उदान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदानः, पुं, (उदूर्द्धेन आनिति अनेन । उत् + आङ् + अन् + घञ् ।) कण्ठस्थवायुः । इत्यमरः ॥ तस्य कर्म्म ऊर्द्ध्वनयनम् । इति श्रीधरस्वामी ॥ (यथा, सङ्गीतरत्नाकरे, १ । ६४ । “उदानः पादयोरास्ते हस्तयोरङ्गसन्धिषु । कर्म्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्त्तितम्” ॥) “ऊर्द्ध्व गमनवान् कण्ठस्थानीयोत्क्रमणवायुः” । इति वेदान्तः ॥ (तथा चोक्तम् । “हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे स्यात् व्यानः सर्व्वशरीरगः” ॥ “उदानो नाम यस्तूर्द्धमुपैति पवनोत्तमः” । इति महाभारते वनपर्ब्बणि ॥ प्रकुपितोदानस्य लक्षणं यथा । “हिक्का श्वासः परिश्वासः कासः शोषार्त्तिघण्टिकाः । हृल्लासो हृदि शूलञ्च यकृद्वातादिका वमिः । क्षवथुर्जृम्भणञ्चैव तथा वैस्वर्य्यपीनसौ ॥ अरुचिश्च प्रतिश्याय एते प्रोक्ता उदानतः । उदानः श्लेष्मसंयुक्तो दोषात् हृदि प्रकुप्यति” ॥ इति चिकित्सितस्थाने २१ अध्याये हारीते- नोक्तम् ॥ * ॥ “उदानः क्षवथूद्गारच्छर्द्दिनिद्रावधारणैः । गुरुभारातिरुदितहास्याद्यैर्विकृतो गदान् ॥ कण्ठरोधमनोभ्रंशच्छर्द्द्यरोचकपीनसान् । कुर्य्याच्च गलगण्डादींस्तांस्तान् जत्रूर्द्ध्वसंश्रयान्” । इति निदानस्थाने षोडशेऽध्याये वाभटेनोक्तम् ॥ * ॥ अस्य स्थानं कार्य्यञ्च यथा ॥ “उदानस्य पुनः स्थानं नाभ्युरःकण्ठ एव च । वाक्प्रवृत्तिः प्रयत्नोर्ज्जो बलवर्णादि कर्म्म च” ॥ इति चिकित्सास्थाने २८ अध्याये चरकेणोक्तम् ॥ “उदानो नाम यस्तूर्द्ध्वमुपैति पवनोत्तमः ॥ तेन भाषितगीतादिविशोषोऽभिप्रवर्त्तते । ऊर्द्ध्वजत्रुगतान् रोगान् करोति च विंशेषतः” ॥ दोषान्तरगतस्यास्य लक्षणं यथा ॥ “उदाने पित्तसंयुक्ते मूर्च्छादाहभ्रमक्लमाः । अस्वेदहर्षौ मन्दाग्निः शीतस्तम्भौ कफावृते” ॥ इति निदानस्थाने प्रथमेऽध्याये सुश्रुतेनोक्तम् ॥ उदरावर्त्तः । नाभिः । सर्पविशेषः । इति मेदिनी ॥ पक्ष्म । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदान पुं।

शरीरवायुः

समानार्थक:प्राण,अपान,समान,उदान,व्यान,सत्त्व

1।1।63।3।4

नभस्वद्वातपवनपवमानप्रभञ्जनाः। प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः। प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः। अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम्. भाषणादि निमेषादि तद्व्यापाराः क्रमादमी॥

पदार्थ-विभागः : , द्रव्यम्, वायुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदान¦ पु॰ अन--घञ् ऊर्द्ध्वमानोऽस्य। ऊर्द्ध्वगतिशीलेकण्ठादिदेशवर्त्तिनि प्राणवृत्तिभेदे वायौ।
“अथ योऽ-स्योर्द्धसुषिः सौदानः स वायुः सआकाशः” छा॰ उ॰।
“आपादतलादारभ्योर्द्ध्वमुत्क्रमात् उत्कर्षार्थञ्च कर्म्म कुर्व-न्निति उदानः” छा॰ उप॰ भा॰। पदार्थादर्शे योगार्ण्णवेतत्स्थानाद्युक्तम्
“स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपनः। उद्वेजयति मर्म्माणि उदानो नाम मारुतः। विद्युत्पाव-कवर्ण्णः स्यादुत्थानासनकारकः। पादयोर्हस्तयोश्चापि सर्व-सन्धिषु वर्त्तते”। सुश्रुते च
“यथाग्निः पञ्चघा भिन्नो नाम-स्थानात्मकर्म्मभिः। भिन्नोऽनिलस्तथा ह्येको नामस्थानक्रि-योमयैः। प्राणोदानौ समानश्च व्यानश्चापान एव च। स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम्। वायुर्य्योवक्त्रसञ्चारी स प्राणो नाम देहधृक्। सोऽन्नं प्रवेशयत्यन्तःप्राणांश्चाप्यवलम्बते। प्रायशः कुरुते दुष्टो हिक्काश्वा-सादिकान् गदान्। उदानो नाम यस्तूर्द्ध्वमुपैति पवनो-त्तमः। तेन भाषितगीतादिविशोषोऽभिप्रवर्त्तते। ऊर्द्ध्व-जत्रुगतान् रोगान् करोति च विशेषतः। आमपक्वा-शयचरः समानी वह्निसङ्गतः। सोऽन्नं पचति तज्जांश्चविशेषान्विविनक्ति हि। गुल्माग्निसङ्गातीसारप्रभृतीन्-कुरुते गदान्। कृत्स्नदेहचरो व्यानो रससंवहनो-द्यतः। स्वेदासृक्स्रावणो वापि पञ्चधा चेष्टयत्यपि। क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान्। पक्वा-धानालयो ऽपानः काले कर्षति चाप्ययम्। समीरणःसकृन्मूत्रशुक्रगर्भार्त्तवान्यधः। क्रुद्धश्च कुरुते रोगान्-घोरान् वस्तिगुदाश्रयान्। शुक्रदोषप्रमेहास्तु व्यानापान-प्रकोपजाः। युगपत्कुपिताश्चापि देहं भिन्द्युरसंशयम्” छान्दोग्ये च भोजनस्याग्निहोत्रस्थानीयतया सम्पादनेनप्राणादिपञ्चकाहुतेर्नित्यं कर्त्तव्यता तत्फलञ्चोक्तम् यथा।
“उरएव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वा-हार्य्यपचन आस्यमाहवनीय इत्युपक्रम्य”। (तद्भाष्ये चआस्यस्य हूयतेऽस्मिन्नन्नमित्याहवनीयत्वमुक्तम्) आहु-तिप्रकारः फलसहितो दर्शितो यथा। [Page1162-b+ 38]
“तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामांहुतिंजुहुयात्तां जुहुयात् प्राणाय स्वाहेति प्राणस्तृप्यति, प्राणतृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यत्यादित्येतृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चा-दित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजयापशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति

१ । अथ यां द्वितीयांजुहुयात्तां जुहुयाद्व्यानाय स्वाहेति व्यानस्तृप्यति, व्यानेतृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यतिचन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्चदिशश्च चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यति तस्यानुतृप्तितृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति

२ । अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेत्य-पानस्तृप्यति, अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्या-मग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यांतृप्यन्त्यां यत्किञ्च पृथिवी चाग्निश्चाघितिष्ठतस्तत्तृप्यतितस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसाब्रह्मवर्चसेनेति

३ । अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति, समाने तृप्यति मनस्तृ-प्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्यु-त्तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युच्च पर्जन्यश्चाधि-तिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्ना-द्येन तेजसा ब्रह्मवर्चसेनेति

४ । अथ यां पञ्चमीं जुहु-यात्तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति, उदाने तृ-प्यति वायुस्तृप्यति वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यतियत्किञ्च वायुश्चाकाशश्चाघितिष्ठतस्तत्तृप्यति तस्यानुतृप्तितृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसे-नेति

५ । स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारा-नपोह्य भस्मनि जुहुयात्तादृक् तत्स्यात्। अथ य एत-देवंविद्वानग्निहोत्रं जुहोति तस्य सर्व्वेष लोकेषुसर्व्वेषु भूतेषु सर्व्वेष्वात्मसु हुतं भवति। तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्व्वेपाप्मानः प्रदू-यन्ते य एतदेवंविद्वानग्निहोत्रं जुहोति। तस्मादुहैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हेवास्यतद्वैश्वानरे हुतं स्यादिति तदेष श्लोकः। यथेह क्षु-धिता बाला मातरं पर्थ्युपासते। एवं सर्व्वाणि भूतान्यग्नि-होत्रमुपासत इत्यग्निहोत्रमुपासत इति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदान¦ m. (-नः)
1. One of the five vital airs, that which rises us the throat and passes into the head.
2. The navel.
3. A snake.
4. An eye-lash. E. उद् above, आङ prefixed to अण to breathe, to be, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदान [udāna], See under 1. उदन्.

उदानः [udānḥ], [अन्-घञ्]

Breathing upwards.

Breathing, breath in general.

One of the five vital airs or life-winds which rises up the throat and enters into the head); the other four being प्राण, अपान, समान and व्यान; स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपनः । उद्वेजयति मर्माणि उदानो नाम मारुतः ॥

(With Buddhists) An expression of praise or joy.

The navel.

An eye-lash.

A kind of snake.

2. उदन् n. [उन्द्-कनिन् P.VI.1.63] Water (usually occurring in compounds either at the beginning or at the end, and as an optional substitute for उदक after the acc. dual. It has no forms for the first five inflections. In comp. it drops its न्); e. g. उदधि, अच्छोद, क्षीरोद &c. -Comp. -आशयः A lake, tank; शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा Bhāg.1.31.2.-ओदनः water-meal. -कीर्णः-र्यः N. of a tree (महाकरंज) the bark of which is rubbed and thrown in water to stun the fishes). -कुम्भः a water-jar; Ms.2.182,3.68. तपःकृशः शान्त्युदकुम्भहस्तः Bk. -ग्राभः Holding water, a cloud (Ved.) उदग्राभस्य नमयन् वधस्नैः Rv.9.97.15.-कोष्ठः A water-jar. -ज a. aquatic, watery, produced in or by water. -जम् A lotus; एतद्धृषीकचषकैरसकृत्पिबामः शर्वादयो$ङजमध्वमृतासवंध्ऱ्यु ते Bhāg.1.14.33. -धानः [उदकं धीयते अत्र]

a cloud. -धिः [उदकानि धीयन्ते$त्र धा-कि उदादेशः]

the receptacle of waters, ocean; उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् R.8.8.

a cloud.

a lake, any large reservoir of water.

a symbolical expression for the number 4 or 7. ˚कन्या, तनया, सुता Lakṣmī, the daughter of the ocean (produced from the ocean among the 14 jewels). ˚क्रमः, -क्राः m. a voyager, mariner. ˚मलः

cuttle-fish-bone.

the foam of the ocean. ˚मेखला or ˚वस्त्रा the earth (girdled by the ocean, sea-girt). ˚राजः the king of waters, i. e. the chief ocean. ˚संभवम् sea-salt. ˚सुता N. of Lakṣmī; and of Dvārakā, the capital of Kṛiṣṇa (said to have been reclaimed from the ocean). -नेमि a. Rimmed by the ocean. -प a. crossing the water (as a boat).-पात्रम्, -त्री a water-jug, vessel; Ms.3.96. -पानः, -नम् a small pool or pond near a well, or the well itself; K.5. यावानर्थ उदपाने सर्वतः संप्लुतोदके Bg.2.46. ˚मण्डूकः (lit.) a frog in a well; (fig.) one who has had no experience of the world at large, a man of limited ideas who knows only his own neighbourhood; cf. कूपमण्डूक. -पीतिः f. A place for drinking water. -पेषम् a paste, anything ground with water. (-पम्) ind. P.III.4.38 and P.VI.3.28. by grinding in water. -प्रुत् a. Ved. causing water to flow; swimming or splashing in water (?). -प्लवः Waterflood (जलप्रलय); Bhāg 12.4.13. (v. l. for उपप्लव). -प्लुत a. swimming in water. उदप्लुतमिव दार्वहीनाम् Av.1.4.3.-बिन्दुः a drop of water; (प्रपेदिरे) चिरेण नाभि प्रथमोद- बिन्दवः Ku.5.24.

भारः a water-carrier, i. e. a cloud.

Water current (पूर); यमस्वसुश्चित्र इवोदभारः (रराज) Śi.3.11. -मन्थः barley-water; a particular mixture; Mb.13.64.26. -मानः, -नम् a fiftieth part of an आढक q. v.

मेघः a watery cloud.

a shower of rain; तुग्रो ह भुज्युमश्विनोदमेघे Rv.1.116.3.-मेहिन् a. Having watery urine or diabetes. -लाव- णिक a. salted, prepared with brine, briny.

वज्रः a thunder shower; water-spout.

thunderbolt in the form of water; भिन्दानो हृदयमसाहि नोदवज्रः Śi.8.39. -वाप one who offers waters to the manes. -वासः standing or residence in water; सहस्यरात्रीरुदवासतत्परा Ku.5.26. (-सम्) a house on the borders of a stream or pond.-वासिन् a. standing in water; K.23. -वाह a. bringing water; दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन Rv.1.38.9. (-हः) a cloud.

वाहनम् a water-vessel.

A cloud.-वावधः a yoke for carrying water. -शरावः a jar filled with water; उदशराव आत्मानवेक्ष्य. -शुद्धः a water-jar.-श्वित् n. [उदकन जलेन श्वयति] butter-milk containing fifty per cent water; (i. e. 2 parts of butter-milk and 1 part of water); श्रेयस्तैलं हि पिण्याकाद् घृतं श्रेय उदश्वितः Mb.12.167.35.

स्थानम् a place full of water.

residence in water. -स्थाली a kettle, vessel for holding water. -हरणः a vessel for drawing water. -हार a. fetching or carrying water. (-रः) a cloud (watercarrier).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदान/ उद्-आन m. breathing upwards

उदान/ उद्-आन m. one of the five vital airs of the human body (that which is in the throat and rises upwards) Veda1ntas. 97 AV. xi , 8 , 4 VS. ChUp. S3Br. MBh. Sus3r. etc.

उदान/ उद्-आन m. the navel L.

उदान/ उद्-आन m. an eyelash L.

उदान/ उद्-आन m. a kind of snake L.

उदान/ उद्-आन m. joy , heart's joy( Buddh. )

उदान/ उद्-आन See. 2. उद्-अन्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a vital air. भा. II. 2. २०; IV. 4. २५.
(II)--a तुषित god. Br. III. 3. १९; वा. ६६. १८. [page१-224+ २६]
(III)--the name of the १३थ् कल्प। M. २९०. 6.
(IV)--a mindborn son of ब्रह्मा in the २१स्त् कल्प। वा. २१. ४७.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Udāna is usually the fifth of the vital breaths (Prāṇa) when five are enumerated.[१] Sometimes[२] it appears as the second, coming after Prāṇa, and followed by Vyāna or Samāna. Again,[३] it is found simply opposed to Prāṇa, or it simply follows Prāṇa and Apāna.[४] In the Śatapatha Brāhmaṇa[५] it is treated as the breath that consumes food, a notion traceable in the later Upaniṣads,[६] while it is also regarded as the wind that rises up by the throat,[७] and leads the spirit forth at death.[८]

  1. E.g., Maitrāyaṇī Saṃhitā, iii. 12, 9;
    Kāṭhaka Saṃhitā, v. 4;
    10;
    Śatapatha Brāhmaṇa, ix. 2, 2, 5;
    xi. 8, 3, 6 (in the order Prāṇa, Vyāna, Apāna, Udāna, Samāna);
    Bṛhadāraṇyaka Upaniṣad, i. 5, 3;
    iii. 4, 1 (Samāna is omitted);
    iii. 9, 26;
    Chāndogya Upaniṣad, iii. 13, 5;
    v. 23, 1. 2;
    Aitareya Āraṇyaka, ii. 3, 3, etc.
  2. Vājasaneyi Saṃhitā, i. 20;
    vii. 27;
    Śatapatha Brāhmaṇa, ix. 4, 2, 10, etc. (with Vyāna);
    Aitareya Brāhmaṇa, i. 7, 2 (with Samāna).
  3. Vājasaneyi Saṃhitā, vi. 20;
    Śatapatha Brāhmaṇa, iv. 1, 2, 2;
    ix. 2, 4, 5, etc.
  4. Śāṅkhāyana Āraṇyaka, viii. 8;
    xi. 1.
  5. xi. 2, 4, 5.
  6. Maitrāyaṇī Upaniṣad, ii. 6.
  7. Amṛtabindu Upaniṣad, 34.
  8. Praśna Upaniṣad, iii. 7. Cf. Deussen, Philosophy of the Upaniṣads, 280.
"https://sa.wiktionary.org/w/index.php?title=उदान&oldid=492570" इत्यस्माद् प्रतिप्राप्तम्