स्वप्न

विकिशब्दकोशः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वप्नः, पुं, (स्वप + “स्वपो नन् ।” ३ । ३ । ९१ । इति नन् । यद्वा “कॄवृजॄषिद्रुपनीति ।” उणा० ३ । १० । इति नन् ।) निद्रा । इत्यमरः । १ । ७ । ३६ ॥ यथा, -- “तस्मान्न जागृयाद्रात्रौ दिवास्वप्नश्च वर्ज्जयेत् । ज्ञात्वा दोषकरावेतौ बुधः स्वप्नं मितञ्चरेत् ॥”) प्रसुप्तस्य विज्ञानम् । यथा, -- “पूर्ब्बदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः । रजोयुक्तेन मनसा गृह्णात्यर्थान् शुभाशुभान् ॥ करणानान्तु वैकस्ये तमसाभिप्रवर्द्धिते । अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ॥” इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥) दर्शनम् । इति मेदिनी ॥ * ॥ सुस्वप्ना यथा, -- नन्द उवाच । “केन स्वप्नेन किं पुण्यं केन पुंसां भवेत् सुखम् । कोऽपि कोऽपि च सुस्वप्नस्तत् सर्व्वं कथय प्रभो ! ॥” श्रीभगवानुवाच । “वेदेषु सामवेदश्च प्रशस्तः सर्व्वकर्म्मसु । तत्रैव काण्वशाखायां पुण्यकाण्डे मनोहरे ॥ सुष्यक्तो यश्च सुस्वप्नः शश्वत् पुण्यफलप्रदः । तत् सर्व्वं लिखितं तात ! कथयामि निशामय ॥ स्वप्नाध्यायं प्रवक्ष्यामि बहुपुण्यफलप्रदम् । स्वप्नाध्यायं नरः श्रुत्वा गङ्गास्नानफलं लभेत् ॥ शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम् ॥ शैलप्रासादसफलवृक्षसिंहनरद्विपान् । आरोहेद्गोऽश्वयानञ्च तरेन्नदह्रदोदधीन् ॥ पूर्ब्बोत्तरेण गमनमगम्यागमनं मृतम् । सम्बाधान्निःसृतिर्देवैः पितृभिश्चाभिनन्दनम् । रोदनं पतितोत्थानं द्विषताञ्चावमर्द्दनम् । यस्य स्यादायुरारोग्यं वित्तं बहु च सोऽश्नुत्रे ॥” इति वाभटे शारोरस्थाने षष्ठेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वप्न पुं।

निद्रा

समानार्थक:निद्रा,शयन,स्वाप,स्वप्न,संवेश,तन्द्रा

1।7।36।2।4

विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे। स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि॥

वैशिष्ट्य : निद्राशीलः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वप्न¦ पु॰ स्वप--भावे नन्।

१ निद्रायाम् अमरः

२ शयने

३ मान-सिकज्ञानभेदे

५ दर्शने च मेदि॰ आर्षे न॰। स्वप्नदृष्टपदा-र्थस्य मायामात्रत्वं शा॰ सू॰ भाष्ययोर्व्यवस्थापितं यथा
“सन्ध्ये सृष्टिराह हि” सू॰।
“अतिक्रान्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसारगतिप्रभेदः प्रपञ्चितः इदानीं तस्यैवावस्थाभेदः प्रप-ञ्च्यते। इदमामनन्ति
“स यत्र प्रस्वपिति” इत्युपक्रम्य
“न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथान्रथयोगान् पथः सृजते” इत्यादि। तत्र संशयः किंप्रवोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्विन्माया-मयीति। तत्र तावत् प्रतिपद्यते। सन्ध्ये सृष्टिरिति। सन्ध्यमिति स्वप्नस्थानमाचष्टे वेदे प्रयोगदर्शनात्
“सन्ध्यतृतीयं स्वप्नस्थानम्” इति। द्वयोर्लाकस्थानयोः प्रबोधसम्प्रस द{??}मयोर्वा सन्धो भवतीति सन्ध्यं तस्मिन् सन्ध्येस्थाने तथ्यरूपैव सृष्टिर्मवितुमर्हति। कुतः, यतःप्रमाणभूता श्रुतिरेवमाह
“अथ रथान् रथयोगान्[Page5378-b+ 38] पथः सृजते” इत्यादि। स हि कर्त्तेति चोपसंहारादेव-मेवावगम्यते” भा॰।
“निर्मातारं चैके पुत्रादयश्च”। सू॰
“अपिचैके शाखिनोऽस्मिन्नेव सन्ध्ये स्थाने कामानां निर्मा-तारमात्मानमामनन्ति
“य एष सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाणः” इति। पुत्रादयश्च तत्रकामा अभिप्रेयन्ते काम्यन्त इति। ननु काम-शब्देनेच्छाविशेषा एवोच्येरन्, न,
“शतायुषः पुत्र-पौत्त्रान् वृणीष्व” इति प्रकृत्य
“अन्ते कामानान्त्वाकामभाजं करोमि” इति प्रकृतेषु तत्र पुत्रादिषु काम-शब्दस्य प्रयुक्तत्वात्। प्राज्ञं चैनं निर्मातारं प्रकरण-वाक्यशेषाभ्यां प्रतीमः। प्राज्ञस्य हीदं प्रकरणम्
“अ-न्यत्र धर्मादन्यत्राधर्मात्” इत्यादि। तद्विषय एव चवाक्यशेषोऽपि--
“तदेव शुक्रं तदब्रह्म तदेवामृतमुच्यते। तस्मिं ल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन”। इतिप्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता यथा जाग-रिताश्रया तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति। तथा चश्रुतिः
“अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानिह्येव जाग्रत् पश्यति तानि सुषुप्तः” इति स्वप्नजागरितयोःसमानन्यायतां श्रावयति। तस्मात् तथ्यरूपैव सन्ध्येसृष्टिरित्येवं प्राप्ते प्रत्याह।
“मायामात्रन्तु कात्स्न्ये-नानभिव्यक्तस्वरूपत्वात्” सू॰।
“तुशब्दः पक्षं व्यावर्त्तयति। नैतदस्ति यदुक्तं सन्ध्ये सृष्टिः पारमार्थिकीति। मायामय्येव सन्ध्ये सृष्टिर्न परमार्थतोऽप्यस्ति। कुतःकात्स्न्येनानभिव्यक्तस्वरूपत्वात्। न हि कात्स्न्येनपरमार्थवस्तुधुर्मेणाभिव्यक्तस्वरूपः स्वप्नः। किं पुनरत्रकात्र्स्न्यमभिप्रेतं, देशकालनिमित्तसम्पत्तिरबाबधश्च। नहि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्चस्वप्ने रथादीनामुचितो देशः सम्भवति, न तावत् संवृतेदेहदेशे रथादयोऽवकाशं लभेरन्। स्यादेतत्, बहि-र्देहात् स्वप्नं द्रक्ष्यति देशान्तरितद्रव्यग्रहणात्। दर्श-यति च श्रुतिः बहिर्देहात् स्वप्नं
“यहिःकुलायाद-मृतश्चरित्वा स ईयते अमृतो यत्र कामम्” इति। स्थितिगतिप्रत्ययभेदश्च नानिष्क्रान्ते जन्तौ सामञ्जस्य-मश्नुवीतेति। नेत्युच्यते, न हि सुप्तस्य जन्तोः क्षण-मात्रेण योजनशतान्तरितं देशं पर्य्येतुं विपर्य्येतुञ्च ततःसामर्थ्यं सम्भःव्यते। क्वचिच्च प्रत्यागमनवर्जित स्वप्रश्रावयति
“कुरुष्यहं शय्यायां शयानो निदूयाभप्लुतःस्वप्रे पञ्चालानभिगतश्चास्मिन् प्रतिबुद्धश्च” इति। देहा-[Page5379-a+ 38] च्चेदपेयात् पञ्चालेष्वेव प्रतिबुध्येत तानसावभिगत इतिकरुष्वोव तु प्रतिबुध्यते। येन चायं देहेन देशान्तर-मश्नुवानो मन्यते तमन्ये पार्श्चस्थाः शयनदेश एवपश्यन्ति। यथाभूतानि चायं देशान्तराणि स्वप्ने पश्यतिन तानि तथाभूतान्येव भवन्ति, परिधावंश्चेत् पश्येज्जा-ग्रद्वस्तुभूतमर्थमाकलयेत्। दर्शयति च श्रुतिः
“अन्तरेवदेहे स्वप्नं स यत्रैतत् स्वप्नयाचरति” इत्युपक्रम्य
“स्वेशरीरे यथाकामं परिवर्त्तते” इति। अतश्च श्रुत्युपपत्ति-विरोधाद्बहिःकुलायश्रुतिर्गौणी व्याख्यातव्या वहिरिवकुलायादमृतश्चरित्वा, इति यो हि वसन्नपि शरीरे नतेन प्रयोजनं करोति स वहिरिव शरीराद्भवति इति। स्थितिगतिप्रत्ययभेदोऽप्येवं सति विप्रलम्भ एवाप्युप-गलव्यः, कालविसंवादोऽपि च स्वप्ने भवति रजन्यांसुप्तो वासुरं भारते वर्षे मन्यते तथा मुहूर्त्तमात्रप्रवर्त्तिनिस्वप्ने कदाचिद् बहून् वर्षपूगानतिवाहयति। निमि-त्तान्यपि च स्वप्ने न बुद्धये कर्मणे वोचितानि विद्यन्ते,करणोपसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनिसन्ति, रथादिनिर्वर्त्तनेऽपि कुतोऽस्य निमेषमात्रेणसामर्थ्यं दारुणि वा। बाध्यन्ते चैते रथादयः स्वप्न-सृष्टाः प्रबोधे, स्वप्न एव चैते सुलभबाधा भवन्तिआठ्यन्तयोर्व्यभिचारदर्शनात्, रथोऽयमिति हि कदा-चित् स्वप्ने निर्द्धारितः क्षणेन मनुष्यः सम्पद्यते, मनुष्यो-ऽयमिति वा निर्द्धारितः क्षणेन वृक्षः। स्पष्टञ्चाभावंरथादीनां स्वप्ने श्रावयति शास्त्रम्
“न वत्र रथा नरथयोगा न पन्थानो भवन्ति” इत्यादि। तस्मान्मया-मात्रं स्वप्नदर्शनम्” भा॰।
“सूचकश्च हि श्रुतेराचक्षते चतद्विदः” सू॰।
“मायामात्रत्वात् तर्हि न कश्चित् स्वप्नेपरमार्थगन्ध इति, नेत्युच्यते। सूचकश्च हि स्वप्नोभवति भविष्यतोः साध्वसाधुनोः। तथा हि श्रूयते
“यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति। समृद्धिंतत्र जानीयात् तस्मिन् स्वप्ननिदर्शने” इति। तथा
“पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति” इत्येव-मादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति। आचक्षते च स्वप्नाध्यायविदः
“कुञ्जरारोहणादीनिस्वप्ने धन्यानि खरयानादीन्यधन्यानि” इति। मन्त्रदेवता-द्रव्यविशेषनिमित्ताश्च केचित् स्वप्नाः सव्यार्थगन्धितो भव-न्तीति मन्यन्ते। तत्रापि भवतु नाम सूच्यमानस्य वस्तुनःसत्यत्वं, सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यं बाध्य-[Page5379-b+ 38] मानत्वादित्यभिप्रायः। तस्मादुपपन्नं स्वप्नस्य माया-मात्रत्वम्। यदुक्तमाह हीति तदेवं सति भाक्तं व्या-ख्यातव्यं यथा लाङ्गलं गवादोनुद्वहतीति निमित्तमात्र-त्वादेवमुच्यते न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति,एवं निमित्तमात्रत्वात् सुप्तो रथादीन् सृजते स हिकर्त्तेति चोच्यते न तु प्रत्यक्षमेव सुप्तो रथाटीन् सृ-जति। निमित्तत्वन्त्वस्य रथादिप्रतिभाननिमित्तमोदत्वा-सदर्शनात् तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वे-नेति वक्तव्यम्। अपि च जागरिते विषयेन्द्रियसंयोगा-दादित्यादिज्योतिर्व्यतिकराच्चात्मनः स्वयं ज्योतिष्ट्वं द्रष्ट-र्दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः, तत्र यदिरथादिसृष्टिवचनं श्रुत्या नीयेत स्वयं ज्योतिष्ट्वं न नि-र्णींतं स्यात्। तस्माद्रथाद्यभाववचनश्रुत्या रथादिसृष्टि-वचनं भाक्तमिति व्याख्येयम्। एतेन निर्माणश्रवणंव्याख्यातम्। यदन्युक्तम्
“प्राज्ञमेनं निर्मातारमामनन्ति” इति, तदप्यसत् श्रुत्यन्तरे स्वयं विहृत्य स्वयं निर्मायस्वेन भासा स्वेन ज्योतिषा प्रस्वपिति” इति जोवव्यापार-श्रवणात्। इहापि च
“य एष सुप्तेषु जागर्त्ति इतिप्रसिद्ध्वानुवादाज्जीव एवायं कामानां निर्माता सङ्कीर्त्यते,तस्य तु वाक्यशेषेण
“तदेव शुक्रन्तद्व्रह्मेति” जीवभावंव्यावर्त्य ब्रह्मभाव उपदिश्यते
“तत्त्वमसि” इत्यादिव-दिति न ब्रह्मप्रकरणत्वं विरुध्यते। त्म चास्माभिः स्वप्ने-ऽपि प्राज्ञव्यापारः प्रतिषिध्यते, तस्य सर्वेश्वरत्वात् सर्वा-स्वप्यवस्थास्वथिष्ठातृत्वोपपत्तेः। पारमार्थिकस्तु नायं स-न्ध्याश्रयः सर्गो वियदादिसर्गवदित्येतावत् प्रतिपाद्यते। न च वियदादिसर्गस्यात्यन्तिकं सत्यत्थमस्ति, प्रतिपादितंहि
“तदनन्यत्वमारम्भणशब्दादिभ्यः, इत्यत्र समस्तस्यमायामात्रत्वम्। प्राक् च ब्रह्मात्मदर्शनात् वियदादि-प्रपञ्चो व्यवस्थितरूपो भवति, सन्ध्याश्रयस्तु प्रपञ्चः प्रति-दिनं बाध्यत इत्यतो वैशेषिकं सन्ध्यस्य मायामात्रत्वमुदि-तम्” भा॰।
“पराभिध्यानात् तु तिरोहितं ततो ह्यस्यबन्धविपर्य्ययौ” सू॰।
“अथापि स्यात् परस्यैव तावदान-नोऽंशो जीवोऽग्नेरिव विस्फुलिङ्गः। तत्रैवं सतियथाऽग्निविस्फुलिङ्गयीः समाने दहनप्रकाशनशक्तीभवतः एवं जीवेरश्वयोरपि ज्ञानैश्वर्य्यशक्ती, ततश्चजीवस्यैश्वर्य्यवशात् साङ्कल्पिकी स्वप्ने रथादिसृष्टि-र्भविष्यतीति, अत्रोच्यते। सत्यपि जीवेश्वरयोरंशांशी-भावे प्रत्यक्षमेव जीवेश्वरविपरीतवर्मत्वं, किं पुनर्जी-[Page5380-a+ 38] वस्यैश्वरसमानधर्मत्वं नास्त्येव न नास्तीति, विद्यमान-मपि तु तत् तिरोहितं, अविद्यादिव्यवधानात्। तत्पुनस्तिरोहितं सत् परमेश्वरमभिध्यायतो यतमानस्यजन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतस्येव दृक्शक्तिरौषध-वीर्य्यादिवेश्वरप्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति नस्वभावत एव सर्वेषां जन्तूनां, कुतस्ततो हि ईश्वराद्धेतोरस्य जीवस्य बन्धमोक्षौ भवतः, ईश्वरस्य स्वरूपापरिज्ञानाद् बन्धः तत्स्वरूपपरिज्ञानात्तु मोक्षः। तथाच श्रुतिः
“ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैःक्लेशैर्जन्ममृत्युप्रहाणिः”। तस्याभिध्यानात् तृतीयं देह-भेदे विश्वैर्श्वर्य्यं केवल आप्तकामः” इत्येवमाद्या” भा॰।
“देहयोगाद् वा सोऽपि” सू॰।
“कस्मात् पुनर्जीवः परमा-त्मांश एव सन् तिरस्कृतज्ञानैश्वर्य्यो भवति युक्तन्तु ज्ञानै-श्वर्य्ययोरतिरस्कृतत्वं विस्फुलिङ्गस्वेव दहनप्रकाशयो-रिति। उच्यते सत्यमेवैतत्, सोऽपि तु जीवस्य ज्ञानैश्वर्य्यतिरोभावो देहयोगाद्देहेन्द्रियमनोबुद्धिविषयवेदना-नादियोगाद्भवति। अस्ति चात्रोपमा यथाग्नेर्दहन-प्रकाशनसम्पन्नस्याप्यरणिगतस्य दहनप्रकाशने तिरो-भवतः, यथा वा भस्मनाच्छन्नस्य, एवमविद्याप्रत्युपस्था-पितनामरूपकृतदेहाद्युपाधियोगात् तदविवेकभ्रमकृतोजीवस्य ज्ञानैश्वर्य्यतिरोभावः। वाशब्दो जीवेश्वरयोरन्य-त्वाशङ्काव्यावृत्त्यर्थः। नन्वन्थ एव जीव ईश्वरादस्तु तिर-स्कृतज्ञानैश्वर्य्यत्वात् किं देहयोगकल्पनया। नेत्युच्यते,न ह्यन्यत्वं जीवस्येश्वरादुपपद्यते
“सेयं देवतैक्षत” इत्यु-पक्रम्य
“अनेन जीवेनात्मनानुप्रविश्य” इत्यात्मशब्देनजीवस्य परामर्शात्।
“तत्सत्यं स आत्मा तत्त्वमसिश्वेतकेतो” इति च जीवस्योपदिशतीश्वरात्मत्वम्, अतोऽनन्य एवेश्वरात् जीवः सन् देहयोगात् तिरोहित-ज्ञानैश्वर्य्यो भवति, अतश्च न साङ्कल्पिकी जीवस्य स्वप्नेरथादिसृष्टिसिद्धिर्घटते! यदि च साङ्कल्पिकी स्वप्नेसृष्टिसिद्धिः स्यात् नैवानिष्टं कञ्चित् स्वप्नं पश्येत्। न हि कश्चिदनिष्टं सङ्कल्पयते। यत् पुनरुक्तं जागरितदेशश्रुतिः स्वप्नस्य सत्यत्वं ख्यापयतीति न तत्साम्यवचनंसत्यत्वाभिप्रायं स्वयंज्योतिष्ट्वविरोधात्, श्रुत्यैव च स्वप्नेरथाद्यभावस्य दर्शितत्वात्, जागरितप्रभववासनानिमित्त-त्वात् तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत्। तस्मा-दुपपन्नं स्वप्नस्य मायामात्रत्वम्”। स्वप्नभेदस्य शुभाशुभसूचकत्वं नानापुराणेषुक्तं तत्र दिङ-[Page5380-b+ 38] मात्रं मत्स्यपुराणे

२४

२ अध्याये उक्तमत्र प्रदर्श्यते यथा
“इदानीं कथयिष्यामि गिमित्तं स्वप्नदर्शने। नाभिंविनान्यगात्रेषु तृणवृक्षसमुद्भवः। चूर्णनं मूर्ध्नि कांस्यानांमुण्डनं नग्नता तथा। मलिनाम्बरधारित्वमभ्यङ्गःपङ्कदिग्धता। उच्चात् प्रपतनञ्चैव दोलारोहणमेव च। अर्जनं पक्वलोहानां हयानामपि मारणम्। रक्तपुष्प-द्रुमाणाञ्च मण्डलस्य तथैव च। वराहर्क्षखरोष्ट्राणांतथा च रोहणक्रिया। भक्षणं पक्वमांसानां तैलस्य कृस-रस्य च। नर्त्तनं हसनञ्चैव विवाहा गीतमेव च। तन्त्रीवाद्यविभिन्नानां वाद्यानामभिवादनम्। स्रोतो-ऽवगाहगमनं स्नानं गोमयवारिणा। पङ्कोदकेन चतथा महीतोयेन चाप्यथ। मातुः प्रवेशो जठरे चिता-रोहणमेव च। शक्रध्वजाभिपतनं पतनं शशिसूर्य्ययोः। दिव्यान्तरिक्षभौमानामुत्पातानाञ्च दर्शनम्। देवद्विजाति-भूपालगुरूणां क्रोध एव च। आलिङ्गनं कुमारीणांपुरुषाणाञ्च मैथुनम्। हानिश्चैव स्वगात्राणां विरेक-कवमनक्रिया। दक्षिणाशाभिगमनं व्याधिनाभिभवस्तथा। फलापहानिश्च तथा पुष्पहानिस्तथैव च। गृहाणाञ्चैवपातश्च गृहसम्भार्जनन्तथा। क्रीडा पिशाचक्रव्यादवान-रर्क्षनरैरपि। परादभिभवश्चैव तस्माच्च व्यसनोद्भवः। काषायवस्त्रधारित्वं तद्वत् स्त्रीक्रीडनन्तथा। स्नेहपाना-वगाहौ च रक्तमाल्यानुलेपनम्। एवमादीनि चान्यानिदुःस्वप्नानि विनिर्दिशेत्। एषां सङ्कथनं धन्यं भूयः प्रस्व-पनं तथा। कल्कस्नानं तिलैर्होमो व्राह्मणानाञ्चपूजनम्। स्तुतिश्च वासुदेवस्य तथा तस्यैव पूजनम्। नागेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्ननाशनम्। स्वप्नास्तु प्रथमेयामे संवत्सरविपाकिनः। षड्सिमांसैर्द्वितीये तु त्रि-मिर्मासैस्तृतीयके। चतुर्थे मासमात्रेण पश्यतो नात्रसंशयः। अरुणोदयवेलायां दशार्हन फलं भवेत्। एकस्यां यदि वा रात्रौ शुभं वा यदि वा शुभम्। पश्चाद् दृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत्। तस्मा-च्छोभनके स्वप्ने पश्चात् स्वप्नं न पश्यति। शैलप्रासादनागाश्ववृषभारोहणं हितम्। द्रुमाणां श्वेतपुष्पाणांगमने च तथा द्विज!। द्रुमतृणोद्भवो नाभौ तथैवबहुवाहुता। तथैव बहुशीर्षत्वं फलितोद्भव एव च। सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता। चन्द्रार्कता-राग्रहणं परिमार्जनमेव च। शक्रध्वजालिङ्गनञ्च तदु-च्छ्रायक्रिया तथा। भूम्यम्बुधीनां ग्रसनं शत्रूणाञ्च[Page5381-a+ 38] बधक्रिया। जयो विवादे द्यूते च संग्रामे च तथाद्विज!। भक्षणञ्चार्द्रमांसानां मत्स्यानां पायसस्य च। दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च। सुरारुधिर-मद्यानां पानं क्षीरस्य चाथ वा। अन्त्रैर्वा वेष्टनं भूमौनिर्मलं गमनं तथा। मुखेन दोहनं शस्तं महिषीणांतथा गवाम्। सिंहीनां हस्तिनीनाञ्च वडवानां तथैवच। प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा शुभः। अम्भसात्वभिषेकस्तु गवां शृङ्गाश्रितेन वा{??} चन्द्राद् भ्रष्टेन वाराजन्! ज्ञेयो राज्यप्रदो हि सः। राज्याभिषेकश्चतथाच्छेदनं शिरसस्तथा। मरणं वह्निदाहश्च वह्निदाहोगृहादिषु। लब्धिश्च राज्यलिङ्गानां तन्त्रीवाद्याभिवाद-नम्। तथोदकानां तरणं तथा विषमलङ्घनम्। हस्ति-नीबडवानाञ्च गवाञ्च प्रसवो गृहे। आरोहणमथा-श्वानां रोदनञ्च तथाशुभम्। वरस्त्रीणां तथालाभस्तथा-लिङ्गनमेव च। निगडैर्बन्धनं धन्यं तथा विष्ठानुलेप-नम्। जीवतां भूमिपालानां सुहृदामपि दर्शनम्। दर्शनंदेवतानाञ्च विमलानां तथाम्भसाम्। शुभान्यथैतानि नरस्तुदृष्ट्वा प्राप्नोत्ययत्नाद् ध्रुवमर्थलाभम्। स्वप्नानि वै धर्म-मृतां वरिष्ठ! व्याधेर्विमोक्षञ्च तथातुरोऽपि” आर्षं न॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वप्न¦ m. (-प्नः)
1. Sleep.
2. Dreaming, a dream.
3. Indolence, sleepi- ness. E. ष्वप् to sleep, न Una4di aff., तन् added.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वप्नः [svapnḥ], [स्वप्-भावे नक्]

Sleeping, sleep; अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् R.12.81;7.61;12.7; Ku. 2.8.

A dream, dreaming; स्वप्नेन्द्रजालसदृशः खलु जीवलोकः Śānti.2.2; स्वप्नो नु भाया नु मतिभ्रमो नु Ś.6.1; R.1.6.

Sloth, indolence, sleepiness; Ms.9.13;12.33.

The state of ignorance (?); भावाद्वैतं क्रियाद्वैतं तथात्मनः । वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः ॥ Baāg.7.15.62.-Comp. -अन्तिकम् consciousness in dream. -अवस्था a state of dreaming. -उपम a.

resembling a dream.

unreal or illusory (like a dream). -कर, -कृत् a. inducing sleep, soporific, narcotic. -गृहम्, -निकेतनम् a sleeping-room, bed-chamber; दुःखेन लोकः परवानिवागात् समुत्सुकः स्वप्ननिकेतनेभ्यः Bk.11.17. -ज a. dreamt. -तन्द्रिता languor produced by drowsiness. -दर्शनम् dreamvision. -दृश् a. dreaming. -दोषः involuntary seminal discharge, pollutio nocturna. -धीगम्य a. perceptible by the intellect only when it is in a state of sleep-like abstraction; रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् Ms.12. 122. -प्रपञ्चः the illusion of sleep, the world appearing in a dream. -विचारः interpretation of dreams. -शीलःa. disposed to sleep, sleepy, drowsy; न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जन Bg.6.16. -सृष्टिः f. the creation of dreams or illusions in sleep.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वप्न m. (once in R. n. ifc. f( आ). ; for स्व्-अप्नSee. p. 1281 , col. 1) sleep , sleeping RV. etc.

स्वप्न m. sleepiness , drowsiness Caurap.

स्वप्न m. sleeping too much , sloth , indolence Mn. ix , 13 ; xii , 33

स्वप्न m. dreaming , a dream( acc. with दृश्, " to See. a vision , dream ") RV. etc. etc.

स्वप्न/ स्व्-अप्न mfn. (for स्वप्नSee. p.1280)=next( accord. to some) RV. i , 120 , 12 ; viii , 2 , 18.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--dreams, bad and good; ceremonies must be performed for bad ones; after a bad dream, one must try to sleep for sometime; after a good dream one must try to be awake lest it should be followed by a bad one for the latter will generally come true. Dream had in the first of the four divisions of the night will come true in a year; that had in the second will come true in six months; that had in the third, will come true in three months and that had early in the morning will come true in १० days. M. २४२. 1-१९.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SVAPNA (DREAM) :

1) General information. One of the four states of mind.

2) Result of Svapna. The Indians believe that there are two kinds of dreams and that they have the power to suggest things going to happen in future. So Indian sages have classified dreams as good dreams and bad dreams.

Bad dreams:--

Seeing the following in dream is bad.

(1) Grass and trees have grown all over the body except the navel. (2) The dust of bronze was sprinkled on the head (3) The head was completely shaved. (4) One (the dreamer) had been nude. (5) He (the dreamer) had worn dirty clothes (6) He had applied oil on the body. (7) One is smeared with mud. (8) He had fallen from a higher level to a lower level. (9) He had married. (10) He had sung songs. (11) He had amused himself by playing a lute etc. (12) He had got on a swing (13) He had obtained lotus flower and metals. (14) He had killed serpents. (15) He had climbed on trees with red flowers or on the back of low caste people, hog, dog, ass, or camel. (16) He had eaten flesh of birds or sesame oil or oil-cake. (17) He had entered the womb of his mother. (18) He had got on a funeral Pyre. (19) The flag post of Indra had been broken down. (20) The Sun and the Moon had fallen down. (21) The gods, Brahmins, Kings or teachers have been angry. (22) Stars or planets have fallen. (23) He had engaged himself in dance or play- ing musical instruments or singing. (24) He had played musical instruments except the lute (Vīṇā). (25) He had been carried down by the current of a river. (26) He had taken bath in muddy water or cowdung water or Ink. (27) He had embraced virgins. (28) He had engaged in pederasty. (29) Limbs of the body were damaged. (30) He had vomited and passed excre- ments. (31) He had gone to the south. (32) He had caught disease. (33) Fruits have been destroyed (34) Cleavages occurred in minerals. (35) The house was covered with dust. (36) He had swept the house clean. (37) He had played with devils or cruel animals or monkeys or low caste people. (38) Had suffered molestation and hurts from enemies. (39) He had worn hermit's coloured cloth or play- ed with coloured clothes. (40) He drank oil and got immersed in water. (41) He has worn blood- coloured garland and cosmetics.

If the dreams mentioned above are seen it should not be mentioned to anybody. After the dream, either he should sleep again or take bath. To counteract the effects of bad dreams, do one of the following such as offering sesame as oblation in fire; worship- ping Viṣṇu or Śiva, or the Sun or Gaṇeśvara; sing- ing hymns of praise; reciting sūktas (verses) such as Puruṣasūkta etc. The dreams seen in; the first watch of the night will come into effect within one year; dreams seen in the second watch of the night will take effect within six months; those seen in the third watch of the night will take effect within three months and those seen in the fourth watch of the night will take effect within half a month and those seen at dawn will be realized within ten days. If a bad dream and a good dream are seen in one night, the last one will take effect. So it is better not to sleep any more in the night after seeing a good dream.B. Good dreams. Seeing that

(1) he has climbed on a mountain or the upper storey of a building, or on the back of an elephant, or horse, or bull or on the top of trees having white flowers, or in the sky. (2) grass has grown in the loins. (3) several heads have grown. (4) hair is turned grey or adorned with white flowers. (5) one is wearing white cloth. (6) he has caught the Moon, or the Sun or the stars and patted them. (7) one has embraced the flag of Indra or hoisted the flag of Indra. (8) held the earth and fountain. (9) one has attacked the enemies. (10) he has won a controversy, or gambling or a battle. (11) he has eaten raw flesh or pudding. (12) one has bathed in blood. (13) one has drunk Surā (liquor) or blood or milk. (14) one has handled weapons. (15) the sky is clear. (16) drank the milk of cow, buffalo- lioness, elephant or mare, by mouth as their calves do. (17) one got blessings from the gods, or Brahmins, or teachers. (18) one is anointed with water in the horn of cow or water oozed from the lunar region, or anointed as the ruler of a kingdom. (19) the head is wounded or he himself was dead. (20) houses etc. have caught fire. (21) one received the emblems of kings. (22) he has played the instrument lute. (23) a king or elephant or horse or gold or an ox or a cow comes before.

If at the end of the dream he is seen as having climbed on the back of an ox or an elephant or on the top of a house or a mountain or a tree, or as having smeared ghee or excrement on the body or gone to a prohibited woman, or seen white cloth, clear water, tree with fruits, or a clear sky, it forebodes good future. (Agni Purāṇa, Chapter 229).


_______________________________
*6th word in right half of page 777 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svapna, ‘dream,’ is referred to in the Rigveda[१] and later.[२] Evil dreams[३] are often mentioned. The Āraṇyakas of the Rigveda[४] contain a list of dreams with their signification, as well as of pratyakṣa-darśanāni, ‘sights seen with one's own eyes.’

  1. ii. 28, 10;
    x. 162, 6.
  2. Av. vii. 101, 1;
    x. 3, 6;
    Vājasaneyi Saṃhitā, xx. 16;
    Śatapatha Brāhmaṇa, iii. 2, 2, 23, etc.
  3. Rv. ii. 28, 10;
    Av. x. 3, 6.
  4. Aitareya Āraṇyaka, iii. 2, 4;
    Śāṅkhāyana Āraṇyaka, xi. 3. Cf. Kauśika Sūtra, xlvi. 9 et seq.;
    Atharvaveda Pariśiṣṭa, lxviii.
"https://sa.wiktionary.org/w/index.php?title=स्वप्न&oldid=505919" इत्यस्माद् पुनः प्राप्तिः