दान

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दान, ञ आर्जवे । छिदि । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-सकं-सेट् ।) ऋजुरवक्रस्तस्य भाव आर्ज्जवं ऋजुकरणम् । ञ, दीदांसति दीदां- सते काष्ठं वर्द्धकिः ऋजु करोतीत्यर्थः । ऋजु- भावः इति विद्यानिवासः । दीदांसति साधुः । ऋजुः स्यादित्यर्थः । छेदे दानति दानते । इति वोपदेवः । तत्र तिबादयो न स्युरिति रमानाथः । इति दुर्गादासः ॥

दानम्, क्ली, (दा दाने दो अवखण्डने दैप शोधने भावादौ ल्युट् ।) गजमदः । (यथा, माघे । ५ । ३७ । “दानं ददत्यपि जलः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहेत ॥” “दीयते इति दानं धनं गजमदश्च ।” इति तट्टीकायां मल्लिनाथः ॥) पालनम् । छेद- नम् । शुद्धिः । इति मेदिनी । ने, १० ॥ वृक्ष- कोटरकीटजमधु । अस्य गुणाः । रूक्षत्वम् । दीपनत्वम् । कफच्छर्दिमेहनाशित्वञ्च । इति राजवल्लभः ॥ देवब्राह्मणादिसम्प्रदानकद्रव्यमो- चनम् । तत्पर्य्यायः । त्यागः २ विहापितम् ३ उत्सर्जनम् ४ विसर्जनम् ५ विश्राणनम् ६ वितर- णम् ७ स्पर्शनम् ८ प्रतिपादनम् ९ प्रादेशनम् १० निर्व्वपणम् ११ अपवर्जनम् १२ अंहतिः १३ । इत्यमरः । २ । ७ । २९ ॥ दायः १४ । इति त्रिकाण्ड- शेषः ॥ प्रदानम् १५ ददनम् १६ विश्रणनम् १७ दत्तिः १८ अंहती १९ उत्सर्गः २० अति- सर्जनम् २१ स्पर्शः २२ विसर्गः २३ क्षणनम् २४ प्रदेशनम् २५ । इति शब्दरत्नावली ॥ * ॥ तस्य लक्षणादि यथा, -- “अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् । दानमित्यभिनिर्द्दिष्टं व्याख्यानं तस्य वक्ष्यते ॥ सम्प्रदानस्वत्वापादकद्रव्यत्यागो दानमिति ॥ * ॥ दाता प्रतिग्रहीता च श्रद्धादेयञ्च धर्म्मयुक् । देशकालौ च दानानामङ्गान्येतानि षड्विदुः ॥ मनसा पात्रमुद्दिश्य भूमौ तोयं विनिःक्षिपेत् । विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते ॥ परोक्षे कल्पितं दानं पात्राभावे कथं भवेत् । गोत्रजेभ्यस्तथा दद्यात् तदभावेऽस्य बन्धुषु ॥ यदा तु न सकुल्यः स्यान्न च सम्बन्धिबान्धवाः । दद्यात् स्वजातिशिष्येभ्यस्तदभावेऽप्सु निःक्षि- पेत् ॥ स्नात्वा शुद्धे समे देशे गोमयेनोपलेपिते । वसित्वा वसनं शुद्धं दानं दद्यात् सदक्षिणम् ॥ * ॥ एकां गां दशगुर्द्दद्यात् दश दद्याच्च गोशती । शतं सहस्रगुर्द्दद्यात् सहस्रं बहुगोधनः ॥ ग्रासादर्द्धमपि ग्रासमर्थिभ्यः किन्न दीयते । इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ अपरावाधमक्लेशं प्रयत्नेनार्जितं धनम् । स्वल्पं वा विपुलं वापि देयमित्यभिधीयते ॥ * ॥ विक्रयञ्चैव दानञ्च न नेयाः स्युरनिच्छवः । दाराः पुत्त्राश्च सर्व्वस्वमात्मन्येव च योजयेत् ॥ आपत्काले च कर्त्तव्यं दानं विक्रय एव च । अन्यथा न प्रवर्त्तेत इति शास्त्रार्थनिश्चयः ॥ * ॥ यज्ञो दानं तपो जाप्यं श्राद्धञ्च सुरपूजनम् । चेतसा धर्म्मयुक्तेन दानं तद्बिमलं शिवम् ॥” इति कूर्म्मपुराणम् ॥ रोगोपशमनाय दानविधिर्यथा, -- “गोदानं भूमिदानञ्च स्वर्णदानं सुरार्च्चनम् । कृत्वा पश्चात् प्रतीकारं कुर्य्यात् पाण्डूपशान्तये ॥ महापापेषु सर्व्वेषु तदर्द्धं मुख्यदोषजे । अथवापि षडष्टांशात् कल्प्यं व्याधिबलाबलात् ॥ कुर्य्यात् सर्व्वं कृतं कर्म्म कुष्ठरोगोपशान्तये । गोभूहिरण्यदानञ्च तथामिष्टान्नभोजनम् ॥ चतुर्व्विधं दानमिदं दत्त्वा कुर्य्यात् प्रतिक्रियाम् । कदाचिदपि सिध्येत आयुषश्च बलक्रिया ॥ मेहे सुवर्णदानञ्च शूले श्वासे भगन्दरे । अर्शोभ्यस्त्वन्नदानेन श्वासात् कासाद्बिमुच्यते ॥ ज्वरेचेश्वरपूजा च रुद्रजाप्यं समाचरेत् । मतिदानान्नदानञ्च शास्त्रदानं भ्रमातुरे ॥ अग्निहोमञ्चाग्निमान्द्ये कन्यादानञ्च गुल्मके । मेहाश्मरीविनाशाय लवणञ्च प्रदापयेत् ॥ बहुभोजनदानेन शूलरोगाद्बिमुच्यते । घृतमधुप्रदानेन रक्तपित्तं प्रशाम्यति ॥ चतुर्व्विधेन दानेन साध्यः स्याद् ग्रहणीगदः । सुवर्णदानात् कुनखी श्यावदन्तः सुखी भवेत् ॥ रौप्यदानाच्छ्वित्रकुष्ठं साध्यं वापि प्रदृश्यते । सिध्मले त्रपुदानञ्च वर्व्वरे लोहदानकम् ॥ मुखव्रणे ददेन्नागं गोदानं बहुमूत्रके । नेत्ररोगे घृतं दद्यात् सुगन्धं नासिकागदे ॥ तैलदानं कण्डुरोगे रसदानञ्च जिह्वके । उष्ट्रं दद्यात् पित्तरोगे लूतारोगे च देवदः ॥” इति हारीते द्बितीयस्थाने प्रथमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दान नपुं।

दानम्

समानार्थक:त्याग,विहापित,दान,उत्सर्जन,विसर्जन,विश्राणन,वितरण,स्पर्शन,प्रतिपादन,प्रादेशन,निर्वपण,अपवर्जन,अंहति,साति,निर्यातन

2।7।29।1।3

त्यागो विहापितं दानमुत्सर्जनविसर्जने। विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्.।

सम्बन्धि1 : यज्ञः

 : मृताहे_दानम्, पितॄनुद्धिश्यक्रियमाणः_दानम्, फलेच्छायुक्तदानम्, सदादानम्, देवहविर्दानम्

पदार्थ-विभागः : , क्रिया

दान नपुं।

उपायाः

समानार्थक:भेद,दण्ड,सामन्,दान

2।8।20।2।4

स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्. भेदो दण्डः साम दानमित्युपायचतुष्टयम्.।

 : दण्डः, सामः, भेदः

पदार्थ-विभागः : , क्रिया

दान नपुं।

मदजलम्

समानार्थक:मद,दान

2।8।37।1।4

गण्डः कटो मदो दानं वमथुः करशीकरः। कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्.।

वैशिष्ट्य : हस्तिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दान¦ आर्जये ऋजूकरणे सक॰ उभ॰ भ्वा॰ स्वार्थे सन्। छेदने तु न सन्। दीदांसति ते अदीदांसीत् अदीदांमिष्ट छेदने तु दानति ते। अदानीत् अदानिष्ट दीदां-सयाति दानयति। दीदांसति काष्ठ ऋजूकरोतीत्यर्थःदानति काष्ठं छिनत्तीत्यर्थः।

दान¦ न॰ दा--दाने दो--खण्डने दैप् शोधने वा भावादौ ल्युट्।

१ गजमदजले

२ दीयमाने त्रि॰

३ घने न॰
“दानं ददात्थपिजलैः सहसाधिरूढे” माघः
“सेनाचरीभवदिभाननदान-[Page3515-b+ 38] वारिवासेन यस्य जनिता सुरभीरणश्रीः” नैष॰
“आसी-दनाविष्कृतदानराजिः” रघुः।

४ पालने

५ छेदने

६ शुद्धौच स्वस्वत्वत्यागानुकूलव्यापारभेदे स्वत्वाभिसन्धानापूर्वकस्वत्वत्यागे दानपदार्थनिरूपणं तदङ्गादिकं चशुद्धि॰ त॰ यथा( देवलः
“अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम्। दानमित्यभिनिर्द्दिष्टं व्याख्यानन्तस्य वक्ष्यते” अर्थो-द्रव्यम्। उदिते शास्त्रकथिते श्रद्धा देवलोक्ता यथा
“सत्कृतिश्चानसूया च सदा श्रद्धेति कीर्त्तिता”। अतएवभगवद्गीतासु
“अश्रद्धया हुतं दत्तं तपस्तप्तं कृतन्तुयत्। असदित्युच्यते पार्थ! न च तत् प्रेत्य नेहच”। हरिवंशे बलिं प्रति भगवद्वाक्यम्
“अश्रो-त्रियं श्राद्धमधीतमव्रतं त्वदक्षिणं यज्ञमनृत्विजा हुतम्। अश्रद्धया दत्तमसंस्कृतं हविर्भागाः षडेते तव दैत्य-पुङ्गव!”। प्रतिपादनं स्वीकरणं पात्रायत्तीकरणमितियावत्। तेन शास्त्रोक्तसम्प्रदानस्वत्वावच्छिन्नद्रव्यत्यागोदानम्। ततश्च उद्देश्यपात्रविशेषो यदि न स्वीकरोतितदा सोपाधित्यागविशेषस्यानिर्वाहान्न दातुः स्वत्वंनिवर्तते इति रत्नाकरप्रभूतयः। वस्तुतस्तु
“प्रदानंस्वाम्यकारणमिति” मनूक्तेर्दानमात्रात् सम्प्रदानस्यतद्विषयज्ञानाभावदशायामपि स्वत्वमुत्पद्यते पितुःस्वत्वोपरमात्तद्धने गर्भस्थस्येव। तेन शास्त्रोक्तसम्प्र-दानस्वत्वापादकद्रव्यत्यागोदानम्। तथाच दत्तस्यप्रतिग्रहो न तु प्रतिग्रहघटितं दानमिति। व्यक्तमाहकात्यायनः
“पित्रा दत्तमादाय गृहीत्वा निष्क्राम-यति” आदाय प्रतिगृह्य ततोहस्तं गृहीत्वा वक्ष्यमाण-मन्त्रेण निष्क्रामयतीत्यर्थः।
“दत्त्वान्ते स्वस्तिवाच-येत्” इति वक्ष्यमाणवचनाच्चेति। अतएव मरीचिः
“बहुगोषु यथा नष्ठां मातरं लभते सुतः। मनसायस्य यद्द्वत्तं तद्धि तस्योपतिष्ठते”। नचैतत्तर्पणमात्रपरंबहुगोष्विति दृष्टान्ताभिधानेन च यस्य यदिति सामा-न्याभिधानेन होलाधिकरणन्यायात् सामान्यपरं तेनश्राद्धादावपि तथा।
“एकत्र निर्णीतः” इति न्यायाच्च। अतएव दत्तस्योद्देश्यपात्राभावेऽपि इतरधनवत्तद्धन-स्वामिकुले प्रतिपत्तिमाह हेमाद्रिधृतधौम्यः
“परोक्षेकल्पितं दानं पात्राभावे कथं भवेत्। गोत्रजेभ्यस्तथादद्यात् तदभावेऽस्य बन्धुषु”। दानकल्पतरौ नारदः
“ब्राह्मणस्य च यद्दत्तं सान्वयस्य न चास्ति सः। [Page3516-a+ 38] सकुल्ये तस्य निनयेत्तदभावेऽस्य बन्धुषु। यदा तु नसकुल्यः स्यान्नच सम्बन्धिबान्धवाः। दद्यात् सजाति-शिष्येभ्यस्तदभावेऽप्सु निःक्षिपेत्” अतएव श्राद्धीया-न्नस्य पात्राभावे जले प्रक्षेपः। अतएव
“मनसा पात्र-मुद्दिश्य भूमौ तोयं विनिःक्षिपेत्। विद्यते सागरस्यान्तोदानस्यान्तं न विद्यते” इति नारदीयोक्तम्। दाना-नन्तरमेव स्वीकारात् पूर्बं दक्षिणा क्रियते। यत्र तुपात्रविशेषानुद्देश्यकदानं तत्र दातुः प्रतिपत्त्युपदेशात्तदधीनसम्प्रदानविशेषनिरूपितस्वत्वं त्यागादेव जायते। तत्र प्रतिपादनमाह मत्स्यपुराणम्
“न चिरंधारयेद्गेहे हेम संप्रोक्षितं वुधाः। तिष्ठद्भयापहं यस्मात्शीकव्याधिकरं नृणाम्। शीघ्रं परस्वीकरणाच्छ्रेयःप्राप्नोति पुस्कलम्”।
“संप्रोक्षितं पात्रमुद्दिश्य त्यक्तमिति” हेमाद्रिः। अतएव विष्णुपुराणे
“तस्मात् सर्वात्मनापात्रे दद्यात् कनकमुत्तमम्। अपात्रे पातयेद्दत्तं सुवर्ण्णंनरकार्णवे। प्रमादतस्तु तन्नष्टं तावन्मात्रं नियोजयेत्। अन्यथा स्तेययुक्तः स्याद्धेम्न्यदत्ते विनाशिनि”। तद्धेमब्राह्मणायोत्सृष्ट ब्राह्मणसादकृतम् यदि चौरा-दिनापह्रियते तदा तावदेव पुनरुत्सृज्य देयमितिद नसागरः।
“द्रव्यमर्जयन् ब्राह्मणः प्रतिगृह्णीयात्याजयेदध्यापयेत्” इति श्रुतौ याजनाध्यापनसाह-चर्य्यात् प्रतिग्रहस्य स्वत्वमजनयतोऽप्यर्जनरूपता नविरुद्धा याजनाध्यापनादौ दक्षिणादानादेव स्वत्वादितिदायभागः। नतु प्रतिग्रहात् स्वत्वं प्रागुक्तमनुधौम्य-नारदीयवचनविरोधात्। सम्प्रदानस्वीकारात् पूर्वंत्यक्तद्रव्यस्यान्येन ग्रहणे व्रह्मस्वानपहारापत्तेश्च। एवञ्च दाने सम्प्रदानस्य कारणतोद्देश्यत्वात्, नत्वनु-मतिद्वारा मानाभावात् मनसा पात्रमनुद्दिश्येत्यत्रव्यभिचाराच्च। एवञ्च त्यागान्निवृत्तमपि दातुः स्वत्वंसंप्रदानाग्रहणादसम्यक्त्वेन तस्यादानत्वश्रुतेर्दातुः पुनःस्वत्वमुत्पद्यते। तथाच नारदः
“दत्त्वा दानमसम्यग्यःपुनरादातुमिच्छति। दत्ताप्रदानिकं नाम व्यवहारपदंहि तत्” असम्यक्त्वञ्च दानस्यादेयद्रव्यदानाद्वा अय-थार्थदानाद्वा सम्प्रदानभ्रान्त्यादिना वा पित्राद्यसम्मत्या-दिना वा दातुरेवाशुद्ध्या व्यवस्थाभेदाद्वा इति वाच-स्पतिमिश्राः। तथाच देवलः।
“दाता प्रतिग्रहीता चश्रद्धा देयञ्च धर्मयुक्। देशकालौ च दानानामङ्गान्ये-तानि षड्विदुः”। धमयुक् न्यायार्जितं द्रव्यं तथाच[Page3516-b+ 38] विष्णुधर्मोत्तरम्
“देशकाले तथा पात्रे धनं न्यायागतंतथा। यद्दत्तं ब्राह्मणश्रेष्ठाः। तदनन्तं प्रकीर्तितम्”। प्रतिग्रहाभावे प्रतिग्रहीतृरूपाङ्गाभावादसम्यक्त्वम्। दत्तस्याप्रदानं पुनर्हरणं यस्मिन् व्यवहारपदे तत्तथेतिविज्ञानेश्वरः। अतएव यज्ञाद्यर्थं याचकाय धनं दत्त-मपि तेन तदकरणे पुनस्तद्ग्रहणमाह मनुः
“धर्मार्थंयेन दत्तं स्यात् कस्मैचिद्याचते धनम्। पश्चान्न च तथायत् स्यान्न देयन्तस्य तद्भवेत्”। दत्तस्य गृहीतस्य भुक्त-स्यापि पुनरादानश्रुतेः सुतरां पात्रस्योपेक्षायां तथेति। उपेक्षया स्वत्वहानिमाह वृहस्पतिः
“प्राप्तमात्रंयेन भुक्तं स्वीकृत्यापरिपन्थिनम्। तस्य तत् सिद्धि-माप्नोति हानिञ्चोपेक्षया तथा”। अतएव प्रतिग्रहीतु-स्त्यागात् फलं वक्ष्यते। अन्यत्र हारीतः
“प्रति-श्रुत्याः प्रदानेन दत्तस्य छेदनेन च। विविधान् नरकान्याति तिर्य्यग्योनौ च जायते। वाचा यच्च प्रतिज्ञातंकर्मणा नोपपादितम्। तद्धनं ऋणसंयुक्तम् इह लोकेपरत्र च”। दत्तस्योछेदनं स्वयन्दत्तस्य द्रव्यस्य प्रतिमहीतु-र्दानविक्रयादिकं विना छेदं बलात् स्वीकरणं नतुतद्विक्रीतादेर्ग्रहणम्। तथा चाश्वमेधिके पर्वणि युधि-ष्ठिरं प्रति व्यासवाक्यं
“दत्तैषा भवता मह्यं ताञ्च भूमिंददाम्यहम्। अरण्यं दीयतां मेऽद्य आसीत् पूर्वन्तुते यतः” इति कात्यायनः
“सुस्थेनार्त्तेन वा दत्तंश्रावितं धर्मकारणात्। अदत्त्वा तु मृते दाप्यस्तत्-सुतोनात्र संशयः”। आर्त्तेन जन्मप्रभृति महारोगि-व्यतिरिक्तरोगिणेत्यर्थः। महारोगिणां दाने
“तेषांमध्ये तु यः कुष्ठी गर्हितः सर्वकर्मसु” इति प्रागुक्त-भविष्यपुराणीयनिषेधात्। एवञ्च मुर्मूर्षुदत्तस्य यद्दानो-पसर्गत्वाभिधानं तद्धर्म्मार्थेतरदानपरम्। स्मृतिः
“स्नात्वा शुद्धे समे देशे गोमयेनोपलेपिते। वसित्वावसनं शुद्धं दानं दद्यात् सदक्षिणम्”। अत्र श्राद्ध-वल्लेपितदेशाभिधानात्
“यज्ञोदानं तपोजप्यंश्राद्धञ्च सुरपूजनम्। गङ्गायान्तु कृतं सर्वं कोटि-कोटिगुणं भवेत्” इति स्कान्दे गङ्गायामिति गङ्गा-तीरपरमिति गङ्गावाक्यावली। पाद्मे
“शिवस्यविष्णोरग्नेश्च सन्निधौं दत्तमक्षयम्”। लिङ्गपुराणे
“शालग्रामशिला यत्र तत्तीर्थं योजनद्वयम्। तत्रदानञ्च होमश्च सर्वं कोटिगुणं भवेत्”। यत्र भूर्लोके। भूर्लोकमाह विष्णुपुराणम्।
“पादगम्यञ्च यत् किञ्चि-[Page3517-a+ 38] द्वस्त्वस्ति पृथिवीमयम्। स भूर्लोकः समाख्यातोविस्ता-रोऽस्य मयोदितः” पृथिवीमयं पार्थिवम्। ततश्च शाल-ग्रामस्य पात्राद{??}स्थानेऽपि तीर्थत्वमतएव केवलभूमौशालग्रामावस्थानं तीर्थाय मैथिलानां दुराचरणमेव। शङ्खलिखितौ
“आहारं मैथुनं निद्रां सन्ध्याकालेविवर्ज्जयेत्। कर्म चाध्ययनञ्चैव तथा दानप्रतिग्रहौ”। स्मृतिः
“गत्वा यद्दीयते दानं तदनन्तफलं स्मृतम्। सहस्रगुणमाहूय याचिते तु तदर्द्धकम्”। विष्णुधर्मो-त्तरम्
“सीदते द्विजमुख्याय योऽर्थिने न प्रयच्छति। सामर्थ्ये सति दुर्बुद्धिर्नरकायोपपद्यते”। यमः
“आशांदत्त्वा ह्यदातारं दानकाले निषेधकम्। दत्त्वा सन्तप्यतेयस्तु तमाहुर्ब्रह्मघातकम्”। मात्स्ये
“अनित्यं जीवितंयस्मात् वसु चात्तीव चञ्चलम्। केशेष्विव गृहीतस्तुमृत्युना धर्ममाचरेत्”। भारते
“एकां गां दशगुर्दद्या-द्दश दद्याच्च गीशती। शतं सहस्रगुर्दद्यात् सहस्रंबहुगोधनः”। व्यासः
“ग्रामादर्द्धमपि ग्राममर्थिभ्यःकिन्न दीयते। इच्छानुरूपोविभवः कदा कस्य भवि-ष्यति”। तथा
“मुक्त्वा दानं न शस्यते”। अतएवा-ग्निपुराणम्
“घासमुष्टिं परगवे सान्नं दद्यात्तु यःसदा। अकृत्वा स्वयमाहारं स्वर्गलोकं स गच्छति”। देवलः
“अपापरोगी धर्म्मात्मा दित्सुरव्यसनः शुचिः। अनिन्द्याजीवकर्म्मा च षड्भिर्दाता प्रशस्यते” अनिन्द्या-जीवकर्मा अगर्हितजीवनोपायः। तथा
“अपराबाध-मक्लेशं प्रयत्नेनार्जितं धनम्। अल्पं वा विपुलं वापिदेयमित्यभिधीयते”। अपराबाधं परपीडारहितम् अक्लेशंपात्रक्लेशाजनकम्। तथा
“यत् यच्च दुर्लभं द्रव्यंयस्मिन् कालेऽपि वा पुनः। दानार्हौ देशकालौ तौस्यातां श्रेष्ठौ न चान्यथा” देवलः
“इष्टं दत्तमधीतं वाविनश्यत्यनुकीर्त्तनात्। श्लाघानुशोचनाभ्याञ्च भस्मतेजोविभिद्यते। तस्मादात्मकृतं पुण्यं वृथा न परिकीर्त्त-घेत्” इष्टं यजनं अनुकीर्त्तनं कथनं श्लाघा प्रशंसाअनुशोचनं धनव्ययेन पश्चात्तापः। भग्नतेजः फलजनन-शक्तिहीनं वृथा रक्षादिप्रयोजनं विना। देवलः
“पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम्। केवलंधर्मबुद्ध्या यत् धर्मदानं प्रचक्ष्यते”। प्रयोजनमिहलौकिकमभिहितम्। याज्ञवल्क्यः
“न विद्ययाकेवलया तपसा वापि पात्रता। यत्र वृत्तमिमे चोभेतद्धि पात्रं प्रचक्ष्यते”। वृत्तमाचारः। विष्णुधर्म्मोत्तरे[Page3517-b+ 38]
“पतनात् त्रायते यस्मात् पात्रं तस्मात् प्रचक्षते”। महाभारते
“पात्राणामपि तत् पात्रं शूद्रान्नं यस्यनोदरे”। अत्र साक्षाच्छूद्रदत्तघृततण्डुलाद्यनुपयोगीतिदानसागरः। शूद्रस्वत्वाश्रयान्नाभोजीति रत्नाकरः। वस्तुतस्तु मुमूर्षुप्रकरणाभिहितशूद्रान्नानुपयोगोत्यर्थः। याज्ञवल्क्यः
“दातव्यं प्रत्यहं पात्रे निमित्तेषुविशेषतः”। निमित्तेषु गङ्गातीरादिसंक्रान्त्यादिषु। वृद्धमनुः
“सहस्रगुणितं दानं भवेद्दत्तं युगादिषु। कर्म श्राद्धादिकञ्चैव तथा मन्वन्तरादिषु”। विवादचिन्ता-मणौ वशिष्ठः
“शुक्रशोणितसम्भवः पुत्रोमातापितृ-निमित्तकः। तस्य प्रदानविक्रयपरित्यागे तु मातापितरौप्रभवतः नत्वेकं पुत्रं दद्यात् प्रतिगृह्णीयात् वा स हिसन्तानाय पूर्वेषामिति”। कात्यायनः
“विक्रयञ्चैवदानञ्च न नेयाः स्युरनिच्छवः। दाराः पुत्राश्च सर्व-स्वमात्मन्येव तु योजयेत्। आपत्काले तु कर्त्तव्यं दानंविक्रय एव च। अन्यथा न प्रवर्त्तेत इति शास्त्रार्थ-निश्चयः”। एवं भरणासामर्य्य एव परित्यागः। मनुः
“सप्त वित्तागमाधर्म्या दायोलाभः क्रयोजयः। प्रयोगःकर्मयोगश्च सत्प्रतिग्रह एव च”। दायोऽन्वयागतः लाभोनिध्यादेः। जयः संग्रामादेः। प्रयोगः कुशीटं, कर्मयोगःकृषिबाणिज्यपुत्रकन्यादि। वृहस्पतिः
“कुटुम्बभक्तवसना-द्देयं यदतिरिच्यते। मध्यास्वादो विषं पश्चाद्दातुर्धर्म्मोऽ-न्यथा भवेत्”। कीर्त्तिनरकाभ्यामित्यर्थः। अस्याप-वादमाह स एव
“कुटुम्बं पीडयित्वा तु ब्राह्मणायमहात्मने। दातव्यं भिक्षवे चान्नमात्मनोभूतिमिच्छता”। अतएव भविष्यपुराणे
“स्वल्पे महति वा तुल्यं फल-माद्यदरिद्रयोः”। विष्णुधर्मोत्तरे
“यस्योपयोगियद्दव्यं देयं तस्मै च तद्भवेत्”। हारीतः
“तामसेनतु द्रव्येण ऋत्विग्भिस्तामसैस्तथा। तामसं भावमा-स्थाय तामसो यज्ञ उच्यते। तामसेन तु यज्ञेन दानेनतपसा तथा। निरये जन्म चेदाहुर्बृद्धिं विद्याच्च ताम-सीम्”। तामसी वृद्धिर्म्लेच्छाधिपत्यरूपा इति रत्ना-करः।
“राजसेन तु द्रव्येण ऋत्विग्भीराजसैस्तथा। राजसं भावमास्थाय राजसोयञ्च उच्यते। राजसेन तुयज्ञेन दानेन तपसा तथा। निरयस्वर्गयोर्जन्म क्रूर-राज्यं श्रिया युतम्। सात्विकेन तु द्रव्येण ऋत्विग्भिःसात्विकैस्तथा। सात्विकं भावमास्थाय सात्विकोयज्ञ उच्यते। सात्विकेन तु यज्ञेन दानेन तपसा[Page3518-a+ 38] तथा। देवलोके ध्रुवं वासो देवसायुज्यमेव च”। मत्स्यपुराणञ्च
“येषां पूर्वकृतं कर्म सात्विकं मनुजोत्तम!। पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम्। कर्मणाप्राप्यते लोके राजसस्य तथा फलम्। कृच्छ्रेण कर्मणाबिद्धि तामसस्य तथा फलम्” द्रव्याणामपि तत्तद्भेदमाहनारदः
“पार्श्विकद्यूतचौर्य्यार्त्तिप्रतिरूपकसाहसैः। व्याजेनोपार्जितं यद्यत्तत् कृच्छ्रं समुदाहृतम्। पार्श्विकः पात्रतया योऽर्जयतीति प्रायश्चित्तविवेकः। आर्त्त्या परपीडया, प्रतिरूपकेण कृत्रिमरत्नादिना, साह-सेन समुद्रयानगिर्य्यारोहणादिना, व्याजेन ब्राह्मणवेशेनशूद्रादिना। कृच्छ्रं तामसं इति रत्नाकरः।
“कुशीद-कृषिबाणिज्यशुल्कशालानुवृत्तिभिः। कृतोपकारादाप्तञ्चराजसं समुदाहृतम्” अनुवृत्तिः सेवा।
“श्रुतशौर्य्य-तपःकन्याशिष्ययाज्यान्वयागतम्। घनं सप्तविधं शुद्धंमुनिभिः समुदाहृतम्”। श्रुतेनाध्ययनेन शौर्य्येणजयादिना तपसा जपहोमदेवार्च्चनादिना कन्यागतंकन्यया सहागतं श्वशुरादेर्लब्धं शिष्यागतं गुरुदक्षिणा-दिना, याज्यागतं आर्त्विज्यलब्धम् अन्वयागतं दायादि-भ्योलब्धं शुद्धं सात्विकम्। अत्र स्वत्वहेतुभूतव्यापाररूपा-र्जनगणे चौर्य्यस्यापि निर्देशाच्चौर्य्योपात्तद्रव्येऽपि यथेष्ट-विनियोज्यत्वेन शास्त्रगम्यत्वरूपस्वत्वमस्तीति प्रतीयतेभवदेवभट्टसम्पतोऽयं पक्षः। यत्तु
“द्रव्यमस्वामिविक्रीतंपूर्वस्वामी समश्नुयात्” इति याज्ञवल्कीयेन चौर-विक्रीतस्यास्वामिविक्रीतत्वमुक्तं तत्रास्वामिपदमप्रशस्त-स्वामिपरं
“अप्राशस्त्यं विरोधश्च नञार्थाः षट् प्रकी-र्त्तिताः” इति प्रागुक्तत्वान्नतु स्वामित्वाभावपरं प्रागुक्त-नारदवचनविरोधात्।
“ब्राह्मणस्वं न हर्त्तव्यं क्षत्रियेणकदाचन। दस्युनिष्क्रिययोस्तु स्वमजीवन् हर्तुमर्हति” इत्यनेन चौरस्वत्वाभिधानाच्च अतएव याज्ञवल्क्यःबुभुक्षितस्त्र्यहं स्थित्वा धान्यभव्राह्मणाद्धरेत्”। मनु-रपि
“तथैव सप्तमे भक्ते भक्तानि षडनश्नता। अश्व-स्तनविधानेन हर्त्तव्यं हीनकमंणः” इत्याभ्यां त्र्यहो-पवासषडुपवासानन्तरं धान्यचौर्य्येण जीवनाभिधाना-त्तदन्नस्य बलिवेश्वदेवार्हता प्रतीयत इति। (अहोरात्रेभोजनद्वयविधानात् त्रिरात्रोपबासे षडभोजनस्य सम्भवेन वाक्ययोरकवाक्यत्वया त्रिरात्रोपवास एव सिद्ध्यति। अतः षडीपवासस्य पाक्षिकत्वोक्तिश्चिन्त्यमूला)। व्यक्ते हरि-वंशीयसप्तव्यावोपाख्याने ते नियागाद्गुरोस्तस्य गां[Page3518-b+ 38] दोग्ध्रीं समपालयन्। क्रूरा बुद्धिः समभवत्तां गां वैहिंसितुं तदा। पितृभ्यः कल्पयित्वैनामुपभुञ्जीतभारत!। स्मृतिः प्रत्यवमर्षश्च तेषां जात्यन्तरेऽभवत्”। अत्र गुरोर्गां हत्वा श्राद्धेन चौराणामपि जातिस्मात्म-दर्शनाच्चौर्य्येण स्वत्वं प्रतीयते। एतुत्तु अत्यन्ता-शक्तानां शक्तानां तु मत्स्यपुराणे
“गामग्निं ब्राह्मणंशास्त्रं काञ्चनं सलिलं स्त्रियः। मातरं पितरञ्चैव येनिन्दन्ति नराधमाः। न तेषामूर्द्घगमनमेवमाहप्रजापतिः। परस्वं हरते यस्तु पश्चाद्दानं प्रयच्छति। न स गच्छति वै स्वर्गं दातारो यत्र भागिनः” इतिसात्विकराजसिकवत् फलाभावपरम्। अन्यथा प्रागुक्त-हारीतादिवचनविरोधापत्तेः। शातातपपराशरौ
“सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत्। भोजनेचैव दाने च दहत्यासप्तमं कुलम्” वशिष्ठव्यासपराशराः
“यस्य चैकगृहे मूर्खो दूरे चैव बहुश्रुतः। बहुश्रुतायदातव्य नास्ति मूर्खे व्यतिक्रमः”। शातातपः
“मन्त्रपूर्वञ्चयद्दानमपात्राय प्रदीयते। दातुर्निश्छिद्य हस्तं तद्भो-क्तुर्जिह्वां निकृन्तति। न ददस्वेति यो ब्रूयात् देवाग्नौब्राह्मणेषु च। तिर्य्यग्योनिशतं गत्वा चाण्डालेष्वभि-जायते”। वशिष्ठः
“परिभुक्तमवज्ञातमपर्य्याप्तमसं-स्कृतम्। यः प्रयच्छति विप्रेभ्यस्तद्भस्मन्यवतिष्ठते” अप-र्य्याप्तं स्वकार्य्याक्षमम्। यमः
“सुवर्णं रजतं ताम्रंयतिभ्यो यः प्रयच्छति। न स तत्फलमाप्नोति तत्रैवपरिवर्त्तते”। अत्रैव दृष्टफल एवावतिष्ठते न स्वर्गादिफल-माप्नोतीत्यर्थः। महाभारते
“पङ्गन्धबधिरामूकाव्याधि-नोपहताश्च ये। भर्त्तव्यास्ते महाराज! न तु देयःप्रतिग्रहः”। व्याधिना यक्ष्मादिना। व्यासः
“माता-पितृभ्यां यद्दत्त यद्दत्त भ्रातृबन्धुषु। आत्मजेषु चयद्दत्तं सोऽनन्तस्वर्गसंक्रमः। पितुः शतगुणं दानंसहस्र मातुरेव च। अनन्तं दुहितुर्दानं सोदर्य्येदत्तमक्षयम्”। विशेषयति नारदः
“साक्षित्वं प्राति-भाव्यञ्च दानं ग्रहणमेव च। विभक्ता भ्रातरः कुर्य्यु-र्नाविभक्ताः परस्परम्। योऽसद्भ्यः प्रतिगृह्यापि पुनःसद्भ्यः प्रयच्छति। आत्मानं संक्रमं कृत्वा परांस्तारयतेहि सः” धनस्वामिनमात्मानं सन्तारयति दुस्तरमिति। शेषार्द्धं स्कान्दे विशेषः। गोतमः
“अन्तर्जानु करं कृत्वामकुशन्तु तिलोदकम्। फलांशमभिसन्धाय प्रदद्याच्छ्रद्धया-त्वितः”। उदकस्तुतिमभिधायाह हारीतः
“तस्मादद्भिर-[Page3519-a+ 38] बोक्ष्यैतद्दद्यादालभ्य एव च” इति अवोक्ष्य प्रोक्ष्येतिरत्नाकरः। अत्र यद्यपि
“उत्तानेनंतु हस्तन प्रोक्षणंसमुदाहृतम्। न्युब्जेनाभ्युक्षणं प्रोक्तं तिरश्चावोक्षणंस्मृतम्” इति वर्द्धमानधृतेन विरुद्धम्। अतएव कुसुमा-ञ्जलौ प्रोक्षणाभ्युक्षणादिभिरिति भेदेनोक्तं तथापि
“यस्य यद्दीयते वस्त्रमलङ्कारादि काञ्चनम्। तेषां दैव-तमुच्चार्य्य कृत्वा प्रोक्षणपूजने। उत्सृज्य मूलमन्त्रेणप्रतिनाम्ना प्रतर्पयेत्” इति कालिकापुराणाद्व्याख्याने-ऽपि न शास्त्रविरोधः। वस्तुतस्तु उभयदर्शनाद्वैकल्पिकम्। आलभ्य पाणिना स्पृष्ट्वा। आपस्तम्बः
“सर्वाण्युदक-पूर्वाणि दानानि यथाश्रुति वीहारे” इति। अन्वाहार्य्य-दानादौ यथाश्रुति यावदेव श्रूयते तावदेव कुर्य्यात् वीहारेयज्ञे नोदकपूर्वतानियमः इति कल्पतरुरत्नाकरौ। अन्वा-हार्य्यममावस्याश्राद्धं एवञ्चापस्तम्बसूत्रैकवाक्यत्वात् यथा-श्रुति वीहारः इति जैमिनिसूत्रेऽपि श्रुतिरुत्पत्तिवाक्यंशाब्दी व्युत्पत्तिश्च तेनोत्पत्तिव्युत्पत्तिवाक्ययोरर्थः यथा-श्रुतः स एव विनियोगवाक्ये ग्राह्य इति सूत्रार्थः। नतुश्रुतैरेवं शब्दैर्वाक्यरचना कार्य्येत्यर्थः मूलभूतश्रुत्यन्तर-कल्पनापत्तेरदृष्टार्थतापत्तेश्च। ततश्च सङ्कल्पादिवाक्येसङ्कल्पविषयीभूतस्यार्थंस्याभिलप्यमानत्वादभिलापे तु तद्वा-चकसर्वशब्दानां सामर्थ्यात् श्रुतशब्दस्य नियमों नास्तिअन्यथा विश्वजिता यजेतेत्यादौ स्वर्गकाम इत्यभिलापोन स्यादश्रुतत्वात् तथा
“कपिलाकोटिदानात्तु गङ्गास्नानंविशिष्यते इति ब्रह्माण्डपुराणात् कपिलाकोटिदान-जन्यफलाधिकफलप्राप्तिकाम इति शिष्टानुमताभिलापोन स्यात्। अतएव ग्रहादीनां नानामुनिभिर्नानामान्यु-क्तानि तेषां यत् किञ्चिन्नाम्नैवोल्लेखाय। तथाच मत्स्य-पुराणम्
“सूर्य्यः सोमस्तथा भौमो बुधजीवसितार्कजाः। राहुः केतुरिति प्रोक्ता ग्रहालोकहितावहाः”। याज्ञ-वल्क्यः
“सूर्य्यः सोमो महीपुत्रः सोमपुत्रः वृह-स्पतिः। शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः” यत्र त्वेकस्य देवस्य पूजादौ विशिष्य नानानामोपादनंतत्र ततएव तान्येवाभिलप्यानि न तु नामान्तराणिएवं यत्र बहुभिर्मुनिभिर्यन्नामाभिधीयते तत्र तदेववक्तव्यं तथाभिधानेन श्रुतिस्तत्रैव तात्पर्य्यं प्रतीयते। एवञ्च विधिशब्दस्य मन्त्रत्वे भावः स्यादिति न्यायेनापिविधिशब्दस्य विधिवाक्यस्थदेवताप्रतिपादकमात्रस्य मन्त्र-सम्पादकत्वं बोध्यम्, योगियाज्ञवल्क्येन
“मित्रोधाता-[Page3519-b+ 38] भगस्त्वष्टा पूषार्य्यमांशुरेव च। पर्य्यायनाममिश्चैव एकृ-एव निगद्यते” तथा।
“वाचकेऽपि च विज्ञाते वाच्यएवप्रसीदति” इत्युक्तम्। अतएव मनुः
“वाग्दैवत्यैश्च चरु-भिर्यजेरंस्ते सरस्वतीम्। अनृतस्यैनसस्तस्य कुर्वाणानिष्कृतिं पराम्”। अत्र वाग्देवता सरस्वतीति श्रुते-र्वाक्सरस्वत्योरेकार्थत्वात् वाग्दैवत्यचरुणा सरस्वतीयजनं संगच्छते। अन्यथा नामभेदाद्देवताभेदे विरुद्धंस्यात्। तेऽसत्यवचने सम्भाव्यमाने शूद्रविट्क्षत्त्रियविप्रबध-विषयानृतादिसाक्षिणः। स्मृतिः
“नामगोत्रे ससुच्चार्य्यप्राङ्मुखो देवकीर्त्तनात्। उदङ्मुखाय विप्राय दत्त्वान्तेस्वस्ति वाचयेत्”। देवकीर्त्तनादिति ल्यब्लोपे पञ्चमीदेवकोर्त्तनं कृत्वेत्यर्थः। ततश्च दात्रामुकदैवतं विष्णुदैवतंवा वक्तव्यमिति। देयद्रव्यदेवा विष्णुध॰ उक्ता यथा
“अभयं सर्वदैवत्यं भूर्मिवै विष्णु-देवता। कन्या दासस्तथा दासी प्राजापत्याः प्रकीर्त्तिताः। प्राजापत्यो गजः प्रोक्तस्तुरगोयमदैवतः। तथा चैकशफंसर्वं कथितं यमदैवतम्। महिषश्च तथा याम्यउष्ट्रो वै नैरृतो भवेत्। रौद्री धेनुर्बिनिर्दिष्टा छागआग्नेय उच्यते। मेषन्तु वारुणं विद्याद्वराहो, वैष्णवःस्मृतः। आरण्याः पशवः सर्वे कथिता वायुदैवताः। जलाशयानि सर्वाणि वारिधानीं कमण्डलुम्। कुम्भञ्चकरकञ्चैव वारुणानि विनिर्दिशेत्। समुद्रजानि रत्नानिसामुद्राणि तथैव च। आग्नेयं कनकं प्रोक्तं सर्व-लौहानि चाप्यथ। प्राजापत्यानि शस्यानि पक्वान्नमपिच द्विजाः!। ज्ञेयानि सर्वगन्धानि गान्धर्वाणि विचक्षणैःवार्हस्पत्यं स्मृतं वासः सौम्यानि रजतानि च। पक्षि-स्वश्च तथा सर्वे वायव्याः परिकीर्त्तिताः। विद्या ब्राह्मीविनिर्दिष्टा विद्योपकरणानि च। सारस्वतानि ज्ञेयानिपुस्तकाद्यानि पण्डितैः। सर्वेषां शिल्पभाण्डानां विश्व-कर्मा तु दैवतम्। द्रुमाणामथ पुष्पाणां शाकानां हरितैःसह। फलानामपि सर्वेषां तथा ज्ञेयो वनस्पतिः। मत्स्यमांसे विनिर्दिष्टे प्राजापत्ये तथैव च। छत्रंकृष्णाजिनं शय्यां रथमासनमेव च। उपानहौ तथायानं तथा यत् प्राणावर्ज्जितम्। औत्तानाङ्गिरसं त्वेतत् प्रतिगृह्णीत मानवः। पार्य्यन्यञ्च तथोशीरं वर्म-शस्त्रध्वजादिकम्। ब्रतोपकरणं सर्वं कथितं सर्वदैवतम्। गृह्णन्तु सर्वदैवत्यं यदनुक्तं द्विजोत्तमाः!। तज्ज्ञेयंविष्णुदैवत्यं सर्वं वा विष्णुदैवनम्”। देवकीर्तनादित्यत्र[Page3520-a+ 38] देयकीर्त्तनादिति षट्त्रिंशन्मते पाठः व्याख्यातश्च हेमा-द्रिणा
“देयकीर्त्तनोत्तरकालं दत्त्वेत्यर्थः। विष्णुधर्मोत्तरेऽपि
“द्रव्यस्य नाम गृह्णीयाद्ददानीति ततो वदेत्। तोयं दद्यात्तथा दाता दाने विधिरयं स्मृतः”। व्यासः
“नामगोत्रे समुच्चार्य्य प्रदद्याच्छ्रद्धयान्वितः। परितुष्टेनभावेन तुभ्यं सम्प्रददे” इति। सम्प्रदानवाक्येऽहं-प्रयोगमाह कात्यायनः
“अहमस्मै ददानीति एव-माभाष्य दीयते” एवञ्च सम्प्रददे ददानीत्येतयोर्विकल्पःस च व्यवस्थितः आत्मगामिफले सम्प्रददे परमामिफलेददानीति उभयपदित्वात् दाधातोः फलवति कर्त्तर्य्या-त्मने पदं दृश्यते अफलवति कर्त्तरि परस्मैपदमितिपाणिनिस्वरसात्। अतएवात्मनेपदं परस्मैपदम् इत्येत-योरात्मने परस्मै इत्याभ्यां समाख्या सङ्गच्छते। ददानीत्यस्यदद इतिवत् वर्त्तमानार्थतेति। अतएव
“सकृदाह ददा-नीति” मनुनाप्युक्तं सङ्गच्छते अनुमत्यर्थे तु सकृत्त्वाभि-धानमप्रयोजकमिति। श्राद्धादौ फलभागिनां गोत्रा-द्युल्लेखदर्शनात् तदितरत्रापि तथोल्लेखाचारः। हारीतः
“अथासद्द्रव्यदानमस्वर्ग्यं यच्च दत्त्वा परि-तप्यते तर्ह्यदानमफलं यच्चोपकारिणे ददाति तन्मात्रंपरिक्लिष्टं यच्च सोपधं ददाति अन्यश्रावितमल्पं यच्चा-पात्राय ददाति अनिष्टदानं स्रवति यच्चादत्त्वा प्रकी-र्त्त्यते स्मयदानं यच्चाश्रद्धया ददाति क्रोधाद्राक्षसंयच्चाक्रुश्य ददाति दत्त्वा वा क्रोशति असत्कृतं पैशाचंयच्चावज्ञातं ददाति दत्त्वा बावजानीते मुमूर्षोस्तामसंयच्चाप्रकृतो ददाति एते दानोपसर्गायैरुपसृष्टं दानमप्र-सिद्धमस्वर्ग्यमयशस्यमध्रुवफलं भवत्यल्पफलं वेति”। तर्हित्यागानन्तरकाले, हस्तार्पणसम्भवेऽप्यदानमसमर्पणम्। उपकारिणे व्यसनोपकारिणे तदितरोपकारिणे तु दक्षः।
“मावापित्रोर्गुरौ मित्रे विनीते चोपकारिणे। दीना-नाथविशिष्टेभ्यो दत्तन्तु सफलं भवेत्”। तन्मात्रं यथोक्तोप-करणरहितम्। सोपधं सछद्म अन्यश्रावितं लोकसम्भाव-नार्थंप्रकाशितम्। अनिष्टदानं शत्रवे दानं, स्मयोमान-भेदः अप्रकृतोभयादिमान्। तथाच नारदः
“अदत्तन्तुभयक्रोधकामशोकरुगन्वितैः। बालमूदास्वतन्त्रार्त्तमत्तोन्म-त्तापवर्जितम्। कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया चयत्”।
“प्रतिलाभेच्छया सोपाधिदत्तमुपाध्यसिद्धौ” इति विवाद-चिन्तामणिः। एतत्परमेव हारीतेन सोपधमित्युक्तम्”। हेमाद्रौ दान॰ ख॰ दानाङ्गादिकं विस्तरेणोक्तं यथा[Page3520-b+ 38]
“अथ दानाङ्गनिरूपणम्। तानि च प्रतिग्रहीतृ द्रव्य-कालदेशश्रद्धासंज्ञकानि। तदुक्तं भविष्यपुराणे
“प्रति-ग्रहीता द्रव्यञ्च कालो देशश्च पावनः। श्रद्धा चसात्विकी ज्ञेयं दानानामङ्गपञ्चकम्”। तत्र प्रतिग्रहीतृपात्रनिरूपणम्। स्कन्दपुराणे देवींप्रति ईश्वरवचनम्
“श्रुतीनामाकराह्येते रत्नाना-मिव सागराः। विप्रा विप्राधिपमुखे! पूजनीयाः प्रय-त्रतः”। विप्राधिपः चन्द्रः तद्वन्मुखं यस्याः सातथा देवीसम्बोधनमेतत्।
“यत्र वेदविदो विप्रा नप्राश्नन्त्युत्तमं हविः। न तत्र देवा देवेशि! हविरश्नन्तिकर्हिचित्”। तथाच तैत्तिरीयश्रुतिः
“यावतीर्व्वैदेवतास्ताः सर्व्वा वेदविदि ब्राह्मणे वसन्तीत्यादि”।
“वियदित्युच्यते व्योम प्रकारः प्रापणे स्मृतः। दिवंसम्प्रापयन्त्येते दातॄन् विप्रास्ततः स्मृताः। अपिनारायणोऽनन्तो ब्रह्मा स्कन्दोऽनिलः शिखी। तद्-दानं नाभिनन्दन्ति यत्र विप्रा न पूजिताः। येषांप्रसादसुलभ--मायु--र्धर्म्मः सुखं धनम्। श्री--र्यशः--स्वर्ग-वासश्च तान् विप्रानर्च्चयेद्बुधः”। बिष्णुधर्म्मोत्तरे श्रीभग-वानुवाच
“ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं नसंशयः। निर्भत्सितैश्च निर्भत्स्ये तैरहं सर्वकर्म्मसु। विप्राः परा गतिर्मह्यं यस्तान् पूजयते नृप!। तमहंस्वेन रूपेण प्रपश्यामि युधिष्टिर!। काणाः कुण्ठाश्चषण्डाश्च दरिद्रा व्याधिताश्च ये। एवंरूपाश्च ये विप्राःपश्य रूपं ममैव ते”। एतत्तु ब्राह्मणजातिमात्रस्तुति-परम्। याज्ञबल्क्यः
“तपस्तप्त्वासृजद्ब्रह्मा ब्राह्म-णान् वेदगुप्तये। तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणायच”। मत्स्यः
“नास्ति विप्रसमो देवो नास्ति विप्र-सभो गुरुः। नास्ति विप्रात् परः शत्रुर्नास्ति विप्रात् परोविधिः”। वह्निपुराणम्
“न जातिर्न कुलं राजन्!न स्याध्यायः श्रुतं न च। कारणानि द्विजत्वस्य बृत्तमेवतु कारणम्। किं कुलं वृत्तहीनस्य करिष्यति दुरात्मनः। कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु। नैकमेकान्ततोग्राह्यं पठनं हि विशाम्पते!। वृत्तमन्विष्यतां तात!रक्षोभिः किं न पठ्यते। बहुना किमधीतेन नटस्येवदुरात्मनः। तेनाधीतं श्रुतं वापि यः क्रियामनुतिष्ठति। कपालस्थ यथा तोयं स्वदते च यथा पयः। दूष्यंस्यात् स्थानदोषेण, वृत्तहीनं तथा श्रुतम्। तस्माद्विद्धिमहाराज! वृत्तं ब्राह्मणलक्षणम्। चतुर्वेदोऽपि दुर्वृत्तः[Page3521-a+ 38] शूष्टादल्पतरः स्मृतः। सत्यं दम--स्तपोदानमहिंसेन्द्रिय-निग्रहः। दृश्यन्ते यत्र राजेन्द्र! स ब्राह्मण इतिस्मृतः”। वशिष्ठः
“यं न सन्तं न चासन्तं नाश्रुतंन बहुश्रुतम्। न सुवृत्तं न दुर्वृत्तं वेद कश्चित्सब्राह्मणः”। सन्, विशिष्टः असन्, तद्विपरीतः। अत्रचात्मोत्कर्षप्रकाशनं यो न करोति स पात्रमिति तात्-पर्य्यमिति। यमः
“अहिंसानिरतो नित्यं जुह्वानोजातवेदसम्। स्वदारनिरतो दाता स वै ब्राह्मणउच्यते। श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा। असम्भिन्नार्य्यमर्य्यादः स वै ब्राह्मण उच्यते। आशिषोऽ-र्थार्थं--पूजाञ्च ग्रसङ्गान्न करोति यः। निवृत्तो लोभ-मोहाभ्यां तं देवा ब्राह्मणं विदुः”।
“आशिषः” आशीर्बादान्,
“अर्थार्थं” धनलाभाय। प्रसङ्गः अत्या-सत्तिः।
“सत्यंदानं क्षमा शीलमानृशंस्यं दया घृणा। दृश्यन्ते यत्र लोकेऽस्मिंस्तं देवा ब्राह्मणं विदुः”। यमशातातपौ
“तपोधर्मो दया दानं सत्यं शौचं श्रुतम्घृणा। विद्याविज्ञानमास्तिक्य-मेतद्ब्राह्मणलक्षणम्”। बौ धायनः
“बिद्या तपश्च योनिश्च एतद्व्राह्मणलक्षणम्। विद्यातपोभ्यां योहीनो जातिब्राह्मण एव सः”। वशिष्ठः
“ये क्षान्तदान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाःप्राणिबधे निवृत्ताः। प्रतिग्रहे सङ्कुचिताग्रहस्तास्तेब्राह्मणास्तारयितुं समर्थाः”। यमः
“विद्यावन्तश्च येंविप्राः सुव्रताञ्च तप्रस्विनः। सत्य--संयम--संयुक्ता ध्यान-युक्ता जितेन्द्रियाः। पुनन्ति दर्शनं प्राप्ताः किं पुनःसंगतिं गताः। तेषां दत्त्वा च संभोज्य प्राप्नुयुःपरमां गतिम्। दत्त्वा द्विजाय शुद्धाय दाता याति शुभांगतिम्। विद्यातपःशीलवांश्च स च तारयते नरः”। कूर्मपुराणे
“स्वाध्यायवन्तो ये विप्रा विद्यावन्तो-जितेन्द्रियाः। सत्यसंयमयुक्ताश्च तेभ्यो दद्यात् द्विजो-त्तमाः!। श्रोत्रियाय कुलीनाय विनीताय तपस्विने। व्रतस्थाय दरिद्राय प्रदेयं शक्तिपूर्बकम्”। संवर्त्तः
“श्रोत्रियाय दरिद्राय अर्थिने च विशेषतः। यद्दानंदीयते तस्मै तद्दानं शुभकारकम्”। श्रोत्रियस्तु, यमे-नोक्तः
“ओंकारपूर्विकास्तिस्नः सावित्रीर्य्यश्च विन्दति। चरितब्रह्मचर्य्यश्च स वै श्रोत्रिय उच्यते” ओंकारपूर्विकामहाव्याहृतीरिति शेषः”। याज्ञबल्क्यः
“सर्वस्यप्रभवोविप्रा श्रुताध्यायनशालिनः। तभ्यः क्रियापराःश्रेष्ठास्तेभ्यीऽप्यध्यात्मवित्तमाः”। पद्मपुराणे
“यथाहि[Page3521-b+ 38] सर्वदेवानां ज्येष्ठः श्रेष्ठः पितामहः। तथा ज्ञानीसदा पूज्यो निर्ममौनिष्परिग्रहः”। मत्स्यपुराणे
“शीलं संवासतो ज्ञेयं शौचं संव्यवहारतः। प्रज्ञासंकथनात् ज्ञेया त्रिभिः पात्रं परीक्ष्यते”। भविष्यपुराणे
“क्षान्ति--स्पृहा--दया--सत्यं--दानं शीलं तपःश्रुतम्। एतदष्टाङ्गमुद्दिष्टं परमं पात्रलक्षणम्”। वशिष्ठः
“स्वाध्यायाढ्यं योनिमन्तं प्रशान्तं वैतानस्थं पापभीरुंबहुज्ञम्। स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैःक्लान्तं तादृशं पात्रमाहुः”। योनिमान् प्रशस्तकुलो-द्भवः। वैतानस्थः अग्निहोत्रादिकर्मपरः। स्त्रीषुक्षान्तः स्त्रीविषये क्षान्तः। गोशरण्यः गोशुश्रूषारतः”। यमः
“विद्यायुक्तो धर्मशीलः प्रशान्तः क्षान्तोदान्तःसत्यवादी कृतज्ञः। वृत्तिग्लानो गोहितो गोशरण्योदाता यज्वा ब्राह्मणः पात्रमाहुः। स्वाध्यायवान्नियमवांस्तपस्वी ध्यानविच्च यः। क्षान्तो दान्तःसत्यवादी विप्रः पात्रमिहोच्यते” महामारते
“साङ्गांस्तु चतुरो वेदान् योऽधीते वै द्विजर्षभः। षड्भ्योऽनिवृत्तः कर्मभ्यस्तं पात्रमृषयोविदुः”।
“पात्रं” पात्रतममित्यर्थः। वशिष्ठः
“किञ्चिद्वेदमयं पात्रंकिञ्चित्पात्रं तपोमयम्। पात्राणामपि तत् पात्रंशूद्रान्नं यस्य नोदरे”। वृहस्पतिः
“किञ्चिद्वेदमयंपात्रं किञ्चित्पात्रं तपोमयम्। आगमिष्यति यत् पात्रतत्पात्रं तारयिष्यति। ब्रह्मचारी भवेत्पात्रं पात्रवेदस्य पारगः। पात्राणामुत्तमं पात्रं शूद्रान्नं यस्यनोदरे”। व्यासः
“किञ्चिद्वेदमयं पात्रं किञ्चित्पात्रंतपोमयम्। असङ्कीर्णं च यत्पात्रं तत्पात्रं तारयि-ष्यति”। असङ्कीर्णं योन्यादिसङ्कररहितम्। याज्ञवल्क्यः
“न विद्यया केवलया तपसा वापिपात्रता। यत्र वृत्तमिमे चोभे तद्धि पात्र प्रकीर्त्ति-तम्”। देवलः
“मात्रश्च ब्राह्मणश्चैव श्रोत्रियश्चततः परः। अनूचानस्तथा भ्रूण--ऋषिकल्प ऋषि-र्मुनिः। इत्येतेऽष्टौ समुद्दिष्टा ब्राह्मणाः प्रथमं स्तुतौ। तेषां परः परः श्रेष्ठो विद्यावृत्तविशेषतः। ब्राह्मणाताकुले जातो जातिमात्रो यदा भवेत्। अनुपेतः क्रिया-हीनो मात्र इत्यभिधीयते”। अनुपेतः उपनयन-रहितः।
“एकदेशमतिक्रम्य वेदस्याचारवानृजुः। स ब्राह्मण इति प्रोक्तो निभृतः सत्यवाग्घृणी”। एक-देशातिक्रमः वेदस्य किञ्चिन्न्यूनस्याध्ययनम्। निभृतः[Page3522-a+ 38] शान्तः।
“एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्यवा। षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित्। वेद--वेदाङ्ग--तत्त्वज्ञः शुद्धात्मा पापवर्जितः। शेषं श्रोत्रिय-वत् प्राप्तः सोऽनूचान इति स्मृतः। अनूचानगुणोपेतोयज्ञ--स्वाध्यायमन्त्रितः। भ्रूणैत्युच्यते शिष्टैःशेषभोजी जितेन्द्रियः। वैदिकं लौकिकञ्चैव सर्वं ज्ञान-मवाप्य यः। आश्रमस्थो वशी नित्यमृषिकल्प इतिस्मृतः”। लोकिकम् अर्थार्जनादिज्ञानम्।
“ऊर्द्ध-रेतास्तपस्युग्रे नियताशो न संशयी। शापानुग्रहयोःशक्तः सत्यसन्धो भवेदृषिः। निवृत्तः सर्वतत्त्वज्ञः काम-क्रोधविवर्जितः। ध्यानस्थो निष्क्रियो दान्तस्तुल्यमृत्-काञ्चनो मुनिः। निवृत्तः निषिद्धकाम्यकर्मभ्यः। नि-ष्क्रियः अर्थार्जनादिक्रियारहितः।
“एवमन्वयविद्याभ्यांवृत्तेन च समुच्छ्रिताः। त्रिशुक्रा नाम विप्रेन्द्राःपूज्यन्ते सवनादिषु”। सवनादिषु यज्ञादिषु।
“प्रतिग्रह-समर्थोऽपि कृत्वा विप्रो यथाविधि। निस्तारयति दाता-रमात्मानञ्च स्वतेजसा। समर्थोऽपि, समर्थएवेत्यर्थः।
“न लोके ब्राह्मणेभ्योऽन्यत् पवित्रं पुण्यमेव वा। अश-क्यञ्च द्विजेन्द्राणां नास्ति वृत्तवतामिति। योक्तव्योहव्यकव्येषु त्रिशुक्रो ब्राह्मणो द्विजैः। अभिभूतश्चपूर्वोक्तैदोषैः स्पृष्टञ्च नेष्यते”। अभिभूतः अपकृष्टः। पूर्वोक्तैः कुलविद्याचारैः। दोषैः उपपातकादिभिः। मनुः
“पात्रस्य हि विशेषेण श्रद्दधानस्तथैव च। अल्पं वा बहु वा प्रेत्य दानस्य प्राप्यते फलम्”। दक्षः
“समं द्विगुणसाहस्रमनन्तञ्च यथाक्रमम्। दाने फल-विशेषः स्याद्धिंसायामेवमेव हि। शतमब्राह्मणे दानंद्विगुणं ब्राह्मणब्रुवे। सहस्रगुणमाचार्य्ये अनन्तं वेद-मारगे”।
“अब्राह्मणः, राजभृतादिः। यदाह शाता-तपः।
“अब्राह्मणास्तु षट्प्रोक्ता ऋषिः शातातपोऽब्र-वीत्। आद्योराजभृतस्तेषां द्वितीयः क्रयविक्रयी। तृतीयो बहुयाज्यः स्यात् चतुर्थो ग्रामयाजकः”। बहवीयाज्या यस्य स बहुयाज्यः।
“पञ्चमस्तु भृतस्तेषां ग्रासस्यनगरस्य वा”। ग्रामस्यं नगरस्य भृत इत्यन्वयः।
“अना-गतान्तु यः पूर्बां सादित्याञ्चैव पश्चिमाम्। नोपासीतद्विजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः”।
“ब्राह्मणब्रुवस्तु,परस्तादपात्रेषु व्याख्यास्यते”। आचार्य्यस्तु महाभारतेअध्यापयेत्तु यः शिष्यं कृतोपनयनं द्विजः। सरहस्यञ्चसकलं वेदं भरतसत्तम!। तमाचार्यं महावाहो! प्रव-[Page3522-b+ 38] दन्ति मनीषिणः। एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः। योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते। निषे-कादीनि कर्माणि यः करोति नृपोत्तम!। सम्भावयतिचान्नेन स विप्रोगुरुरुच्यते। आग्न्याधेयं पाकयज्ञानग्निष्टोमादिकं तथा। यः करोति वृतो नूनं स तुस्यादृत्विजो द्विजः”। यमः
“सममब्राह्मणे दानं द्विगुणंब्राह्मणब्रुवे। प्राधीते शतसाहस्रमनन्तं वेदपारगे। ‘ प्राधीतः, पारब्धाध्ययनः।
“उत्पत्तिं प्रलयञ्चैव भूता-नामागतिं गतिम्। वेत्ति विद्यामविद्याञ्च स भवेद्वे-दपारगः”। वृहस्पतिः
“शूद्रे समगुणं दानं वैश्ये तुद्विगुणं स्मृतम्। क्षत्रिये त्रिगुणं प्राहुः षड्गुणं ब्राह्मणेस्मृतम्। श्रोत्रिये चैव साहस्रमाचार्य्ये द्विगुणं ततः। आत्मज्ञे शतसाहस्रमनन्तं त्वग्निहोत्रिणि”। विष्णु-धर्म्मोत्तरे
“अमानुषे समं दानं गोषु ज्ञेयं फलं तथा। द्विगुणञ्च तदेवोक्तं तथा त्रवर्णसङ्करे। शूद्रे चतुर्गुणंप्रोक्तं विशि चाष्टगुणं भवेत्। क्षत्रिये षोडशगुणंब्रह्मबन्धौ तदेव तु! द्वात्रिंशद्घ्नं स्मृतं दानंवेदाध्ययनतत्परे। शतघ्नं तद्विनिर्द्दिष्टं प्राधीते लक्ष-सम्मितम्। अनन्तञ्च तदेवोक्तं ब्राह्मणे वेदपारगे”। एतेषु, केषाञ्चिदव्राह्मणब्राह्मणब्रुवादीनामपात्राणामपिपात्रत्वनिरूपणं मन्त्रवद्गवादिदानव्यतिरिक्तदानविषयम्।
“मन्त्रपूर्बञ्च यद्दानमपात्राय प्रदीयते। दातुर्निकृत्य हस्तंतद्भोक्तुर्जिह्वां निकृन्तति” शातातपवचनात्।
“उपरुदन्तिदातारं गौरश्वः काञ्चनं क्षितिः। अश्रोत्रियस्य विप्रस्यहस्तं दृष्ट्वा निराकृतेरिति” वशिष्ठवचनाच्च मन्त्रपूर्वंगवादिदानानामपात्रप्रतिपादननिषेधात्। शूद्रादीनान्तुपात्रत्वनिरुपणम् अन्नदानविषयम्।
“कृतान्नमितरेभ्यः” इतिगौतमवचनात्
“अन्नं सर्वत्र दातव्यमिति” वक्ष्य-माणत्वाच्च। दक्षः
“व्यसनापदृणार्थञ्च कुकुम्बार्थञ्चयाचते। एवमन्विष्य दातव्यं सर्वदानेष्वयं विधिः”। व्यसनं, राजचौराद्युपद्रवः।
“आपत् दुर्भिक्षादिपीडा।
“आद्योऽर्थशब्दो, निवृत्तिबचनः। मनुः
“सान्तानिकंयक्ष्यमाणमध्वगं सार्ववेदसंम्। गुर्वर्थं पितृमात्रर्थंस्वाध्यायार्थ्युपतापिनः। नवैतान् स्नातकान् विद्याद्-ब्राह्मणान् अर्मभिक्षुकान्। ‘ सान्तानिकः, सन्तान-प्रयोजनविवाहार्थीत्यर्थः। ‘ अध्वगः’ अत्र धम्मार्थंप्रचलितः। सार्ववेदसः सर्वस्वदक्षिणयज्ञकृत्। ‘ उप-तापी, व्याधिपीडितः
“निःस्वेम्योदेयमेतेभ्यो दानं[Page3523-a+ 38] विद्याविशेषतः। एतेभ्यो हि द्विजाग्रेभ्यो देयमन्नंसदक्षिणम्। इतरेभ्यो बहिर्वेदि कृतान्नन्तु प्रदीयते”। विद्याविशेषत इति अल्पबिद्याय अल्पं बहुविद्यायबह्वित्यर्थः। बौधायनः सुब्राह्मण--श्रोत्रिय--वेदपारगेभ्योगुर्वर्थ--निर्वेशौषधार्थ--वृत्तिक्षीण--यक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यविभागो यथाशक्ति कार्य्यो बहिर्वेदिमिक्षमाणेषु कृतान्नमितरेषु”। निर्वेशः, विवाहः। वैश्वजितः, सर्वस्वदक्षिणया कृतविश्वजिद्यागः। बहि-र्वेदिग्रहणादेतेभ्यो बहिर्वेद्यपि धनमवश्यं देयम्। अन्ये-भ्यम्तु अन्तर्वेद्येव धनदाननियमः। वहिर्बेदि तु कृतान्न-स्यैव। आपस्तम्बः
“भिक्षमाणो निमित्त--माचार्य्योविवाहो यज्ञो मातापित्रोर्बुभूर्षार्हतश्च नियमादिलोपः। तत्र, गुणान् समीक्ष्य यथा देयं, इन्द्रिय--प्रीत्यर्थस्य तुभिक्षमाणमनिमित्तं न तथाद्रियेत”। ‘ बुभूर्षा भरणेच्छा। अर्हतश्च नियमादिलोप इति, अधिकारिणआवश्यक-कर्मविधिलोपप्रसङ्गः। यमः
“वेदेन्धनसमृद्धेषु हुतंविप्रमुखाग्निषु। सन्तारयति दातारं महतः किल्विषा-दपि”। पद्मपुराणे
“एकं वेदान्तगं विप्रं भोजयेत्श्रद्धयान्वितः। तस्य भुक्त्वा स वै कोटिविप्राणां नात्रसंशयः”। शातातपः
“वेदपूर्णमुखं विप्रं सुभुक्तमपि-भोजयेत्। न तु मूर्खं निराहारं षड्रात्रमुपवासिनम्”। व्यासः
“यत् सिक्थं वेदविद्भुङ्क्ते षट्कर्मनिरतःशुचिः। दातुः फलमसंख्येयं जन्म जन्म तदक्षयम्। वेदविद्याव्रतस्नाते श्रोत्रिये गृहमागते। क्रीडन्त्यौषधयःसर्वा यास्यामः षरमां गतिम्”। ‘ औषधयः, अन्नानि। महाभारते
“तद्भक्तास्तद्धनाराजंस्तद्गृहास्तद्व्यपाश्रयाः। अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम्”। अत्र तच्छ-ब्देन पूर्वोक्ताः पितरो देवताश्च परामृष्यन्ते। अथवातदेव दीयभानं भक्तमदनीयं येषां ते तंथा एवं तद्धना-दिशब्दा अषि।
“तस्करेभ्यः परेभ्यो वा ये भयार्त्तायुधिष्ठिर!। अर्थिनो भोक्तुभिच्छन्ति तेषु दत्तं महा-फलम्। हृतस्वा हृतदारांश्च ये विप्रा देशसंप्लवे। अर्थार्थमभिगच्छन्ति तेषु दत्तं महाफलम्। चारित्र-नियता राजन्! ये कृशाः कृशवृत्तयः। अर्थिनश्चोपग-च्छन्ति तेषु दत्तं महाफलम्। अव्युत्क्रान्ताः स्वधर्मेषुपाषण्डसमयेषु च। कृशप्राणाः कृशाहारास्तेषु दत्तंमहाफलम्। तपस्विनस्तपोनिष्ठास्तथा भैक्ष्यचराश्च ये!अर्थिनः किञ्चिदिच्छन्ति तेषां दत्तं महाफलम्”। [Page3523-b+ 38] आदित्यपुराणम्
“अक्रोधना धर्मपराः शान्ता दमदमेरताः। तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम्। हृतसर्वस्वहरणानिर्द्दोषाः प्रमविष्णुभिः। स्पृहयन्ति सुभ-क्तानां तेषु दत्तं महाफलम्”। शातातपषराशरौ
“सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत्। भोजनेचैव दाने च दहत्यासप्तमं कुलम्”। भविष्यपुराणेयस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितावृते। दूरस्थंभोजयेन्मूढो गुणाढ्यं नरकं व्रजेत्। तस्मान्नातिक्रमेत्प्राज्ञो ब्राह्मणान् प्रातिवेशिकान्”। प्रातिवेशिकान्स्वगृहाददूरवर्त्तिगृहान्।
“सम्बन्धिनस्तथा सर्वान्दौहित्रं विट्पतिं तथा। भागिनेयं विशेषेण तथा बन्धून्घराधिप!। नातिक्रमेन्नरस्त्वेतान् सुमूर्खानपि गोपते!। अतिक्रम्य महारौद्रं रौरवं नरकं व्रजेत्”। विट्पतिःजामाता। सुमूर्खानपि नातिक्रमेदित्येतत्, अन्नदान-विषयम्। हिरण्यादिदाने तु, सन्निहितमूर्खव्यतिक्रमेदोषाभावात् तदुक्तं व्यासबशिष्ठबौधायनशातातपपरा-शरैः
“यस्य चैव गृहे मूर्खो दूरे चापि बहुश्रुतः। बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः। ब्राह्म-णातिक्रमो नास्ति विप्रे वेदविवर्जिते। ज्वलन्तमग्नि-मुत्सृज्य न हि भस्मनि हूयते”। महाभारते
“यदिस्यादघिको विप्रो दूहे वृत्तादिर्भिर्युतः। तस्मै यत्नेनदातव्यमतिक्रम्यापि सन्निधिम्”। विष्णुः
“पुरोहित-स्त्वात्मन एव पात्रं स्वसृदुहितृपुत्रजामातरश्चेति”। ‘ यस्यैते पुरोहितादयः, तस्यैव ते अन्यगुणरहिताअपि पुरोहितादित्वेनैव पात्राणि। व्यासः
“माता-पितृषु यद्दत्तं भ्रातृषु स्वसुतासु च। जायापत्योस्तुयद्दत्तं सोऽनिन्द्यः स्वस्तिसंक्रमः। पितुः शतगुणं दानंसहस्रं मातुरुच्यत। अनन्तं दुहितुर्द्दानं सोदर्य्येदत्तमक्षयम्”। विष्णुधर्भ्योत्तरम्
“आत्मनस्तु भवेत्पात्रं नान्यस्य स्यात् पुरोहितः। पुरोहिते तु स्वे दत्तंदानमक्षय्यमुच्यते। उपाध्यायर्त्विजोश्चैव गुरावपि चमानवैः। वर्ण्णापेक्षा न कर्त्तव्या मातरं पितरं प्रति”। उवाध्यायादयस्तु, पूर्वमेव व्याख्याताः तथा।
“मातृष्वसा स्वसा चैव तथैव च पितृष्वसा। सातामहीभागिनेयी भागिनेयस्तथैव च। दौहित्रोविट्पतिश्चैवतेषु दत्तञ्च अक्षयम्। श्रीभ्रष्टे यत्तथा दत्तं तदप्यक्षय-मुच्यते। भातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि। दीनानाथविशिष्टेभ्योदातव्यं भूतिमिच्छता। अदच-[Page3524-a+ 38] दानाजायन्ते परभाग्योपजोविनः”। उपकारिंणिपरोपकारपरे। विशिष्टाः गुणातिशयशालिनः। ब्रह्मपुराणे
“यत् कन्यासु पिता कुर्य्याद्दानं पूजनमर्च्च-नम्। यत्कृतं सुकृतं बिद्यात्तासु दत्तं तदक्षयम्। यद्दत्तं तासु कन्यासु तद्दानं पुण्यमेव च”। कालिका-पुराणम्
“यद्दत्तं वेदविद्विप्रे यद्दत्तं व्रह्मचारिणि। तपोनिधेस्तु यद्दत्तं कारुण्येन च यत् सदा। तत्सर्वमक्षयं दानं वै मानेन विधाय यत्”। विष्णुधर्म्मो-त्तरे
“अन्नदाने न कर्त्तव्यं पात्रापेक्षणमएवपि। अन्नं सर्वत्र दातव्यं धर्मकामेण वै द्विज!। सदोषेऽपितु निर्दोषं सगुणेऽपि गुणावहम्। तस्मात् सर्वप्रयत्नेनदेयमन्नं सदैव तु। विद्याध्ययनसक्तानामन्नदानं भहा-फलम्”। तथा
“दत्त्वा नृपतिभीतानामृणिनाञ्चातथा धनम्। तस्करेभ्यश्च भीतानां फलमक्षयमुच्यतेयियज्ञतां तथा दत्तं व्यसनं तर्त्तुमिच्छताम्। दुःखान्वि-तानां दीनानामक्षयं परिकीर्त्तितम्। विवाहमेखला-बन्धप्रतिष्ठादिषु कर्मसु। आपन्नेषु तु यद्दत्तमक्षयंतदुदाहृतम्”। संवर्त्तः
“दानान्येतानि देयानितथान्यानि च सर्वशः। दीनान्धकृपणार्थिभ्यः श्रेयः-कामेण धीमता”। पद्मपुराणे
“दीनान्धकृपणानाथ-वाग्विहीनेषु यत्तथा। विकलेषु तथान्येषु जडवामन-पङ्गुषु। रोगार्त्तेषु च यद्दत्तं तत्स्याद्बहुफलं धनम्”। अथ अपात्रनिरूपणम्। तत्र मनुः
“गोरक्षकान्बाणिजकांस्तथा कारुकुशीलवान्। प्रेष्यान् वार्द्धुषि-कांश्चैव विप्रान् शूद्रवदाचरेत्। ये व्यपेताः स्वकर्मभ्यःपरपिण्डोपजीविनः। द्विजत्वमभिकाङ्क्षन्ति तांश्च शूद्र-वदाचरेत्। नानृगब्राह्मणो भवति न बणिग्न कुशीलवः। न शूद्रप्रेषणं कुर्वन्न स्तेनो न चिकित्सकः। अव्रताह्यनधीयाना यत्र भैक्ष्यचरा द्विजाः। तं ग्रामं दण्डये-द्राजा चौरभक्तप्रदोहि सः”। वसिष्ठः
“उदक्योऽन्वा-सते येषां ये च केचिदनग्नयः। कुलं वाऽश्रोत्रियं येषांसर्वे ते शूद्रधर्मिणः”। अन्वासते कर्मकाले समीप एवतिष्ठन्ति। विष्णुः
“न दानं यशसे दद्यान्न भयान्नोप-कारिणि। न नृत्यगीतशीलेभ्यो धर्मार्थमिति निश्चयः”। उपकारिणि आत्मोपकारपरे प्रत्युपकारसमीहयेत्यर्थः। महाभारते
“यस्तु प्रेष्यान् द्विजान् मूढो योजयेद्धव्य-कव्ययोः। न भवेत्तत्फलं तस्य वैदिकीयं तथा श्रुतिः”। यमः
“अवतानाममन्त्राणां जातिमात्रोपजीविनाम्। [Page3524-b+ 38] नैषां प्रतिग्रहोदेयो न शिला तारयेच्छिलाम्। अपविद्धा-ग्निहोत्रस्य गुरोर्विप्रियकारिणः। द्रविणं नैव दातव्यंसततं पापकर्मणः। न प्रतिग्रहमर्हन्ति वृषलाध्यापकाद्विजाः। शूद्रस्याध्यापनाद्विप्रः पतत्यत्र न संशयः”। तथा
“राजधानी यथा शून्या यथा कूपश्च निर्जलः। यथा हुतमनग्नौ च तथा दत्तं द्विजेऽनृचे”। वसिष्ठः
“यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः। यश्चविप्रोऽनधीयानस्त्रयस्ते नामधारकाः। बिद्वद्भोज्यान्य-विद्वांसो येषु राष्ट्रेषु भुञ्जते। अप्यनावृष्टिमिच्छन्तिमहद्वा जायते भयम्”। व्यासशतातपौ
“नष्टशौचेव्रतभ्रष्टे विप्रे वेदविवर्जिते। रोदित्यन्नं दीयमानं किंमया दुष्कृतं कृतम्। शौचहीनास्तु ये विप्रा न चयज्ञोपवीतिनः। हुतं दत्तं तपस्तेषां नश्यत्यत्र नसंशयः। ऊषरे बापितं वीजं यच्च भस्मनि हूयते। क्रियाहीनेषु यद्दत्तं त्रिषु नाशोविधीयते। प्रस्तरेपतितं वीजं भिन्नभाण्डे च दोहनम्। भस्मन्यपि हुतंद्रव्यं तद्वद्दानमसाधुषु”। पूर्वत्र पात्रगुणकथने कृतेऽपिपुनर्दोषवचनमेवंविधदोषभाग्जनप्रतिषेधार्थम्। मनुः
“पात्रभूतो हि यो विप्रः प्रतिगृह्य प्रतिग्रहम्। असत्सुविनियुञ्जीत तस्य देयं न किञ्चन। सञ्चयं कुरुते यश्चप्रतिगृह्य समन्ततः। धर्मार्थं नोपयुङ्क्ते यो न तंतस्करमर्चयेत्”। असत्सु, निषिद्धेषु द्यूतादिषु। दक्षः
“विधिहीने तथा पात्रे यो ददाति प्रतिग्रहम्। न केबलंहि तद्याति शेषमप्यस्य नश्यति”। मनुः
“अनर्हते यद्द-दाति न ददाति यदर्हते। अर्हानर्हापरिज्ञानाद्धनाद्धर्माच्चहीयते”। यमः
“यस्तु लिङ्ग्य चितां वृत्तिमलिङ्गिभ्यःप्रयच्छति। घोरायां ब्रह्महत्यायां पच्यते नात्र सं-शयः”। भविष्यपुराणे
“नाब्रह्मणाय दातव्यं न देयंव्राह्मणाक्रिये। न ब्राह्मणब्रुवे चैव न च दुर्व्राह्मणेधनम्”। व्यासः
“व्रह्मवीजसमुत्पन्नो मन्त्र--संस्कारवर्जितः। जातिमात्रोपजीवी च भवेदव्राह्मणः स तु। गर्भाधा-नादिभिर्युक्तस्तथोपनयनेन च। न कर्मविन्नचाधीते सभवेद्ब्राह्मणाक्रियः”। वराहपुराणे
“अव्रतौ वैश्यरा-जन्यौ शूद्रश्चाब्राह्मणास्त्रयः। वेदव्रतविहीनश्च व्राह्मणोब्राह्मणब्रुवः”। यमः
“यस्य वेदश्च वेदी च विच्छिद्येतेत्रिपौरुषम्। स वै दुर्ब्राह्मणो नाम यश्चैव वृषलीपतिः”। कूर्मपुराणे
“न वार्य्यपि प्रयच्छेत नास्तिके हैतेकेऽपिवा। न पाषण्डिषु सर्वेषु नावेदविदि धर्म्मवित्। [Page3525-a+ 38] नास्तिकः, परलोकवासनाशून्यः। हैतुकः हेतुभिःपरलोकं निराकरिष्णुः। मनुर्विष्णुश्च
“न वार्य्यपिप्रयच्छेत वैडालव्रतिके द्विजे। न वकव्रतिके पापे नावे-दविदि धर्म्मवित्। त्रिष्वप्येतेषु दत्तं हि विधिनोपार्जितंधनम्। दातुर्भवत्यनर्थाय परत्रादातुरेव च”। अनर्थः प्रत्य-वायः।
“यथा प्लवेनौपलेन निमज्जत्युदके तरन्। दातृ-प्रतिग्रहीतारौ तथैवाज्ञौ निमज्जतः”। यमः
“यः कारणंपुरस्कृत्य व्रतचर्यां निषेवते। पापं व्रतेन प्रच्छाद्यबैडालं नाम तद्व्रतम्। अर्थञ्च विपुलं गृह्य दत्त्वालिङ्गं विवर्जयेत्। आश्रमान्तरितं रक्षेद्वैडालं नामतद्व्रतम्। यतीनामाश्रमं गत्वा प्रत्यवस्येत्तु यः पुनः। यतिधर्मविलोपेन वैडालं नाम तद्व्रतम्”। विष्णुः
“धर्म्मध्वजी सदा लुब्धः शूद्रिको लोकदम्भकः। वैडाल-व्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः। यश्च धर्मध्वजीनित्यं सुराध्वज इवोच्छ्रितः। प्रच्छन्नानि च पापानिवैडालं नाम तद्व्रतम्। अधोदृष्टिर्नैकृतिकः स्वार्थसा-धनतत्परः। शठो मिथ्याविनीतश्च वकव्रतचरो द्विजः। ये वकव्रतिनो विप्रा ये च मार्जारलिङ्गिमः। ते पतन्त्य-न्धतामिस्रे तेन पापेन कर्मणा”। चतुर्विंशतिमतम्
“रोदित्यन्नं दीयमानं किं मया दुष्कृतं कृतम्। अश्री-त्रियस्य विप्रस्य हस्तं दृष्ट्वा निराकृतेः”। कात्यायनस्त्वन्य-थाह
“यः स्वाध्यायाग्निमालस्याद्देवादीन्नैभिरि-ष्टवान्। निराकर्त्तामरादीनां स विज्ञेयो निराकृति-रिति”। शातातपः
“नेष्टं देवलके दत्तमप्रतिष्ठञ्च वा-र्द्धुषौ। यच्च बाणिजके दत्तं न च तत् प्रेत्य नो इह” दक्षः
“धूर्त्ते वन्दिनि मल्ले च कुवैद्ये कितवे शठे। चाटचारणचौरेभ्यो दत्तं भवति निष्फलम्”। स्कन्दपुराणे
“देवपितृविहीने यदीश्वरेभ्यश्च दीयते। दत्त्वा तुकीर्त्तितं यच्च देवाग्नित्यागिने तथा। अन्यायोषार्जित-धनैर्दत्तमव्राह्मणे च यत्। गुरवेऽनृतवक्त्रे च स्तेनायपतिताय च। कृतघ्नाय च यद्दत्तं सर्वदा व्रह्मविद्विषे। याजकाय च सर्वस्य वृषल्याः पतये तथा। परिचारायभृत्याय सर्वस्य पिशुनाय च। इत्येतानि च राजेन्द्र!वृथादानानि षोडश। गर्भस्थोऽज्ञानबालोऽपि भुङ्क्तेवृद्धो न यौवने। तद्दत्तस्येह नाप्नोति सर्बथा रिपु-सूदन”। तदीयफलमिति शेषः। विष्णुधर्मात्
“पर-स्थाने वृथा दानं सदोषं परिकीर्त्तितम्। आरूढ-पतिते चैव अन्यायात्तैर्द्धनैश्च यत्। व्यर्थं हि व्राह्मणे[Page3525-b+ 38] दानं पतिते तस्करे तथा। गुरोश्चाप्रीतिजनके कृतघ्नेग्रामयाजके। वेदविक्रायके चैव यस्य चोपपतिर्गृहे। स्त्रीभिर्जितेषु यद्दत्तं व्यालग्राहे तथैव च। व्रह्मबन्धौच यद्दत्तं यद्दत्तं वृषलीपतौ। परिचारके च यद्दत्तंवृथा दानानि षोडश” सहाभारते
“पङ्ग्वन्धबधिरा मूकाव्याधिनोषहताश्च ये। भर्द्धव्यास्ते महाराज! न तुदेयः प्रतिग्रहः” इति प्रतिग्रहीतृनिरूपणम्। अथ द्रष्वाख्यं दानाङ्गमुच्यते। तत्र देयनिरूपणम्। भविष्यपुराणे
“यद्यदिष्टं विशिष्टञ्च न्यायप्राप्तञ्च यद्भवेत्। तत्तद्गुणवते देयमित्येतद्दानलक्षणम्”। वह्निपुराणे
“शुभोपात्तेन यत्किञ्चित् करोति लघुना नरः। अनन्तफलमाप्नोति मुद्गलोऽपि यथा पुरा”। शुभोपात्तेन न्या-योपार्जितेन। लधुना स्वल्पेन द्रव्येणेति शेषः। देवी-पुराणे
“न्यायतो यानि प्राप्तानि शाकान्यपि नृपोत्तम!। तानि देयानि देव्यास्तु कन्यकायोषितां सदा। तद्भुक्तेपुच वित्तेषु अपरेषु च नित्यशः” विष्णुपुराणे
“यद्-यदिष्टतमं लोके यच्चास्य दयितं गृहे। तत्तद्गुणवतेदेयं तदेवाक्षयमिच्छता”। महाभारते
“विशेषतो महा-राज! तस्य न्यायार्जितस्य च। श्रद्धया विधिवत् पात्रेदत्तस्यान्तो न विद्यते”। गौतमः
“स्वामी ऋक्थक्रयसंविभागपरिग्रहाधिगमेषु व्राह्मणस्याधिकं लब्धं, क्ष-त्रियस्य विजितं, निर्विष्टं बैश्यशूद्रयोरिति”। ‘ अप्रति-बन्धः’ दायएव ऋक्थम्। संविभागः सप्रतिबन्धो-दायः। परिग्रहः, जलतृणकाष्ठादेरनन्यपूर्बस्य स्वी-कारः। अधिगमः निध्यादेः प्राप्तिः। एषु निमि-त्तेषु स्वामी मवति। अधिकम् असाधारणम्। निर्वि-ष्टम् कृष्यादिना द्विजशुश्रूषादिना च यल्लब्धम्।
“निर्वेशो भृतिभोगयोरिति” स्मरणात्। मनुः
“सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः। प्रयोगः कर्म्मयो-गश्च सत्प्रतिग्रह एव च”। प्रयोगः न्यायोपचयार्थंद्रव्यप्रयोगः। कर्मयोगः आर्त्विज्यम्। नारदः
“धनमूलाःक्रियाः सर्वा यत्नस्तस्यार्जने मतः। रक्षणं वर्द्धनंभोग इति तस्य विधिः क्रमात्। तत्पुनस्विविधं ज्ञेयंशुक्लं शवलमेव च। कृष्णञ्च, तस्य विज्ञेयो विभागःसप्तध पुनः। एकैकस्य शुक्लादेः सप्त सप्त भेदा भवन्ती-त्यर्थः।
“श्रुतशौर्य्यतपःकन्यायाज्यशिष्यान्वयागतम्धनं सप्तविधं शुक्लमुदयोऽप्यस्य तद्विधः”। आगतशब्दःश्रुतादिभिः प्रत्येकं संबध्यते। कन्यागतम् आर्षविवाहे[Page3526-a+ 38] वराद्गृहीतं गोमिथुनादि। याज्यगतम् आर्त्विज्या-दिलब्धम्। शिष्यागतम्। गुरुदक्षिणादि। अत्र चयथाधिकारं शुक्लत्वमवधेयम्। उदयः फलं तदप्यस्य शु-क्लमित्यर्थः
“कुशीदकृषिबाणिज्यशिल्पशुल्कानुवृत्तितः। कृतोपकारादाप्तञ्च शवलं समुदाहृतम्”। न्यायोपचयार्थंद्रव्यप्रयोगः कुशीदम्। शिल्पं कारुकादिकर्म। आक-रादिभ्योद्रव्योदयः शुल्कम्। अनुवृत्तिः सेवा।
“पार्श्वकद्यूतचौर्य्यार्त्तिप्रतिरूपकसाहसैः। व्याजेनोपार्जितंयत्तत् सर्वेषां कृष्णमुच्यते”। पार्श्वकोपार्जितं उत्कोचादि-लब्धम्। आत्त्र्युपार्जितं परपीडया लब्धम्। प्रतिरूपकंमणिसुवर्णादेः प्रतिरूपकरणम्। साहसं स्वप्राणात्यया-ङ्गीकारेण पश्यतोहरत्वादिकम्। व्याजः दम्भेन तपःप्रमृति।
“तेन क्रयो विक्रयश्च दानं ग्रहणमेव च। विविधाश्च प्रवर्त्तन्ते क्रियाः सम्भोग एव च। यथावि-धेन द्रव्येण यत्किञ्चित् कुरुते नरः। तथाविधमवाप्नोतिस फलं प्रेत्य चेह च”। यथाविधेन शुक्लेन कृष्णेनशबलेन वा दानादि कुरुते तथाविधं फलमाप्नोतीति,शुक्लेन शुद्धं दुःखरहितम्, शवलेन, मिश्रम्, कृष्णेनअसुखोदयम्। पद्मपुराणे
“शुक्लेन वित्तेन कृतंपुण्यं बहुफलं भवेत्। शबलं मध्यमफलं कृष्णं हीन-धनं फलम्”। ब्रह्मप्रोक्ते
“शुक्लबित्तेन यो धर्मंप्रकुर्य्यात् श्रद्धयान्वितः। तीर्थं पात्रं समासाद्य देवत्वेतत् समश्रुते। राजसेन च भावेन वित्तेन शवलेन च। दद्याद्दानमतिथिभ्योमानुषत्वे तदश्रुते। तमोवृत्तस्तु योदद्यात् कृष्णवित्तेन मानवः। तिर्य्यक्त्वे तत्फलं प्रेत्यसमश्नाति नराधभः”। नारदः
“तत् पुनर्द्वादशविधंप्रतिवर्णाश्रयात् स्मृतम्। साधारणं स्यात्त्रिविधं शेषंनवविधं स्मृतम्”। धर्म्यमिति शेषः। प्रतिवर्णाश्रयान्न-वविधं, साधारणं त्रिविधमित्येवं द्वादशविधमित्यर्थः।
“क्रमागतं प्रीतिदायः प्राप्तञ्च सह भार्य्यया। अवि-शेषेण सर्वेषां वर्णानां त्रिविधं धनम्। वैशेषिकं धनंज्ञेयं ब्राह्मणस्य त्रिलक्षणम्। प्रतिग्रहेण संलब्धंयाज्यतः शिष्यतस्तथा। त्रिविधं क्षत्रियस्यापि प्राहुर्वैशे-षिकं धनम्। युद्धोपलब्धं काराच्च दण्डाच्च व्यवहारतः”। कारः वल्यादिः।
“वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रि-लक्षणम्। कृषिगोरक्षबाणिज्यैः शूद्रस्यैभ्यस्त्वनुग्रहात्”। एभ्यः ब्राह्मणादिभ्यः।
“सर्वेषामेव वर्ण्णानामेवं धर्म्यो-धनागमः। विपर्य्यायादधर्म्यः स्वान्न चेदापद्गरीयसी”। [Page3526-b+ 38]( एवंधर्मसाधनं द्रव्यं निरूप्य तच्च कियद्देयं किंदेयमित्यपेक्षायां याज्ञवलक्यः
“स्वं कुटुम्बाविरो-धेन देयं दारसुतादृते। नान्वये सति सर्वखं यच्चान्यस्मैप्रतिश्रुतम्”। अन्वये सन्ताने। प्रतिश्रुतं प्रतिज्ञातम्। कुटुम्बाविरोधस्तु, व्याख्यातो वृहस्पतिना
“कुटुम्बभक्त-वसनाद्देयं यदतिरिच्यते। भध्वास्वादो विषं पश्चाद्दातु-र्द्धर्म्मोऽन्यथा भवेत्”। भक्तं अन्नम्। वसनं वस्त्रम्। (यावता द्रव्येण कुटुम्बस्य वस्त्रमन्नं संपद्यते तदतिरिक्तंदेयं, इतरत्तु न देयमित्यर्थः)। मनुः
“शक्तः परजनेदाता स्वजने दुःखजीविनि। मध्वापानो विषास्वादः सधर्मप्रतिरूपकः”। कात्यायनः
“सर्वस्वं गृहवर्ज्जन्तुकुटुम्बभरणाधिकम्। यच्च द्रव्यं स्वकं देयमदेयं स्यादतो-न्यथा”। तथा
“सप्तरात्राद्गृ हक्षेत्रात् यद्यत् क्षेत्रंप्रचीयते। पित्रा वाथ स्वयं प्राप्तं तद्दातव्यं विवक्षितम्”। सप्तरात्रादिभ्यो यत्प्रचीयते, अधिकं मवति, तद्दात-व्यमिति विवक्षितमित्यर्थः। शिवधर्म्मात्
“तस्मात्त्रि-भागं वित्तस्य जीबनाय प्रकल्पयेत्। भागद्वयन्तु धर्म्मार्थ-मनित्यं जीवितं यतः”। अशेषवित्तस्य भागपञ्चकंपरिकल्प्य भागत्रयं जीवनाय संरक्ष्य भागद्वयं धर्म्मायकल्पयेदित्यर्थः। महाभारते
“एकां गां दशगुर्दद्याद्-दश दद्याच्च गोशती। शतं सहस्रगुर्दद्यात् सर्वे तुल्य-फलाः स्मृताः”। नन्बेतद्वचनद्वयोपात्तयोर्वित्तगोशब्दयो-रुपलक्षणार्थत्वेन देयमात्रपरत्वाद्विषमभागपरिकल्पनंविरुद्धं यथाश्रुतगोवित्तपरत्वेनाविरोधे दशगुरेकां गां द-द्यादितिवचनाद्दशावरगोर्द्धनिनोऽपि गोदानानधिकारःस्यात् दशधेनुयोग्यधनिपरत्वे तु उपलक्षणपक्षा-ङ्गीकाराद्विरोधतादवस्थ्यं तस्मान्न्यूनाधिककल्पयोः कृपणो-दाराधिकारिविषयतयैव व्यबस्थेति सुस्थम्। कुटम्बा-विरोधेन देयमित्युक्तम् तस्यापवादमाह व्यासः
“कुटुम्बं पीडयित्वापि व्राह्मणाय महात्मने। दातव्यंभिक्षवे चान्नमात्मनो भूतिमिच्छाता”। यत्यतिथ्यादिवि-षयमेतत्। कात्यायनः
“स्वेच्छादेयं स्वयंप्राप्तंबन्धाचारेण बन्धकम्। बैवाहिकक्रमायाते सर्वदानं नविद्यते”। बन्धक आधिः तद्बन्धाचारेणाधिरूपेणैव दे-यम्। यद्विवाहलब्धं तत्तस्यां भार्य्यायां सत्यां सर्वमदेयम्। यच्च पितामहादिक्रमायातं तत्र पुत्रे सति न देयम्।
“सौदायिकं क्रमायातं शौर्य्यप्राप्तञ्च यद्भवेत्। स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिमवाप्नुयात्”। सौदायिकं[Page3527-a+ 38] विवाहलब्धं तद्भार्य्ययानुज्ञातम्। क्रमायातम् अविभक्त-धनैर्ज्ञातिभिरनुज्ञातम्। भृत्येन सता युद्धेन लब्धं स्वा-मिनानुज्ञातमित्यर्थः। याजवल्क्यः
“देयं प्रतिश्रुत-ञ्चैव दत्त्वा नापहरेत् पुनः” यमः
“यच्च वाचा प्रति-ज्ञातं कर्म्मणा नोपपादितम्। तद्धनमृणसंयुक्तमिहलोके परत्र च” ऋणसंयुक्तम् ऋणासमर्पणजन्यदोषसं-युक्तमित्यर्थः।
“सप्ताजातान्नरो हन्याद्वर्त्तमानांस्तु सप्तच। अतिक्रान्तान् सप्त हन्यादप्रयच्छन् प्रतिश्रुतम्। प्रतिश्रुताप्रदानेन दत्तस्य हरणेन च। जन्मप्रभृति यत्पुण्यं तत्सर्वं स्यणश्यति”। महाभारते
“ब्राह्मणंस्वयमाहूय भिक्षार्थे कृशवर्त्तिनम्। पश्चान्नास्तीति योब्रूयात्तं विद्याद्ब्रह्मघातकम्” तथा
“संश्रुत्य यो नदित्सेत याचित्वा यस्य नेष्यति। उभावनृतिकावेतौमृषा पापमवाप्तुतः” तथा
“यो न दद्यात् प्रतिश्रुत्यस्वल्पं वा यदि वा बहु। आशास्तस्य हताः सर्वाःक्लीवस्येव प्रजाफलम्। यं निरीक्षेत संक्रुद्ध आशयापूर्वजातया। प्रदहेत हि तं राजन्। कङ्कमक्षयमुग्यथा। तस्माद्दातव्यमेवेह प्रतिश्रुत्य युघिष्ठिर!”। नारदः
“ब्रा-ह्मणस्य च यद्देयं सान्वयस्तु न चास्ति सः। सकुल्ये तस्यनिनयेत्तदभावेऽस्य बन्धुषु। यदा तु न सकुल्यः स्यान्नच सम्बन्धि--बान्धवाः। दद्यात् सजातिशिष्येभ्यस्तद-भावेऽप्सु निक्षिपेत्”। गौतमः
“प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्”। कात्यायनः
“प्राणसंशयमापन्नंयो मामुत्तारयेदितः। सर्वस्वन्ते प्रदास्वामीत्युक्तेऽपिन तथा भवेत्” अथ फलातिशयप्रतिपादनार्थं पात्रविशेषेण देयविशेषाः। भविष्यपुराणे
“गोभूतिलहिरण्यादि दद्यान्नित्यमतन्द्रितः। तथा द्रव्यविशेषांश्च दद्यात् पात्रविशेषतः। आर्त्तानामन्न-दानञ्च गोदानञ्च कुटुम्बिनाम्। तथा प्रतिष्ठाहीनानांक्षेत्रदानंप्रशस्यते। सुबर्णं याज्ञिकानाञ्च विद्याञ्चैवोर्द्ध-रेतसाम्। कन्याञ्चैवानपत्यानां ददतां गतिरुत्तमा”। विष्णु-धर्मोत्तरात्
“युद्धोपकरणं द्रव्यं क्षत्रिये द्विजपुङ्गवाः!। पण्योपयोमि तद्वैश्ये शूद्रे शिल्पोपयोगि च। यस्योपयोगियद्द्रव्यं देयं तस्यैव तद्भवेत्। येन येन च भाण्डेनयस्य वृत्तिरुदाहृता। तत्तत्तस्यैव दातव्यं पुण्यकामेनधीमता। दण्डं कृष्णाजिनञ्चैव तथा विप्राः ! कमण्ड-लुम्। धीरं पुण्यभवाप्नोति दत्त्वैतान् ब्रह्मचारिणे। वस्त्रं शय्यामनं धान्यं वेश्म वेश्मपरिच्छदम्। गृह-[Page3527-b+ 38] स्थाय तु तद्दत्तं ज्ञेयं वहुफलं सदा। नीवारं वल्कलंशाकं फलं मूलञ्च गोरसम्। वानप्रस्थाय यद्दत्तम-नन्तं परिकीर्त्तितम्। भिक्षाप्रदानं यतये पात्रदानंतथा हितम्। गन्धमाङ्गल्यताम्बूलरक्तवस्त्रादिकं स्त्रियः। स्त्रीणां प्रदानं दातव्यं भर्त्तृहस्ते तु नान्यथा। प्रोक्तंसंग्रहणं ह्येतद्गुप्तं भर्त्तुः प्रयच्छतः। अन्नं प्रतिश्रय-ञ्चैव पान्थे दत्तं महाफलम्। विवाहादिक्रियाकालेतत्क्रियासिद्धिकारणम्। यः प्रयच्छति धर्मज्ञः सोऽश्व-मेधमवाप्नुयात्। आतुरेभ्यो धनं दत्त्वा दानं बहुफलंभवेत्। बाले क्रीडनकं दत्त्वा भृष्टमन्नं तथैव च। फलंमनोहरं वापि अग्निष्टोमफलं लभेत्। भृष्टान्नंमानवो दत्त्वा भृष्टान्नानि तु काङ्खताम्। अक्षयंफलमाप्नोति स्वर्गलोकञ्च गच्छति। श्रीविहीने तथादत्त्वा भोजनं द्विजसत्तम!। वस्त्रं शुभं वा धर्मज्ञःपुण्यं महदुपाश्नुते। कृपास्थानं परं विप्रा विच्युताःपुरुषाः श्रिया। तेभ्योऽनुकम्पा कर्तव्या सतां वर्त्मनितिष्ठता। कार्य्ये सत्युद्यमं कृत्वा परेषां समुपस्थिते। अक्षयं फलमाप्नोति नात्र कार्य्या विचारणा। यवसानांप्रदानेन धेनुमत्सु द्विजातिषु। लवणानाञ्च धर्मज्ञाः!फलमक्षयमश्नुते। प्रसवेषु तु यद्दत्तं व्यसनार्त्तिभयेषुच। तद्दानमक्षयं प्रोक्तं पुरुषस्य विपश्चितः। दत्त्वाब्राह्मणशार्दूल! जलपात्रमथार्थिने। फलमक्षयमाप्नोतिनात्र कार्य्या विचारणा”। अङ्गिराः
“देवतानां गुरूणाञ्चमातापित्रोस्तथैव च। पुण्यं देयं प्रयत्नेन नापुण्यंनोदितं क्वचित्” नन्दिपुराणे
“पापदः पापमाप्नोतिनरो लक्षगुणं सदा। पुण्यदः पुण्यमाप्नोति शतशोऽथसहस्रशः। तथा पात्रविशेषेण दानं स्यादुत्तरोत्तरम्। पितृमातृगुरुब्रह्मवादिनां दीयते तु यत्। तल्लक्षगुणितंविद्यात् पुण्यं वा पापमेव वा” वह्निपुराणे
“द्वाविमौपुरुषौ लोके सूर्य्यमण्डलभेदिनौ। दातान्नस्य च दु-र्भिक्षे सुभिक्षे हेमवस्त्रदः” अथ अदेयनिरूपणम्। देवलः
“अन्यावाधिगतां दत्त्वा सकलांपृथिवीमपि। श्रद्धावर्जमपात्राय न काञ्चिद्भूतिमाप्नु-यात्”। वह्निपुराणात्
“अन्यायोपागतं द्रव्यं गृहीत्वायो ह्यपण्डितः। धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते। घर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा। ददाति दानविप्रेभ्यो लोकविश्वासकारणम्। पापेन कर्मणा विप्रोधन लन्ध्वा निरंशकः। रागमोहान्वितस्वान्तः[Page3528-a+ 38] कलुषां योनिमाप्न्यात्। अर्थसञ्चयबुद्धिर्हि लोभमोहवशगतः। उद्वेजयति भूतानि हिंसया पापचेतनः। एवं लब्ध्वा धनं लोभात् यजते यो ददाति च। स पापकर्म्मणा तेन न विन्दति परां गतिम्” तथा।
“एतैरन्यैश्च बहुभिरन्यायोपार्जितैर्धनैः। आरभ्यन्तेक्रिया यास्तु पिशाचास्मत्र दैवतम्”। वृद्धशातातपः
“द्रव्ये-णान्यायलब्धेन यः करोत्यौर्द्धदेहिकम्। न स तत्फलमा-प्नोति तस्यार्थस्य दुरागमात्” स्कन्दपुराणे
“देवद्रव्यंगुरुद्रव्यं द्रव्यं चण्डेश्वरस्य च। त्रिविधं पतनं दृष्टंदानलङ्घनभक्षणात्”। यमः
“अपहृत्य परस्यार्थंदानं यस्तु प्रयच्छति। स दाता नरकं याति यस्यार्थ-स्तस्य तत्फलम्” तथा।
“परिभुक्तमवज्ञातमपर्य्याप्त-मसंस्कृतम्। यः प्रयच्छति विप्रेभ्यस्तद्भस्मन्यवतिष्ठते। परिभुक्तं गृहीतोपयोगं वस्त्रादि। अपर्य्याप्तं स्वकार्य्या-क्षमं जरद्गवादि। शातातपः
“वेदविक्रयनिर्दिष्टंस्त्रीषु यच्चार्जितं धनम्। अदेयं पितृदेवेभ्यो यच्च क्ली-वादुपागतम्” वेदविक्रयो निर्दिष्टो व्यपदिष्टो यत्रतत्तथा निर्विष्टमितिपाठे वेदविक्रयाल्लब्धमित्यर्थः। स्त्रीषुयच्चार्जितमिति स्त्रीव्यापारोपजीवनेन यल्लब्धम्। स्त्रीषुविक्रीतास्विति केचित्” दक्षः
“सामान्यं याचितं न्यासआधिर्दाराश्च तद्धनम्। अन्वाहितञ्च निक्षेपः सर्वस्वञ्चा-न्वये सति। आपत्खपि न देयानि नव वस्तूनि प-ण्डितैः। यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः”। सामान्यं अनेकस्वामिकम्। याचितं संव्यवहारार्थंयाचित्वानीतं वस्त्रालङ्कारादि। गृहस्वामिने अद-र्शयित्वा तत्परोक्षमेव गृहस्वाभिने अर्पणीयमिति गृह-जनहस्ते स्थापितं द्रव्यं न्यासः। आधिः प्रसिद्धः। दाराः कलत्रम् तद्धनं दारधनम्। तच्च व्याख्यातमनुना
“अध्यग्न्यध्यावाहनिकं दत्तञ्च प्रीतिकर्मणि। भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम्”। अध्यग्निअग्निसमक्षं यत् स्त्रियै दत्तम्। अध्यावाहनिकं विवा-हकाले पित्रादि दत्तम्। प्रीतिकर्मणि स्त्रीपुंसम्बन्धेनभर्त्त्रार्पितम्। विवाहोत्तरकालेऽपि भ्रात्रादिभ्यः प्राप्तम्। याज्ञवल्क्योऽप्याह
“भ्रावृमातृपितृपतिप्राप्तमध्यग्न्यु-पागतम्। आधिवेदनिकञ्चैव स्त्रीधन परिकीर्त्तितम्” दारान्तरभिच्छता भर्त्ता यद्दत्तं तदाधिवेदनिकम्। एवं-प्रकारं स्त्रीधनं न देयमिति। अन्वाहितं यदेकस्यहस्ते निहितं द्रव्यं तेनाप्यनु पश्चादन्यस्य हस्ते[Page3528-b+ 38] स्वामिने देहीति निहितम्। गृहस्वामिसमक्षं स्था-पितं द्रव्यं निक्षेपः। कात्यायनः
“विक्रयञ्चैव दानञ्चन नेयाः स्युरनिच्छवः। दाराः पुत्राश्च सर्वखमात्म-नैव तु योजयेत्। आपत्काले तु कर्तव्यं दानं विक्रयएव वा। अन्यथा न प्रवर्त्तन्ते इति शास्त्रस्य निश्चयः”।
“आपत्काले तु कर्त्तव्यं दानं विक्रय एव वेति” स्वकीय-दानविक्रयेच्छुदारादिविषयम्। यत्तु दाराणाम्
“आपत्-स्वपि न देयानीति” दक्षेणादेयत्वमुक्तं तत् स्वदानविक्रया-निच्छुदारादिविषयम्। वशिष्ठः
“शुक्रशोणितसम्भवःघुत्रो मातापितृनिमित्तकस्तस्य प्रदानविक्रयपरित्यागेषुमातापितरौ प्रभवतः नत्वेकं पुत्रं दद्यात् प्रतिगृह्णी-याद्वा स हि सन्तानाय पूर्वेषां न तु स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वा अन्यत्रानुज्ञानाद्भत्तुः”। वृहस्पतिः
“कस्मैचिद्याचमानाय दत्तं धर्माय यद्भवेत्। पश्चाच्चन तथा तत् स्यान्न देयं तस्य तद्भवेत्”। धर्मं कर्त्तुं याच-मानाय यद्दत्तं तेन चेदसौ धर्मं न कुर्य्यात्तदा तत्तस्मैन देयमित्यर्थः। अङ्गिराः
“बहुभ्यो न प्रदेयानिगौर्गृहं शयनं स्त्रियः। विभक्तदक्षिणाह्येता दातारंतारयन्ति हि। एका एकस्य दातव्या न बहुभ्यः कथ-ञ्चन। दातुर्विक्रयमापन्ना दहत्यासप्तभं कुलम्”। बि-क्रेतुरेवैतद्दोषप्रदर्शनं न प्रकृतस्य दातुरिति। औप-कायनः
“कन्याशय्यागृहञ्चैव देयं यङ्गोस्त्रियादिकम्। तदेकस्मै प्रदातव्यं न बहुभ्यः कथञ्चन” व्यासःन व्यङ्गां रोहिणीं बन्ध्यां न कृशां मृतवत्सिकाम्। न वामनां वेहतञ्च दद्याद्विप्राय गां नरः। वेहत्गर्भोपघातिनी। देबलः
“विवत्सां रोगिणीं रूक्षांस्थविरां शृङ्ग भीषणाम्। क्षीणक्षीरशरीराङ्गां दत्त्वादोषमवाप्नुयात्”। कात्यायनः
“न चीषरां न निर्दग्धांमहीं दद्यात् कथञ्चन। न श्मशानपरीताञ्च न चपापनिषेविताम्”। षापाः हिंस्नप्राणिनो व्याघ्रादयः। विष्णुधर्मोत्तरे
“सोशीरां तस्कराकीर्णां तथा व्याल-वतीं भुवम्। न दद्यात्तु द्विजश्रेष्ठो या च सन्धिषुसस्थिता”। स्कन्दपुराणे
“पापदः पापमाप्नोति नरोलक्षगुणं सदा। तस्मान्न दद्यान्मेधावी पातक जातुकस्यचित”। महाभारते
“दुःखितेभ्यो हि भूतेभ्योमृत्युरोगजरादिभिः। भूवः को दुःखमपरं सवृणोदातुमर्हति। दुःखं ददाति योऽन्यस्य ध्रुवं दुःखं सविन्दति। तस्मान्न कस्यचिद्दुःखं दातव्यं दःखमीरुणा”। [Page3529-a+ 38](
“अथ पात्रविशेषे अदेयमुच्यते। यमः
“सुवर्णंरजतं ताम्रं यतिभ्यो यः प्रयच्छति। न तत्फलमवा-प्नोति तत्रैव परिवर्त्तते”। परिवर्त्तः विपर्य्ययः एवशब्दःअप्यर्थः तेन तत्र तस्मिन् दातर्य्यपि परिवर्त्तते धर्म्म-विपरीतं धर्मं जनयतीत्यर्थः। तथा चोक्तम्
“यतयेकाञ्चनं दत्त्वा दातापि नरकं व्रजेदिति”। देबलः
“पक्वमन्नं गृहस्थस्य वानप्रस्थस्य गोरसः। वृत्तिश्च भिक्षु-वृत्तिभ्यो न देयं पुण्यमिच्छता”। वृत्तिः भिक्षातिरिक्तवर्तनम्। तथा
“न शूद्राय हविर्दद्यात् स्वस्ति क्षीरंतिलान् मधु। न शूद्रात् प्रतिगृह्णीयात्तेषामन्नन्निवे-दयेत्। गारसं काञ्चनं क्षेत्रं गास्तिला मधुसर्पिषी। तथा सर्वान्रसांश्चापि चण्डालेभ्यो ददेत न”। स्वस्ति नदद्यादिति प्रणाममन्तरेण शूद्रस्य स्वस्तीति न ब्रूयादि-त्यर्थः। तेषामपि क्षीरादीनां क्रयार्थमन्यत्द्रव्यंनिवेदयेदित्यर्थः। शङ्खलिखितौ
“कृशरं पायसं यावंदधिमधुकृष्णाजिनानि शूद्रेभ्यो न दद्यन्नोपाकृतं कि-ञ्चित्”। विष्णुधर्गोत्तरात्
“भुवं धेनुमथाश्वञ्च रत्नानिकनकन्तथा। तिलांश्च कुञ्जरं दद्यान्नाविज्ञातगुणागुणान्” अतःपरं ग्राह्याग्राह्यद्रव्ये विस्तरेणोक्ते ते च ग्राह्या-ग्राह्यशब्दे प्रायेण दर्शिते। दानाङ्गकालेषु तिथिकालः प्रथममुक्तस्तत्रैव। भविष्यपुराणे
“तिथीनां प्रवरा यस्माद्ब्रह्मणा समुदा-हृता। प्रतिपादिता पदे पूर्बे प्रतिपत्तेन चोच्यते। स्नानंदानं शतगुणं कार्त्तिके या तिथिर्भवेत्”। स्कन्दपुराणे
“आश्विने मासि संप्राप्ते द्वितीया शुक्लकृष्णगा। दानं प्रदत्तंयत्तस्यामनन्तफलमुच्यते”। पद्मपुराणे
“वैशाखमासे यापुण्या तृतीया शुक्लपक्षगा। अनन्तफलदा दातुः स्नान-दानादिकर्मसु”। भविष्यपुराणे
“शिवा शान्ता सुखाराजंश्चतुर्थी त्रिविधा स्मृता। मासि भाद्रपदे शुक्लाशिवां लोकेषु पूजिता। तस्यां स्नानं तथा दानं उप-वासो जपस्तथा। भवेत् सहस्रगुणितं प्रसादाद्दन्तिनोनृपः। माघमासि तथा शुक्ला या चतुर्थी महीपते!। सा शान्ता शान्तिदा नित्यं शान्तिं कुर्य्यात्सदैव हि। स्नानदानादिकं सर्वमस्यामक्षयमुच्यते। यदा शुक्लचतु-र्थ्यान्तु वारो भौमस्य वै भवेत्। तदा सा सुखदा ज्ञेयासुखा नामेति कीर्त्तिता। स्नानदानादिक सर्वमस्या-प्रक्षयमुच्यते”। स्कन्दपुराणे
“शुक्ला मार्गशिरे मासिश्रावणे या च पञ्चमी। स्नानदाने बहुफला नाग-[Page3529-b+ 38] लोकप्रदायिनी”। भविष्यपुराणे
“येयं भाद्रपदे मासिषष्ठी च भरतर्षभ!। स्नानदानादिक सर्वमस्यामक्ष-यमुच्यते” तथा
“शुक्लपक्षस्य सप्तम्यां सूर्य्यवारो भवे-द्यदि। सप्तमी विजया नाम तत्र दत्त महाफलम्। शुक्लपक्षस्य सप्तम्यां नक्षत्रं पञ्चतारकम्। यदा चस्यात्तदा ज्ञेया जया नामेति सप्तमी। स्नानदानादिकंतस्यां भवेत् शतगुणं विभो!। पञ्चतारकमितिः रोहिण्यश्लेषामघाहस्तस्य।
“या मार्गशीर्षमासस्य शुक्लपक्षे तुसप्तमी। नन्दा सा कथिता वीर! सर्वानन्दकरी स्मृता। स्नानदानादिकं सर्वमस्यामक्षयमुच्यते”। आदिपुराणे
“रेवती यत्र सप्तम्यामादित्यदिवसे भवेत्। तद्दानं शत-साहस्रमिति प्राह दिवाकरः। भविष्यपुराणे
“पौषेमासि यदा देवि! शुक्लाष्टम्यां बुधो भवेत्। तदा तु सामहापुण्या महारुद्रेति कीर्त्तिता। तस्यां स्नानं महा-दानं तर्पणं विप्रभोजनम्। मत्प्रीतये कृतं देवि! शत-साहस्रिकं भवेत्”। महाभारते
“अष्टकासु च यद्दत्ततदनन्तमुदाहृतम्”। आश्वलायनः
“हेमन्तशिशिरयोश्च-तुर्णामपरपक्षाणामष्टमीष्वष्टका” इति। तथा शातपथ-श्रुतिः
“द्वादश पौर्णमास्यो द्वादशाष्टका द्वादशामावास्या” इति। द्वादशापि कृष्णाष्टम्य इत्यर्थः। देवीपुराणे
“आश्विनस्य तु मासस्य नवमी शुक्लपक्षगा। जायतेकोटिगुणितं दानं तस्यां नराधिप!”। गरुडपुराणे
“ज्यैष्ठस्य शुक्लदशमी संवत्सरमुखी स्मृता। तस्यां स्नानंप्रकुर्वीत दानञ्चैव विशेषतः।
“एकादश्यां सिते पक्षेपुष्यर्क्षं यत्र सत्तम!। तिथौ भवति मा प्रोक्ता विष्णुनापापनाशिनी। दानं यद्दीयते किञ्चित् समुद्दिश्यजनार्दनम्। होमो वा क्रियते तस्यामक्षयं कथितंफलम्। मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता। महती द्वादशी ज्ञेया उपवामे महाफला। फलं दत्त-हुतानाञ्च तस्यां लक्षगुणं भवेत्”। विष्णुधर्मोत्तरात्
“भाग्यर्क्षसंयुता चैत्रे द्वादशी स्यान्महाफला”। भाग्यर्क्षपूर्बफल्गुनी।
“हस्तयुक्ता तु वैशाखे ज्यैष्ठे तु स्वामि-सयुता। ज्येष्ठया च तथापाढे मूलोपेता च वैष्णवे” वैष्णवे श्रावणे मासि।
“तथा भाद्रपदे मासि श्रबणेनतु संयुता। आश्विने द्वादशी पुण्या भवत्याजर्क्षसयुता”। आजर्क्षः पूर्वभाद्रपदा।
“कार्त्तिके रेवतीयुक्ता सौम्येकृत्तिकया तथा”। सौम्यः मार्गशीर्षः। पौषे मृग-शिरोपेता माघे चादित्यसंयुता”। आदित्यः पुनर्वसुः[Page3530-a+ 38]
“फाल्गुने पुष्यसहिता द्वादशी पावनी परा। नक्षत्र-युक्तास्वेतासु स्नानं दानमुपोषितम्। सकृत्कृतं मनुष्या-णामक्षय्यफलदायकम्”। स्कन्दपुराणे
“यस्तु चैत्रत्रयो-दश्यां स्नानं दानं समाचरेत्। फलं शतगुणं तस्यकर्मणो लभते नरः। ” ज्योतिःशास्त्रे
“कृष्णपक्षे त्रयो-दश्यां मघास्विन्दुः करे रविः। यदा तदा गजच्छायाश्राद्धे पुण्यैरवाप्यते। चैत्रे चतुर्दशी शुक्ला श्रावण-प्रोष्ठपादयोः। माघस्य या कृष्णपक्षे दाने बहुफलाहि सा। ” विष्णुधर्मोत्तरात्
“वैशाखी कार्त्तिकी माघीपूर्णिमा तु महाफला। पौर्णमासीषु सर्वासु मासर्क्ष-सहितासु च। स्नानानामिह दानानां फलं दशगुणंभवेत्। यस्यां पूर्णेन्दुना योगं याति जीवो महाबलः। पौर्णमासी तु सा ज्ञेया महापूर्वा द्विजोत्तम!। स्नानंदानं तथा जाप्यमक्षय्यं तत्तदा स्मृतम्। ब्रह्मपुराणे
“आग्नेयन्तु यदा ऋक्षं कार्त्तिक्यां भवति क्वचित्। महती सा तिथिर्ज्ञेया स्नानदानेषु चोत्तमा। ” आग्नेय-मृक्षं कृत्तिका।
“यदा याम्यन्तु भवति ऋक्षं तस्यां तिथौक्वचित्”। तिथिः सापि महापुण्या ऋषिभिः परि-कीर्त्तिता”। याम्यमृक्षं भरणी।
“प्राजापत्यं यदा ऋक्षंतिथौ तस्यां नराधिप!। सा महाकार्त्तिकी प्रोक्तादेवानामपि दुर्लभा। ” प्राजापत्यम् ऋक्षं रोहिणी। व्यासः
“अमा वै सोमवारेण रविवारेण सप्तमी। चतुर्थीभौमवारेण विषुवत्सदृशं फलम्। शङ्खोऽपि
“अमा-वास्या तु सोमे तु सप्तमी भानुना सह। चतुर्थीभूमिपुत्रेण सोमपुत्रेण चाष्टमी। चतस्रस्तिथयस्त्वेतास्तुल्याः स्युर्ग्रहणादिभिः। सर्वमक्षयमत्रोक्तं स्नान-दानजपादिकम्।
“महाभारते
“अमा सोमे तथामौमे गुरुवारे यदा भवेत्। तत् पर्व पुष्करं नाम सूर्य्य-पर्वशताधिकम्। शातातपः
“अमावस्या सोमवारेसूर्य्यवारे च सप्तमी। अङ्गारकदिने प्राप्ते चतुर्थी वाचतुर्दशी। तत्र यः कुरुते कर्म्म शुभं वा यदि वा-ऽशुभम्। षष्टिवर्षसहस्राणि कर्त्ता तत्फलसश्नुते”। विष्णुपुराणे
“अमावस्या यदा मैत्र! विशाखा--ऋक्षयोगिनी। श्राद्धे पितृगणस्तृप्तिं तदाप्नोत्यष्टवार्षिकीम्। अमावस्या यदा पुष्ये रौद्रर्क्षे वा पुनर्वसौ। द्वादशाव्दी-मथा तृप्तिं प्रयान्ति पितरोऽर्च्चिताः”। रौद्रर्क्षम् आर्द्रा।
“बासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छता। वारुणेवाप्यदैवत्ये देवानामपि दुर्ल्लभा”। वासवः धनिष्ठा। अजै-[Page3530-b+ 38] कपादः पूर्वाभाद्रपदा। वारुण शततारका। आप्यदैवत्यपूर्वाषाढा।
“माघेऽसिते पञ्चदशी कदाचिदुपैति योगंयदि वारुणेन। ऋक्षेण कालः स परः पितॄणांनह्यल्पपुण्यैर्नृप! लभ्यतेऽसौ”। वारुणः शततारा। अथ युगादिप्रभृतयः। तत्र स्कन्दपुराणे
“नवम्यां शुक्ल-पक्षस्य कार्त्तिके निरगात् कृतम्। त्रेता सिततृतीयायांवैशाखे समपद्यत। दर्शे तु माघमासस्य प्रवृत्तं द्वापरंयुगम्। कलिः कृष्णत्रयोदश्यां नभस्ये मासि निर्गतः। युगादयः स्मृता ह्येते दत्तस्याक्षयकारकाः। ” ब्रह्मपुराणे
“युगारम्भास्तु तिथयो युगाद्यास्तेन कीर्त्तिताः। फलंदत्तहुतानाञ्च तास्वनन्तं प्रकीर्त्तितम्। ” तथा एता-श्चतस्रस्तिथयो युगाद्या दत्तं हुतञ्चाक्षयमाशु विन्द्यात्। युगे युगे वर्षशतेन यत्तपो युगादिकाले दिवसेन तद्भवेत्। ” तथा
“सूर्य्यस्य सिंहसंक्रान्त्यामन्तः कृतयुगस्य च। तथावृश्चिकसंक्रान्त्यामन्तस्त्रेतायुगस्य च। ज्ञेयस्तु वृष-क्रान्त्यां द्वापरान्तश्च संख्यया। तथा च कुम्भसंक्रान्त्या-मन्तः कलियुगस्य च। ” पद्मपुराणे
“युगादिषु युगान्तेषुस्नानदानजपादिकम्। यत्किञ्चित् क्रियते तस्य युगान्ताःफलसाक्षिणः। ” आदित्यपुराणे
“दिनर्क्षं रेवती यत्रगमनञ्चैव राशिषु। युगान्तदिवसं विद्धि तत्र दान-मनन्तकम्। ग्रहोपरागे विषुवे सोम्येंवा मिहिरोपदिः। सप्तमी शुक्ला कृष्णा वा युगान्तदिवसं विदुः। ” मिहि-रोपदिः सूर्य्यग्रहः। मनुः
“सहस्रगुणितं दानंभवेद्दत्तं युगादिषु। कर्म श्राद्धादिकञ्चैतत्तथा मन्वन्तरा-दिषु। ” मत्स्यपुराणे
“अश्वकशुक्लनवमी द्वादशी कार्ति-कस्य तु। चैत्रस्य तु तृतीया या तथा भाद्रपदस्य तु। फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा। श्रावण-स्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा। आषाढस्य तुदशमी माधमासस्य सप्तमी। कार्तिकी फाल्गुनी चैत्रीज्यैष्ठे पञ्चदशी तथा। मन्वन्तरादयश्चैता दतस्याक्षय-कारकाः। स्नानं दानं जपो होमः स्वाध्वायपितृ-तर्पणम्। सर्वमेवाक्षयं विद्यात् कृतं मन्वन्तरादिषु। अत्रामावस्याष्टमीव्यतिरेकेण सर्वाः शुक्ला एव। पुरा-णान्तरेण तु श्रावणस्यामावस्या भाद्रपदस्य कृष्णाष्टमीमन्वन्तरादिरिति प्रतिपादितम् तद्यथा
“आश्विने शुक्ल-नवमी द्वादशी कार्तिके तथा। तृतीया चैत्रमासस्यतथा भाद्रपदस्य च। श्रावणस्याप्यमावस्या॰ पौषस्यैका-दशी तथा। आषाढस्यापि दशमी माघमासस्य सप्तमी। [Page3531-a+ 38] नभस्यस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा। कार्तिकीफाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तथा। मन्वन्तरादय-श्चैता दत्तस्याक्षयकारकाः। ” अथ व्यतीपातादिकालाः। याज्ञवल्क्यः
“शतमिन्दु-क्षये दानं सहस्रन्तु दिनक्षये। विषुवे शतसाहस्रंव्यतीपाते त्वनन्तकम्”। वराहपुराणे
“दर्शे शतगुणंदानं तच्छतव्नं दिनक्षये। शतघ्नं तस्य संक्रान्तौ शतघ्नंविषुवे ततः। युगादौ तच्छतगुणमयने तच्छताहतम्। सोमग्रहे तच्छतव्नं तच्छतव्नं रविग्रहे। असंख्येयंव्यतीपाते दानं वेदविदो विदुः। शतघ्नं शतगुणमित्यर्थः। तथा
“उत्पत्तौ लक्षगुणं कोटिगुणं भ्रमणनाडिकायान्तु। अर्वुदगुणितं पतने जपदानाद्यक्षयं पतिते। ” उत्पत्त्यादि-मानमुक्तं ज्योतिःशास्त्रे
“विंशतिर्द्वियुतोत्पत्तौ भ्रमणेचैकविंशतिः। पतने दश नाड्यस्तु पतिते सप्त नाडिकाः। व्यतीपातोत्र विष्कुम्भादियोगेषु सप्तदशो योगः। वृद्धमनुना तु प्रकारान्तरेण व्यतीपातो दशितः।
“श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके। यद्यमा रवि-वारेण व्यतीपातः स उच्यते। नागदैवतम् अश्लेषा। मस्तकं प्रथमचरणः। मस्तक इति श्रवणादिमिःप्रत्येकं सम्बध्यते। शास्त्रान्तरेऽन्योऽपि व्यतीपातउक्तः।
“पञ्चाननस्थौ गुरुभूमीपुत्रौ मेषे रविःस्वाद्यदि शुक्लपक्षे। पाशाभिधाना करभेण युक्तातिथिर्व्यतीपात इतीह योगः। अस्मिन् हि गोभूमि-हिरण्यवस्त्रदानेन सर्वं परिहाय पापम्। शूरत्व-मिन्द्रत्वमनामयत्वं मन्वाधिपत्यं लभते मनुष्यः”। पञ्चा-ननः सिंहः गुरुभूमिपुत्रौ वृहस्पत्यङ्गारकौ। पाशाभि-धाना द्वादशी। करभम् हस्तनक्षत्रमिति। ज्योतिः-शास्त्रे तु रविचन्द्रयो क्रान्तिसाम्ये सूक्ष्यौ वैधृत-व्यतीपातौ दर्शितौ। तदाह गालवः
“चन्द्रार्कयो-र्नयनवीक्षणजातमूर्तिः कालानलद्युतिनिभः पुरुषोऽतिरौद्रः। अस्त्रोद्यतो भुवि पतंश्च निरीक्षमाणः कं घात-येऽहमिति च व्यतीपातयोगः। ” आह भृगुः
“क्रान्ति-साम्यसमयः समीरितः सूर्य्यपर्वसदृशो मुनीश्वरैः। तत्र दत्तहुतजप्तपूजनं कोटिकोटिगुणमाह भार्गवः”। अयमर्थः सूर्य्याचन्द्रमसोः क्रान्तिसाम्ये पुण्यकालद्वयंसम्भवति। एकः व्यतीपाताख्यः अपरः वैधृताख्यः। तत्र क्रान्तिसाम्यलक्षणस्य व्यतीपातस्य गण्डीत्तरार्द्धादारभ्य क्रमशः सार्द्धेषु सप्तसु योगेषु सम्भवोऽस्ति[Page3531-b+ 38] वैधृतसंज्ञस्य तु शुक्रयोगादारभ्य सार्द्धेषु त्रिषु योगेषु म-म्भवोऽस्ति
“वैधृते व्यतीपाते दत्तमक्षयकृद्भवेत्”। भरद्वाघः
“व्यतीपाते वैधृते च दत्तस्यान्तो न विद्यते। व्यतीपातेविशेषेण स हि सूक्ष्मः प्रकीर्तितः। ” स्थूलप्रकारेणप्रसिद्धस्तु सप्तविंशतितमो योगो वैधृत इति। अथोपरागकालः। पद्मपुराणे
“चन्द्रस्य यदि वा भानोराहुणा सह सङ्गमः। उपराग इति ख्यातस्तत्रानन्त-फलं स्मृतम्। इन्दोर्लक्षगुणं पुण्यं रवेर्दशगुणं भवेत्। गङ्गातीरे तु सम्प्राप्ते इन्दोः कोटी रवेर्दश”। रवेर्दश-गुणमिति लक्षगुणाद्दशगुणमित्यर्थः। एवमुत्तरत्रापितथा।
“रविवारे रवेर्ग्रासः सोमे सोमग्रहस्तथा। चूडा-मणिरिति ख्यातस्तत्रानन्तं फलं स्मृतम्। ” मरद्वाजः
“चन्द्रसूर्य्योपरागे च यत्कर्तव्यं तदुच्यते। सर्वं हेम-मयं दानं सर्वे व्रह्मसमा द्विजाः। सर्वं गङ्गासमं तोयंराहुग्रस्ते दिवाकरे”। ऋष्यशृङ्गः
“राहुग्रस्तो यदासूर्य्यो यस्तु श्राद्धं समाचरेत्। तेनैवं सकला पृथ्वीदत्ता विप्रस्य वै करे”। शातातपः
“अयनेषु सदा देयंविशिष्टं स्वगृहेषु यत्। षडशीतिमुखे चैव विमोक्षेचन्द्रसूर्य्ययोः। विमोक्षे वर्तमाने न तु विमुक्तयो-रित्यर्थः
“उपरागे तु तत्कालमिति” स्मरणात्। आह शातातपः
“संक्रान्तौ यानि दत्तानि हव्यकव्यानिदातृभिः। तानि नित्यं ददात्यर्कः पुनर्जन्मनि जन्मनि। रविसंक्रमणे पुण्ये न स्नायाद्यो हि मानवः। सप्त-जन्मान्तरं रोगी दुःखभागी सदा भवेत्। ” वृद्धवशिष्ठः
“अयने द्वे च विषुवे चतस्रः षडशीतयः। चतस्रोविष्णुपद्यश्च संक्रान्त्यो द्वादश स्मृताः। झषकर्कटसंक्रान्त्यौद्वे तूदग्दक्षिणायने। विषुवे च तुलामेषे गोलमध्येततोऽपराः”। झषः मकरः। गोलः राशिचक्रम्।
“कन्यायां सिथुने मीने धनुष्यपि रवेर्गतिः। षडशीतिमुखा प्रोक्ता षड्शीतिगुणा फलैः। वृषवृश्चिककुम्भेषुसिंहे चैव यदा रविः। एतद्विष्णुपदं नाम विषुवा-दधिकं फले। ” गालवः
“मध्ये विषुवति दानं विष्णु-पदे दक्षिणायने चादौ। पडशीतिमुखेऽतीते तथोद-गयने भूरि फलम्”। एतच्च फलाधिक्यप्रतिपादनार्थ-मुक्तम्। फलमाह भरद्वाजः
“षडशीत्यान्तु यद्दानयद्दान विषुवद्वये। दृश्यते सागरस्यान्तस्तस्यान्तो नैवविद्यते। ” विष्णुपदादिसूक्ष्मतम पुण्यकालमाहगालवः
“स्थिरभे विष्णुपदं षडशीतिमुखं द्वितनुभे तुला-[Page3532-a+ 38] मेषे। विषुवन्तुर्य्ये दक्षायणं सौम्यकं सूर्य्ये। ” पूर्व-श्लोकैर्व्याख्यातमेतत्।
“अयनांशकतुल्येन कालेनैतत्स्फुटं भवेत्। सर्बविष्णुपदाद्युक्तभेदादि ह्ययनेऽन्यथा। मृगकर्कादिगे सूर्य्ये याम्यीदगयने सति। तदा संक्रान्ति-टाने स्युरुक्ता विष्णुपदादयः। ” अयमर्थः राशिं प्रतित्रिंशदंशका भवन्ति सूर्य्यश्च प्रतिदिनमेकैकमंशं भुङ्क्तेतत्र याबद्भिरंशैरयनच्युतिर्भवति तावता सूर्य्यस्य भोग्य-कालेन भाविनां विष्णुपदादिकानां च्युतिर्भवतीति ततश्चयदा द्वादशभिरयनच्युतिर्भवतीति तदा भाविन्याः संक्रा-न्तेर्द्वादशभिर्दिनैरर्वाक् पुण्यकालो भवति अस्मिंश्च तत्-संक्रान्तिनिमित्तं दानादि कर्त्तव्यमिति। एवं न्यूनातिरि-क्तेष्वपि बोद्धव्यम्। न केवलमादित्यस्यैव संक्रमसमयेपुण्यकालः किन्तु सर्वेषामपि ग्रहाणां नक्षत्रराशिसंक्रमेपुण्यकालो भवतीति। तदुक्तं ज्योतिःशास्त्रे
“नक्षत्र-राश्योरविसंक्रमे स्युरर्वाक् परत्रापि रसेन्दुनाड्यः। पुण्यास्तथेन्दोस्त्रिधरापलैर्युता एकैव नाडी मुनिमिःशुभोक्ता। नाड्यश्चतस्रः सपलाः कुजस्य बुधस्य तिस्रःपलविश्वयुक्ताः। सार्द्ध्वाब्धिनाड्यः पलसप्तयुक्ताः गुरोस्तुशुक्रे सपलाश्चतस्रः। द्विनागनाड्यः पलसप्तयुक्ता शनैश्चर-स्याभिहिताः सुपुण्याः। आद्ये तु मध्ये जपदानहोमंकुर्वन्नवाप्नोति सुरेन्द्रधाम। ” अस्यार्थः आदित्यस्यराशिनक्षत्रगमने अर्वाक् परतश्च षोडश घटिकाः पुण्य-कालः। तथा चन्द्रस्यापि राशिनक्षत्रगमने घटिकैका-पलानि त्रयोदश अर्वाक् परतश्च पुण्यकालः। एवंमङ्गलस्य घटिकाश्चतस्रः पलमेकञ्च पुण्यकालः। तथाबुधस्य तिस्रो घटिकाश्चतुर्दश पलानि पुण्यकालः। वृह-स्पतेरपि सार्द्धाश्चतस्रो घटिकाः सप्त पलानि पुण्यकालः। शुक्रस्य चतस्रो घटिकाः पलमेकञ्च पुण्यकालः। शनैश्च-रस्यापि द्व्यशीतिघटिकाः सप्त पलानि पुण्यकाल इति। अथ प्रकीर्णकालाः। आह विष्णुः
“अमावस्या व्यतीपातोग्रहणं चन्द्रसूर्य्ययोः। मन्वादयो युगादिश्च संक्रान्ति-र्वैधृतिस्तथा। दिनक्षयं दिनच्छिद्रमवमञ्च तथा परम्। द्व्ययने विषुवद्युग्मं षडशीतिमुखन्तथा। चतस्रोविष्णुपद्यश्च पुत्रजन्मादि चापरम्। आदित्यादिग्रहा-णाञ्च नक्षत्रैः सह सङ्गमः। विज्ञेयः पुण्यकालीऽयंज्योतिर्विद्भिर्विचार्य्य च। तत्र दानादिकं कुर्य्यादात्मनःपुण्यवृद्धये। ” अमावास्यादीनि प्रसिद्धानि। दिनक्षयचक्तः पद्मपुराणे
“द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्या-[Page3532-b+ 38] द्दिनक्षयः। ” वशिष्ठोऽप्याह
“एकस्मिन् सावने त्वह्नितिथीनां त्रितयं यदा। तदा दिनक्षयः प्रोक्तस्तत्र साह-स्रिकं फलम्। ” दिनच्छिद्रलक्षणमाह भृगुः
“तिथ्यर्द्धति-थियोगर्क्षछेदादी शशिपर्वणः। सदृशौ दिवसच्छिद्रसमाख्यौप्राह भार्गवः। अयमर्थः तिथ्यर्द्धं करणं करणतिथियो-गनक्षत्राणामन्ते आदौ च पर्वकालः सोमग्रहणतुल्यः सच दिनच्छिद्रसंज्ञ इति। छेदकालमानमप्युक्तं तेनैव
“छेदादिकालः कथितस्तिथिकृत्योर्घटीद्वयम्। नागवह्नि-पलोपेतं तद्भे तत्त्वपलैर्युतम्। पलैः षोडशभिर्युक्तनाडिकाद्वितयं युतेः। छेदादिसमयः प्रोक्तो दानेऽनन्त-फलप्रदः। ” कृतिः करणम्। नागः अष्टौ। वह्नयःत्रयः। भं नक्षत्रम्। तत्त्वं पञ्चविंशतिः। युतिःयोगः। तदयमर्थः सिद्धो भवति। तिथिकरणयो-राद्यन्ते। घटिकाद्वयमष्टत्रिंशत् पलानि पुण्यकालः। नक्ष-त्रस्य तु पञ्चविंशतिपलैर्युक्तं घटिकाद्वयम्। योगस्यापिषोडशभिः पलैर्युक्तं घटिकाद्वयमिति। अवमलक्षण-माह विष्णुः
“तिथित्रयं स्पृशत्येको चारः स्यादवमंहि तत्। त्रिवारस्पृक् तिथिर्यत्र दिनस्पृक् च तदु-च्यते। ” अत्र दिनक्षयावमयोरियान् भेदः। यत्र तिथिद्वयावसाने वारावसानं स दिनक्षयः। यत्र तिथिद्वयाव-सानेऽपि वारानुवृत्तिः सोऽवम इति। ब्रह्मप्रोक्ते
“एकादश्यप्यमावस्या पूर्णिमा पुत्रजन्म च। वैधृतिश्च व्यती-पातो भद्रा चावमवासरः। युगमन्वादयस्ते स्युरिन्दु-पर्वसमानकाः। क्रान्तिसाम्यं दिनच्छिद्रं ग्रहाणां भग-मस्तथा”। भगमः राशिनक्षत्रेषु गमनम्। देवीपुराणे
“व्यतीपाती विष्णुपदं षडशीतिमुखन्तथा। क्रान्तिसाम्यममावास्या ग्रहणं वैधृतिश्च यः। संक्रा-न्तिश्च दिनच्छिद्रं तिथिवृद्धिदिनक्षयः। इत्यादिः पुण्य-कालस्तु होमदानादिकर्मणः”। स्कन्दपुराणे
“ग्रहणंचन्द्रसूर्य्याभ्यामुत्तरायणमुत्तमम्। विषुवं सव्यतीपातंषडशीतिमुखन्तथा। दिनच्छिद्राणि संक्रान्तिर्ज्ञेयंविष्णुपदं पुनः। इति कालः समाख्यातः पुंसां पुण्य-विवर्द्धनः। अस्मिन् दत्तानि दानानि स्नानहोमतपांसिच। अनन्तफलदानि स्युः स्वर्गमोक्षप्रदान्यपि”। आहच्यवनः
“अमावास्यासंक्रान्तिव्यतीपातविषुवायनषड-शीतिमुखविष्णुपदादिवैधृतिग्रहणान्तं स एव पुण्य-कालः।
“अयने षडशीतौ च चन्द्रसूर्य्यग्रहे तथा। युगादौ वैधृतौ चैव दत्तं नवति चाक्षयम्”। आह[Page3533-a+ 38] शातातपः
“अयनेषु तु यद्दत्तं षडशीतिमुखेषु च। चन्द्रसूर्य्योपरागे च दत्तं भवति चाक्षयम्”। नारदः
“विशाखासु यदा भानुः कृत्तिकासु च चन्द्रमाः। सयोगः पद्मको नाम पुष्करेष्वतिदुर्लभः”। अथ निषिद्धकालाः तत्र शङ्खलिखितौ
“आहारं मैथुनं निद्रांसन्ध्याकाले तु बर्ज्जयेत्। कर्म चाध्ययनञ्चैव तथादानप्रतिग्रहौ”। स्कन्दपुराणे
“रात्रौ दानं नकर्त्तव्यं कुदाचिदपि केनचित्। हरन्ति राक्षसा यस्मात्तस्माद्दातुर्भयावहम्। विशेषतो निशीथे तु न शुभंकर्म शर्मणे। अतो विवर्जयेत् प्राज्ञो दानादिषु महा-निशाम्। तथा
“स्नानञ्चैव महादानं स्वाध्यायन्तु नतर्पणम्। प्रथमेऽव्दे न कुर्वीत महागुरुनिपातने”। आह ज्यतिःपराशरः
“अग्न्याधेयं प्रतिष्ठाञ्च यज्ञदानाद्यभिग्रहान्। माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत्। वापीकूपतडागादिप्रतिष्ठोदङ्मुखे रवौ। दक्षिणाशामुखे कुर्वन् न तत्फलमवाप्नुयात्। बाले वा यदि वावृद्धे शुक्रे वास्तमुपागते। मलमासैवैतानि वर्जयेद्यत्नतः सदा”। अथ निषिद्धस्यापि धर्मविशेषेण पुण्यकालत्वमभिधीयते। देवलः
“राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु। स्नान-दानादिकं कुर्य्युर्निशि काम्यब्रतेषु च”। वृद्धवसिष्ठः
“ग्रहणोद्वाहसंक्रान्तियात्रादिप्रसवेषु च। दानं नैमि-त्तिकं ज्ञेयं रात्रावपि तदिष्यते”। विष्णुधर्मोत्तरे
“पूजनन्त्वतिथीनाञ्च पान्थानामपि पूजनम्। तच्च रात्रौतथा ज्ञेयं गवामुक्तञ्च पूजनम्”। महाभारते
“रात्रौदानं न शंसन्ति विना त्वभयदक्षिणाम्। विद्यां कन्यांद्विजश्रेष्ठा! दीपमन्नं प्रतिश्रयम्”। श्रीमार्कण्डेय-पुराणे
“महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम्। स्नानं तत्र न कुर्वीत काम्यनैमित्तिकादृते”। विश्वामित्रः
“महानिशा द्वे घटिके रात्रौ मध्यमयामयीः। नैमि-त्तिकन्तथा कुर्य्यान्नित्यन्तु न मनागपि”। अथ निमित्तानुरोधेन सदा पुण्यकालाः। विष्णुधर्म्मोत्तरे
“कालः सर्वोऽपि निर्दिष्टः पात्रं सर्वमुदाहृतम्। अभयस्यप्रदाने तु नात्र कार्य्या विचारणा। तदैव दानकालस्तुयदा भयसुपस्थितम्”। तथा
“न कालनियमो दृष्टो दीय-माने प्रतिश्रये। तदैव दानमस्योक्तं यदा पान्थसमागमः। न हि काल प्रतीक्षेत जलं दातुं तृषान्विते। अन्नोदकंसदा देशमित्याह भगवान्मनुः”। स्कन्दपुराणे
“अर्द्ध-[Page3533-b+ 38] प्रसूतां गां दद्यात् कालादीनविचारयन्। कालः सएव ग्रहणे यदा सा द्विमुखी तु गौः”। व्यासः
“आसन्नमृत्युना देया गौः सवत्सा तु पूर्ववत्। तदभावेतु गौरेव नरकोद्धरणाय वै। तदा यदि न शक्नोतिदातुं वैतरणीन्तु गाम्। शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयोदद्यान्मृतस्य च”। वराहपुराणे
“व्यतीपातोऽथसंक्रान्तिस्तथैव ग्रहणं रवेः। पुण्यकालास्तदा सर्वे यदामृत्युरुपस्थितः। तदा गोभूहिरण्यादि दत्तमक्षयता-मियात्”। तथा
“यावत् काल सुते जाते न नाडीछिद्यते नृप!। चन्द्रसूर्य्योपरागेण तमाहुः समयंसमम्”। विष्णुधर्म्मोत्तरे
“अच्छिन्ननाड्यां यद्दत्तं पुत्रेजाते द्विजोत्तमाः!। संस्कारेषु च पुत्रस्य तदक्षय्यंप्रकीर्त्तितम्”। मत्स्यपुराणे
“यदा वा जायते वित्तंचित्तं श्रद्धासमन्वितम्। तदैव दानकालः स्याद्यतोऽनित्यं हि जीवितम्”। इति कालनिरूपणम्। अथ देशाख्यं दानाङ्गमुपवर्ण्यते। तत्र देवीपुराणे
“सर्वेशिवाश्रमाः पुण्याः सर्वा नद्यः शुभप्रदाः। दानस्नानो-पवासादिफलदाः सततं नृणाम्”। आह विष्णुः
“चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते। सम्लेच्छदेशो विज्ञेय आर्य्यदेशस्ततः परः”। भविष्यपुराणे
“न हीयते यत्र धर्म्मश्चतुष्पात् सकलो द्विज!। स देशःपरमो नित्यं सर्वपुण्यतमो मतः। विद्वद्भिः सेवितीयश्च यस्मिन् देशे प्रवर्त्तते। शास्त्रोक्तश्चापि विप्रेन्द्र! सदेशः परमोमतः”। याज्ञवल्क्यः
“यस्मिन् दशे मृगःकृष्णस्तस्मिन् धर्म्मान्निबोधत”। श्रीमार्कण्डेथषराणे
“सह्यस्य चोत्तरो यस्त यत्र गोदावरी नदी। पृथिव्या-मपि कृत्स्मायां स प्रदेशीऽतिपावनः”। व्यासः
“गङ्गा-द्वारे प्रयागे च अविमुक्ते च पुष्करे। नगरे चाट्टहासेच गङ्गासागरसङ्गमे। कुरुक्षेत्रे गयायाञ्च तीर्थे वाऽमर-कण्टके। एवमादिषु तीर्थेषु दत्तमक्षयतामियात्। सर्वतीर्थमयी गङ्गा तत्र दत्तं महाफलम्”। स्कन्द-पुराणे
“वाराणसी कुरुक्षेत्र प्रयागः पुष्कराणि च। गङ्गा समुद्रतीरञ्च नैमिषामरकण्टकम्। श्रीपर्वतमहा-कालं गोकर्णं वेदपर्वतम्। इत्याद्याः कीर्त्तिता दशाःसुरसिद्धनिषेबिताः। सर्वे शिलोच्चयाः पुण्याः सर्वा नद्यःससागराः। गोसिद्धमुनिवासाश्च देशाः पुण्याः प्रकी-र्त्तिताः। एषु तीर्थेसु यद्दत्तं फलस्यानन्त्यकृद्भवेत्”। पद्मपुराणे
“गङ्गा चोदङ्मुखी यत्र यत्र प्राची सर-[Page3534-a+ 38] स्वती। तत्र क्रतुशतं पुण्यं स्नानदानेषु सुव्रत!। लिङ्गं वा प्रतिमां वापि दृश्यते यत्र कुत्रचित्। तत्सर्वं पुण्यतां याति दानेषु च महाफलम्”। ब्रह्मप्रोक्ते
“नदीतीरे गवां गोष्ठे व्राह्मणानाञ्च वेश्मनि। दत्तंशतगुणं प्राहुर्लक्षमादित्यसन्निधौ। शिवस्य विष्णोर्वह्नेश्चसन्निधौ दत्तमक्षयम्”। तथा
“अग्निहोत्रे गवां गोष्ठेवदघोषपवित्रिते। शिवायतनसंस्थाने यदल्पमपि दीयते। तदनन्तफलं ज्ञेयं। शिवक्षेत्रानुभावतः”। मत्स्यपुराणे
“शालग्रामसमुद्भूता शिला चक्राङ्कमण्डिता। यत्रतिष्ठति वसुधे। तत्क्षेत्रं योजनत्रयम्। द्वारवत्याः शिलादेवि! मुद्रिता मम मुद्रया। यत्रापि नीयते तत्स्या-त्तीर्थं द्वादशयोजनम्”। तथा
“प्रयागादिषु तीर्थेषुपुण्येष्वायतनेषु च। दत्त्वा चाक्षयमाप्नोति नदीपुण्य-वनेषु च”। आयतने शङ्करादिक्षेत्रे तदुक्तं भविष्य-पुराणे
“क्रोशमात्र भवेत् क्षेत्रं शिवस्य परमात्मनः। प्राणिनान्तत्र पञ्चत्वं शिवसायुज्यकारणम्। फलं दत्त-हुतानाञ्च अनन्तं परिकीर्त्तितम्। मनुजैः स्थापितेलिङ्गे क्षेत्रे मानमिदं स्कृतम्। स्वयम्भुवि सहस्रस्यादार्षे चैव तदर्द्धकम्”। अथ श्रद्धाख्यं दानाङ्गमुच्यते। स्कन्दपुराणे
“दानं दद्यात्प्रयत्नेन श्रद्धापूतन्द्रितः। श्रद्धाकृतं स्वल्पमपिदानमानन्त्यमश्नुते। अश्रद्धयापि यद्दत्तं सर्वस्वमपिसत्तम!। न तत् फलाय भवति तस्माच्छ्रद्धां समाश्रयेत्”। देवलः
“प्रदाय शाकमुष्टिं वा श्रद्धाभक्तिसमुद्यताम्। महते पात्रभूताय सर्वाम्युदयमाप्नुयात्”। महाभारते
“श्रद्धया साध्यते धर्म्मो महद्भिर्नार्थराशिभिः। निष्कि-ञ्चनास्तु मुनयः श्रद्धावन्तो दिवं गताः। धर्मार्थकाम-मोक्षाणां श्रद्धा परमकारणम्। पुंसामश्रद्दधानानांन धर्म्मो नापि तत्फलम्”। वह्निपुराणात्
“श्रद्धापूर्वाःसर्वधर्म्माः श्रद्धामध्यान्तसंस्थिताः। श्रद्धानिष्ठाप्रतिष्ठाश्चधर्म्माः श्रद्धैव कीर्त्तिताः। श्रुतिमात्ररसाः सूक्ष्माःप्रधानपुरुषेश्वराः। श्रद्धामात्रेण गृह्यन्ते न वाक्येन नचक्षुषा। कायक्लेशैर्न बहुभिर्न चैवार्थस्य राशिभिः। घर्मः सम्प्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि। श्रद्धाधर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतन्तपः। श्रद्धा स्वर्गश्चमोक्षश्च श्रद्धा सर्वमिदं जगत्। सर्वस्वं जीवितञ्चापिदद्यादश्रद्धया यदि। नाप्नुयात् स फलं किञ्चित् श्रद्दधा-नस्ततो भवेत्”। वेदव्यासः
“श्रद्धा वै सात्विकी देवी[Page3534-b+ 38] सूर्य्यस्य दुहिता नृप!। सवित्री प्रसवित्री च जीव-विश्वासिनी तथा। वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धञ्चभारत”। महाभारते
“क्रियावान् श्रद्दधानश्च दाताप्राज्ञोऽनसूयकः। धर्माधर्मविशेषज्ञः सर्वं तरति दुस्त-रम्”। स्कन्दपुराणे
“श्रद्धा मातेव जननी ज्ञानस्पसुकृतस्य च। तम्माच्छ्रद्वां समुत्पाद्य ज्ञानं सुकृतमर्जयेत्” मनुः
“श्रद्धयेष्टञ्च पूर्त्तञ्च नित्यं कुर्य्यात् प्रयत्नतः। श्रद्धा-कृते ह्यक्षये ते भवतः स्वागतैर्द्धनैः”। याज्ञवल्क्यः
“दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेपतः। याचि-तेनापि दातव्यं श्रद्धापूतन्तु शक्तितः”। वृहस्पतिः
“मन्त्राज्यदोषाद्धोमे तु तपसीन्द्रियदोषतः। न्यूनता स्यान्न-दाने तु श्रद्धायुक्ते भवेत् क्वचित्”।
“देशनिरूपणञ्च पूर्वं व्रतखण्डादावेव प्रपञ्चितम्। इह तुपात्रादिदानाङ्गनिरूपणप्रतिज्ञानिर्वाहार्थं दिङ्मात्रमेवप्रदर्शितम्। न चात्र भविष्यपुराणमतेन दानाङ्गपञ्चकेनिरूप्यमाणे दानाङ्गभूतस्यापि दातुः कथं पृथगनुपादन-मिति शङ्कनीयं दानस्य दातृव्यतिरेकेणानुपपत्तेस्तेनैवतदाक्षपात्। एवं तर्हि देशकालादेरप्यनुपादानं स्यात्।
“अथ सामान्येनैव तदाक्षेपेऽपि व्रह्मावर्त्तादिविशेषलाभार्थंतन्निरूपणमिति चेत् दातापि तर्हि शुचित्वादिविशेषला-भार्थंनिरूपणीयः स्यात्। उच्यते तत्तद्विधायकवाक्यगता-ख्यातप्रत्ययोपात्तत्वादेव तदनिरूपणं नत्वाक्षेपात्, शुचि-त्वादिविशेषलाभस्तु वाक्यान्तरादिति कर्त्रनभिधानपक्षेतु प्रत्ययोपात्तभावनयैवासाधारण्येन तदाक्षेपान्न देशा-दिसाम्यम्। एवमादिक्लेशपर्य्यालोचनया षडङ्गं दान-मिति वदता देबलेन तु निरूप्यतएव तथा हि
“दाता प्रतिग्रहीता च श्रद्धा देयञ्च धर्मयुक्। देशकालौच दानानामङ्गान्येतानि षड्विदुरिति”। तल्लक्षणन्तुप्रागभिहितमिति तु न पुनराद्रियामहे। न तु श्रद्धा-दिवदितिकर्त्तव्यतापि दानाङ्गमित्यतः प्रतिपादनीयैवयदाह याज्ञवल्क्यः
“देशकाल उपायेन द्रव्यं श्रद्धास-मन्वितम्। पात्रे प्रदीयते यत्तत् सकलं धर्मलक्षणम्”। इति उपायः इतिकर्त्तव्यता। अथ दानसामान्यविधिरुच्यते। तत्र दातृधर्माः। भविष्य-पुराणे
“सम्यक् संसाधनं कर्म कर्त्तव्यमधिकारिणा। निष्कामेण महावीरः! काम्यं कामान्वितेन च। आचारयुक्तः श्रद्धावान् प्राज्ञोयोऽध्यात्मवित्तमः। कर्मणांफलमाप्नोति न्यायार्जितधनश्च यः”। सम्गक प्रथम[Page3535-a+ 38] कल्पादिना। संसाधनं यथाविहितसाधनम्। अधि-कारिणा अर्थिना समर्थेन विदुषा च। अध्यात्म-वित्तमः परलोकफलभागिन्यात्मनि दृढप्रत्ययवान्। न्यायार्जितधनः स्ववृत्त्यर्जितधनः। आपस्तम्बः
“प्रयोजयितानुमन्ता कर्त्तेति स्वर्गनरकफलेषु भागि-नः यो भूय आरभते तस्मिन् फलविशेषः”। याज्ञवल्क्यः
“विधिदिष्टन्तु यत् कर्म करोत्यविधिना तु यः। फलंन किञ्चदाप्नोति क्लेशमात्रं हि तस्य यत्”। मनुः
“प्रभुःप्रथमकल्पस्य योऽनुकल्पेन वर्त्तते। नःसाम्परायिकंतस्य दुमतेर्विद्यते फलम्”। साम्परायिकं पारलौकि-कम्। योगियाज्ञवल्क्यः
“श्रद्धाविधिसमायुक्तं कर्म यत्क्रियते नृभिः। सुविशुद्धेन भावेन तदानन्त्याय कल्पते। विधिहीनं भावदुष्टं कृतमश्रद्धया च यत्। तद्धरन्त्य-सुरास्तस्य मूढस्य ह्यकृतात्मनः”। भविष्योत्तरे
“काम्यो-दानविधिः पार्थ! क्रियमाणो यथातथम्। फलायमुनिभिः प्रोक्तो विपरीतो भयावहः”। गारुडपुराणे
“प्रशस्तदेशकाले च पात्रे दत्तं तदक्षयम्। कोटिजन्मा-र्जितं पापं ददतस्तस्य नश्यति। सकलाङ्गोऽपि सम्भारोयस्य दानक्रियाविधौ। सम्भवेदपि पापीयान् स सद्योमुक्तिमेष्यति”। देवीपुराणे
“शुचिना भावपूतेनक्षान्तिसत्यव्रतादिना। अपि सर्षपमात्रोऽपि दातारंतारयेदिह”। दक्षः
“दानञ्च विधिवद्देयं काले पात्रेगुणान्विते”। यमः
“सर्वत्र गुणवद्दानं श्वपाकादिष्वपिस्मृतम्। देशे काले विधानेन पात्रे दत्तं विशेषतः”। गुणवत् उत्तमफलम्। तथा
“दानं हि बहुमानाद्योगुणवद्भ्यः प्रयच्छति। स तु प्रेत्य धनं लब्ध्वा पुत्रपौत्रैःसहाश्रुते। परञ्चानुपहत्येह दानं दत्त्वा विचक्षणः। सुखोदयं सुखोदर्कं प्रेत्य वै लभते धनम्”। अनुपहत्यपीडामनुत्पाद्यं, सुखोदर्कं सुखोत्तरफलम्। रामायणे
“नावज्ञया प्रदातव्यं किञ्चिद्वा केनचित् क्वचित्। अवज्ञयाहि यद्दत्तं दातुस्तद्दोषमावहेत्”। शातातपः
“अभि-गम्य तु यद्दानं यच्च दानमयाचितम्। विद्यते सागर-स्यान्तस्तस्यान्ती नैव विद्यते। प्रच्छन्नानि च दानानिज्ञानञ्च निरहंकृतम्। तपांसि च सुगुप्तानि तेषां फल-मनन्तकम्”। ब्रह्मप्रोक्ते
“गुप्ताध्यायी गुप्तदातागुप्तपूजाग्निसत्क्रियः। पूज्यते सर्वलोकेषु सर्वदेवैः शत-क्रतुः”। व्यासः
“स्वयं नीत्वा तु यद्दानं भक्त्या पात्रायदीयते। तत् सहस्रगुणं भूत्वा दातारमुपतिष्ठति”। [Page3535-b+ 38] वृहस्पतिः
“कृते प्रदीयते गत्वा त्रेतायां दीयते गृहे। द्वापरे च प्रार्थयति कलौ चानुगमान्विते”। प्रतिग्रही-तृगृहं गत्वा यद्दीयते तत् कृते युगे दत्तं भवति प्रति-ग्रहीतारं स्वगृहमाहूय यद्दीयते तत् त्रेतायुगे टत्तंभवतीत्यर्थः एवमुत्तरत्रापि। वह्निपुराणे
“तमो-वृतस्तु यो दद्य्यद्भयात् क्रोधात् तथैव च। नृप! दानन्तुतत्सर्वं भुङ्क्ते गर्भस्थ एव च। ईर्षामन्युमनाश्चैवदम्मार्थं चार्थकारणात्। यो ददाति द्विजातिभ्यःस बालत्वे तदश्नुते। देशे काले च पात्रे चयोददाति द्विजातिषु। परितुष्टेन मनसा यौवने तुतदश्नुते। वैश्वदेवविहीनं च सन्ध्योपामनवर्जितम। यद्दानं दीयते तत्तु वृद्धकाले समश्नुते”। आह मनुः
“न विस्मयेत तपसा, वदेदिष्ट्यां न चानृतम्। नार्त्तौ-विप्रवदेद्विप्रान् न दत्त्वा परिकीर्त्तयेत्। यज्ञोऽनृतेनक्षरति तपः क्षरति विस्मयात्। आयुर्विप्रापवादेनदानन्तु परिकीर्त्तनात्”। यमः
“आशां दत्त्वा ह्यदा-तारं दानकाले निषेधकम्। दत्त्वा सन्तप्यते यस्तुतमाहुर्ब्रह्मघातकम्”। हारीतः
“दानं ज्ञानं तप-स्त्यागोमन्त्रकर्म्मविधिक्रियाः। मङ्गलाचारनियमाःशौचभ्रष्टस्य निष्फलाः”। आह प्रचेताः
“स्नातोऽधि-कारी भवति दैवे पित्र्ये च कर्मणि। पवित्राणांतथा जाप्ये दाने च बिधिचोदिते”। वायुपुराणे
“क्रियां यः कुरुते मोहादनाचस्येह नास्तिलः। भवन्ति न तथा तस्य क्रियाः सर्वाः न संशयः”। शाट्या-यनः
“दानमाचमनं होमं भोजनं देवतार्च्चनम्। प्रौढपादोन कुर्वीत स्वाध्यायं पितृतर्पणम्। आसना-रूढपादस्तु जान्वोर्वा जङघयोस्तथा। कृताबसक्थि-कोयश्च प्रौढपादः स उच्यते”। वशिष्ठः
“यज्जले शुष्क-वस्त्रेण स्थले चैरार्द्रवाससा। जपोहोमस्तथा दान तत्-सर्वं निष्फलं भवेत्”। विष्णुपुराणे
“होमदेवार्च्चनाद्यासुक्रियास्वाचमने तथा। नैकबस्त्रः प्रवर्त्तेत द्विजवाचनकेजपे”। द्विजवाचनक्रे द्विजस्वस्तिवाचनादौ। शातातपः
“सव्यादंसात् परिभ्रष्टकटिदेशभृताम्बरः। एकवस्त्रन्तु तंविद्यात् दैवे पित्र्येच वर्जयेत्”। श्लोकगोतमः
“स्नानेदाने जपे होमे दैवे पित्र्ये च कर्मणि। बध्नीयान्नासुरींकक्षां शेषकाले यथारुचि। याज्ञवल्क्यः” परिधानाद्बहिःकक्षा निबद्धा ह्यासुरी भवेत्। धर्मकर्मणि विद्वद्भिर्वर्ज-नीया प्रयत्रतः। वहिःकक्षा नहिर्निर्गता कक्षेत्यर्थः”। [Page3536-a+ 38] मनुः
“न कुर्य्यात् कस्यचित् पीडां कर्मणा मनसागिरा। आचरन्नभिषेकन्तु कर्म्माण्यप्यन्यथा चरन्। सन्ध्ययोरुभयोर्जप्ये भोजने दन्तधावने। पितृकार्य्येच टैवे च तथा मूत्रपुरीषयोः। गुरूणां सन्निधौ दानेयागे चैव विशेषतः। एषु मौनं समातिष्ठन् स्वर्गं प्रा-प्नोति मानवः”। पराशरः
“स्नाने दाने जपे होमेदैवे पित्र्ये च कर्मणि। सव्यापसव्यौ कर्तव्यौ सपवित्रौकरौ द्विजैः”। लघुहारीतः
“जपे होमे तथा दानेस्वाध्याये पितृतर्पणे। अशून्यन्तु करं कुर्य्यात् सुवर्ण-रजतैः कुशैः। दर्महीना तु या सन्ध्या यच्च दानं विनो-दकम्। असंख्यातञ्च यज्जप्तं तत्सर्वं निष्प्रयोजनम्”। हारीतः
“देवाश्च पितरश्चैव तपोयज्ञदानानामीशते मन्तारःसर्वकार्य्यसाधनानामार्त्तिभयोपसर्गेभ्योरक्षितारो भवन्तिभन्त्रा देवतास्तदा एवंसिद्धमन्त्रवत् करोति देववत्-करोति यद्ददाति देवताभिरेव तद्ददाति यत् प्रतिगृ-ह्णाति देवताभिरेव तत् प्रतिगृह्णाति तस्मान्नामन्त्रवत्प्रतिगृह्णीयात् यत्त्वमन्त्रतः प्रतिपादिता हि देवता-स्तुष्णीं प्रतिगृह्णीयुर्हि शठा भवन्ति तस्मान्मन्त्रवदद्भिर-वोक्ष्य दद्यादालभ्य वा”। अवोक्ष्य प्रोक्षणं कृत्वा। आलभ्यसोदकेन पाणिना स्पृष्ट्वा। आपस्तम्बः
“सर्वाण्युद-कपूर्वाणि दानानि यथाश्रुति वीहारे” वीहारे यज्ञेअन्वाहार्य्यदानादौ यथाश्रुति यावदेव श्रुतं तावदेवकुर्य्यान्नोदकपूर्बतादिनियम इत्यर्थः। वराहपुराणे
“तोयं दद्यात् द्विजकरे दाने विधिरयं स्मृतः। सकुशो-दकहस्तश्च ददामीति तथा वदेत्”। गौतमः
“अन्तर्जानु-करं कृत्वा सकुशन्तु तिलोदकम्। फलानि चाभिसन्धायप्रदद्यात् श्रद्धयान्वितः” पात्रासन्निधाने तु नारदीयपु-राणे विशेष उक्तः।
“मनसा पात्रमुद्दिश्य जलं भूमौविनिःक्षिपेत्। विद्यते सागरस्यान्तो दानस्यान्तो न वि-द्यते”। धौम्यः
“दानकाले तु सम्प्राप्ते पात्रस्यासन्निधौजलम्। अन्यविप्रकरे दत्त्वा दानं पात्रे निधीयते”। षट्त्रिंशन्मतात्
“पात्रं मनसि सञ्चिन्त्य क्रियावन्तंगुणान्वितम्। देशे काले च संप्राप्ते देयमपसु विनिः-क्षिपेत्”। उभयासन्निधाने तु विशेषस्तत्रैवोक्तः
“द्रव्यपात्रविकर्षश्चेत् परोक्षं दातुमुद्यतः। तत् ध्यायेद्वैभुवं पात्रं द्रव्यमादित्यदैवतम्”। धौम्यः
“परोक्षेऽपितु यद्दत्तं तीर्थे स्नातेन सोदकम्। तद्दानं सोदकंप्राहुरनन्तफलदायकम्। परोक्षे कल्पितं दानं पात्रा-[Page3536-b+ 38] भावे कथं भवेत्। गोत्रजेभ्यस्तथा दद्यात् तदभावेऽस्यबन्धुषु। परोक्षेऽपि च यद्दत्तं भावपूर्बेण चेतसा। गुरुमित्रद्विजातिभ्यस्तत्तु दानमनन्तकम्। परीक्षे खलुयद्दत्तं स्वस्त्यक्षरविवर्जितम्। दृश्यते सागरस्यान्तस्त-स्यान्तो नैव दृश्यते”। आपस्तम्बः
“तस्मादोमित्युदाहृत्य-यज्ञदानतपःक्रियाः। प्रवर्त्तन्ते विधानोक्ताः सततंब्रह्मवादिनः। त्रिमात्रस्तु प्रयोक्तव्यः कर्म्मारम्भेषुसर्वशः। तिस्रः सार्द्धास्तु कर्त्तव्या मात्रास्तत्वार्थचिन्तकैः। देवताध्यानकाले न प्लुतं कुर्य्यात् न संशयः। ” वृद्ध-वशिष्ठः
“नामगोत्रे समुच्चार्य्य सम्प्रदानस्य चात्मनः। सम्प्रदेयं प्रयच्छन्ति कन्यादाने तु पुंस्त्रयम्। पुंस्त्रय-मिति प्रपितामहादिपुरुषत्रयमित्यर्थः। तदुक्तं
“नान्दी-मुखे विवाहे च प्रपितामहपूर्वकम्। नाम सङ्कीर्त्तयन्विद्वानन्यत्र पितृपूर्वकम्। तथा दानहोमजपान् कुर्व-न्नासीनः कुशसंस्तरे। एषां फलमनन्तन्तु लभते प्राङ्-सुखोनरः”। स्मृत्यन्तरात्
“नात्मगोत्रे समुच्चार्य्य सम्यक्श्रद्धान्वितो वदेत्। सङ्कीर्त्य देशकालादि तुभ्यं सम्प्र-ददे इति। न ममेति स्वस्वत्वस्य निवृत्तिमपि कीर्त्त-येत्” षट्त्रिंशन्मतात्
“प्रणीते तु समिद्धेऽस्नौ जुहु-याद्व्याहृतित्रयम्। उदगग्रेषु दर्भेषु पात्रं तेषूपपादयेत्। प्रागग्रेषु स्वयंस्थित्वा दाता च परमेश्वरम्। ध्यात्वास्वपुण्यमुद्दिश्य दक्षिणां प्रतिपादयेत्। समस्ता व्याहृ-तीर्हुत्वा तत्रोपरि समापयेत्। ब्राह्मणं प्रणिपत्याथततः पात्रं विसर्जयेत्। अनेन विधिना दानं दा-तव्यं होमपूर्बकम्। तत् कर्म दक्षिणावर्जं होमवर्जञ्चनार्हति”। एतच्च विहिताङ्गभूतहोसकेषु होमानुवाद-पुरःसरमुपदर्शितं तत्तद्गुणविधिपरम्। अन्यथा ह्यतथा-दृष्टशिष्टाचारेषु ताम्बूलादिदानेष्वपि प्रसङ्गः स्यात्। ततःपरं प्रतिग्रहीतृधर्मास्तत्रोक्तास्ते च प्रतिग्रहीतृशब्दे दृश्याः। दातृप्रतिग्रहीत्रुभमधर्मास्तत्रोक्ता यथागरुडपुराणे
“दैवं वा कर्म्म पित्र्यं वा नाशुचिःकर्तुमर्हसि। स्नानमेव द्विजातीनां परं शुद्धिकरं स्मृ-तम्। अतः स्नातोर्हतामेति दाने चैव प्रतिग्रहे। कृतमस्नायिना कर्म राक्षसत्वाय कल्पते। प्रजापतिःकर्मगुप्त्यै पवित्रमसृजत्पुरा। रक्षीघ्नमेतत् परमं मुनिभिःकल्पितं सवे। तस्मात्तत्करयीर्द्धार्य्यं ददता प्रतिगृह्णता। स्नानहोमजपादीनि कुर्वता च विशेषतः। संत्यज्य[Page3537-a+ 38] र्वष्णवं मार्गं ब्रह्ममार्गविनिर्गतम्। सकृत् प्रदक्षिणी-कृत्य पवित्रमभिधीयते”। वायुपुराणे
“दानं प्रतिग्रहोहोमो भोजनं बलिरेव च। साङ्गुष्ठेन सदा कार्यम-सुरेभ्योऽन्यथा भवेत्”। साङ्गुष्ठेन अङ्गुलीसङ्गताङ्गु-ष्ठेन।
“एतान्येव च कार्य्याणि दानादीनि विशेषतः। अन्तर्जानु विधेयानि तद्वदाचमनं नृप!”। बौधायनः
“भोजनं हवनं दानमुपहारः प्रतिग्रहः। बहि-र्जानु न कार्य्याणि तद्वदाचमनं स्मृतम्”। ब्रह्माण्डपुराणे
“नाधिकारी मुक्तकच्छो मुक्तचूडस्तथैव च। दाने प्रति-ग्रहे यज्ञे ब्रह्मयज्ञादिकर्मसु। देवाः समेत्य वस्त्रंहि तच्च पुंसामकल्पयन्। ततश्च वाससा हीनमसंपूर्णंप्रचक्षते। सोत्तरीयस्ततः कुर्यात् सर्वकर्माणि भावतः। अधौतं कारुधौतञ्च परिदध्यान्न वाससी। ददानः प्रति-गृह्णंश्च दध्यादहतमेव च”। वराहपुराणे
“सुस्नातःसम्यगाचान्तः कृतसंध्यादिकक्रियः। कामक्रोधविहीनश्चपाषण्डस्पर्शवर्जितः। जितेन्द्रियः सत्यवादी पात्रं दाताच शस्यते” तथा
“प्रमीते गोत्रपुरुषे सूतके वा समा-गमे। दशरात्रमनर्हः स्यात् कर्तुं दानप्रतिग्रहौ। पिण्डोदकादि मृतके दातुं प्रेताय युज्यते। अच्छि-न्नायां तथा नाड्यां दानार्हो मृतसूतके”। विष्णुधर्मोत्तरे
“शुचिर्वाप्यशुचिर्वापि दद्यादभयदक्षिणाम्। शुचिनाऽ-शुचिना वापि ग्राह्या भय उपस्थिते”। छन्दोगपरिशिष्टेकात्यायनः
“कुशोपरिनिविष्टेन तथा यज्ञोपवी-तिना। देयं प्रतिग्रहीतव्यमन्यथा विफलं हि तत्”। आह जातूकर्ण्यः
“ओङ्कारेण दद्यात् प्रतिगृह्णीयाच्च”। स्कन्दपुराणे
“प्रणवा जगतां वीजं वेदानामादिरेव च। एष एव षरं ब्रह्म पवित्रमयमुत्तमम्। तस्मात् प्रणव-मुच्चार्य्य कार्य्यौ दानप्रतिग्रहौ” यमः
“योऽर्चितं प्रतिगृ-ह्णाति योऽचेयित्वा प्रयच्छति। ताबुभौ गच्छतः स्वर्गेविपरीते विपर्य्ययः”। लिङ्गपुराणे
“दद्याद्दानं यथाशक्त्या सदाभ्यर्चनपूर्वकम्। व्राह्मणश्चापि गृह्णीया-द्भक्त्या दत्तं प्रतिग्रहम्”। शातातपः
“प्रश्नपूर्वन्तुयो दद्यात् ब्राह्मणाय प्रतिग्रहम्। स पूर्वं नरकं यातिब्राह्मणस्तदनन्तरम्”। प्रश्नपूर्वमिति एतमध्यायम् एत-मनुवाकं वा यदि त्वमस्खलितं पठसि तदा तएतावद्द-दामीत्युक्त्वा तथा कृते यद्दीयते तत् प्रश्नपूर्वकम्। व्यासः
“अवमानेन यो दद्याद्गृह्णीयाद्यः प्रतिग्रहम्। तावुभौ नरके मग्नौ वसेतां शरदां शतम्”। शातातपः[Page3537-b+ 38]
“कार्य्यलोभेन योदद्याद्गृह्णीयाद्यः प्रतिग्रहम्। दाताग्रे नरकं याति ब्राह्मणस्तदनन्तरम्”। विष्णु-धर्मोत्तरे
“प्रतिग्रहोयोविधिना प्रदत्तः प्रतिग्रहोयोविधिना गृहीतः। द्वयोः प्रयोगश्चरमन्तु कार्य्यश्रेयस्तथाप्नोति न संशयोऽत्न”। अथ मिश्रधर्म्माः। नन्दिपुराणे
“दाने विधिमविज्ञाय नहितद्दातुमर्हति। प्रतिग्रहानभिज्ञश्च गृह्णन्निरयमश्नुते। सावज्ञं प्रतिगृह्णानो ग्रहीतापि पतत्यधः। किन्त्वंवेत्सीति वक्तव्यो न दात्रा व्राह्मणः क्वचित्। सोऽपि पृष्टःस्वयं तेन दानार्थं तं न कीर्त्तयेत्”। यदि त्वमेतत्पठसि तदा तुभ्यमेतद्ददामीति साक्षात् परीक्षणमत्रनिषिध्यते, पात्रत्वबोधार्थमुपायान्तरेण परीक्षणं त्वनु-मतमेव। तदुक्तं यमेन
“शीलं संवसनाज्ज्ञेयं शौचंसंव्यवहारतः। प्रज्ञा संकथनात् ज्ञेया त्रिभिः पात्रंपरीक्ष्यते”। संकथनं शुद्धमावेन विद्याकथा। वराह-पुराणे
“अपि सर्षपमात्रं हि न देयं विचिकित्सता। मनसा ह्यननुज्ञातः प्रतिगृह्णीत नैव हिं। ददानःप्रतिगृह्लंश्च यतो लोभभयादिना। नाप्नोति श्रेयसायोगं निरयं चैव गच्छति। ” नारदीयपुराणे
“देश-कालविधानाद्यैर्हीनं दानं भयावहम्। दातुः प्रतिग्रही-तुश्च गृहीतमसतः सदा। ” षट्त्रिंशन्मतात् नामगोत्रेसमुच्चार्य प्राङ्मुखो देयकीर्त्तनात्”। उदङ्मुखाय विप्रायदत्त्वान्ते स्वस्ति वाचयेत्। देयकीर्त्तनादिति देयकीर्त्त-नोत्तरकालं दत्त्वेत्यर्थः।
“प्राक्प्रत्यगास्या बोद्वाहे दातृ-ग्राहकयोः स्थितिः। दद्यात् पूर्वमुखो द्रव्यमेष एवविधिः सदा”। यत्तु कीर्त्तयन्ति
“प्राङ्मुखः प्रतिगृह्णी-द्विवाहे तु विपर्य्यय” इति तस्य समूलत्वे सिद्धे अनुष्ठान-विकल्पः, तत्राप्युदङ्मुखसंप्रदानवैशिष्ट्यस्मृतेस्तदेवानु-ष्ठेयम्। तदुक्तं स्मृत्यन्तरे
“दद्यात् पूर्वमुखो दानंगृह्णीयादुत्तरामुखः। आयुर्विवर्द्धते दातुर्ग्रहीतःक्षीयते तु तत्”। देयद्रव्याणां दानमन्त्राः हेमा॰ व्र॰ ख॰ दर्शिता यथा ताकपिलायाः मात्स्ये
“कपिले! सर्वभूतानां पूजनीयासिरोहिणि!। सर्वतीर्थमयी यस्मादतः शान्तिं प्रयच्छमे” शङ्खस्य
“पुण्यस्त्वं शङ्ख! पुण्यानां मङ्गलानाञ्च मङ्गलम्। विष्णुना विधतो नित्यमतः शान्तिं प्रयच्छ मे”। वृषस्य
“धर्मस्त्वं वृषरूपेण जगदानन्दकारकः। अष्टमूर्त्तेरधि-ष्ठानमतः शान्तिं प्रयच्छ मे”। [Page3538-a+ 38] हेम्नः
“हिरण्यगर्भगर्भस्थं हेम वीजं विभावसोः। अनन्त-पुण्यफलदमतः शान्तिं प्रयच्छ मे” पीतवस्त्रस्य
“पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम्। प्रदाना-त्तस्य मे विष्णुरतः शान्तिं प्रयच्छतु”। श्वेताश्वस्य
“यस्माद्विष्णुस्वरूपेण यस्मादमृतसम्भवः। चन्द्रार्क-वाहनं नित्यमतः शान्तिं प्रयच्छ मे”। धेनोः
“यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा। सर्व-पापहरा नित्यमतः शान्तिं प्रयच्छ मे”। लोहस्य
“यस्मादायसकर्माणि त्वदधीनानि सर्वदा। लाङ्ग-लाद्यायुधादीनि ततः शान्तिं प्रयच्छ मे”। छागस्य
“यस्मात्त्वं छाग! यज्ञानामङ्गत्वेन व्यवस्थितः। यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे”। श्वेतवस्त्रस्य
“शरण्यं सर्वलोकानां लज्जाया रक्षणं परम्। सुवेशधारि त्वं यस्माद्वासः! शान्तिं प्रयच्छ मे”। रक्तवस्त्रयुगस्य
“रक्तवस्त्रयुगं यस्मादादित्यस्य प्रियं सदा। प्रदानादस्य मे सूर्यो ह्यतः शान्तिं प्रयच्छतु”। कृष्णवस्त्रस्य
“धर्मराजेन विधृतं कृष्णवस्त्रं सुशीभनम्। सर्वक्लेशविनाशाय कृष्णवस्त्रं ददाम्यहम्”। अन्नस्य
“अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः। अन्नं व्रह्मा-खिलत्राणमस्तु मे जन्मजस्मनि”। सोपदंशदध्यन्नस्य
“चन्द्रमण्डलमध्यस्थं चन्द्राम्बुजसमप्रभम्। दध्यन्नं तस्य दानेन प्रीयतां वामनी मम। दध्यन्नंसोपदंशञ्च व्रह्मविष्णुशिवात्मकम्। प्रीयतां धर्मराजोहि तद्दानान्मम सर्वदा”। सपानीयदध्यन्नस्य
“पानौयसहितञ्चैतत् सदध्योदनपात्रकम्। समर्चितं तत् सफलं सदक्षिणं गृहाण दध्योदनपात्रकंमम”। कृसरान्नस्य
“सर्वात्मा सर्वलोकेशः सर्वव्यापी सनातनः। नारायणः प्रसन्नः स्यात् कृसरान्नप्रदानतः”। पायसान्नस्थ
“पायसं परमान्नञ्च सर्वदानोत्तमोत्तमम्। सर्वदैवतयोग्यञ्च श्रेयःपुष्टिं प्रयच्छतु”। अपपान्नस्य
“आदित्यतेजसा भक्तं जातिश्रैष्ठ्यकरं परम्। तदन्नं मम विप्र! त्वं प्रतीच्छापूपमुत्तमम्”। सक्तूनाम्
“प्राजापत्या यतः प्रोक्ताः सक्तवो यज्ञकर्मणि। तस्मात् सक्तून् प्रयच्छामि प्रीयतां मे प्रजापतिः”। रजतस्य
“असुरेषु समुद्भूतं रजतं पितृवल्लभम्। तस्मादस्यप्रदानेन रुद्रः सम्प्रीयतां मम”। ताम्रपात्रस्य
“परापवादपैशून्यादभक्ष्यस्य च भक्षणात्। [Page3538-b+ 38] तत्पजातञ्च यत् पापं ताम्रपात्रं प्रशाम्यतु”। कांस्यपात्रस्य
“यानि पापानि काम्यानि कामीत्थानिकृतानि च। कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा”। स्वर्णगर्भतिलपात्रस्य
“देवदेव! जगन्नाथ! वाञ्छितार्थफल-प्रद!। तिलपात्रं प्रदास्यामि तवाङ्गे संस्थितेरहम्”। दर्पणस्य
“दर्शनेन त्वमादर्श! नृणां मङ्गलदायकः। शौर्य्य-सौभाग्यसत्कीर्त्तिनिर्मलज्ञानदो भव”। मुक्तानाम्
“ताम्रपर्ण्यर्णवोत्पन्ना वर्णाद्याकल्पवर्णिताः। मुक्ताःशुक्त्यद्भवाः सन्तु भुक्तिमुक्तिप्रदा मम”। सुवर्णपद्मस्य
“त्वदुद्भवो जगत्स्रष्टुर्वेधसो हेमपङ्कजः। पद्मा-वासहरेर्नाभिजातो मां पाहि सर्वदा”। सिंहस्य
“कान्तारवनदुर्गेषु चौरव्यालाकुले पथि। हिंसकास्तुन हिंसन्तु सिंहदानप्रभावतः”। अङ्गुलीयकस्य
“हिरण्यगर्भसम्भूतं सौवर्णमङ्गुलीयकम्। धर्मप्रदं प्रयच्छामि प्रीयतां कमलापतिः”। वलयस्य
“काञ्चनं हस्तवलयं रूपकान्तिसुखप्रदम्। विभूषणंप्रदास्यामि विभूषयतु मां सदा”। कुण्डलद्वयस्य
“क्षीरोदमथने पूर्वमुद्भूतं कुण्डलद्वयम्। श्रियासह यदुद्भूतं ददे श्रीः प्रीयतां मम”। तुलस्याः
“मणिकाञ्चनपुष्पाणि मणिमुक्तामयानि च। तुल-सीपत्रदानस्य कलां नार्हन्ति षोडशीम्। तुलसीपत्र-दानाद्वा व्रह्मणः कायसम्भवम्। पापप्रशमनं यातुसर्वे सन्तु मनोरथाः”। दुग्धस्य
“अलक्ष्मीहरणं नित्यं नित्यं सौभाम्यवर्द्धनम्। क्षीरं मङ्गलमायुष्यं ततः शान्तिं प्रयच्छ मे”। नवनीतस्य
“कामधेनोः समुद्भूतं विष्णोस्तुष्टिकरं परम्। नव-नीतं प्रदास्यामि बलं पुष्टिञ्च देहि मे”। आज्यस्य
“कामधेनुसमुद्भूतं देवानामुत्तमं हविः। आयुर्वि-वर्द्धनं दातुराज्यं पातु सदैव माम्”। तैलस्य
“तैलं पुष्टिकरं नित्यमायुष्यं पापनाशनम्। अमा-ङ्गल्यहरं पुण्यमतः शान्तिं प्रयच्छ मे”। पादुकायाः
“कण्टकोच्छिष्टपाषाणवृश्चिकादिनिवारणम्। पादुकांसम्प्रदास्याभि विप्र! प्रत्या प्रगृह्यताम्”। चामरस्य
“शशाङ्ककरसङ्काश! हिमडिण्डीरपाण्डुर। प्रोत्सारयाशु दुरितं चामरामरवल्लभ!”। चन्दनखण्डस्य
“चन्दनावासमन्दारसखे। बृन्दारकार्च्चित!। चन्दन! त्वत्प्रसादान्मे सान्द्रानन्दप्रदो भव”। चन्दनाद्यनुलेपनस्य
“श्रीखण्डकाण्डकर्पूरकस्तूरीकुङ्कुमा-[Page3539-a+ 38] न्वितम्। विलेपनं प्रयच्छामि सौख्यमस्तु सदा मम”। कस्तूर्य्याः
“समस्तेभ्योऽपि वस्तुभ्यः संस्तुतासिं सुरासुरैः। विन्यस्ताऽङ्गेषु कस्तूरी सुखदाऽस्तु सदा मम”। कर्पूरस्य
“कन्दर्पदर्पदो यस्मात् कंर्पूरं! घ्राणतर्पण!। श्रम-मात्रभवस्तापस्त्वद्दानादपसर्पतु”। गोपीचन्दनस्य
“यदभूदङ्गसंलग्नं कुङ्कुमादिविलेपनम्। जल-क्रीडासु गोपीनां द्वारवत्यां जलार्पितम्। गोपीचन्द-नमित्युक्तं मुनीन्द्रैः किल्विषापहम्। तस्मदस्य प्रदानेनविष्णुर्दिशतु वाञ्छितम्”। शिवप्रतिमायाः
“त्वया सुराणाममृतं पिधाय हालाहलंसंवृतमेव यस्मात्। तथाऽसुराणां, त्रिपुरञ्च दग्धमेकेषुणा लोकहितार्थमीश!। तव प्रदानादहमप्यदोषीदोषैर्विमुक्तस्तु गुणान् प्रपद्ये। तथा कुरु त्वं शरणंप्रपद्ये मयि प्रमो! देववर! प्रसीद”। उमामहेश्वरयोः
“प्रसीदतु भवोनित्यं कृत्तिवासा महेश्वरः। पार्वत्या सहितोदेवोजगदुत्पत्तिकारकः”। शिवलिङ्गस्य
“शिवशक्त्यात्मकं यस्मात् जगदेतच्चराचरम्। तस्मादनेन सर्वं मे करोतु भगवान् शिवम्। कैलासवासीगौरीशो भगवान् भगनेत्रभित्। चराचरात्मकोलिङ्गरूपीदिशतु वाञ्छितम्”। मरकतलिङ्गस्य
“इदं मारकतं लिङ्गं रौप्यपीठसमन्वितम्। धान्यैर्द्वादशभिर्युक्तमेकादशफलान्वितम्। सम्प्रदद्यां वि-धानेन यथोक्तं फलमस्तु मे”। काश्मीरलिङ्गस्य
“काश्मीरलिङ्गपक्षे तु इदं काश्मीरजं वदेत्”। ससस्यभूमेः
“सर्वभूताश्रया भूमिर्वराहेण समुद्धृता। अन-न्तसस्यफलदा अतः शान्तिं प्रयच्छ मे”। ऊर्णायाः
“ऊर्णा मेषसमुत्पन्ना शीतवातभयापहा। यस्मात्तु-षारहारी स्यादतः शान्तिं प्रयच्छ मे”। ऊर्णापदस्य
“और्णपदमनुध्येयं स्वर्णवोजं तव प्रभो!। दत्तंगृहाण देवेश! पापं संहर सत्वरम्”। धान्यस्य
“धन्यं करोषि दातारमिह लोके परत्र च। तस्मात् प्रदीयते धान्यमतः शान्तिं प्रयच्छ मे”। गोधूमानाम्
“यस्मादन्नमयोजम्बूद्वीपो गोधूमसम्भवः। गान्धर्व-सौख्यधनदः अतः शान्तिं प्रयच्छ मे”। मुद्गानाम्
“मुद्गवीजानि बै यस्मात् प्रियाणि परमेष्ठिनः। तस्मादेषा प्रदानेन प्रीतिः सिद्ध्यतु मे सदा”। चणकस्य
“पुरा गोवर्द्धनोद्धारसमये हरिभक्षिताः। चणकाःसर्वपापघ्ना अतः शान्तिं ददत्वमी”। [Page3539-b+ 38] लवणस्य
“रसानामग्रजं श्रेष्ठं लवणं ब नवर्द्धनम्। ब्रह्मणानिर्मितं साक्षादतः शान्तिं प्रयच्छतु”। यवानाम्
“धान्यराजाश्च माङ्गल्या द्विजप्रीतिकरा यवाः। तस्मादेषां प्रदानेन ममास्त्वभिमतं फलम्”। तिलानाम्
“तिलाः पापहरा नित्यं विष्णोर्देहसमुद्भवाः। तिलदानेन सर्वं मे पापं नाशय केशव!”। शर्करायाः
“अमृतस्य कलोत्पन्नाः इक्षुधाराजशर्करा। सूर्य्य-प्रीतिकरा नित्यमतः शान्तिं प्रयच्छ मे”। खण्डस्य
“मनोभवधनुर्मध्यादुद्भूतः शर्कराजनिः। तस्मादस्यप्रदानेन भम सन्तु मनीरथाः”। गुडस्य
“प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा। तथारसानां प्रवरः सदैवेक्षुरसोमतः। मम तस्मात् परांलक्ष्मीं ददस्व गुड! सर्वदा”। मधुनः
“यस्मात्पितॄणां श्राद्धे त्वं पीतं मध्वमृतोद्भवम्। तस्मात्तव प्रदानेन रक्ष मां दुःखसागरात्”। उदकुम्भस्य
“वारिपूर्णघटोपेतं देवत्रयमयं यतः। प्रीयतां-धर्मराजोऽस्तु दानेनानेन पुण्यदः”। उपानहोः
“उपानहौ प्रदास्यामि कण्टकादिनिवारणे। सर्वस्थानेषु सुखदे अतः शान्तिं प्रयच्छतम्”। व्यजंनस्य
“धुवित्रा सर्वजन्तूनां शैत्यानन्दकरी शुभा। पि-तॄणां तृप्तिदा नित्यमतः शान्तिं प्रयच्छ मे”। शालग्रामस्य
“महाकोषनिवासेन चक्राद्यैरुपशोभितम्। अस्यदेव! प्रदानात्तु मम सन्तु मनोरथाः”। शिवनाभस्य
“महाकोषनिवासी ते महादेवो महेश्वरः। प्रीयतां तव दानेन अतः शान्तिं प्रयच्छ मे”। वैतरण्याः
“यमद्वारे महाघोरे या सा वैतरणी नदी। तान्तर्तुकामोयच्छामि उत्तारय सुखेन माम्”। धेनोः
“यस्मात्त्वं पृथिवी सर्वा धेनुर्वैष्णवसन्निभा। सर्वपापहरानित्यमतः शान्तिं प्रयच्छ मे”। उत्क्रान्तिधेनोः
“मृत्युक्रान्तौ प्रवृत्तस्य सुखकान्तिविवृद्धये। तुभ्यं सम्प्रददे नाम्ना गां समुत्क्रान्तिसंज्ञिताम्”। मेष्याः
“वाङ्मनःकायजनितं यत्किञ्चिन्मम दुष्कृतम्। तत्सर्वं विलयं यातु त्वद्दानेनोपसेबिनाम्”। शूलस्य
“भगवन्! शूलहस्तेश! दक्षाध्वरविनाशन!। तवा-युधप्रदानेन शूलं नश्यतु मे सदा”। लोहपात्रस्य
“यानि पापान्यनेकानि मया कामकृतानि च। लोहपात्रप्रदानेन तानि नश्यन्तु सर्वदा”। रौप्यपात्रस्य
“अगम्यागमनं चैव परदाराभिमर्षणम्। रौप्य-[Page3540-a+ 38] पात्रप्रदानेन तानि नश्यन्तु मे सदा”। सहिरण्यतिलानाम्
“तिलाः स्वर्णसमायुक्ता दुरितक्षयका-रकाः। विष्णुप्रीतिकरा नित्यमतः शान्तिं ददत्वमी”। सहिरण्यतिलपात्रस्य
“तिलाः पुण्याः पवित्राश्च सर्वकाम-कराः शुभाः। शुक्लाश्चैव तथा कृष्णा विष्णुगात्रस-मुद्भवाः। यानि कानि च पापानि ब्रह्महत्यासमानि च। तिलपात्रप्रदानेन तानि नश्यन्तु मे सदा”। कुष्माण्डस्य
“ब्रह्महत्यादिपापघ्नं ब्रह्मणा निर्मितं पुरा। कुष्माण्ड! बहुवीजात्मन्नतः शान्तिं प्रयच्छ मे” फलस्य
“इदं फलं मया विप्र! प्रभूतं पुरतस्तव। तेन मेसफलावाप्तिर्भवेज्जन्मनिजन्मनि”। मण्डकानाम्
“आदित्यतेजसोत्पन्नाः सर्वमङ्गंलकारकाः। मण्डकाः सर्वपापघ्ना अतः शान्तिं ददत्वमी”। स्वर्णपात्रस्य
“जन्मान्तरसहस्रेषु यत् कृतं दुरितं मया। स्वर्णपात्रप्रदानेन तस्य शान्तिरिहास्तु मे”। आरोग्यार्थाज्यस्य
“या याऽलक्ष्मीर्यदङ्गेषु सर्वगात्रे व्यवस्थिता। तत् सर्वं शमयाज्यं त्वं लक्ष्मीं पुष्टिं च वर्द्धय”। पापक्षयार्थज्यस्य
“आज्यं तेजः समुद्दिष्टमाज्यं पाप-हरं स्मृतम्। आज्यं सुराणामाहार आज्ये देवाःप्रतिष्ठिताः”। आयुधर्स्यत्वं देवानां मनुष्याणां रक्षसामायुधो ह्यसि। तस्मात्सर्वप्रयत्नेन शान्तिर्भवतु सर्वदा”। भक्ष्याणाम्
“केशवप्रीतिदा भक्ष्याः शम्भुब्रह्मार्कतुष्टिदाः। पृथिग्विधापूपकाद्याः यच्छन्तु बलमौरसम्”। काष्ठानाम्
“सोमोद्भवानि दारूणि जातवेदःप्रियाणि च। तस्मादेषां प्रदानेन श्रियं देहि विभावसो!”। कलत्थस्य
“अग्निवर्णोद्भवो नाम बलकीर्त्तिप्रवर्द्धनः। कु-लत्थः सर्वपापघ्नः अतः शान्तिं प्रयच्छ मे”। कृष्टक्षेत्रस्य
“सदा रोहन्ति वीजानि काले कृष्टे महीतले। तव प्रदानात्सफला मम सन्तु मनोरथाः”। संक्रान्तिशूलस्य
“सर्वग्रहर्क्षतारेश! सर्वेश! त्वं हि भा-स्कर!। संक्रान्तिशूलदीषं मे निवारय दिवाकर!”। पुस्तकस्य
“सर्वविद्याश्रय ज्ञानकरणं ललिताक्षरम्। पुस्तक सम्प्रयच्छामि प्रिया भवतु भारती”। तण्डुलानाम
“अन्नेन जायते विश्वप्राणिनां प्राणरक्षणम्। तण्डुला वैश्वदैवत्याः पाकेनान्न भवन्ति ये। पावनाःमर्वयज्ञेषु प्रशस्ता होमकर्म्मणि। तस्मात्तण्डुलदानेनप्रोयन्तां विश्वदेवताः”। [Page3540-b+ 38] पुष्पाणाम्
“आश्रयन्ति मनो यस्मात् तस्मात् सुमनसःस्मृताः। दत्ता ददतु मे नित्यमत्याह्लादयुतां श्रियम्”। जीरकस्य
“जीरको जायते यस्मान्मङ्गलं शुभकर्म्मसु। त-स्माज्जीरकदानेन प्रीयतां गिरिजा मम”। ताम्बूलस्य
“ताम्बूलं श्रीकरं भद्रं व्रह्मविष्णुशिवात्मकम्। अस्य प्रदानात् ब्रह्माद्याः शिवं ददतु पुष्कलम्”। ताम्बूलकरङ्गस्य
“पूरितं पूगपूरेण नागबल्लीदलान्वितम्। पूर्णेनपूर्णपात्रेण कर्पूरपूरकेण च। सपूगखण्डनं दिव्यंगन्धर्वाप्सरसां प्रियम्। करङ्ग! त्वं गुणाधारन्त्वत्प्रदानात् कुरुष्व माम्”। हरिद्रायाः
“लक्ष्मीप्रिया या लक्ष्मीदा लक्ष्मीवद्वसनप्रिया। सौभाग्यकृद्वरस्त्रीणां हरिद्रा श्रीप्रदाऽस्तु मे”। सौभाग्यवस्त्रयुग्मस्य
“कञ्चुकीवस्त्रयुग्मैश्च तथाकर्णावतंसकैः। कण्ठसूत्रैश्च भूपाभिः प्रीयतां निमिनन्दिनी” (सीता)। शूर्पस्य
“रामपत्नि! महाभागे ! पुण्यमूर्त्ते! निरामये!। गृहाणेमानि शूर्पाणि मया दत्तानि जानकि!”। कमण्डलोः
“कमण्डलुर्ब्जलैः पूर्णः स्वर्णगर्भः सुलक्षणः। अर्पितस्ते महासेन! प्रसन्नश्च सदा भव”। यज्ञोपवीतस्य
“व्रह्मसूत्रं महादिव्यं मया यत्नेन निर्मितम्। ब्राह्मं जन्मास्तु मे देव! ब्रह्मसूत्रसमर्पणात्”। अक्षमालायाः
“अष्टाविंशतिसंख्याकैरुद्राक्षैर्योजिता मया। अर्पिता तव हस्ते च गृहाण सुरसैन्यक!”। स्वर्णनागस्य
“विधुन्तुद! नमस्तुभ्यं सिंहिकानन्दनाव्यय!। दानेनानेन नागम्य रक्ष मां वेधजात्ययात्”। इक्षुदण्डस्य
“इक्षुदण्डं महापुण्यं रसालं सर्वकामदम्। तुभ्यं दास्यामि तेनाशु प्रीयतां परमेश्वरः”। गन्धद्रव्यस्य
“कर्पूरः कदलीभूतो देवदेवप्रियः सदा। भाम्योत्तमोनृपाणाञ्च तद्दानात् सुखमश्नुते। जटामांस्युद्भवंदेवीसणिनाभिसमुद्भवम्। भक्त्याहं संप्रदास्यामि ममसन्तु मनोरथाः”। सूर्य्यमूर्त्तेः
“ददाति भानुर्भवनं सर्वोपस्करसंयुतम्। मनोऽभि-लषितावाप्तिं करोतु मम भास्करः”। गणेशप्रतिमायाः
“यमामनन्ति विश्वेशं विश्वनाथमुपासुतम्। विघ्नेशं तं विप्रवर! तुभ्यं दास्याम्यभीष्टदम्”। गोमात्रस्य
“गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश। यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च”। शय्यायाः
“यस्मादशून्य शयनं केशवस्य शिवस्य च। शय्याममाप्यशून्यास्तु तस्माज्जन्मनिजन्मनि”। [Page3541-a+ 38] रत्नस्य
“यथा रत्नेषु सर्वेषु सर्वे देवा व्यवस्थिताः। तथाशान्तिं प्रयच्छन्तु रत्नदानेन मे सुराः”। भूमेः
“यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीम्। दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह”। दास्याः
“इयं दासी मया तुभ्यं श्रीवत्स! प्रतिपादिता। तव कर्म्मकरी भोग्या यथेष्टं भद्रमस्तु मे”। रथस्य
“रथाय रथनाघाय नमस्ते विश्वकर्म्मणे। विश्वभूतायनाथाय अरुणाय नमोनमः”। छत्रस्य
“इहामुत्रोभयत्राणं कुरु केशव! मे प्रभो!। छत्रन्त्वत्-प्रीतये दत्तं ब्राह्मणाय मया शुभम्”। शिविकायाः
“देवदेव! जगन्नाथ! विश्वात्मन्! दत्तयानया। प्रभो! शिविकया देव! ग्रीतो भव जनार्दन!। गृहस्य
“इदं गृहं गृहाण त्वं सर्वोपस्करसंयुतम्। तवविप्र! प्रसादेन ममास्त्वमिमतं फलम्”। आश्रयस्य
“समाश्रयं प्रयच्छामि प्रीत्यर्थं ते जगन्निधे!”। तव विप्र! प्रसादेन ममास्त्वभिमतं फलम्”। कन्यायाः
“गौरीकन्यामिमां विप्र! यथाशक्ति विभूषिताम्। गोत्राय शर्मणे तुभ्यं विप्र! त्वं तां समाश्रय”। महिष्याः
“चन्द्रादिलोकपालानां या राजमहिषी शुमा। महिषीदानमाहात्म्यादस्तु मे सर्वकामदम्। धर्म्मराजस्यसाहाय्ये यस्याः पुत्रः प्रतिष्ठितः। महिषासुरस्यजननी साऽस्तु मे सर्वकामदा”। मृत्युमहिष्याः
“महिषीं वत्ससंयुक्तां सुशीलाञ्च पयस्विनीम्। रत्नवस्त्रेण पुष्पेण दत्त्वा मृत्युञ्जयेन्नरः”। मेषस्य
“रोमत्वङ्भांसमज्जाद्यैः सर्वोपकरणैः शुभः। जगतः,सम्प्रदत्तोऽसि त्वामतः प्रार्थये शिवम्” अजायाः
“देवानां योमुखं हव्यवाहनः सर्वपूजितः। तस्यत्वं वाहनं पूज्यं देवैः सेन्द्रैर्महर्षिभिः। अग्निमान्द्यंपूर्बकर्मविपाकोत्थन्तु यन्मम। तत्सर्वं नाशय क्षिप्रं जठ-राग्निं विवर्द्धय। त्वं पूर्वं ब्रह्मणा सृष्टा पवित्रा भवतीपरा। त्वत्प्रसूत्युत्थिता यज्ञाः तस्माच्छान्तिकरी भव”। तुलापुरुषादीनां देयद्रव्याणां मन्त्रांस्तु तत्तच्छब्दे दृश्याः। अन्यद्रव्यदानमन्त्रा अपि केचित् क्वचिदुक्ता अनुसन्धेयाः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दान (उ) दानु¦ r. 1st cl. irr. (दीदांसति-ते)
1. To cut.
2. To straighten or make straight.
2. To be straight. भ्वा० उभ० सक० |

दान¦ n. (-नं)
1. Gift, giving, donation.
2. The fluid that flows from the temples of an elephant in rut.
3. Nourishing, cherishing.
4. Purifi- cation.
5. Cutting, dividing.
6. A present, a special gift.
7. Beat- ing, striking.
8. Wild honey. E. दा to give, or दो to cut, affix ल्युट् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दानम् [dānam], [दा-ल्युट्]

Giving, granting, teaching, &c. (in general); giving in marriage (cf. कन्यादान).

Delivering, handing over.

A gift, donation, present; Ms.2.158; दातव्यमिति यद्दान दीयते$नुपकारिणे Bg.17.2; Y.3.274.

Liberality, charity, giving away as charity, munificence; R.1.69; दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य Bh.2.43; दानं हि उत्सर्गपूर्वकः परस्य स्वत्वसम्बन्धः ŚB. on MS.4.1.3; ननु दानमित्युच्यते स्वत्वनिवृत्तिः परस्वत्वा- पादनम् च । ŚB. on MS.6.7.1.

Ichor or the uicej that exudes from the temples of an elephant in rut; स दानतोयेन विषाणि नागः Śi.4.63; Ki.5.9; V.4.25; Pt.2.75 (where the word has sense 4 also); R.2.7;4.45;5.43.

Bribery, as one of the four Upāyas or expedients of overcoming one's enemy; see उपाय.

Cutting, dividing.

Purification, cleaning.

Protection.

Pasture.

Adding; addition. -नः Ved.

Distribution (of food), meal, especially a sacrificial meal.

Part, possession, share.

A distributor. -Comp. -काम a. liberal. -कुल्या the flow of rut from an elephant's temples. -तोयम् दानवारि q. v. -धर्मः alms-giving, charity.

पतिः an exceedingly liberal man.

Akrūra, a friend of Kṛiṣṇa; Bhāg.1.36.29. -पत्रम् a deed of gifts. -पात्रम् 'a worthy recipient', a Brāhmaṇa fit to receive gifts. -पारमिता perfection of liberality. -प्राति- भाव्यम् security for payment of a debt. -भिन्न a. made hostile by bribes; लुब्धानुजीविकैरेष दानभिन्नैर्निहन्यते H.4.39.-वज्रः an epithet of the Vaiśyas or men of the third tribe; वैश्या वै दानवज्राश्च Mb.1.17.52. -वर्षिन् an elephant in rut, infatuated elephant; दानवर्षी कृताशंसो नागराज इवाबभौ Ki.15.45. -वार् n. libation of water. -वारि n., ichor flowing from the temples of elephants.

वीरः a very liberal man.

(In Rhet.) the sentiment of heroism arising out of liberality, the sentiment of chivalrous liberality, e. g. Paraśurāma who gave away the earth with its seven continents; cf. the instance given in R. G. under दानवीरः: कियदिदमधिकं मे यद् द्विजायार्थयित्रे कवचमरमणीयं कुण्डलं चार्पयामि । अकरुणमवकृत्य द्राक्कृ- पाणेन निर्यद् बहलरुधिरधारं मौलिमावेदयामि ॥ -व्यत्यासः giving to a wrong person. -शाला hall for almsgiving. -शील, -शूर, -शौण्ड a. exceedingly liberal or munificent; निर्गुणो$पि विमुखो न भूपतेर्दानशौण्डमनसः पुरो$भवत् Śi.14.46.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दान n. the act of giving RV. S3Br. MBh. etc.

दान n. giving in marriage(See. कन्या-)

दान n. giving up(See. प्राण-, आत्म-, शरीर-Pan5c. ii )

दान n. communicating , imparting , teaching(See. ब्रक्म-)

दान n. paying back , restoring Mn. Ya1jn5.

दान n. adding , addition( VarBr2S. )

दान n. donation , gift([ Lat. donum]) RV. S3Br. etc. ( नंदा, to offer a -ggift Mn. Ya1jn5. Hit. etc. ; नम् प्रयम्, to bestow a -ggift Mn. iv , 234 )

दान n. oblation(See. उदक-, हविर्-)

दान n. liberality(See. 2. दान)

दान n. bribery Mn. vii , 198 (See. उपा-य).

दान n. cutting off. splitting , dividing L.

दान n. pasture , meadow RV.

दान n. rut-fluid (which flows from an elephant's temples) MBh. Hariv. etc.

दान m. (only in RV. but See. वसु-)distribution of food or of a sacrificial meal

दान m. imparting , communicating , liberality

दान m. part , share , possession

दान m. distributor , dispenser RV. vii , 27 , 4.

दान n. purification L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a dharma; फलकम्:F1: वा. २३. १०१.फलकम्:/F a शिष्टाचार; फलकम्:F2: Br. II. ३२. ४१.फलकम्:/F three kinds of; superior, middling and inferior; the first and last of which are called respectively ज्येष्ठ and कनिष्ठ; the lower and the higher not fit for one's own welfare; the middling is the equal dis- tribution among the deserving; the superior gift leads to मोक्ष and the inferior to one's own welfare; फलकम्:F3: Ib. II. ३२. ५४-56; वा. ५९. ४९-50.फलकम्:/F he who per- forms sacrifice by ill-gotten wealth does not attain the fruits thereof; his gifts are not for dharma but only for show; but well-earned money given to right men without expecting fruits, merits Bhoga while Satya leads to heaven; फलकम्:F4: Ib. ६७. २७; ९१. १०६-12; १०४. १४.फलकम्:/F the mak- ing of, in a श्राद्ध and the fruits thereof; फलकम्:F5: Br. III. 4. २४; १६. 1.फलकम्:/F one of the उपायस् of a king; even Gods are brought under control by gifts; sixteen kinds of; done by काम, अम्बरीष, पृथु, प्रह्लाद and others; फलकम्:F6: M. २२२. 2; २२४. 1-4; २४६. २५-7; २७४ (whole).फलकम्:/F the विधि of, enquired by Manu from the Matsya. फलकम्:F7: Ib. 2. २३.फलकम्:/F Incumbent on all castes फलकम्:F8: Vi. III. 8. २२.फलकम्:/F useless if given to a non- श्रोत्रिय; फलकम्:F9: Ib. V. ३८. ३०.फलकम्:/F conditions appropriate to. फलकम्:F१०: वा. ९१. १०७-13.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Dāna, ‘giving,’ ‘gift,’ is a word of frequent occurrence in the Rigveda, especially in the Dāna-stutis[१] (‘Praises of Gifts’) of generous patrons (see Dakṣiṇā). One of the characteristics of the Brāhmaṇa is his right to receive gifts, which it is obligatory on the other castes to present.[२] The gift of a daughter (kanyāyā dānam) was a form of marriage[३] (see Vivāha), because in it the girl was ‘given’ away by her father or brother.

2. Dāna (‘distribution’)[४] seems in several passages of the Rigveda[५] to be a designation of the sacrificial feast to which the god is invited (cf. ). In one passage[६] Sāyaṇa thinks that it denotes the mada-jalāni, ‘drops of water falling from the temples of a rutting elephant,’[७] but this is doubtful. In another passage[८] Roth thinks that ‘pasture land’ is meant.

3. Dāna is in three passages of the Rigveda[९] held by Roth to designate a chariot horse.

  1. The term seems first to occur in the Bṛhaddevatā, vi. 45, 92, and in similar works.
  2. Satapatha Brāhmaṇa, xi. 5, 7, 1;
    Weber, Indische Studien, 10, 47-61.
  3. Nirukta, iii. 4.
  4. From dā, ‘divide.’
  5. i. 55, 7;
    48, 4;
    180, 5;
    viii. 46, 26;
    60, 8;
    99, 4, etc. Cf., however, Pischel Vedische Studien, 1, 100.
  6. Rv. viii. 33, 8;
    Ludwig, Translation of the Rigveda, 5, 157.
  7. Dāna in this sense, so common in the post-Vedic language, is probably derived from dā, ‘divide,’ meaning originally ‘secretion.’
  8. ii. 13, 7.
  9. v. 27, 5;
    vii. 18, 23;
    viii. 46, 24. But in all these cases ‘gifts’ seems an adequate version, ‘horses’ being understood.
"https://sa.wiktionary.org/w/index.php?title=दान&oldid=500198" इत्यस्माद् पुनः प्राप्तिः