सामग्री पर जाएँ

निष्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क, क ङ माने । इति कविकल्पद्रुमः ॥ (चुरां- आत्मं-सकं-सेट् ।) मूर्द्धन्यषमध्यः । क ङ, निष्कयते स्वर्णं बणिक् । इति दुर्गादासः ॥

निष्कः, पुं क्ली, (निश्चयेन कायति शोभते इति । निस् + कै + आतश्चेति कः ।) चत्वारः सुवर्णाः । चारि मोहर इति भाषा ॥ यथा, मनुः । ८ । १३७ । “धरणानि दश ज्ञेयः शतमानस्तु राजतः । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥” साष्टशतसुवर्णः । हेम । उरोभूषणम् । (यथा, रामायणे । १ । ६ । ११ । “नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ॥”) पलम् । दीनारः । इत्यमरः । ३ । ३ । १४ ॥ अस्य टीका यथा । “शास्त्रीयषोडशमाषकपरिमितं स्वर्णं सुवर्णं तेषां सुवर्णानां अष्टाधिकशतम् । हेम स्वर्णमात्रम् । उरोभूषणं वक्षोऽलङ्कारः । पलं शास्त्रीयमानविशेषः । उरोभूषणं पलञ्च हेम्न एवेति केचित् । दीनारः सम्यग्व्यवहारार्थं मानवस्तु एषु निष्कः । केचित्तु दीनार इति पल इत्यस्य विशेषणम् । दीनारे पले लौकिक- पले न तु शास्त्रीये इत्याहुः ॥ स्मार्त्तास्तु द्वात्रिंशद्रक्तिकापरिमितं काञ्चनं दीनारः । तथाहि । ‘दीनारो रोपकैरष्टाविंशत्या परिकीर्त्तितः । सुवर्णंसप्ततितमो भागो रोपक उच्यते ॥’ इति विष्णुगुप्तः ॥ सुवर्णोऽशीतिरक्तिकापरिमितं काञ्चनं तस्य सप्ततितमो भागः सप्तमांशाधिकहेमरक्तिकायां रोपकः तदष्टाविंशत्या द्बात्रिंशद्रक्तिकापरिमितं हेम दीनार इति पर्य्यवस्यतीत्याहुः ।” इति भरतः ॥ * ॥ स्वर्णकर्षः । स्वर्णपलम् । इति हेमचन्द्रः ॥ कण्ठभूषा । इति जटाधरः ॥ माषकचतुष्टयम् । इति वैद्यकपरिभाषा ॥ (यथा, “स्याच्चतुर्म्माषकैः शाणः स निष्कष्टङ्क एव च ॥” इति पूर्ब्बखण्डे प्रथमेऽध्याये शार्ङ्गधरेणोक्तम् ॥) षोडशद्रम्यः । षोल काहन इति भाषा ॥ (यथा, लीलावत्याम् । २ । “वराटकानां दशकद्बयं यत् सा काकिनीं ताश्च पणश्चतस्रः । ते षोडशद्रम्य इहावगम्यो द्रम्यैस्तथा षोडशभिश्च निष्कः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क पुं-नपुं।

साष्टशतसुवर्णम्

समानार्थक:निष्क

3।3।14।1।1

दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः। दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

निष्क पुं-नपुं।

हेम्न्युरोभूषणम्

समानार्थक:निष्क

3।3।14।1।1

दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः। दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः॥

पदार्थ-विभागः : आभरणम्

निष्क पुं-नपुं।

कर्षचतुष्टयम्

समानार्थक:पल,निष्क

3।3।14।1।1

दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः। दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

निष्क पुं-नपुं।

दीनार_नामकनाण्यविशेषः

समानार्थक:निष्क

3।3।14।1।1

दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः। दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क¦ माने चु॰ आत्म॰ सक॰ सेट्।

१ निष्कयते अनिनिष्कत। अणोपदेशत्वात् सति निमित्ते न णत्वम्। प्रनिष्कयते। [Page4116-b+ 38]

निष्क¦ पु॰ न॰ निश्चयेन कायति निस् + कै--क निष्क--अचवा। शास्त्रीयषोडशमाषकपरिमितसुवर्णानामष्टाधिकशते,

२ व्यवहारिकरूपके (टाका)

३ चतुसुवर्णपरिमितेपलपरिमाणे मानभेदे,

४ वक्षोभूषणे

५ हेमपात्रे

६ दीनारेच अमरः। दीनारशब्दे दीनारार्थः दृश्यः।

७ पणे

८ षोडशद्रम्मे (काहन) परिमाणे
“वराटकानां दशकद्वययत् सा काकिणी ताश्च पणश्चतस्रः। ते षोडश द्रम्मइहावगम्यो द्रम्मैस्तथा षोडशभिश्च निष्कः” लीला॰।
“हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम्” कुमा॰
“चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः” मनुः
“गवामभावे निष्कः स्यात् तटूर्द्धं पादमेव वा” मिता॰धृता स्मृतिः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क¦ r. 10th cl. (निष्कयते) To measure or weigh.

निष्क¦ mn. (-ष्कः-ष्कं)
1. A weight of gold, applied however to different quantities: it is considered as synonimous with the Dina4ra of thirty-two small, or sixteen large Rattis; with the Karsha or Suvarn4a of sixteen Ma4sha4s; with the Pala of four or five Suvar- n4as; and with the larger Pala or Dina4ra, which is sometimes reckoned at 108, and othertimes at 150 Suvarn4as.
2. Gold in general.
3. Any ornament of the breast.
4. An ornament of the neck.
5. A weight of four Ma4sha4s.
6. A weight of silver of four Suvarn4as.
7. A value of sixteen Ka4hons or Dramyas.
8. A chan- da4la. E. नि before, सद् to go, Una4di aff. कन्, and the radical final rejected or निस् + कै-क or निष्क-अच् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्कः [niṣkḥ] कम् [kam], कम् 1 A golden coin (of different values, but generally taken to be equal to one Karṣa or Suvarṇa of 16 Māsas; 'वराटकानां दशकद्वयं यत् सा काकिणी ताश्च पणश्चतस्रः । ते षोडश द्रम्म इहावगम्यो द्रम्मैस्तथा षोडशभिश्च निष्कः ॥ मांसभेत्ता तु षष्णिष्कान् (दण्डः) Ms.8.284.

A weight of gold equal to 18 or 15 Suvarṇas q. v.

A golden ornament for the neck or the breast; हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् Ku.2.49; निष्ककण्ठीः (उपदेववरस्त्रियः) Bhāg.4.3.6.

Gold in general.

A golden vessel.

A die or dice; L. D. B.

Departure, going away; Nm. -ष्कः A Chāndāla.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क mn. (rarely n. )( Un2. iii , 45 g. अर्धर्चा-दि)a golden ornament for the neck or breast (also used as money) RV. etc.

निष्क mn. later a partic. coin varying in value at different times (= 1 दीनारof 32 small or 16 large Rettis , = 1 कर्षor सुवर्णof 16 माषs , = 1 पलof 4 or 5 सु-वर्णs , = 1 larger पलor दीनारvariously reckoned at 108 or 150 सु-वर्णs , = 4 माषs , = 16 द्रम्मs ; also a weight of silver of 4 सु-वर्णs)

निष्क mn. a golden vessel L.

निष्क mn. gold L.

निष्क m. a चाण्डालL.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a gold coin for gifts; फलकम्:F1: M. ७७. ११; वा. ८०. १६.फलकम्:/F sin, a fine for wounding or hurting; फलकम्:F2: M. २२७. ८६; वा. १०१. १६०.फलकम्:/F necklace? फलकम्:F3: भा. III. २३. ३१.फलकम्:/F Bala staked १००० at the first game of gambling, another १००० at the second and one crore at the succeeding one. फलकम्:F4: Vi. V. २८. १३-14, १८.फलकम्:/F

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NIṢKA : One palam (about one-sixth of a pound) of gold. (Manusmṛti, Cnapter 8).


_______________________________
*7th word in right half of page 541 (+offset) in original book.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Niṣka is frequently found in the Rigveda[] and later[] denoting a gold ornament worn on the neck, as is shown by the two epithets niṣka-kaṇṭha[] and niṣka-grīva,[] ‘having a gold ornament on the neck.’ A Niṣka of silver is mentioned in the Pañcaviṃśa Brāhmaṇa.[] As early as the Rigveda[] traces are seen of the use of Niṣkas as a sort of currency, for a singer celebrates the receipt of a hundred Niṣkas and a hundred steeds: he could hardly require the Niṣkas merely for purposes of personal adornment. Later the use of Niṣkas as currency is quite clear.[] Cf. also Kṛṣṇala.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्क न.
भार की एक माप (=चार कृष्णल), मा.श्रौ.सू. 1०.1.4.6; गले में पहना जाने वाला सोने का आभूषण, ऋ.वे. 7.33.1०, जिसे अध्वर्यु यजमान के गले में पहनाता है, ‘निष्कं प्रतिमुञ्चन् वाचयति.....’ (अश्वमेध); चाँदी का आभूषण, 22.4.16 (व्रात्यस्तोम); द्रष्टव्य-अल्तेकर ए.एस; INSI 15 (1), बनारस 1-26

  1. ii. 33, 10;
    viii. 47, 15. etc.
  2. Av. v. 14, 3;
    vii. 99, 1;
    xx. 131. 8;
    Chāndogya Upaniṣad, iv. 2, 1. 2;
    v. 13, 2;
    Jaiminīya Upaniṣad Brāhmaṇa, i. 36, 7. 8;
    Śatapatha Brāhmaṇa, xiii. 4, 1, 7. 11, etc.
  3. Aitareya Brāhmaṇa, viii. 22.
  4. Rv. v. 19, 3;
    Av. v. 17, 14.
  5. xvii. 1, 14, as worn by the Vrātya Cf. Av. xv. 3.
  6. i. 126, 2.
  7. Av. xx. 127, 3;
    Lāṭyāyana Śrauta Sūtra, ix. 9, 20, etc. In the Śatapatha Brāhmaṇa, xi. 4, 1, 1. 8;
    Gopatha Brāhmaṇa, i. 3, 6;
    the sense of ‘coin’ is seen by Eggeling. Sacred Books of the East, 44, 50, 51, and by Geldner, Vedische Studien, 2, 185.

    Cf. Zimmer, Altindisches Leben, 51, 259, 263;
    Geldner, op. cit., 1, 268, n. 2;
    Zeitschrift der Deutschen Morgenländischen Gesellschaft, 40, 127.
"https://sa.wiktionary.org/w/index.php?title=निष्क&oldid=500692" इत्यस्माद् प्रतिप्राप्तम्