्य्ययोपपत्तेःसाधम्य्यवैधर्म्य्यसमौ”

१ ।

२ सू॰।
“साधर्म्यवैधर्म्यसमौ लक्षयति। उपसंहारे साध्यस्यो-पसंहरणे वादिना कृते तद्धर्म्मस्य साध्यरूपधर्म्मस्य योविपर्य्ययो व्यतिरेकस्तस्य साधर्म्यवैधर्म्याभ्यां केवलाभ्यांव्याप्त्यनपेक्षाभ्यां यदुपपादनं ततो हेतोः साधर्म्यवै-धर्भ्यसमावुच्येते तदयमर्थः वादिना अन्वयेन व्यतिरेकेणवा साध्ये साधिते प्रतिवादिनः साधर्म्यमात्रप्रवृत्तहेतु न[Page3099-a+ 38] तदभावापादनं साधर्म्यसमा

१ वैधर्न्म्यमात्रप्रवृत्तहेतुनातदभावापादनं वैधर्म्यसमा

२ । तत्र साधर्म्यसमा यथाशब्दोऽनित्यः कृतकत्वाद्घटवत् व्यतिरेकेण वा व्योम-वदित्युपसंहृते नैतदेवं यद्यनित्यघटसाधर्म्यान्नित्याकाश-वेधर्म्याद्वाऽनित्यः स्यान्नित्याकाशसाधर्म्यादमूर्त्तत्वान्नित्यःस्याद्विशेषो बा वक्तव्यः वैधर्म्यसमा यथा शब्दोऽनित्यःकृतकत्वाद्घटवत् आकाशवद्वेति स्थापनायाम् अनित्यघट-वैधर्म्यादमूर्त्तत्वान्नित्यः स्यादविशेषो वा वक्तव्य इति अत्रसाधर्म्यत्वमात्रं वैधर्म्यत्वमात्रं वा गमकतौपयिकमित्य-भिमानात् सत्प्रतिपक्षदेशनाभासे चेमे अनैकान्तिकदेश-नाभासे इति वार्त्तिके त्वनैकान्तिकपदं योगात्सत्प्रति-पक्षपरं एकान्ततः साध्यसाधकत्वाभावात्” वृत्तिः।
“गोत्वाद्गोसिद्धिवत् तत्सिद्धिः” सू॰।
“अनयोरसदुत्तरत्वे वीजमाह। गोत्वात् गोसिद्धिर्गोव्य-वहार इति सम्प्रदायः वयन्तु गोत्वाद्गवेतरासमवेतत्वसति गोसमवेतात्सास्नादितः, एतेन व्याप्तिपक्षधर्म्मत्वेदर्शिते गोर्गोत्वस्य तादात्म्येन गोरेव वा सिद्धिर्यथातथैव कृतकत्वादपि व्याप्तिपक्षधर्म्मतासहितादनित्यत्व-सिद्धिर्नतु व्याप्तिपक्षधर्मतारहितात् साधर्म्यमात्रात् तथासति अदूषकसाधर्म्यात्प्रमेयत्वादितस्त्वद्वचनमप्यदूषकंस्यादित्ययं विशेषः” वृत्तिः।
“साध्यदृष्टान्तयोर्धर्म्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षव-र्ण्यावर्ण्यविकल्पसाध्यसमाः”

३ ।

४ ।

५ ।

६ ।

७ ।

८ सू॰
“क्रमप्राप्तं जातिषटकं निरूपयति। उत्कर्षेण समउत्कर्षसम

३ एवमपकर्षसमोऽपि

४ वर्ण्यावर्ण्यसाध्येति भाव-प्रधानो निर्देशः वर्ण्यत्वादिना समो वर्ण्यसमादिः

५ ।

६७ ।

८ । अविद्यमानधर्म्मारोप उत्कर्षः विद्यमानधर्म्मापचयो-ऽपकर्षः वर्ण्यत्वं वर्णनीयत्वं तच्च सन्दिग्धसाध्यकत्वादितदभावोऽवर्ण्यत्वं विकल्पोद्वैविध्यं साध्यत्वं पञ्चावयव-साधनीयत्वं साध्यदृष्टान्तयोधर्मविकल्पादिति पञ्चाना-मुत्थानवीजम् उभयसाध्यत्वादिति षष्ठस्य। तदयमर्थःसाध्यतेऽत्रेति साध्यं पक्षः तथा च साध्यदृष्टान्तयोरि-त्यस्य पक्षदृष्टान्तयोरन्यतरस्मिन्नित्यर्थः धर्मविकल्पोधर्म्मस्य वैचित्र्यं तच्च क्वचित्सत्त्वं क्वचिदसत्त्वं प्रकृतेसाध्यसाधनान्यतररूपस्य धर्मस्य विकल्पात्सत्त्वाद्योऽ-विद्यमानधर्म्मारोपः स उत्कर्षसमः व्याप्तिमपुरस्कृत्यपक्षदृष्टान्तान्यतरस्मिन् साध्यसाधनान्यतरेणाविद्यमान-धर्मप्रसञ्जनं उत्कर्षसमः

३ इति फलितार्थः। यथा शब्दो-[Page3099-b+ 38] ऽनित्यः कृतकत्वादिति स्थापनायाम् अनित्यत्वं कृतकत्वंघटे रूपसहचरितमतः शब्दोऽपि रूपवान् स्यात् तथाच विवक्षितबिपरीतसाधनाद्विशेषविरुद्ध्वो हेतुस्तद्देशना-माला चेयम्। एवं श्रावणशब्दसाधर्म्यात् कृतकत्वाद्घटोऽपिश्रावणः स्यादविशेषात्। वस्तुतस्तु घटे श्रावणत्वापादनेऽ-र्थान्तरमत उक्तलक्षणे दृष्टान्तपदं साध्यपदञ्च न देयम्। अपकर्षसमायान्तु धर्मविकल्पः धर्मस्य सहचरितधर्मस्यविकल्पोऽसत्त्वं ततः अपकर्षः साध्यसाधनान्यतरस्याभाव-प्रसञ्जनं तथा च पक्षदृष्टान्तान्यतरस्मिन् व्याप्तिमपुरस्कत्यसहचरितधर्म्माभावेन हेतुसाध्यान्यतराभावप्रसञ्जनमप-कर्षसमः

४ यथा शब्दोऽनित्यः कृतकत्वादित्यत्र यद्य-नित्यसहचरितघटधर्म्मात् कृतकत्वादनित्यः शब्दस्तदाकृतकत्वानित्यत्वसहचरितघटधर्मरूपवत्त्वव्यावृत्त्या शब्देकृतकत्वस्यानित्यत्वस्य च व्यावृत्तिः स्यात्। आद्येऽसिद्धिदे-शना द्वितीये बाधदेशना, एवं शब्दे कृतकत्वसहचरित-श्रावणत्वस्य संयोगादावनित्यत्वकृतकत्वसहचरितगुणत्वस्यच व्यावृत्त्या घटेऽनित्यत्वं कृतकत्वञ्च व्यावर्त्तेतेति दृष्टान्तेसाध्यसाधनवैकल्यदेशनाभासाऽपीयम्। यत्तु वार्त्तिकेशब्दोनीरूप इति घटोऽपि नीरुपः स्यादित्यपकर्ष इति॰तदसत् घटे नीरूपत्वापादनस्यार्थान्तरत्वात् आचार्य्य-स्वरसोऽप्येवं यत्तु वैधर्म्यसमाया अत्रैवान्तर्भावः स्यादितितन्न उपधेयसङ्करेऽप्युपाधेरसङ्करात् वर्ण्यसमायान्तुसाध्यः सिद्ध्यभाववान् सन्दिग्धसाध्यकादिर्व्वा तस्य धर्मःसन्दिग्धसाध्यकादिवृत्तिहेतुस्तस्य विकल्पात्सत्त्वात् दृष्टान्तेवर्ण्यत्वस्य सन्दिग्धसाध्यकत्वस्यापादनं वर्ण्यसमः

५ । तद-यमर्थः पक्षवृत्तिहेतुर्हि गमकः पक्षश्च सन्दिग्धसाध्यक-स्तथा च सन्दिग्धसाध्यकवृत्तिर्हेतुस्त्वया दृष्टान्तेऽपि स्वी-कार्य्यः तथा च दृष्टान्तस्यापि सन्दिग्धसाध्यकत्वात् सप-क्षवृत्तित्वानिश्चयादसाधारणो हेतुस्तद्देशनाभासा चेयम्। हेतुः सन्दिग्धसाध्यकवृत्तिर्यदि न दृष्टान्ते तदा गमक-हेत्वभावात् साधनविकल्पो दृष्टान्तः स्यादिति भावः। अवर्ण्यसमायान्तु दृष्टान्ते सिद्धसाध्यके यो धर्म्मो हेतु-स्तस्य सत्त्वात् पक्षे शब्दादावसन्दिग्धसाध्यकत्वापादन-मवर्ण्यसमा

६ दृष्टान्ते हेतोर्यादृशत्वं तादृशो हेतुरेवगमक इत्यभिमामेन एवमापादनं दृष्टान्ते यो हेतुःसिद्धसाध्यकवृत्तिः स चेन्न पक्षे तदा गमकहेत्वभावात्स्वरूपासिद्धिः स्यार्दतस्तादृशो हेतुरवश्यं पक्षत्वाभिमतेस्वीकार्य्यः तथा च सन्दिग्धसाध्यकत्वलक्षणपक्षत्वाभावा-[Page3100-a+ 38] दाश्रयासिद्धिः असिद्धिदेशनाभासा चेयम्। विकल्पसमा-यान्तु पक्षे दृष्टान्ते च योधर्म्मस्तस्य विकल्पोविरुद्धःकल्पो व्यभिचारित्वम उपलक्षणं चैतत् अन्यवृत्तिधर्म-स्यापि बोध्यं व्यभिचारोऽपि हेतोर्धर्म्मान्तरं प्रतिधर्म्मान्तरस्य साध्यं प्रति धर्म्मान्तरस्य धर्म्मान्तरं प्रति वातथा च कस्यचिद्धर्मस्य क्वचिद्व्यभिचारदर्शनेन धर्मत्वाबि-शेषात् प्रकृतहेतोः प्रकृतसाध्यं प्रति व्यभिचारापादनंविकल्पसमा

७ यथा शब्दोऽनित्यः कृतकत्वादित्यत्र कृतक-त्वस्य गुरुत्वव्यभिचारदर्शनाद्गुरुत्वस्यानित्यत्वव्यभिचार-दर्शनादनित्यत्वस्य मूर्त्तत्वव्यभिचारदर्शनाद्धर्मत्वाविशेषात्कृतकत्वमप्यनित्यत्वं व्यभिचरेदित्यनैकान्तिकदेशनाभासाचेयम्। पक्षदृष्टान्तादेः प्रकृतसाध्यतुल्यतापादनं स साध्य-समा

८ तत्रायमाशयः एवत्प्रयोगसाध्यस्यैवानुमितिविषयत्वंतथा च पक्षादेरनुमितिविषयत्वात् साध्यवदेतत्प्रयोगसा-ध्यत्वम् अतः साध्यसमा। तथा हि पक्षादेः पूर्वं सिद्धत्वेएतत् प्रयोगसाध्यत्वाभावान्नानुमितिविषयत्वं पूर्वमसिद्धत्वेपक्षादेरज्ञानादाश्रयासिद्ध्यादयस्तद्देशनाभासा चेयम्। सूत्रार्थस्तु उभयसाध्यत्वात् उभयं पक्षदृष्टान्तौ तद्धर्म्मोहेत्व दिः तत्साध्यत्वं तदधीनानुमितिविषयत्वं साध्यस्येवपक्षादेरपीति तुल्यतापादनमिति लिङ्गोपहितभानमतेलिङ्गस्याप्यनुमितिविषयत्वात् साध्यसमत्वं हेतेश्चि सा-ध्यत्वे हेतुमान्दृष्टान्तीऽपि साध्य इत्याशयः” वृत्तिः।
“किञ्चित्साधर्म्म्यादुपसंहारसिद्धेर्वैधर्म्म्यादप्रतिषेधः” वृ॰। (
“एतासामसदुत्तरत्वे वीजमाह किञ्चित्साधर्म्यात्साधर्म्यविशेषात् व्याप्तिसहितात् उपसंहारसिद्धेः साध्य-सिद्धेः वैधर्म्यादेतद्विपरीतात् व्याप्तिनिरपेक्षात् साधर्म्य-मात्रात् भवता कृतः प्रतिषेधो न सम्भवतीत्यर्थः। अन्यथाप्रमेयत्वरूपासाधकसाधर्म्यात् तद्दूषणमप्यसम्यक् स्यादितिभावः। तथा चायं क्रमः अनित्यत्वव्याप्यात् कृतकत्वात्शब्देऽनित्यत्वमुपसंहरामो नतु कृतकत्वं रूपस्यापि व्याप्यंयेन ततो रूपमप्यापादनीयं शब्दे, एवं अनित्यत्वं नरूपव्याप्यं येन रूपाभावादनित्यत्वाभावः शब्दे स्यात् एवंवर्ण्यसमेऽपि किञ्चित्साधर्म्यात् व्याप्यतावच्छेदकाव-च्छिन्नाद्धेतोः साध्यसिद्धिः तादृशहेतुमत्त्वञ्च दृष्टान्तताप्रयोजकं न तु पक्षे यावद्विशेषणावच्छिन्नो हेतुस्तावदव-च्छिन्नहेतुमत्त्वम् अन्यथा त्वयाऽपि दूषणीयो दृष्टान्तीकर्त्तव्यः सोऽपि न स्यात् एवमवर्ण्यसमेऽपि व्याप्यताव-{??}दकावच्छिन्नस्य वृष्टान्तदृष्टस्य पक्षे सत्त्वात्साध्यसिद्धिर्न[Page3100-b+ 38] तु दृष्टान्तवृत्तियाबद्धर्म्मावच्छिन्नस्य पक्षे सत्त्वम्। एवंविकल्पसमेऽपि प्रकृतसाध्यव्याप्यात् प्रकृतहेतोः साध्य-सिद्धिस्तद्वैधर्म्यात् यत् किञ्चिद्व्यभिचारात् कृतः प्रतिषेधोन सम्भवति नहि यत्किञ्चिद्व्यभिचारादेव प्रकृतहेतोःप्रकृतसाध्यासाधकत्वमतिप्रसङ्गात्। एवं साध्यसमेऽपिव्याप्याद्धेतोः सिद्ध पक्षे साध्यसिद्धिर्न तु पक्षदृष्टान्ता-दयोऽप्यनेन साध्यन्ते तथा सति क्वचिदपि साध्यसिद्धिर्नस्यात् त्वदीयदूषणमपि विलीयेत” वृत्तिः।
“साध्यातिदेशाच्च दृष्टान्तोपपत्तेः” सू॰।
“वर्ण्याबर्ण्यसाध्यसमासु समाध्यन्तरमप्याह दृष्टान्तो-पपत्तिर्दृष्टान्ततोपपत्तिः साध्यातिदेशात दृष्टान्ते हिसाध्यमतिदिश्यते तावतैव दृष्टान्तत्वमुपपद्यते नत्वशेषोधर्मः पक्षदृष्टान्तयोरभेदापत्तेः पक्षादेरपि साध्यसमत्व-मतेन प्रत्युक्तं दृष्टोऽन्तो दृष्टान्तः पक्षः तस्माद्वह्निमा-नित्यतः पक्षोत्कीर्त्तनात्तथा च साध्यस्यातिदेशात् साध-नात् पक्ष इत्युच्यते न तु पक्षोऽवि साध्यतेऽतिप्रसङ्गा-दिति भावः” वृत्तिः।
“प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या अविशिष्टत्वाद-प्राप्त्या असाधकत्वाच्च प्राप्त्यप्राप्तिसमौ”

९ ।

१० सू॰।
“क्रमप्राप्तौ प्राप्त्यप्राप्तिसमौ लक्षयति। हेतोरितिसाधकत्वमिति शेषः प्राप्तिपक्षे दषमाह प्राप्त्याअवि-शिष्टत्वादिति द्वयोरपि प्राप्तत्वाविशेष त् किङ्कस्य साधकंअप्राप्तिपक्षे दोषमाह अप्राप्त्या इति अप्राप्तस्य साधकत्वेऽतिप्रसुङ्गात् साधकत्वञ्चात्र कारकज्ञापकसाधारणम्एवञ्च कारकज्ञापकलक्षणं साधनं कार्य्यज्ञाप्यलक्षणेनसाध्येन सम्बद्धं सत्साधकं चेत्तदा सत्त्वाविशेषान्न कार्य्य-कारणभावः सत्सम्बन्धस्य प्रागेव ज्ञातत्वान्न ज्ञाप्य-ज्ञापकभावः प्राप्तयोर्न जन्यजनकभावः प्राप्तत्वेन लवणो-दकयोरिवाभेदादित्याशय इत्यन्ये। तथा च प्राप्त्या-अविशषादनिष्टापादनेन प्रत्यवस्थानं प्राप्तिसमा

९ । यदिचाप्राप्तं लिङ्गं साध्यबुद्धिं जनयति साध्याभावबुद्धिमेवकिन्तेन न जनयेत् अप्राप्तत्वाविशेषात् तथा चाप्राप्त्यासाधकत्वादनिष्टापादनमप्राप्तिसमा

१० प्रातकूलतकैदेशना-भासे चेमे” वृत्तिः।
“घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः” सू॰।
“अनयोरसदुत्तरत्वे वीजमाह। दण्डादितो घटादि-निष्पत्तेर्दर्शनात् सर्वलोकप्रत्यक्षसिद्धत्वादाभचारात् श्ये-नादितः शत्रुपीडने च व्यभिचारान्न त्वदुक्तः प्रतिषेधः[Page3101-a+ 38] सम्भवति न हि कारणं दण्डादि प्रागव घटादिनासम्बद्धमपि तु मृदादिना, श्येनादिरप्पुद्देश्यतया पोडांजनयति अन्यथा लोफयेदसिद्धकार्य्यकारणभावोच्छेदेत्वदुक्तो हेतुरप्यसाधकः स्यादिति” वृत्तिः।
“दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेनप्रसङ्गप्रतिदृष्टान्तसमौ”

११ ।

१२ सू॰।
“क्रमप्राप्ते प्रसङ्गप्रतिदृष्टान्तसमे जाती लक्षयति। दृष्टान्तस्य कारणं प्रमाणं तदनपदेशोऽनभिधानम् अभि-धानं चानतिपयोजनकं तथा च दृष्टान्तस्य साध्यकत्त्वेप्रमाणाभावात् प्रत्यवस्थानमर्थः यद्यपोद सदुत्तरमेवतथापि दृष्टान्तं प्रभाणं वाच्यं तत्रापि प्रमाणान्तरमित्य-नवस्थायाः प्रत्यवस्थाने तात्पर्य्यं तदुक्तमाचार्य्यैः
“नव-स्थाभासप्रसङ्गः प्रसङ्गसमः” इति एतन्मते हेतोर्हेत्वन्त-रमित्यनवस्थाऽपि प्रसङ्गसमा एव। पूर्वमते तु हेत्वनव-स्थादिकं वक्ष्यमाणाकृतिगणेष्वन्तर्भूतमिति विशेषः। अन-वस्थादेशनाभासा चेयम्। प्रतिदृष्टान्तसमः प्रत्ये तव्यःप्रतिदृष्टान्तेन प्रत्यवस्थानात् प्रतिदृष्टान्तसमः

१२
“एतच्चसावधारणं तेन प्रतिदृष्टान्तमात्रबलेनं प्रत्यघम्थानमर्थः-तेन साधर्म्यसमाव्यदासः यदि घटदृष्टान्तबसनानित्यःशब्दः तदाकाशदृष्टान्तबलेन निय एव स्यात् नित्यः किं नस्यादिति बाधः पतिरोधापादनीयः हेतुरनङ्गंदृष्टान्तमात्रबलादव साध्यसिद्धिरित्यभिमानः बाधप्रति-रोधान्यतरदेशनाभासा चेयम्” वृत्तिः।
“प्रदीपादानप्रसङ्गनवृत्तिवत्तद्विनिवृत्तिः” सू॰।
“प्रसङ्गसमे प्रश्रुत्तरमाह। दृष्टान्तो हि निदर्शनस्थान-त्वेन साध्यनिश्चयार्थमपेक्ष्यते न तु दृष्टान्मदृष्टान्ताद्यनव-स्थितपरम्परा लोकसिद्धा युक्तिसिद्धा वा। अन्यथा घटा-दिप्रत्यक्षाय प्रदीप इव प्रादीपप्रत्ययार्थमनवस्थितप्रदीप-परम्परा प्रसज्यत त्वदीयसाधनमपि व्याहन्येत” वृत्तिः।
“प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः” सू॰।
“प्रतिदृष्टान्तसमे प्रत्युत्तरमाह। अत्रायमुत्तरक्रमःप्रतिदृष्टान्तस्त्वया किमर्थमुपादीयते मदीयहेतोर्बाधार्थंसतप्रतिपक्षितत्वार्थं वा नाद्यः यतः प्रतिदृष्टान्तस्य हेतुत्वेस्वार्थसाधकत्व मदीयो दृष्टान्तो नाहेतुः नासाधकस्तथाचातुल्यवलत्वान्न बाधः न या द्वितीयोऽपि यतः प्रति-दृष्टान्तस्य स्वार्थसाधकत्वे उच्यमाने नाहेतुर्दृष्टान्तःमदीयो दृष्टान्तस्तु सहेतुकत्वादधिकमलः वस्तुतो हेतुंविना ष्ठष्टान्तमात्रेण न सस्धतिपक्षसम्भावना तदभाव-[Page3101-b+ 38] व्याप्यबत्ताज्ञानामावात् हेतूपादाने तु सदुत्तरत्वमेवेतिभावः इति” वृत्तिः।
“प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः”

१३ सू॰।
“क्रमप्राप्तमनुत्पत्तिसमं लक्षयति। प्रागुत्पत्तेरिति साध-माङ्गस्येति शेषः कारणाभावात् हेत्वभावात् तथा चसाधनाङ्गपक्षहेतुदृष्टान्तानामुत्पत्तेः प्राक हेत्वभाव इत्य-नुत्पत्त्या पत्यवस्थानमनुत्पत्तिसमः

१३ यथा थटोरूपवान्नन्यात् पटवदित्युक्ते वटोत्पत्तर्गन्धीत्पत्तेश्च पूर्वं हेत्व-भावादसिद्धिः पटे च गन्धोत्पत्तेः पूर्वं हत्वभावेनदृष्टान्तासिद्धिः एवं आद्यक्षणे रूपाभावाद्वाधश्च अनुत्पत्त्या प्रत्यवस्थानस्य तत्रापि सत्त्वात् उत्पत्तेः पूर्वंहेत्वाद्यभावेन प्रत्यवस्थानस्यैव लक्षणत्वात् जातित्वेसतोति च विशेषणीयं तेनोत्पत्तिकालावच्छिन्नी थटोगन्धवानित्यत्र बाधेन प्रत्यवस्थाने नातिव्याप्तिः असिड्या-दिदेशनाभासा चेयम्” वृत्तिः।
“तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः” सू॰
“अत्रोत्तरमाह। उत्पन्नस्य तथाभावात् थटाद्यात्म-कत्वात् तत्र कारणस्य हेतोरुपपत्तेः सत्त्वात् कथं कार-णप्रतिषेधः। अयमाशयः पक्षे हेत्वभावाऽसिद्धिः नत्वनुत्पन्नेहेत्वभावः सम्भवति अधिकरणाभावात् न हि हेत्वभा-वमात्रासिद्धिः त्वदीयहेतोरपि क्वचिदभावसत्त्वात् एतेनदृष्टान्तासिद्धिर्व्याख्याता यदा कदाचिद्धेतुसत्त्वेनैव दृष्टा-न्तत्वोपपत्तेः एवं हेत्वादीनां यदा कदाचित्पक्षे सत्त्वादेवहेत्वादिभावो न तु सार्वत्रिकी तदपेक्षति” वृत्तिः।
“सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसा-धर्म्म्यात् संशयसमः”

१४ सू॰।
“क्रमप्राप्तं सशयसमं लक्षयति। नित्यानित्यसाधर्म्या-दिति संशयकारणोपलक्षणं तेन समानत्तर्मदर्शनादि-यत्किञ्चित्संशयकारणबलात् संशयेन प्रत्यवस्यानं संशय-समः

१४ अधिकन्तू दाहरणपरं तथा हि शब्दोऽनित्यःकार्य्यत्वाद्घटवदित्युक्ते सामान्ये गोत्वादौ दृष्टान्ते वटेऐन्द्रियकत्वं तुल्यं यथा काय्य त्वान्निर्णायकादनित्यत्वंनिर्णौयते तथा ऐन्द्रियकत्वात् संशयकारणादनित्यत्वंसन्दिह्यताम् एवं शब्दत्वाद्यसाधर्म्यदर्शनादपि संशयो बोध्यःतथा च हेतुज्ञानेऽप्रामाण्यशङ्काधानद्वारा साध्यसंशयात्सत्प्रतिपक्षदेशनाभासेयम्” वृत्तिः।
“साधर्म्यात् संशये न संशयो वैधर्म्यादुभयथा वा संशयो-ऽत्यन्तसंशयप्रसङ्गो नित्यत्वानभ्युपगमाच्च सामान्यस्या-[Page3102-a+ 38] प्रतिषेधः” गौतमसूत्रस्य पञ्चमाध्याये आह्निकस्थसूत्रम्।
“अत्रोत्तरम्। साधर्म्यात्साधर्म्यदर्शनात् संशय आपाद्य-मानेऽपि न संशयो वैधर्म्याद्वैधर्म्यदर्शनात् यदि चकार्य्यत्वरूप्रविशेषदर्शनेऽपि संशयस्तदाऽत्यन्तसंशयप्रसङ्गःसंशयानुच्छेदप्रसङ्गः न च तथाऽभ्युपनन्तुं शक्यमि-त्याह नित्यत्वेति समान्यस्य सामानधर्मदर्शनस्य नित्य-त्वानभ्युपगमात् नित्यसंशयजनकत्वानभ्युपगमात्तथासति त्वदीयहेतुरपि न परपक्षप्रतिषेधकः स्यादितिभावः। सामान्यस्य गोत्वादेर्नित्यत्वानभ्युपगमात् निम्य-त्वानभ्युपगमप्रसङ्गात् तत्रापि साधारणधर्मप्रमेयत्वा-दिना संशय एव स्यादिति केचित्” वृत्तिः।
“उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः

१५ ” सू॰। (
“क्रमप्राप्तं प्रकरणसमं लक्षयति। उभयसाधर्म्यात्प्रकर्षेण क्रिया अन्वयसहचाराद्व्यतिरेकसहचाराद्वा प्र-क्रिया तत्साधनं विपरोतसाधनमिति फलितार्थः तत्सिद्धे-स्तस्य पूर्वमेव सिद्धेः तथाचाधिकवलत्वेनारोपितप्रमाणा-न्तरेण बाधेन प्रत्यवस्थानं प्रकरणसमः

१५ यथा शब्दो-ऽनित्यः कृतकत्वादित्युक्ते नैतदेवं श्रावणत्वेन नित्यत्व-साधकेन वाधात् बाधदेशनाभासा चेयम्” वृत्तिः।
“प्रतिपक्षात् प्रकरणसिद्धेः प्रतिमेधानुपपत्तिः प्रतिपक्षो-पपत्तेः” सू॰। (
“अत्रोत्तरमाह। प्रतिपक्षाद्विपरीतसाध्यसाधक-खेनाभिमताच्छ्रावणत्वादितः प्रकरणसिद्धिद्वारा मदीय-साध्यस्य यः प्रतिषेधः त्वया क्रियते तस्यानुपपत्तिःकुतः प्रतिपक्षोपपत्तेः त्वत्पक्षापेक्षया प्रतिपक्षस्य मदीयपक्षस्योपपत्तेः साधनात्। अयमाशयः श्रावणत्वेन पूर्वंनित्यत्वस्य साधनाद्यो याध उच्यते स नोपपद्यते पूर्वंसाधितस्य बलबत्त्वाभावात् कदाचित्कृतकत्वेनानित्य-स्वस्यापि पूर्वं साधनादिति त्वत्पक्षप्रतिषेधोऽपिस्यात्” वृत्तिः।
“त्रैकाल्यासिद्धेर्हेतोरहेतुसमः

१६ ” सू॰। (
“क्रमपाप्तमहेतुसमं लक्षयति। त्रैकाल्यं कार्य्य-कासतत्पूर्वापरकालाः तेन हेतोरसिद्धेः हेतुत्वासिद्धेः। अयमर्थः दण्डादिकं घटादेर्न पूर्बवर्त्तितया कारणंतदानीं षटादेरभावात् कस्य कारणं स्यात् अतएवन धटाद्युत्तरकालवर्त्तितयाऽपि नवा समानकालवर्त्ति-तया तुल्यकालबर्त्तिनोः सव्येतरविषाणयोबिवाविनिगममापत्तेः तथा च कालसम्बन्धखण्डनेनाहेतुतया[Page3102-b+ 38] प्रत्यवस्थानमहेतुसमः

१६ कारणमात्रखण्डनेन ज्ञप्ति-हेतोरपि खण्डनान्न तदसंग्रहं प्रतिकूलतर्कदेशनामासाचेयम्” वृत्तिः।
“न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः” सू॰। (
“अत्रोतरमाह। त्रैकाल्यासिद्धिस्त्रैकाल्येन याऽसिद्धिरुक्ता सा न, कुतः हेतुनः साध्यसिद्धेः त्वयाऽप्यम्युपगमात्” वृत्तिः।
“प्रतिषेधानुपपत्तेःप्रतिषेद्धव्याप्रतिषेधः” सू॰। (
“पूर्ववर्त्तितामात्रेणैव हेतुतासम्भवात् अन्यथा त्वदी-यहेतोरपि साध्यं न सिध्येदित्याह हेतुफलभावखण्डने प्रतिषेधस्याप्यनुपपत्तेः प्रतिषेद्धव्यस्य परकीय-हेतोर्नप्रतिषेध इत्यर्थः” वृत्तिः।
“अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः

१७ ” सू॰। (
“क्रमप्राप्तमर्थापत्तिसमं लक्षयति। अर्थापत्तिरर्या-पत्त्याभासः तथा चार्थापत्त्यामासेन प्रतिपक्षसाधनायप्रत्यवस्थानमर्थापत्तिसमः

१७ । अयमाशयः अर्थापत्तिर्हिउक्तेगानुक्तमाक्षिपति यथा शब्दोऽनित्य इत्युक्तेऽर्था-दापाद्यतेऽन्यत् नित्यं तथा च दृष्टान्तासिद्धिः विरोधश्चकृतकत्वादनित्य इत्युक्तेऽर्थादापन्नम् अन्यस्माद्धेतोर्बाधःसत्प्रतिपक्षो बा अनुमानादनित्य इत्युक्ते प्रत्यक्षान्नित्यइति च वाधः विशेषविधेः शेषनिषेधफलकत्वमित्य-भिमानः सर्वदेशनाभासा चेयम्” वृत्तिः।
“कनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्ति-
“कत्वाच्चार्थापत्तेः” सू॰। (
“अत्रोत्तरम्। किमुक्तेन अनुक्तं यत्किञ्चिदेवार्था-दापाद्यते उक्तोपपादकं वा आद्ये त्वत्पक्षहानिरप्यापा-द्यतां त्वयानुक्तत्वात् अन्त्ये अस्या अर्थापत्तेरनैकान्ति-कत्वम् ऐकान्तिकत्वम् एकपक्षसाधकत्वं बलं तन्नास्तिन हि अनित्य इत्यस्योपपादकं नित्यत्वमिति न हिविशेषविधिमात्रं शेषनिषेधफलकम्, अपि तु सति तात्पर्य्येकचित् न हि नीलोघट इत्युक्ते सर्वमन्यदनीलमितिकचित्प्रतिपद्यते” वृत्तिः।
“एकधर्म्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सदुभावोप-पत्तेरविशेषसमः”

१८ सू॰। (
“अविशेषसमं लक्षयति। एकस्य धर्मस्य कृतकत्वादेःशब्दे घटे चोपपत्तेः सत्त्वात् यदि शब्दथटयोरनित्य-त्वेनाविशेषः उच्यते तदा सर्वेषामविशेषप्रसङ्गः, कुतःसङ्गावोपपत्तेः सतः सन्मात्रस्य ये भावाधर्माः सत्त्वप्रमे-[Page3103-a+ 38] यत्वादयस्तेषामुपपत्तेः सत्त्वात् तथा च सर्वेषामभेदेपक्षाद्यविभागः सर्वेषामेकजातोयत्वेऽबान्तरजात्युच्छेदःसर्वेषामनित्यत्वेजात्यादिविलयैत्यादि तथा च सन्मा-त्रवृत्तिधर्मेणाविशेषापादनमविशेषसमेति

१८ फलितम्अत्र चाविशेषसम इति लक्ष्यनिर्देशः सद्भावोपपत्तेःसर्वाविशेषप्रसङ्गादिति लक्षणं शेषं व्युत्पादकम्। प्रतिकू{??}तर्कदेशनाभासा चेयम्” वृत्तिः।
“क्वचिद्धर्म्म्यनुपपत्तेः क्वचिञ्चोपपत्तेः प्रतिषेधाभावः” सू॰(
“अत्रोत्तरमाह। तद्धर्मस्तस्य हेतोर्धर्भोव्याप्त्यादि-स्तस्य क्वचित् कृतकत्वादौ उपपत्तेः सत्त्वात् क्वचित्-सत्त्वादौ अनुपपत्तेः अभावात् त्वदुक्तस्य प्रतिषेधस्या-भावोऽसम्भव इत्यर्थः” वृत्तिः।
“उभयकारणोपपत्तेरुपपत्तिसमः”

१९ सू॰। (
“उपपत्तिसमं लक्षयति। उभयं पक्षप्रतिपक्षौ तयोःकारनस्य प्रमाणस्य उपपत्तेः सत्त्वात् तथा च व्याप्ति-मपुरस्कृत्य यत्किञ्चिद्धर्मेण परपक्षदृष्टान्तेन स्वपक्षसा-धनेन प्रत्यवस्थानम् उपपत्तिसमः

१९ यथा शब्दोऽनित्यःकृतकत्वादित्युक्ते यथा त्वत्पक्षेऽनित्यत्वे प्रमाणमस्तितथा मत्पक्षोऽपि सप्रमाणकः त्वत्पक्षमत्पक्षान्यतरत्वात्तथाच बाधः प्रतिरोधो वा। तद्देशनाभासा चेयम्” वृ॰।
“उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः” सू॰। ( अत्रोत्तरमाह। अयं त्वदुक्तप्रतिषेधो न सम्भवति-कुतः मत्पक्षे उपपत्तिकारणस्य मत्पक्षसाधकप्रमाणस्यत्वयाऽभ्यनुज्ञानात् त्वया हि मत्पक्षस्य दृष्टान्तीकरणेनसप्रमाणकत्वमनुज्ञातमतः कथं तत्प्रतिषेधः शक्यतेकर्त्तुम् अनुज्ञातस्यापि प्रतिषेधे स्वपक्ष एव किं नप्रतिषिध्यते” वृत्तिः।
“निर्द्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः”

२० सू॰। (
“उपलब्धिसमं लक्षयति। वादिना निर्दिष्टस्यकारणस्य साधनस्याभावेऽपि साध्यस्योपलम्भात् प्रत्यव-स्थानमनुपलब्धिसमः

२० इत्यर्थः। तथा हि पर्वतो वह्निमान्धूमादित्यादिकं वह्न्यवधारणार्थमुच्यते न च तत्सम्भवतिधूमं विना आलोकादितोऽपि वह्निसिद्धेः तथा च नतस्य साधकत्वमिति प्रतिकूलतर्कः न वा धूमाद्वह्निमाने-वेत्यवधारणं द्रव्यत्वादेरपि धूमेन साधनात् न वा पर्वतएव वह्निमानेवेत्यादिकम् अवधारयितुं शक्यते महा-नसादेरपि वह्निमत्त्वादन्यथा दृष्टान्तासिद्धिः स्यात् एवंवह्निशून्यपर्वतस्यापि सत्त्वाद्वाध इत्यादि तद्दोशना[Page3103-b+ 38] भासा चेयम्” अस्य विश्वनाथविरचिता वृत्तिः।
“कारणान्तरादपि तद्धर्म्मोपप्रत्तेरप्रतिषेधः” सू॰। (
“अत्रोत्तरमाह। कारणान्तरात् साधनान्तरादालो-कादितोऽपि तस्य धर्मस्य साध्यस्योपलब्धेस्त्वदुक्तः प्रति-षेधो न सम्भवति। अयमाशयः न हि वयमवधारणार्थंवह्निप्रान् थूमादित्यादिकं प्रयुञ्ज्महे अपि तु सन्दि-ग्धस्य वह्नेः सिद्ध्यर्थम् अन्यथा त्वदुक्तमसाधकतासाधन-मपि न स्यादसाधकतासाधकान्तरस्यापि सत्त्वात्” वृत्तिः।
“तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर-नुपलब्धिसमः

२१ ” सू॰। (
“अनुपलब्धिसमं लक्षयति। यद्यपि चेयं द्वितीया-ध्याये दर्शिता दूषिता च तथाप्यनुपलब्धिसमा

२१ जातिरेव-मिति तत्रानुक्तेरत्र क्रमप्रप्तोऽभिधीयते तत्रायं क्रमःनैयायिकैस्तावच्छब्दा नित्यत्वमेव साध्यते यदि शब्दोनित्यः स्यादुच्चारणात् प्राक्कुतोनोपलभ्यते न हि घटा-द्यावरणकुड्यादिवच्छब्दस्यावरणमस्ति तदनुपलब्धेरितितत्रैवं जातिवादी प्रत्यवतिष्ठते यद्यावर्णानुपलब्धेरावणाभावः सिध्यति तदा आवरणानुपलब्धेरप्यनुपल-म्भादावरणानुपलब्धेरप्यभावः सिध्येत् तथाचावरणानु-पलब्धिप्रमाणक आवरणाभावो न स्यादपि त्वावरणोप-पत्तिरेव स्यादिति शब्दनित्यत्वे नोक्तं बाधकं युक्तंनन्वनुपलब्धेरनुपलब्ध्यन्तरानपेक्षणात् कथमेवमिति चेत्इत्यम् अनुपपलब्धेरनुपलब्ध्यवन्तरानपेक्षणे स्वयमेवस्वस्मिन्ननुपलब्धिरूपेति वाच्यं तथा च तयैवानुपल-ब्ध्यानुपलब्धत्वसम्भवात्तदभावासिद्ध्वेः स्वात्मन्यनुपलब्धिरूप-त्याभावेऽनुपलब्धित्वमेव न स्यात् अनुपलब्धेरनुपलब्ध्यन्त-रापेक्षणेऽनवस्था स्पष्टैव इत्थञ्चैवंरूपेण प्रत्यवस्था-नमनुपलब्धिसमः

२१ इत्यर्थः प्रतिकूलतर्कदेशनाभासाचेयम्” वृत्तिः।
“अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः” सू॰। (
“अत्रोत्तरमाह। अनुपलब्धिः आत्मन्यनुपलब्धिरितिकोऽर्थः स्वयमनुपलब्धिरूपेति चेद्भवत्येव स्वविषयिण्य-नुपलब्धिरिति चेन्नेदं प्रसक्तं अनुपलब्धेरनुपलम्भात्म-कत्वात् उपलम्भाभावात्मकत्वात् अभावस्य च निर्विषयक-त्वात् स्वात्मन्यनुपलब्धित्वाभावेऽनुपलब्धित्वमेव कथमस्याइति चेत् कुतो विरोधः नहि घटः स्वविषयो न भ्व-तीति नायं घटः स्वविषयो न भवतीति। नायं घटःआवरणाभावः कथमनुपलब्धिविषय इति चेत् क एव-[Page3104-a+ 38] माह किन्त्वनुपलब्धिसहकृतेन्द्रिपग्राह्यत्वादनुपलब्धिग्राह्यइत्युपचर्य्यते अतस्तदनुपलब्धेरन्पलम्भादित्यादिकमहेतुःअन्यथा, त्वत्साधनमपि दोषानुपलब्धेरनुपलम्भात् स-दोषमेव स्यादिति” वृत्तिः।
“ज्ञानविकल्पानाञ्च भावाभावसंवेदनादध्यात्मम्” सू॰। (
“नन्वुपलब्धेः स्वस्मिन्ननुपलब्धित्वाभावेऽनुपलब्धिरपिकेन सिध्येदतआह अध्यात्मम् आत्मन्यपि ज्ञानवि-कल्पानां ज्ञानविशेषाणां भावाभावयोर्मनसा संवेदनात्घटं साक्षात्करोमि वह्निमनुमिनोमि नानुमिनोमीत्येवंज्ञानविशेषतदभावानां मनसैव सुग्रहत्वादिति भावः” वृत्तिः।
“साधर्म्यात्तुल्यधर्म्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्य-समः

२२ ” सू॰(
“अनित्यसमं लक्षयति। यदि दृष्टान्तधटसाधर्म्यात्कृतकत्वात्तेन सह तुल्यधर्मतोपपद्यते शब्देऽनित्यत्वंसाध्यते तदा सर्वस्यैवानित्यत्वं स्यात् सत्त्वादिरूपसा-धर्म्यसम्भवात् नचेदमर्थान्तरग्रस्तमिति वाच्यं सर्वस्या-नित्यत्वे व्यतिरेकाग्रहादनुमानदूषणे तात्पर्य्यात् परस्या-न्वयव्यतिरेकिणएवानुमानत्वादित्याशयः तथा च व्याप्तिमपुरस्कृत्य यत्किञ्चिदॄष्टान्तसाधर्म्येण सर्वस्य साध्य-वत्त्वापादनमनित्यसमा

२२ साध्यभेदादविशेषसमातोव्यव-च्छेदस्तत्र सर्वाविशेष एवापाद्यते नतु सर्वस्य साध्यवत्त्वम्। यत्तु अनित्यत्वेन समाऽनित्यसमेति भावप्रधानोनिर्देशस्तथाच अन्वर्थलब्धमेव लक्षणमिति तन्न वह्नि-मान् धूमादित्यादौ महानससाधर्म्यस्य सत्त्वात्सर्वस्यवह्निमत्त्वं स्यादित्यस्य जात्यन्तरत्वापत्तेः। आचार्य्यास्तुसाधर्म्यं वैधर्म्याप्युपलक्षकं यथाकाशवैधर्म्यात्कृतकत्वाच्छब्दोऽनित्यस्तथाकाशवैधर्म्यादाकाशभिन्नत्वादितःसर्वमेवानित्यं स्यादित्थञ्च लक्षणे यत्किद्धर्मेणेत्येव वाच्य-मित्याहुः। अत्र च वैधर्म्य स्य विपक्षावृत्तित्वान्न सर्वस्यमाध्यवत्त्वापादनं किन्त्वात्मादीनामप्यनित्यत्वं स्यादितितत्र चार्थान्तरमित्यवधेयं प्रतिकू{??}तर्कदेशनाभासाचेयम्” वृत्तिः।
“साधर्म्यादसिद्धे प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च” सू॰(
“अत्रोत्तरमाह। यदि यत्किञ्चित्साघर्म्यात्सर्वस्यसाध्यवत्तामापादयतस्तव साधर्म्यस्यासाधकत्वमभिमतंतदा त्वत्कृतप्रतिषेधस्याप्यसिद्धिः तस्यापि प्रतिषेध्यसाध-र्म्येण प्रवृत्तत्वात्त्वया ह्येवं साध्यते कृतकत्वं नसाधकं दृष्टान्तसाधर्म्यरूपत्वात्सत्त्वादिवत् अत्र च[Page3104-b+ 38] त्वदीयहतुस्त्वत्प्रतिषेध्येन मदीयहेतुना कृतकत्वेनसत्त्वेन च सह साधर्म्यरूपस्तथा चायमपि न साधकःस्यात्” वृत्तिः।
“दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्वस्य हेतु-त्वात्तस्य चोभयथाभावान्नाविशेषः” सू॰(
“यदि च साधर्म्यमात्रं न साधकमपि तु व्याप्ति-सहितमित्यभिमतं तदा कृतकत्वे तदस्ति नतु सत्त्व-इति विशेष इत्याह। साध्यसाधनभावेन व्याप्यव्या-पकभावेन दृष्टान्ते प्रज्ञातस्य प्रमितस्य तस्य हेतुत्वात्-साधकत्वात् तत्र हेतुत्वस्य उभयथा अन्वयेन व्यतिरेकेणच भावात् मदीयहेतौ सत्त्वात्साधने सत्त्वादिति ना-ऽविशेष इति यदुक्तं तन्न भवति” वृत्तिः।
“नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः

२३ ” सू॰(
“नित्यसमं लक्षयति। अनित्यस्य भावः अनित्यत्वंतस्य नित्यं सर्वकालं स्वीकारे अनित्ये शब्दे नित्यत्वंस्यादित्यापादनं नित्यसमा

२३ । अयमाशयः अनित्यत्वस्यनित्यमस्वीकारेऽनित्यत्वाभावदशायां तस्यानित्यत्वं न,तस्यापि नित्यत्वापत्तिः नहि दण्डाभावदशायां दण्डी-त्युच्यते अतोऽनित्यत्वस्य नित्यमेव स्वीकार इत्थभ्यु पग-न्तव्यं तथा च शब्दस्यापि नित्यत्वापत्तिः तेन वाधःमत्प्रतिपक्षो वा तद्देशनाभासा चेयम्। एवमनित्यत्वंयदि नित्यं कथं शब्दस्यानित्यतां कुर्यात् नहि रक्तंमहारजनं परस्य नीलतां सम्पादयति अथाऽनित्यं तदातदभावदशायां अनित्यत्वं न स्यादित्यादिकमूह्यम्। एत-दनुसारेण लक्षणमपि कार्य्यमित्याचार्य्याः। वयन्तु अनि-त्यस्य भावो धर्मस्तस्य नित्यमभ्यु पगमेऽनित्यत्वेनाभ्युप-गतस्य नित्यत्वं स्यात् यथा क्षितिः सकर्तृकेत्यत्रअनित्यक्षितेर्धर्मः सकर्तृकत्वं त्वया क्षितौ नित्यमु-पेयते न वा न चेत् तदा साध्याभावादंशतोबाधः अथक्षितौ नित्यमेव सकर्तृकत्वं विरुद्धं तद्देशनाभासा चेय-मिति व्रूमः” वृत्ति
“प्रतिषेध्ये नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेःप्रतिषेधाभावः” सू(
“अत्रोत्तरमाह। प्रातषेध्ये मत्पक्षे शब्दे सर्वदाअनित्यभावात् अनित्यत्वात् अनित्ये शब्दे अनित्यत्वमुप-पद्यते न हि सम्भवति अनित्यत्वं नित्यमस्ति अथ चतन्नित्यमिति व्याधातात् नच नित्यमिति सर्बकालमित्यर्थःतथा च शब्दस्यानेत्यत्वे कथं सर्वकालमनित्यत्वसम्बन्ध[Page3105-a+ 38] इति वाच्यं सर्वकालमित्यस्य यावत्सत्त्वमित्यर्थात् अतःत्वत्कृतः प्रतिषेधो न सम्भवति मतान्तरे तु अनित्ये-ऽनित्यत्वोपपन्ने हेतोस्त्वपायः प्रतिषेधः कृतः स चसम्भवतीत्यर्थः” वृत्तिः।
“प्रयत्नकार्य्यानेकत्वात् कार्य्यसमः

२४ ” सू॰। (
“कार्य्यसमं लक्षयति। प्रयत्नकार्य्यस्य प्रयत्नसम्पा-दनीयस्यानेकत्वात् अनेकविषयत्वात्। अयमर्थः शब्दो-ऽनित्यः प्रयत्नानन्तरीयकत्वादित्युक्ते प्रयत्नानन्तरीय-कत्वं प्रयत्नकार्ये घटादो प्रयत्नानन्तरोपलभ्यमानेकीलकादावपि दृष्टन्तत्र द्वितीयं न तज्जन्यत्वसाधकंआद्ये तु असिद्धं तथा च सामान्यत उक्ते हेतोरनभिम-तविशिष्टनिराकरणेन प्रत्यवस्थानं कार्यसमा

३४ असिद्धदेश-नाभासा चेयम्। अथ वा प्रयत्नकार्य्याणां प्रयत्नकर्त्तव्यानांकर्त्तव्यप्रयत्नानामिति यावत् तादृशानां अनेकविधत्वात्-युक्तान्यस्य व्याघातकमुत्तरं कार्य्यसमा तथा चास्याआकृतिगणत्वात् सूत्रानुपदर्शितानामपि परिग्रहः यथात्वत्पक्षे किञ्चिद्द षणं भविष्यतीति शङ्काऽपि शङ्का समाकार्य्यकारणभावस्योपकारनियतत्वेऽनवस्थेत्यनुपकारसमाइत्यादिः” वृत्तिः।
“कार्य्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः” सू॰। (
“अत्रोत्तरम्। शब्दस्य कार्य्यान्यत्वेऽकार्य्यत्वे प्रय-त्नस्य वक्तृप्रयत्नस्य अहेतुत्वम् अकारणत्वम् इदञ्च तदास्यात् यद्यनुपलब्धिकारणमावरणादिकमुपपद्यते नच तच्छब्देऽस्तीत्यर्थः। आकृतिगणपक्षे तु कार्य्याणांजातीनामन्यत्वे नानाविधत्वे इदमुत्तरं प्रयत्नस्य त्वदीय-दूषणप्रयत्नस्य अहेतुत्व असाधकत्वाभावः उपलब्धेःकारणस्य प्रमाणस्य निर्दोषवाक्यस्य या उपपत्तिःनिर्दोषवाक्याधीनोपपादनं तदभावात् तद्वाक्यस्य स्वव्या-घातकत्वादित्यर्थः” वृत्तिः।

१४ स्वभावे जातिवैरम् जातिसुन्दरम्। जातिश्च प्रकार-विशेष्यतया वा शब्दशक्तिज्ञानविषयः। तत्र प्राभाकरमतेआकृतिव्यङ्ग्याया एव जातित्वं न गुणत्वादीनां नैयायिक-मते तु अनुगतैकबुद्धिनियामकत्वात् नित्यत्वे सति अनेक-समवेतत्वरूपलक्षणयोगाच्च गुणत्वादीनामपि जातित्वम-स्त्येव।
“समानप्रसवात्मिका जाति गो॰ सूत्रभाष्ययोस्त-थैवोक्तेश्च। जातिशक्तियाढशब्दे च तद्भाष्य दृश्यम्। अतएव
“द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते। परभिन्ना तु या जातिः सेवापरतयोच्यते। द्रव्यत्वा-[Page3105-b+ 38] दिकजातिस्तु परापरतयोच्यते” भाषायामुक्तम्। छन्दो-भेदश्च।
“पद्यं चतुष्पदी ज्ञेयं वृत्तं जातिरिति द्विधा। वृत्तमचरसंख्यातं जातिर्मात्राकृता भवेत्” छन्दोमञ्ज-र्य्युक्तेः मात्राकृतं छन्दः।
“इयमच्युतलीलाढ्या सद्-वृत्ता जातिशालिनी” छन्दो म॰। दृष्टजातिशेषजातिविश्लेष-जातिप्रभृतयश्च पाचीनानामिष्टकर्मसंज्ञाभेदा लीलाव-त्यादौ इष्टकर्म्मप्रकरणे दृश्याः।
“सङ्केतो गृह्यते जातौगुणद्रव्यक्रियासु च” काव्यप्र॰।
“असम्पादयतः कञ्चिदर्थंजातिक्रियागुणैः” माघः। व्राह्मणादिजातौ
“जात्याकाममवध्योऽसि चरण त्विदमुद्धृतम्” वेणीसं॰
“ब्राह्मणस्यब्राह्मणयोर्ब्राह्मणानाञ्च संबधे। प्रायश्चित्तस्य चैकतवंजातिश्चाश्रित्य लक्ष्यते” प्रा॰ त॰। जन्मनि
“आचार्य्य-स्तस्य यां जातिं विधिवद् वेदपारगः। उत्पादयतिसावित्र्या सा नित्या साऽजराऽमराः” मनुः। आकारव्यङ्ग्ये
“मृच्चर्म्ममणिसूत्रायःकाष्ठवल्कलवास-साम्। अजातौ जातिकरणे विक्रेयाष्टगुणोदमः” याज्ञ॰।

१५ जातिवाचकशब्दे च
“पोटायुवतिस्तोकक-तिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्त्तैजातिः”
“कृत्यतुल्याख्या अजात्या”
“जात्याख्यायामक-स्मिन् बहुवचनमन्यतरस्यात्” (ब्राह्मणाः पूज्याः व्राह्मणःपूज्यः)
“जातेरस्त्रीविषयादयोपधात्” इति च पा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाति¦ f. (-तिः)
1. Kind, sort, species, class, tribe.
2. Birth, production.
3. Lineage, race, family.
4. A fire-place, a chimney.
5. Emblic myrobalan, (Phyllanthus emblica.)
6. A plant: see काम्पिल्ल।
7. A kind of poetical metre.
8. A rhetorical ornament.
9. (In Arith- metic,) Assimilation, as विशेषजाति assimilation of the difference, शेषजाति of the remainder.
10. Proximate cause or occurance of disease, &c. f. (-तिः or -ती)
1. Great flowered jasmin, (J. grandi- florum.)
2. Mace, nutmeg. f. (-तिः) The flower of the jasmin. E. जन् to be born, affix क्तिन् and occasionally ङीष added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातिः [jātiḥ], f. [जन्-क्तिन्]

Birth, production, सङ्कुलं जल- जातिभिः Rām.3.11.6; Pt.1.38; Ms.2.148; also 'the time of birth'; cf. जातौ बाल्ये च कौमारे यौवने चापि मानवाः Mb.12.158.11.

The form of existence fixed by birth.

Race, family, lineage, rank.

A caste, tribe or class (of men); अरे मूढ जात्या चेदवध्यो$हं एषा सा जातिः परित्यक्ता Ve.3; (the primary castes of the Hindus are only four: ब्राह्मण, क्षत्रिय, वैश्य and शूद्र).

A class, genus, kind, species; पशुजातिः, पुष्पजातिः &c.

The properties which are peculiar to a class and distinguish it from all others, the essential characteristics of a species; as गोत्व, अश्वत्व of cows, horses &c.; see गुण, क्रिया and द्रव्य; जातिक्रियागुणैः Śi.2.47; and cf. K. P.2.

A fire-place.

Nutmeg.

The Jasmine plant or its flower; नागपुन्नागजातिभिः Bhāg.8.2.18; पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः Amaru.4 (written also as जाती in the last two senses).

(In Nyāya) Futile answer.

(In music) The seven primary notes of the Indian gamut; जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् Rām.1.4.8.

Reduction of fractions to a common denominator.

False generalization.

A figure of speech (in rhetoric) which consists in so arranging words that they may read the same in Sanskṛit as well as in Prākṛita (संस्कृतप्राकृतयोः समा जातिः); cf. Vb.1.3.

A class of metres; see App. -Comp. -अन्ध a. born blind; Bh.1.9. -कोशः, -षः, -षम् nutmeg. -कोशी, -षी the outer skin of the nutmeg. -क्षयः (= जन्मोच्छेदः) the end of birth, spiritual release. जातिक्षयस्यासुलभस्य बोद्धा Bu. Ch.1.74. -गृद्धिः f. to take birth; जातिगृद्धयाभिपन्नाः Mb.5.6.9. -जानपद a. belonging to the castes and to the country; जातिजानपदान् धर्मान् Ms.8.41.

धर्मः the duties of a caste.

a generic property.-ध्वंसः loss of caste or its privileges. -पत्री the outer skin of the nutmeg. -फलम् (sometimes जातीफलम् also) a nutmeg; जातीफलं मातुलानीमहिफेनं च पत्रकम् Śiva. B.3.15.-ब्राह्मणः a Brāhmaṇa only by birth, but not by knowledge or religious austerities, an ignorant Brāhmaṇa; (तपः श्रुतं च योनिश्च त्रयं ब्राह्मण्यकारणम् । तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ॥ शब्दार्थचिन्तामणि) -भ्रंशः loss of caste; Ms.11.67. -भ्रष्ट a. outcaste. -महः birth-day festival.

मात्रम् 'mere birth', position in life obtained by mere birth.

caste only (but not the performance of duties pertaining to it); Ms.8.2; 12.114.

species, genus. -लक्षणम् generic distinction, a characteristic of a class. -वाचक a. expressing a genus, generic (as a word); गौरश्वः पुरुषो हस्ती. -वैरम् instinctive or natural hostility. -वैरिन् m. a born enemy. -वैलक्षण्यम् inconsistency, incompatibility in kind. -शब्दः a name conveying the idea of a genus, a generic word, common noun; गौः, अश्वः, पुरुषः, हस्ती &c.-संकरः admixture of castes; mixed blood. -संपन्न a. belonging to a noble family. -सारम् nutmeg. -स्मर a. remembering one's condition in a former life; जातिस्मरो मुनिरस्मि जात्या K.355. -स्वभावः generic character or nature. -हीन a. of low birth, outcaste; रूपद्रव्यविहीनांश्च जातिहीनांश्च नाक्षिपेत् Ms.4.141;1.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाति f. birth , production AitBr. ii , 39 Mn. MBh. (also ती, xiii f. )etc.

जाति f. re-birth R. i , 62 , 17 Ka1ran2d2. xxiii , 193

जाति f. the form of existence (as man , animal , etc. ) fixed by birth Mn. iv , 148 f. Yogas. ii , 13

जाति f. ( ifc. ) Katha1s. xviii , 98

जाति f. position assigned by birth , rank , caste , family , race , lineage Ka1tyS3r. xv Mn. Ya1jn5. etc. ( तीMBh. xiv , 2549 )

जाति f. kind , genus (opposed to species) , species (opposed to individual) , class La1t2y. Ka1tyS3r. Pa1n2. etc. , (once तीifc. MBh. vi , 456 )

जाति f. the generic properties (opposed to the specific ones) Sarvad.

जाति f. natural disposition to Car. ii , 1

जाति f. the character of a species , genuine or true state of anything Ya1jn5. ii , 246 MBh. xii , 5334

जाति f. reduction of fractions to a common denominator

जाति f. a self-confuting reply (founded merely on similarity or dissimilarity) Nya1yad. v , 1 ff. Sarvad. xi , 10 and 34 Prab. Sch.

जाति f. (in rhet. )a particular figure of speech Sarasv. ii , 1

जाति f. a class of metres R. i , 4 , 6 Ka1vya7d. i , 11

जाति f. a manner of singing Hariv.

जाति f. a fire-place L.

जाति f. (= ती)mace , nutmeg Sus3r.

जाति f. Jasminum grandiflorum L.

जाति f. = ती-फलाL.

जाति f. = कम्पिल्लL. cf. अन्त्य-, एक-, द्वि--([ cf. Lat. gens ; Lith. pri-gentis])

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JĀTI : See under Cāturvarṇya.


_______________________________
*2nd word in right half of page 351 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāti, which in the Pāli[१] texts is the word denoting ‘caste,’ does not occur at all in the early Vedic literature; when it is found, as in the Kātyāyana Śrauta Sūtra,[२] it has only the sense of ‘family’ (for which cf. Kula, Gotra, and Viś). For the influence of the family system on the growth of caste, see Varṇa. To assume that it was the basis of caste, as does Senart,[३] is difficult in face of the late appearance of words for family and of stress on family.[४]

  1. Fick, Die sociale Gliederung, 22, n. 4.
  2. xv. 4, 14. So jātīya, xx. 2, 11, etc.
  3. Les Castes dans l'Inde (1896).
  4. Fick, op. cit., 3;
    Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 51, 267 et seq.
"https://sa.wiktionary.org/w/index.php?title=जाति&oldid=499728" इत्यस्माद् प्रतिप्राप्तम्