शस्त्र

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त्रम्, क्ली, (शस्यते हिंस्यते अनेन । “अमिचि- मिदिशसिभ्यः क्त्रः ।” उणा० ४ । १६३ । इति क्त्रः । यद्बा, “दाम्नीशसुयुयुजेति ।” ३ । २ । १८२ । इति ष्ट्रन् ।) लोहम् । अस्त्रम् । इत्यमरः ॥ शस्त्रास्त्रैर्बहुधा मुक्तैरित्यादिदर्शनात् शस्त्रा- स्त्रयोः कश्चिद्भेदमाह । येन करधृतेन हन्यते तत् शस्त्रं खड्गादि । येन क्षिप्तेन हन्यते तदस्त्रं काण्डादि । इति तट्टीकायां भरतः ॥ तत्पर्य्यायः । “अस्त्रे शस्त्रं प्रहरणमुद्घातो हेतिरायुधः ।” इति शब्दरत्नावली ॥ “एकैकमस्त्रं शस्त्रञ्च देवैर्मुक्तं सहस्रधा । चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥” इति विष्णुपुराणे ५ अंशे ३० अध्यायः ॥ अस्त्रं मन्त्राभिमन्त्रितम् । शस्त्रं तदितरत् । इति तट्टीका ॥ * ॥ राज्ञां अस्त्राचार्य्यो यथा, -- “यन्त्रयुक्ते पाणियुक्ते अयुक्ते युक्तधारिते । अस्त्राचार्य्यो निरुद्बेगः कुशलश्च विशिष्यते ॥” तदगारनियुक्तस्य लक्षणं यथा, -- “स्थापनाजातितत्त्वज्ञः सततं प्रतिजागृता । राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः ॥” इति मात्स्ये १८९ अध्यायः ॥ अस्त्रचिकित्सा यथा । अथातोऽग्रोपहरणीय- मध्यायं व्याख्यास्यामः । त्रिविधं कर्म्म । पूर्ब्ब- कर्म्म प्रधानकर्म्म पश्चात्कर्म्मेति । तद्व्याधि प्रत्युपदेक्ष्यामः । अस्मिन् शास्त्रे शस्त्र कर्म्म पान्तु त्वां मुनयो ब्राह्म्या दिव्या राजर्षयस्तथा । पर्व्वताश्चैव नद्यश्च सर्व्वाः सर्व्वेऽपि सागराः ॥ अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च ॥ सोमो व्यानमपानं ते पर्य्यण्यः परिरक्षतु ॥ उदानं विद्युतः पान्तु समान स्तनयित्नवः । बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ॥ कामांस्ते पान्तु गन्धर्व्वाः सत्त्वमिन्द्रोऽभिरक्षतु । प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥ चक्षुः सूर्य्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः । नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ॥ रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा । आकाशं स्वानि ते पातु देहं तव वसुन्धरा ॥ वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् । पौरुषं पुरुषश्रेष्ठो ब्रह्मात्मानं ध्रुवो भ्रुवौ ॥ एता देहे विशेषेण तव नित्या हि देवताः । एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥ स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्व्व- ताम् । स्वस्ति ते चन्द्रसूर्य्यौ च स्वस्ति नारदपर्व्वतौ ॥ स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः । पितामहकृता रक्षा स्वस्त्यायुर्व्वर्द्धतां तव । ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥” इति स्वाहा ॥ “एतैर्व्वेदात्मकैर्मन्त्रैः कृत्या व्याधिविनाशनैः । मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ॥” * ॥ ततः कृतरक्षमातुरमागारं प्रवेश्याचारिक- मादिशेत् । ततस्तृतीयेऽहनि विमुच्यैवं बध्नी- याद्बस्त्रपट्टेन । न चैनं त्वरमाणोऽपरेद्युर्मोक्ष- येत् । द्बितीयदिवसे परिमोक्षणाद्विग्रथितो व्रणश्चिरादुपसंरोहति तीव्ररुजश्च भवति । अत ऊर्द्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धा- हाराचारान् विदध्यात् । न चैनं त्वरमाणः सान्तर्दोषं रोपयेत् स ह्यल्पेनाप्यपचारेणाभ्य- न्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति । भवन्ति चात्र । “तस्मादन्तर्व्वहिश्चैव सुशुद्धं रोपयेद्व्रणम् । रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् ॥ हर्षं क्रोधं भयञ्चापि यावदास्थैर्य्यसम्भवात् । मासान् षट् सप्त वा नॄणां विधिरेषः प्रशस्यते ॥ हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् । त्र्यहात् द्ब्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धि- मान् ॥ अतिपातेषु रोगेषु नेच्छेद्विधिमिमं भिषक् । प्रदीप्तागारवच्छिघ्रं तत्र कुर्य्यात् प्रतिक्रियाम् ॥ या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः । घृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेन ॥” इति सुश्रुते ५ अध्यायः ॥

शस्त्रः, पुं, (शसत्यनेनेति । शस वधे + “असिचि- मिदिशसिभ्यः क्त्रः ।” उणा० ४ । १६३ । इति क्त्रः । यद्वा, दाम्नीशसयुयुजेति ।” ३ । २ । १८२ । इति ष्ट्रन् ।) खड्गः । यथा, -- “रिष्टिः खड्गस्तरवारिः शस्त्रो भद्रात्मजश्च सः ॥” इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त्र पुं-नपुं।

शस्त्रायुधम्

समानार्थक:शस्त्र

2।8।82।2।3

सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ। आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

शस्त्र नपुं।

लोहः

समानार्थक:लोह,शस्त्रक,तीक्ष्ण,पिण्ड,कालायस,अयस्,अश्मसार,शस्त्र

3।3।180।1।2

निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः। स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥

अवयव : लोहमलम्,अयोविकारः

वृत्तिवान् : लोहकारकः

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त्र¦ न॰ शस--ष्ट्रन्।

१ लौहे

२ खङ्गादौ अस्त्रै च हेमच॰स्वार्थे क। तत्रैव। तत्र मुक्तमस्त्रममुक्तं शस्त्रमिति भेदःशंस--तन्।

३ प्रगीते मन्त्रभेदे चिकित्साङ्गशस्त्राणां श्च-क्षणादि सुश्रुतोक्तं यथा
“अथातःशस्त्रावचारणीयमध्यायं व्याख्यास्यामः विंशतिःशस्त्राणि। तद्यथा मण्डलाग्रकरपत्रवृद्धिपत्रनखशस्त्र-मुद्रिकोत्पलपत्रकार्द्धधारसूचीकुशपत्राटीमुखशरारीमुखा-न्तर्मुखत्रिकूर्चककुठारिकाव्रीहिमुखारावेतसपत्रक्वडिश-दन्तशङ्क्केषण्य इति। तत्र मण्डलाग्रकरपत्रे स्यातांछेदने लेखने च। वृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्र-कार्द्धधाराणि छेदने भेदने च। सूचीकुशपत्राटीमुख-शरारीमुखान्तर्मुखत्रिकूचेकानि विस्नावणे। कुठारीका-व्रीहिमुखारावेतसपत्रकाणि घ्यधने सूची च। वडिशोदन्तशङ्कुश्चाहरणे। एषण्येषणे आनुलोभ्ये च। सूच्यः सेवने इत्यष्टविधे कर्मण्युपयोगः शस्त्रार्णाव्याख्यातः। तेषामथ यथायोगग्रहणसमासोपायःकर्मसु वक्ष्यते। तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागेगृह्णीयाद्भेदनान्येवं सर्वाणि। वृद्धिपत्रं मण्डलाग्रञ्चकिञ्चिदुत्तानपाणिना लेखने बहुशोऽवत्तार्व्यं वृन्ताग्रे[Page5092-a+ 38] विस्रावणानि विशेषेण बालवृद्धसुकुमारभीरुनारीणांराज्ञां राजपुत्राणाञ्च त्रिकूर्चकेन विस्रावयेत्। तल-प्रच्छादितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमुखम्। कुठारीकांवामहस्तन्यस्तामितरहस्तमध्यमाङ्गुष्ठविष्टब्धयाभिहन्यात्। आराकरपत्रैषण्यो मूले। शेषाणिं तु यथायोगंगृह्णीयात्। तेषां नामभिरेवाकृतयः प्रायेण व्या-ख्याताः। तत्र नखशस्त्रैषण्यावष्टाङ्गुले सूच्यो वक्ष्यन्ते। वडिशो दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथमयवसन्त-मुखे। एषणी गण्डूपदाकारमुखी। प्रदेशिन्यग्रपर्वप्रदेश-प्रमाणा मुद्रिका। दशाङ्गुला शरारीमुखी सा कर्त्तरीतिकथ्यते। शेषाणि तु षडङ्गलानि। तानि सुग्रहाणिसुलोहानि सुधाराणि सुरूपाणि सुसमाहितमुखा-ग्राण्यकरालानि चेति शस्त्रसम्पत्। तत्र वक्रं कुण्ठंखण्डं खरधारमतिस्थूलमत्यल्पमतिदीर्घमतिह्रस्वमि-त्यष्टौ शस्त्रदोषाः। अतो विपरीतगुणमाददीतान्यत्रकरपत्रात्तद्धि ञ्चरधारमस्थिच्छेदनार्थम्। तत्र घाराभेदनानां मासूरी। लेखनानामर्द्धमासूरी। व्यधनानांविस्नावणानाञ्च कैशिकी। छेदनानामर्द्धकैशिकीति। तेषां पायना त्रिविधा क्षारोदकतैलेषु तत्र क्षारपायितंशरशल्यास्थिच्छेदनेषु। उदकपायितं मांसच्छेदनभेदन-पाटनेषु तैलपायितं सिराव्यधनस्नायुच्छेदनेषु। तेषांनिशाणार्थं श्लक्ष्णशिला माषवर्ण्णा। धारासंस्यापनार्थंशालमलोफलकमिति”। भवति चात्र
“यदा सुनिशितंशस्त्रं रोमच्छेदि सुसंस्थितम्। सुगृहीतं प्रमाणेनतदा कर्मसु योजयेत्”। अनुशस्त्राणि तु त्वक्सारस्फ-टिककाचकुरुविन्दजलौकाग्निक्षारनखगोजीशेफालिका-शाकपत्रकरीरबालाङ्गुलय इति।
“शिशृनां शस्त्रभी-रूणां शस्त्राभावे च योजयेत्। त्वक्सारादि चतुर्वर्गंछेद्ये भेद्ये च बुद्धिमान्। आहार्य्यच्छेद्यभेद्येषु नखंशक्येषु योजयेत्। विधिः प्रवक्ष्यते पश्चात् क्षारवह्नि-जलौकसाम्। ये स्युर्मुखगता रोगानेत्रवर्त्मगताश्च ये। गोजीशेफालिकाशाकपत्रैर्विस्वावयेत्तु तान्। एष्येष्वे-षण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः। शस्त्राण्येतानिमतिमान् शुद्धशेक्यायसानि तु। कारयेत्करणैः प्राप्तंकर्मारं कर्मकोविदम्। प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवतिनित्यशः। तस्मात्परिचयः कार्य्यः शस्त्राणामादितःसदा”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त्र¦ n. (-स्त्रं)
1. A weapon in general.
2. Iron.
3. Steel.
4. An instru- ment.
5. A hymn of praise. m. (-स्त्रः) A sword, a scymitar. f. (-स्त्री) A knife. E. शस् to hurt, aff. ष्ट्रन् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त्रम् [śastram], [शस्-ष्ट्रन्]

A weapon, arms; क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति Subhāṣ; R.2.4;3.51,52;5.28.

An instrument, a tool in general.

Iron; गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः Mb.6.2.29.

Steel.

A hymn of praise (स्तोत्र).

Repetition, recitation. -Comp. -अङ्गा a kind of sorrel. -अभ्यासः the practice of arms, military exercise.

अयसम् steel.

iron.-अवपातः injury by weapon; शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः Y.2.277.

अस्त्रम् weapons for striking and throwing, arms and missiles; शस्त्रास्त्रभृत्त्वं क्षत्रस्य Ms.1.79.

arms or weapons generally. -आख्यम् iron. -आजीवः, -उपजीविन् m. a professional soldier; Kau. A.1.3.-उद्यमः lifting up a weapon (to strike). -उपकरणम् arms or instruments of war, military apparatus. -कर्मन् any surgical operation. -कारः an armourer. -कोपः war, battle. -ककोषः the sheath or scabbard of any weapon. -क्षारः borax. -ग्रहः battle, fight. -ग्राहिन् a. taking up or wearing arms (for battle); शस्त्रग्राही ब्राह्मणो जामदग्न्यः U.5.33. -चिकित्सा surgery. -जीविन्, -वृत्ति m. one living by the use of arms, a professional soldier. -देवता the deity presiding over weapons.-धरः = शस्त्रभृत् q. v. -निपातनम् a surgical operation.-न्यासः laying down arms; so शस्त्र (परि) त्यागः. -पाणिa. bearing arms, armed. (-m.) an armed warrior.-पदम् incision; Suśr. -पूत a. 'purified by arms', rendered pure or absolved from guilt by being killed with a weapon on the battle-field; अशस्त्रपूतं निर्व्याजम् (महामांसम्) Māl.5.12; (see Jagaddhara's explanation of the word); अहमपि तस्य मिथ्याप्रतिज्ञावैलक्ष्यसंपादितमशस्त्रपूतं मरणमुपदशामि Ve.2. -प्रहारः a wound inflicted with a weapon. -भृत् m.

a soldier, warrior; रामः शस्त्रभृतामहम् Bg.1.31; न तद् यशः शस्त्रभृतां क्षिणोति R.2.4.

an armed man. -मार्जः a weapon-cleaner, an armourer, a furbisher. -विद्या, -शास्त्रम् the science of archery, see धनुर्वेद. -वृत्तिः a professional soldier; पुरुषा शस्त्रवृत्तयः Ms. 12.45. -व्यवहारः practice of weapons. -शास्त्रम् military science. -संहतिः f.

a collection of arms.

an arsenal. -संपातः a sudden fall of a number of weapons. -हत a. killed by a weapon. ˚चतुर्दशी N. of a particular 14th day sacred to the memory of fallen warriors. -हस्त a. armed. (-स्तः) an armed man.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त्र n. (for 2. See. under शस्)invocation , praise (applied to any hymn recited either audibly or inaudibly , as opp. to स्तोम, which is sung , but esp. the verses recited by the होतृand his assistant as an accompaniment to the ग्रहs at the सोमlibation) VS. Br. S3rS. ChUp.

शस्त्र n. reciting , recitation S3a1n3khBr

शस्त्र m. (for 1. See. p. 1044 , col. 1) a sword L.

शस्त्र n. an instrument for cutting or wounding , knife , sword , dagger , any weapon (even applied to an arrow Bhat2t2. ; weapons are said to be of four kinds , पाणि-मुक्त, यन्त्र-मुक्त, मुक्ता-मुक्त, and अमुक्त) S3Br. etc.

शस्त्र n. any instrument or tool(See. comp. )

शस्त्र n. iron , steel L.

शस्त्र n. a razor L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śastra is the technical term[१] for the ‘recitation’ of the Hotṛ priest, as opposed to the Stotra of the Udgātṛ. The recitations at the morning offering of Soma are called the Ājya and Praüga; at the midday offering, the Marutvatīya and the Niṣkevalya; at the evening offering, the Vaiśvadeva and the Āgnimāruta.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त्र न.
(मेल खाते) गेय स्तोत्र से भिन्न स्तुति, जिसका वाचन होता है (अर्थात् स्तोत्र का गायन होता है एवं शस्त्र का पाठ, अप्रगीतमन्त्रसाध्यास्तुतिः शस्त्रम्, प्रगीत मन्त्रसाध्या स्तुतिः स्तोत्रम्)। यह ‘स्तोत्र का पूरक एवं पश्चाद्वर्ती है, ‘स्तोत्रमग्रे शस्त्रात्’, आश्व.श्रौ.सू. 5.1०.1. सोमाहुति की संगति के रूप में (अर्थात् साथ में) होता एवं उसके सहायकों, जो होत्रक कहलाते हैं, के द्वारा पठित ऋचाओं से निबद्ध होता है। शस्त्र के वाचन में घनिष्ठता से सम्बद्ध अन्य पहलू हैं ः ‘आहाव’ प्रतिगर, तुष्णींशंस, निविद् या पुरोरुच्। इसके बाद की क्रियाये हैं ः प्रातःकाल में उक्थं ‘वाचि’ जप, मध्याह्न में उक्थं वाचि इन्द्राय एवं सायंकाल के समय उक्थं वाचि इन्द्राय देवेभ्यः का जप, ऐ.ब्रा. 3.12; शां.श्रौ.सू. 14.3 के अनुसार वे हैं ‘उक्थम् अवाचि’, ‘उक्थम् अवाचि इन्द्राय’ एवं अवाचि इन्द्राय देवेभ्यः, आश्व.श्रौ.सू. 5.9.2-11; एवं अध्वर्यु द्वारा उच्चारित ‘ओम्’ से समाप्ति होती है। शस्त्र को कई भागों में तोड़ा जा सकता है जैसे ‘आज्य’ एवं ‘प्रउग’ में ः स्तोत्रिय ‘एक तृच’ जिसका गायन मेल खाते स्तोत्र में हो चुका है, ‘अनुरूप’ संज्ञक एक तृच जो छन्द में समान है या मेल खाता है, स्तोत्र तृच से युक्त देवता, 5.1०.26-37 (स्तोत्रियेणानुरूपस्य च्छन्दः- प्रमाणलिङ्गदैवतानि; आर्षं चैके); शस्त्र का मुख्य भाग ‘उक्थमुख’, शां.श्रौ.सू. 7.11.3. अथवा मरुत्वतीयवत् भाग हैं ः ‘प्रतिपद्’, ‘अनुचर’ आदि। अगिन्ष्टोम-याग में तीन सवनों में वितरित (विभक्त) 12 स्तोत्र और 12 शस्त्र होते हैं (5 + 5 + 2)। प्रातःकाल होता ‘आज्य’ एवं ‘प्रउग’ शस्त्र का पाठ करता है एवं उसके बाद आने वाले तीन आज्य (स्तोत्रों) का पाठ क्रमशः मैत्रावरुण, ब्राह्मणाच्छंसिन् एवं अच्छावाक करते हैं, पाठ्य के लिए द्रष्टव्य - श्रौ.को. (सं.) II.323, 332, 338, 343, 318. मध्याह्न के समय ‘मरुत्वतीय’, निष्केवल्य एवं तीन निष्केवल्य जिनका पाठ होत्रक करते हैं श्रौ.को. (सं.) 383, II.(i) 383, आदि। तृतीय सवन में वैश्वदेव एवं अगिन्मारुत शस्त्र का वाचन ‘होता’ करता है; शस्त्र के बाद होता ‘वषट्’ का उच्चारण करता है एवं अध्वर्यु सोम की आहुति डालता है एतदनन्तर शर्करा शस्त्र 379 ‘अनुवषट्कार’ एवं सोम की आहुति के शेष भाग का पान होता है; प्रशस्ति-सूक्त, गोंड, जे. प्रातरनुवाक, पृ. 33।

  1. Taittirīya Saṃhitā, iii. 2, 7, 2, etc.;
    Kāṭhaka Saṃhitā, xxix. 2, etc.;
    Vājasaneyi Saṃhitā, xix. 25. 28, etc.;
    Śatapatha Brāhmaṇa, iv. 2, 4, 20, etc. Cf. Weber, Indische Studien, 10, 353, and Caland and Henry, L'Agniṣṭoma, passim, where the Śastras are set out at length.
"https://sa.wiktionary.org/w/index.php?title=शस्त्र&oldid=504842" इत्यस्माद् प्रतिप्राप्तम्