दिश्

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्, [श्] स्त्री, (दिशति अवकाशं ददाति या । दिश + “ऋत्विग्दधृगिति ।” ३ । २ । ५९ । इति क्विन्-प्रत्ययेन साधुः ।) पूर्व्वपश्चिमदक्षि- णोत्तरादिरूपा । तत्पर्य्यायः । ककुप् २ काष्ठा ३ आशा ४ हरित् ५ । इत्यमरः । १ । ३ । ८ ॥ निदेशिनी ६ दिशा ७ ककुभः ८ हरितः ९ गौः १० । इति शब्दरत्नावली ॥ अपि च । आताः १ आशाः २ उपराः ३ आष्ठाः ४ काष्ठाः ५ व्योमः ६ ककुभः ७ हरितः ८ इत्यष्टौ दिङामानि । इति वेदनिघण्टौ १ अध्यायः ॥ अस्या व्युत्पत्तिर्यथा, -- “कृत्वैवमवधिं तस्मादिदं पूर्ब्बञ्च पश्चिमम् । इति देशो निदिश्येत यया सा दिगिति स्मृता ॥” तस्या वायोर्गुणाः । “विश्वग्वायुरनायुष्यः प्राणिनांनैकदोषकृत् । सर्व्वर्त्तुनिन्दको हन्ता कृत्योत्पातपुरःसरः ॥” इति राजवल्लभः ॥ * ॥ सा दशधा यथा । पूर्ब्बा १ आग्नेयी २ दक्षिणा ३ नैरृती ४ पश्चिमा ५ वायवी ६ उत्तरा ७ ऐशानी ८ ऊर्द्धम् ९ अधः १० ॥ * ॥ तासां उत्पत्तिर्यथा, -- महातपा उवाच । “शृणु राजन्नवहितः प्रजापाल ! कथामिमाम् । यथा दिशः समुत्पन्नाः श्रोत्रेभ्यः पृथिवीपते ! ॥ ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते । चिन्ताभून्महती को मे प्रजाः सृष्टा धरिष्यति ॥ एवं चिन्तयतस्तस्य अवकाशं व्रजत्विह । प्रादुर्ब्बभूषुः श्रोत्रेभ्यो दश कन्या महाप्रभाः ॥ पूर्ब्बा च दक्षिणा चैव प्रतीची चोत्तरा तथा । ऊर्द्ध्वाध एव षण्मुख्याः कन्या ह्यासंस्तदा नृप ! ॥ तासां मध्ये चतस्रस्तु कन्याः परमशोभनाः । याःपश्यन्त्यो महाभागा गाम्भीर्य्येण समन्विताः ॥ ता ऊचुः प्रणयाद्देवं प्रजापतिमकल्मषम् । अवकाशन्तु नो देहि देवदेव प्रजापते ! ॥ यत्र तिष्ठामहे सर्व्वा भर्त्तृभिः सहिताः सुखम् । पतयश्च महाभाग ! देहि नोऽव्यक्तसम्भव ! ॥ ब्रह्मोवाच । ब्रह्माण्डमेतत् सुश्रोण्यः शतकोटिप्रविस्तरम् । तस्यान्ते स्वेच्छया तुष्टा उष्यतां मा विलम्बथ ॥ भर्त्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः । यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधुना ॥ एवमुक्ताश्च ताः सर्व्वा यथेष्टं प्रययुस्तदा । ब्रह्मा ससर्ज तूर्णं तान् लोकपालान् महा- बलान् ॥ दृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयन् । विवाहं कारयामास ब्रह्मा लोकपितामहः ॥ एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च । निरृ ताय च देवाय वरुणाय महात्मने ॥ वायवे धनदेशाय ईशानाय च सुव्रत ! । ऊर्द्धं स्वयमधिष्ठाय शेषायाधोव्यवस्थिताम् ॥ एवं दत्त्वा पुनर्ब्रह्मा तिथिं प्रादात् दिशां पुनः । दशमीं भत्तृनाम्नस्तु अर्द्धनाम्नोदनः प्रभुः ॥ ततःप्रभृति ताः देव्यः सेन्द्र्याद्याः परि- कीर्त्तिताः ॥” इति वराहपुराणम् ॥ * ॥ न्यायमते अस्याः सर्व्वगतत्वम् । परममहत्त्व- परिमाणम् । दूरान्तिकादिधीहेतुत्वम् । नित्य- त्वम् । एकत्वेऽपि उपाधिभेदात् प्राच्यादिव्यप- देशभाक्त्वम् । अस्या गुणाः । संख्या १ परि- मितिः २ पृथक्त्वम् ३ संयोगः ४ विभागः ५ । इति भाषापरिच्छेदः ॥ (सामान्यम् । यथा, सुश्रुते । १ । ४३ । “वमवद्रव्ययोगानां दिगियं सम्प्रकीर्त्तिता ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिश् स्त्री।

दिक्

समानार्थक:दिश्,ककुभ्,काष्ठा,आशा,हरित्,गो

1।3।1।1।1

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥

अवयव : दिग्भवम्,पूर्वदिक्,पश्चिमदिक्

सम्बन्धि2 : दिग्भवम्

वैशिष्ट्यवत् : दिग्भवम्

 : पूर्वदिक्, दक्षिणदिक्, पश्चिमदिक्, दिङ्नाम, उत्तरदिक्, अग्न्यादिकोणस्य_नाम, मध्यमात्रदिशः_नाम, चक्राकारदिशः_नाम, अग्रे

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिश्¦ स्त्री दिशति ददात्यवकाशं दिश--क्विन्।

१ आशायाम्प्राच्यादिव्यवहारहेतौ काष्ठायाम्।
“कृत्वैकमवधिंतस्मादिदं पूर्वञ्च पश्चिमम्। इति निर्दिश्यते देशोयया सा दिगिति स्मृतेति” उक्तेस्तस्या दैशिकपरत्वाप-रत्वा समवायिकारणत्वम्। सा चैका नित्या विभ्वी चेति
“कालखात्मदिशां सर्वगतत्वं परमं महत्” भाषा॰। दिक्परीक्षा च कलाद सूत्रोपस्करयोर्यथा(
“इत इदमिति यतस्तद्दिश्यं लिङ्गम्” सू॰।
“काल-लिङ्गप्रकरणं समाप्य इदानीं दिग्लिङ्गप्रकरणमारभ-माण आह। दिश इदं दिश्यं दिगनुमापकम् इतो-ऽल्पतरसंयुक्तसंयोगाश्रयादिदं बहुतरसंयुक्तसंयोगाधि-करणं परम् इतश्च संयुक्तसंयोगभूयस्त्वाधिकरणादिदंसयुक्तसंयोगाल्पीयस्त्वाधिकरणमपरमिति नियतदिग्दे-शयोः समानकालयोः पिण्डयोर्यतो द्रव्याद्भवति सादिगित्यर्थः। न हि तादृश द्रव्यमन्तरेण भूयसां संयुक्त-संयोगानामल्पीयसां वा पिण्डयोरुपनयनायकमन्यदस्तिन च तदुपनयमन्तरेण तत्तद्विशिष्टबुद्धिः न च तामन्त-रेण परत्वापरत्वयोरुत्पत्तिः न च तदुत्पत्तिं विना तद्वि-शिष्टप्रत्ययव्यवहारौ। न च काल एव संयोगोपनाय-कोऽस्तु किं द्रव्यान्तरेणेति वाच्यं कालस्य नियतक्रियोप-नायकत्वेनैव सिद्धेः, अनियतपरधर्मोपनायकत्वकल्पना-यान्तु काश्मीरकुङ्कुमपङ्करागं कार्णाटकामिनीकुचकलसंप्रत्युपनयेत् आकाशात्मनोरपि तथा परधर्म्मोपसंक्रा-मकत्वे म एव प्रसङ्गः, दिशस्तु अनियतपरधर्म्मोपसंक्रा-सकतयैव सिद्धत्वान्नातिप्रसङ्गः एवञ्च क्रियोपनायकात्कालात् संयोगोपनायिका दिक् पृथगेव। किञ्चास्मात्[Page3598-b+ 38] पूर्वमिदम् अस्माद्दक्षिणमिदम् अस्मात्पश्चिममिदम् अस्मा-दुत्तरमिदम् अस्माद्दक्षिणपूर्वमिदम् अस्माद्दक्षिणपश्चिम-मिदम् अस्म त्पश्चिमोत्तरमिदम् अस्मादुत्तरपूर्वमिदम्अस्मादधस्तादिदम् अस्मादुपरिष्टादिदम् इत्येते प्रत्ययाइत इदमितीत्यनेन संगृहीताः एतेषां प्रत्ययानां निमि-त्तान्तरासम्भवात्। किञ्च नियतोपाध्युन्नायकः कालःअनियतोपाध्युन्नायिका दिक्, भवति हि यदपेक्षया योवर्त्तमानः स तदपेक्षया वर्त्तमान एव, दिगुपाधौ तु नैवंनियमः यं प्रति या प्राची तं प्रत्येव कदाचित्तस्याःप्रतीचीत्वात् एवमुदीच्यादिष्वपि वाच्यम्, यदपेक्षयासूर्य्योदयाचलसन्निहिता या दिक् सा तदपेक्षया प्राचीयदपेक्षया सूर्य्यास्ताचलसन्निहिता या दिक् सा तद-पेक्षया प्रतीची, सन्निधानन्तु संयुक्तसंयोगाल्पीयस्त्वं तेच सूर्य्यसंयोगा अल्पीयांशो भूयांसो वा दिगुपनेयाः। एवं प्राच्यभिमुखपुरुषवामप्रदेशावच्छिन्ना दिगुदीची, ता-दृशपुरुषदक्षिणभागावच्छिन्ना दिक् दक्षिणा, वामत्व-दक्षिणत्वे तु शरीरावयववृत्तिजातिविशेषौ। गुरुत्वा-समवायिकारणकक्रियाजन्यसंयोगाश्रयोदिक् अधः। अदृष्टवदात्मसंयोगजन्याग्निक्रियाजन्यसंयोगाश्रयोदिगूर्द्ध्वा। एवञ्चेन्द्राग्नियमनिरृतिवरुणवायुसोमेशाननागब्रह्माधि-ष्ठानोपलक्षिता दश दिश इति व्यपदेशान्तरं प्राच्यादि-व्यपदेशात्” उप॰ वृ॰।
“द्रव्यत्वनित्यत्वे वायुना व्याख्याते” सू॰। दिशो द्रव्यत्वं नित्यत्वञ्च वायुपरमाणुवदित्याह।
“गुणवत्त्वाद्द्रव्यत्वम् अनाश्रितत्वाच्च नित्यत्वमित्यर्थः” वृ॰। एकत्वमतिदिशन्नाह।
“तत्त्वम्भावेन” सू॰।
“दिग्-लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च सत्त्वावदेकत्वं तदनुवि-धानादेकपृथक्त्वम्” वृ॰। ननु यद्येकैव दिक् कथं तर्हिदश दिशं इति प्रतीतिव्यवहारावित्यत आह।
“कार्य्य-विशेषेण नानात्वम्” सू॰।
“कार्य्यविशेषः कार्य्यभेदस्तेननानात्वोपचार इत्यर्थः” वृ॰। तमेव कार्य्यभेदं दर्शय-न्नाह।
“आदित्यसंयोगाद्भूतपूर्वाद्भविष्यतो भूताच्च प्राची” सू॰।
“प्राक् अस्यां सविता अञ्चतीति प्राची तथाचयस्यां दिशि मेरुप्रदक्षिणक्रमेण भ्रमत आदित्यस्य प्रथमंसंयोगो भूतपूर्वो भविष्यन् वा सा दिक् प्राची अत्र पुरु-षाभिसन्धिभेदमाश्रित्य कालत्रयोपवर्णनम्, भवति हिकस्यचित्पूर्वेद्युः प्रातरस्यां दिशि आदित्यसंयोगः प्रथमंवृत्त इतीयं प्राचीति प्राचीव्यवहारः कस्यचिदपरेद्युरस्यांआदित्यसंयोगः प्रथमं भावीत्यभिसन्धाय प्राचीव्यवहारः[Page3599-a+ 38] कस्यचिदिदानीं अस्याम् आदित्यसंयोगो भवन्नस्तीत्यभि-सन्धाय प्राचीव्यवहारः, भूतादिति आदिकर्म्मणि क्तप्र-त्ययः तेनाभिसन्धेरनियमात् यदाप्यादित्यसंयोगो नास्तिरात्रौ मध्याह्नादौ तत्रापि प्राचीव्यवहारानुगमः सिद्ध्य-तीति भावः” उप॰ वृ॰। दिगन्तरव्यवहारेऽपीममेव प्रकार-मतिदिशन्नाह
“तथा दक्षिणा प्रतीची उदिची च” सू॰।
“तद्वदेव दक्षिणदिग्वर्त्तिनगादिना सहादित्यसंयोगाद्भूत-पूर्वाद्भविष्यतो भूताद्वा दक्षिणव्यवहारः एवं प्रतीच्युदि-च्योरपि व्यवहार उन्नेयः। वामत्वदक्षिणत्वे निरुक्तेएव” उप॰ वृ॰। दिगन्तरालव्यवहारेऽपीममेव प्रकार-मतिदिशन्नाह
“एतेन दिगन्तरालानि व्याख्यातानि” सू॰।
“प्राचीदक्षिणयोर्दिशोर्लक्षणसाङ्कर्य्येण दक्षिणपूर्वादिगितिव्यवहारः एवं दक्षिणपश्चिमा पश्चिमोत्तरोत्तरपूर्वेत्यूह्यम्एते चादित्यसंयोगा येन विभुना द्रव्येणोपनीयन्ते सादिगिति कणादरहस्ये व्युत्पादितं विस्तरतः” उप॰ वृ॰। झलि पदान्ते च कुः। दिक्।
“दिग्दक्षिणा गन्धवहं मुखेन”।
“प्रसन्नदिक् पांशुविविक्तवातम्” कुमा॰। सा चोपाधिभेदात्दशधा
“पूर्वाग्नेयी दक्षिणा च नैरृती पश्चिना तथा। वायवी चोत्तरैशानी ऊर्द्धा चाधोदिशोदशेति” वराह-पुराणम्। आशाशब्दे तत्सत्त्वे प्रमाणं प्राच्यादिभेदे उपा-धिस्वरूपञ्च

८३

५ पृ॰ दृश्यम्।
“यया दिशा धावति वेधसःस्पृहा” नैष॰
“परस्परालापमिवामला दिशः” किरा॰भागुरिमते वा टाप् दिशाप्यत्र। दिशागज दिशापाल-शब्दे दृश्यम् दिशाञ्च यात्राद्युपपयोगिसंज्ञाभेदः ज्यो॰ त॰उक्तो यथा
“अङ्गारिणी दिग्रविविप्रयुक्ता यस्यांरविस्तिष्ठति सा प्रदीप्ता। प्रधूमिता यास्यति यांदिनेशः शेषाः प्रशस्ताः शुभदाश्च ताः स्युः”।
“यत्रपूर्वादिकाष्ठायां वृषराश्यादिगोरबिः। सा दिगस्तमिताज्ञेया शेषास्तिस्रः सदोदिताः। यात्रा युद्धं विवादश्च द्वारंप्रासादहर्म्ययोः। न कर्तव्यं शुभं चान्यदस्ताशाभिमुखंनरैः”।
“अस्ताशायां स्थितं यस्य नाम्नः प्रथममक्षरम्। स आर्त्तः सर्वकार्येषु ज्ञेयोदैवहतो नरः” ज्योति॰ त॰दिक्करशब्दोक्ते

२ दन्तक्षते च वैजयन्ती

३ दशसंख्यायाम्

४ तत्संख्यान्विते च।
“दिग्भिर्गुणैरष्टयमैः शरैवैः” नील॰ता॰।

५ श्रोत्राधिष्ठातृदेवताभेदे
“दिग्वातार्कप्रचेतोऽश्विब्रह्मेन्द्रोपेन्द्रमृत्युकाः” शारदातिलकम्। कः प्रजापतिःदिशि भवं दिगा॰ यत्। दिश्य दिग्भवे त्रि॰। दिशा निर्वृ-त्तम् ठञ्। दैशिक दिक्कृते त्रि॰ दैशिकपरत्वापरत्वे। [Page3599-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिश्¦ f. (-दिक् दिशौ दिशः) Region, space, quarter, part. E. दिश् to show, affix क्विन्ः also with टाप् added, दिशा, f. (-शा) or with ङीप्, दिशी।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिश् [diś], 6 U. (दिशति-ते, दिष्ट; desid. दिदिक्षति-ते)

To point out, show, exhibit, produce (as a witness); साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः Ms.8.57,52,53.

To assign, allot; इष्टां गतिं तस्य सुरा दिशन्ति Mb.

To give, grant, bestow upon, deliver or make over to; बाणमत्रभवते निजं दिशन् Ki.13.68; R.5.3;11.2;16.72.

To pay (as tribute).

To consent to; भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलमिदं निमेरिति R.11.49.

To direct, order, command.

To allow, permit; स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः Ki.5.28. -Caus. (देशयति-ते)

To show, point out, allot, assign.

To teach, communicate, tell, inform.

To direct, order.

To confer, bestow.

दिश् [diś], f. [दिशति ददात्यवकाशं दिश्-क्विप्] (Nom. sing. दिक्- ग्)

A direction, cardinal point, point of the compass, quarter of the sky; दिशः प्रसेदुर्मरुतो वबुः सुखाः R.3.14; दिशि दिशि किरति सजलकणजालम् Gīt.4.

(a) The mere direction of a thing, hint, indication (of the general lines); इति दिक् (often used by commentators &c.); इत्थं लौकिक- शब्दानां दिङ्मात्रमिह दर्शितम् Sk. (b) (Hence) Mode, manner, method; मुनेः पाठोक्तदिशा S. D.; दिगियं सूत्रकृता प्रदर्शिता; दासीसभं नृपसभं रक्षःसभमिमा दिशः Ak.

Region, space, place in general.

A foreign or distant region.

A point of view, manner of considering a subject.

A precept, order.

The number 'ten'.

A side or party.

The mark of a bite. 'दिग्दष्टे वर्तुलाकारे करिका नखरेखिका' इति वैजयन्ती; परिणतदिक्करिकास्तटीर्बिभर्ति Śi.4.29. [N. B. In comp. दिश् becomes दिग् before words beginning with vowels and soft consonants, and दिक् before words beginning with hard consonants; e. g. दिगम्बर, दिग्गज, दिक्पथ, दिक्करिन्, &c.] -Comp. -अन्तः end of the direction or horizon, remote distance, remote place; दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः Bv.1.2; Māl.2.9; R.3.4;5.67; 16.87. नानादिगन्तागता राजानः &c.

अन्तरम् another direction.

the intermediate space, atmosphere, space.

a distant quarter, another or foreign country; संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् R.2.15.-अम्बर, -वासस् a. having only the directions for his clothing, stark naked, unclothed; दिगम्बरत्वेन निवेदितं वसु Ku.5.72; एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः Pt.5.15; Ms.11.21.

(रः) a naked mendicant (of the Jaina or Buddha sect.)

a mendicant, an ascetic.

an epithet of (1) Śiva; (2) Skanda.

darkness. (-री) an epithet of Durgā. -अम्बरकः a naked mendicant (of the Jaina sect). -अवस्थानम् the air -आगतa. Come from a distance; Y.2.254. -इभः See दिक्करिन् &c. दिगिभाः पूर्णकलशैः Bhāg.8.8.14;5.14.4. -ईशः -ईश्वरः regent of a quarter; चतुर्दिगीशानवमत्य मानिनी Ku.5.53; see अष्टदिक्पाल. -कन्या, -कान्ता, -कामिनी, -वधू a region of the sky (considered as a virgin).

करः a youth, youthful man.

an epithet of Śiva. -करिका, -करी a young girl or woman. -करिन्, -गज, -दन्तिन्, -वारणः m. one of the eight elephants said to guard and preside over the eight cardinal points; (see अष्टदिग्गज); दिग्दन्तिशेषाः ककुभश्चकार Vikr.7.1. -ग्रहणम्, -बन्धः observation of the quarters of the compass; Bṛi. S.24.9. संपूज्य शारिकांदेवीं दिग्बन्धादिपुरःसरम् Ks.73.116.

चक्रम् the horizon; Ratn.3.5.

the whole world.-जयः, -विजयः 'conquest of the directions, the conquest of various countries in all directions, conquest of the world; सुनिश्चितपुरं चक्रे दिग्जये कृतनिश्चयः Rāj. T. 4.183; स दिग्विजयमव्याजवीरः स्मरः इवाकरोत् Vikr.4.1.-तटम् the horizon.

दर्शनम् showing merely the direction, pointing out only the general mode or manner.

a general outline or survey.

a compass.-दर्शिन् a. looking on all sides, having a general view.-दाहः preternatural redness of the horizon; दैग्दाहः 'a conflagration of the regions of the sky' (regarded as an evil omen) N.12.92; cf. Ms.4.115.

देशः a distant region or country; दृश्यन्ते कुलनिम्नगा अपि परं दिग्देशकालाविमौ Rāj. T.4.38,417.

region, country; H.1.

नागः an elephant of the quarter of the compass; see दिग्गज.

N. of a poet said to be a contemporary of Kālidāsa. (This interpretation is based on Mallinātha's gloss on दिङ्नागानां पथि परिहरन् स्थूल- हस्तावलेपान् Me.14; which is, however, very doubtful.) -पतिः, -पालः the regent or guardian of a quarter; Rāj. T.4.225 (for the names of the several regents, see अष्टदिक्पालः cf. Ms.5.96;7.33 also); सूर्यः शुक्रः क्षमापुत्रः सैंहिकेयः शनिः शशी । सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः ॥ -Jyotistattvam. -पथः the surrounding region; सैन्यैर्नाना- पथायातैर्नदद्भिर्व्याप्तदिक्पथः Rāj. T.5.342. -भागः a point of the compass, direction. -भ्रमः perplexity about points of the compass, mistaking the way or direction; Vikr.5.66. -मण्डलम् = दिक्चक्रम् q.v. -मात्रम् the mere direction or indication. -मुखम् any quarter or part of the sky; हरति मे हरिवाहनदिङ्मुखम् V.3.6; Amaru.5.-मोहः mistaking the way or direction. -यात्रा a procession in different directions. -वसन, -वस्त्र a. stark naked, unclothed.

(स्त्रः) a Jaina or Buddhist mendicant of the दिगम्बर class.

an epithet of Śiva. -विभा- वित a. renowned or celebrated in all quarters. -शूलम् a bad yoga in Astronomy; cf. शुक्रादित्यदिने न वारुणदिशं न ज्ञे कुजे चोत्तरां मन्देन्दोश्च दिने न शक्रककुभं याम्यां गुरौ न व्रजेत् । शूलानीति विलङ्घ्य यान्ति मनुजा ये वित्तलाभाशया भ्रष्टाशाः पुनरापतन्ति यदि ते शुक्रेण तुल्या अपि ॥ Jyotissārasaṅgraha. -साधनम् a means to make the journey in various quarters successful.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिश् cl.3 P. दिदेष्टि(Imper. दिदेष्टुRV. ; cl.6. दिशति, ते[later the only Pres. stem] ; pf. दिदेश, दिदिशे; fut. देक्ष्यति, ते[ देष्टाSiddh. ] ; aor. अदिक्षत्S3Br. etc. ; अदिक्षि, अदिष्टRV. ; inf. देष्टुम्MBh. etc. ; दिशेRV. )to point out , show , exhibit RV. viii , 82 , 15 ; to produce , bring forward (as a witness in a court of justice) Mn. viii ; to promote , effect , accomplish Kir. , i , 18 ; to assign , grant , bestow upon( dat. RV. ii , 41 , 17 AV. xiv , 2 , 13 ; gen. MBh. iii , 14278 ; xiii , 1843 ; loc. R. i , 2 , 28 ); to pay (tribute) Hariv. 16061 ; to order , command , bid( inf. ) Kir. v , 28 : Pass. दिश्यतेMBh. etc. : Caus. देशयति, ते; aor. अदीदिशत्, to show , point out , assign MBh. R. ; to direct , order , command ib. ; teach , communicate , tell , inform confess Buddh. : Desid. दिदिक्षति, ते, to wish to show etc. : Intens. देदिष्टे, 3. pl. शते, ( p. f. pl. शतीस्)to show , exhibit , manifest RV. ; to order , command ib. : Pass. देदिश्यते, to show or approve one's self. AV. VS. [ cf. Z. dis ; Gk. ? ; Lat. di1co , in-dr2care etc. ; Goth. teihan ; O. E. te4on (fr. ti4han).]

दिश् f. quarter or region pointed at , direction , cardinal point RV. AV. S3Br. etc. (four in number , viz. प्राची, east ; दक्षिणा, south ; प्रतिचि, west ; and उदीची, north AV. xv , 2 , 1 A1s3vGr2. iv , 8 etc. ; Sometimes a 5th , ध्रुवाAV. iii , 9 , 15 S3Br. ix , 4 , 3 , 10 ; and a 6th , ऊर्ध्वाAV. iii , 27 , 1 S3Br. xiv , 6 , 11 , 5 ; and a 7th , व्य्-अध्वाAV. iv , 40 , l S3Br. ix , 5 , 2 , 8 ; but oftener 8 are given i.e. the 4 cardinal and the 4 intermediate quarters , S. E. , S. W. , N. W. , and N. E. Mn. i , 13 [See. उप-] ; and even a 9th , and 10th , तिर्यक्or अधस्and ऊर्ध्वम्S3Br. vi , 2 , 2 , 34 MBh. i , 729 ; दिशाम् पति[See. दिक्-पतिbelow] = सोमRV. ix , 113 , 2 , or = रुद्रVS. xvi , 17 )

दिश् f. quarter , region , direction , place , part( pl. , rarely eg. the whole world e.g. दिशि, दिशि, in all directions , everywhere Bhartr2. i , 86 ; दिग्भ्यस्, from every -qquarter BhP. i , 15 , 8 Page480,2 ; दिशो दिशस्, hither and thither Pan5c. ii , 116/117 ; दिशोऽवलोक्य, looking into the -qquarter of the sky i.e. into the air Ratn. iv , 4/5 दिसो ऽन्तात्, from the extremities of the world ib. , Introd. 6 )

दिश् f. country , esp. foreign country , abroad(See. दिग्-आगतand -लाभ, below)

दिश् f. space (beside काल) Kap. ii , 12

दिश् f. the numeral 10(See. above ) S3rutab. Su1ryas.

दिश् f. a hint , reference , instance , example Sus3r. Sa1h. Sch. ; precept , order , manner RV. ([See. ? O. H.G. zeiga (See. also दिशा)])

दिश् f. mark of a bite L.

दिश् f. N. of a river MBh. vi , 327.

दिश् a vulgar form for दृश्, to see Pa1n2. i , 3 , 1 Va1rtt. 13 Pat.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Diś  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 18, 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*6th word in left half of page p362_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Diś  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 18, 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*6th word in left half of page p362_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Diś, ‘direction,’ is a word very frequently used in the Rigveda and later[१] to denote a quarter of the sky. As a general rule, four quarters are mentioned--east, south, west, north.[२] But the number of the ‘directions’ is sometimes increased up to ten by the addition to these four of various others. The five points include the zenith (ūrdhvā);[३] the six, the zenith and the nadir (ūrdhvā and avācī);[४] the seven, the zenith, the ground on which one stands (dhruvā), and the air (antarikṣa) between these two (vyadhvā);[५] the eight include the intermediate quarters (S.E., S.W., N.E., N.W.);[६] the nine add to these the zenith;[७] the ten, zenith and nadir.[८] The number five is sometimes made up by the ground beneath the observer's feet (dhruvā),[९] and the number six by that point (dhruvā) and the zenith (ūrdhvā);[१०] the ‘lofty’ (bṛhatī)[११] sometimes taking the place of the ‘vertical’ (ūrdhvā).

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिश् स्त्री.
(दिश् सर्जने+क्विप्) दिशा, (प्रादेशेन) दिशो व्यास्थापयति (वह महावीर पात्र के उपर विभिन्न दिशाओं में वितस्ति-आकृति को दिखाता है), बौ.श्रौ.सू. 9.7; अपने हाथ के बीते बितस्ति से इसकी दिशा को चिह्नित करना, श्रौ.को. (सं.) II. पृ. 531

  1. Rv. i. 124, 3;
    183, 5;
    iii. 30, 12;
    Av. iii. 31, 4;
    xi. 2, 12, etc.
  2. Rv. vii. 72, 5;
    x. 36, 14;
    42, 11;
    Av. xv. 2, 1 et seq., etc.
  3. Taittirīya Saṃhitā, vii. 1, 15;
    Maitrāyaṇī Saṃhitā, ii. 8, 9.
  4. Maitrāyaṇī Saṃhitā, iii. 12, 8;
    Vājasaneyi Saṃhitā, xxii. 24;
    Bṛhadāraṇyaka Upaniṣad, iv. 2, 4.
  5. Rv. ix. 114, 3;
    Av. iv. 40, 1;
    Śatapatha Brāhmaṇa, vii. 4, 1, 20;
    ix. 5, 2, 8;
    Taittirīya Āraṇyaka, i. 7.
  6. Taittirīya Saṃhitā, vii. 1, 15;
    Satapatha Brāhmaṇa, i. 8, 1, 40, etc.
  7. Śāṅkhāyana Śrauta Sūtra, xvi. 28, 2.
  8. Rv. i. 164, 14;
    viii. 101, 13;
    Śatapatha Brāhmaṇa, vi. 2, 2, 34;
    viii. 4, 2, 13, etc.
  9. Av. viii. 9, 15;
    xiii. 3, 6;
    xv. 14, 1-5;
    Vājasaneyi Saṃhitā, ix. 32;
    Śatapatha Brāhmaṇa, ix. 4, 3, 10, and cf. Dhruvā.
  10. Av. iii. 27, 1;
    iv. 14, 8;
    xii. 3, 55;
    xv. 4, 1 et seq.;
    xviii. 3, 34;
    Aitareya Brāhmaṇa, viii. 14, etc. Cf. Rv. x. 14, 16.
  11. Vājasaneyi Saṃhitā, xiv. 13, Kāṭhaka Saṃhitā, xvii. 8.

    Cf. Zimmer, Altindisches Leben, 359;
    Weber, Proceedings of the Berlin Academy, 1895, 846;
    Indische Studien, 17, 293. 294;
    18, 153;
    St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=दिश्&oldid=478683" इत्यस्माद् प्रतिप्राप्तम्