सामग्री पर जाएँ

प्राण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणः, पुं, (प्राणिति जीवति बहुकालमिति । प्र + अन + अच् । प्राणित्यनेनेति करणे घञ् वा ।) ब्रह्मा । इति त्रिकाण्डशेषः ॥ हृन्मा- रुतः । (यदुक्तम् । “हृदिप्राणो गुदेऽपानः समानो नाभिसंस्थितः ॥”) वोलः । काव्यजीवः । अनिलः । बलम् । (यथा, हरिवंशे । ८६ । ३६ । “बाहुप्राणेन शूराणां समाजोत्सवसन्निधौ ॥”) पूरिते, त्रि । इति मेदिनी ॥ सूक्ष्मशरीरसम- ष्ट्युपहितचैतन्यम् ॥ प्राग्गमनवान् नासाग्रस्थान वर्त्ती वायुः । इति वेदान्तसारः ॥ तस्य कर्म्मबहिर्गमनम् । इति श्रीधरस्वामी ॥ तस्य रूपं स्थानानि च यथा, -- “इन्द्रनीलप्रतीकाशं प्राणरूपं प्रकीर्त्तितम् । आस्यनासिकयोर्म्मध्ये हृन्मध्ये नाभिमध्यगे ॥ प्राणालय इति प्राहुः पादाङ्गुष्ठेऽपि केचन ॥” इति योगार्णवः ॥ (यथा, महाभारते । १२ । ३२८ । ३५ । “प्राणिनां सर्व्वतो वायुश्चेष्टां वर्त्तयते पृथक् । प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते ॥”) पञ्चप्राणविवरणं बहुवचनान्तप्राणशब्दे द्रष्ट व्यम् ॥ धातुः पुत्त्रः । यथा, -- “आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः । भार्य्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ ॥ प्राणश्चैव मृकण्डुश्च पिता मम महायशाः ॥” इति मार्कण्डेये रुद्रसर्गाध्यायः ॥ (धरपुत्त्रविशेषः । यथा, मत्स्यपुराणे । ५ । २३-२४ । “द्रविणो हव्यवाहश्च नरपुत्त्रावुभौ स्मृतौ । कल्यानिन्यां ततः प्राणो रमणः शिशिरोऽपि च ॥ मनोहरा धरात् पुत्त्रानवापाथ हरेः सुता ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राण पुं।

शरीरवायुः

समानार्थक:प्राण,अपान,समान,उदान,व्यान,सत्त्व

1।1।63।3।1

नभस्वद्वातपवनपवमानप्रभञ्जनाः। प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः। प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः। अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम्. भाषणादि निमेषादि तद्व्यापाराः क्रमादमी॥

पदार्थ-विभागः : , द्रव्यम्, वायुः

प्राण पुं।

सामर्थ्यम्

समानार्थक:द्रविण,तरस्,सहस्,बल,शौर्य,स्थामन्,शुष्म,शक्ति,पराक्रम,प्राण

2।8।102।2।3

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च। शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

प्राण पुं।

पञ्चवायवः

समानार्थक:असु,प्राण

2।8।119।2।2

प्रग्रहोपग्रहौ बन्द्यां कारा स्यात्बन्धनालये। पूंसि भूम्न्यसवः प्राणाश्चैवं, जीवोऽसुधारणम्.।

पदार्थ-विभागः : , द्रव्यम्, वायुः

प्राण पुं।

गन्धरसः

समानार्थक:बोल,गन्धरस,प्राण,पिण्ड,गोप,रस

2।9।104।2।3

गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु। वोलगन्धरसप्राणपिण्डगोपरसाः समाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राण¦ पु॰ प्र + अण--करणे घञ्।

१ ब्रह्मणि त्रिका॰
“अतएवप्राणः” शा॰ सू॰

१ ।

२ ।

१२ अतएव तल्लिङ्गात् प्राणशब्देनब्रह्मैव तथा हि
“सर्वाणि हवा इमानि भूतानि प्राण-मेवाभिसंविशन्ति प्राणमभ्युज्जिहते” इति छन्दो॰ उ॰। सर्वभूतोत्पत्तिप्रलयहेतुरूपलिङ्गात् ब्रह्मण एव प्राणशब्दवाच्यता

१ ।

१ ।

१२ सूत्रभाष्ये दृश्यम्।

२ पञ्चवृत्तिकेदेहस्थे वायौ

३ बोले काव्यजीवने

४ रस

५ अनिले

६ बले च

७ पूरिते त्रि॰ मेदि॰।

८ सूक्ष्मदेहसमष्ट्युप-हितचैतन्ये पु॰ वेदान्तसा॰।

९ प्राणोपाधिके जीवे
“प्राणीह माता प्राणः पितेति” श्रुतिः। भावे घञ्।

१० जीवने च नासाग्रवर्त्तिनि प्रागननवति

१२ वायौ
“तस्य कर्म नासाग्रतो बहिर्गतिः” श्रीधरस्वामीः। देहस्थःपञ्चवृत्तिकः वायुश्च प्राणापानसमानोदानव्यानरूपः तत्रार्थेब॰ व॰। तेषां स्वरूपादि शा॰ ति॰ व्या॰ योगार्णवे उक्तं यथा
“इन्द्रनीलप्रतीकाशं प्राणरूपं प्रकीर्त्तितम्। आस्यना-सिकयोर्मध्ये हृन्मध्ये नाभिमध्यगे। प्राणालय इतिप्राहुः पादाङ्गुष्ठेऽपि के चन। अपानयत्यपानोऽयमा-हारं च मलार्पितम्। शुक्रं मूत्रं तथोत्सर्गमपानस्तेनमारुतः। इन्द्रगोपप्रतीकाशः सन्ध्याजलदसन्निभः। स च मेढ्रे च पायौ च ऊरुवङ्क्षक्षणजानुषु। जङ्घोदरेकृकाट्यां च नाभिमूले च तिष्ठति। व्यानोध्यानयतेचान्नं सर्वव्याधिप्रकोपनः। महारजनसप्रख्यो हानो-पादानकारकः। स चाक्षिकर्णयोर्मध्ये कट्योर्वै गुल्फ-योरपि। प्रोष्ठस्थाने स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम्। स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपनः। उद्वेजयति म-र्माणि उदानो नाम मारुतः। विद्युतपाकसवर्णः स्यादु-च्छूनाशनकारकः। प्यदयोर्हस्तयोश्चापि ततसन्धिषु चवर्त्तते। पीतं भक्षितमाघ्रातं रक्तपित्तकफानिलात्। समं नयति गात्राणि समानो नाम मारुतः। गोक्षीरसदृशाकारः सर्वदेहे व्यवस्थितः”। स च सांख्यमतेइन्द्रियाणां सामान्यकरणवृत्तिरूपः न तु वायुविकारःयथोक्तं सां सू॰ प्र॰ भा॰(
“सामान्यकरणवत्तिः प्राणाद्या वायवः पञ्च” सू॰।
“प्राणादिरूपाः पञ्च वायुवत्सञ्चारात् वायवो ये प्रसिद्धास्तेसामान्था साधारणी करणस्यान्वःकरणत्रयस्य वृत्तिःपरिणामभेदा इत्यर्थः। तदेतत् कारिकयोक्तम्।
“स्वा-लक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या। सामान्थकर-[Page4509-a+ 38] ष्णवृत्तिः प्राणाद्या वायवः पञ्चः”। इति अत्र कश्चित् प्रा-णाद्या वायुविशेषा एव ते चान्तःकरणवृत्त्या जीवनयोनिप्रयत्नरूपया व्याप्रियन्त इति कृत्वा प्राणाद्याअन्तः-करणवृत्तिरित्यभेदनिर्देश इत्याह। तन्न।
“न वायुक्रियेपृथगुपदेशादिति” वेदान्तसूत्रेणप्राणस्य वायुत्ववायुपरि-णामत्वयोः स्फुटं प्रतिषेधादत्रापि तदेकवाक्यतौचि-त्यात् मनोधर्मस्य कामादेः प्राणक्षोभकतया सामा-नाधिकरण्येनैवौचित्याच्च। वायुप्राणयोः पृथगुपदेशश्रुतयस्तु
“एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। स्वं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी” इत्याद्याः। अतएव लिङ्गशरीरमध्ये प्राणानामगणनैऽपि नन्यूनता बुद्धेरेव क्रियाशक्त्या सुत्रात्मप्राणादिनामक-त्वादिति। अन्तःकरणपरिणामेऽपि वायुतुल्यसञ्चारवि-शेषाद्वायुदेवताधिष्ठितत्वाच्च वायुव्यवहारोपपत्तिरिति” प्र॰ भा॰।

१२ इन्द्रियस्थाने
“सप्त शिरसि प्राणाः प्राणाःइन्द्रियाणि” ताण्ड्य॰ ब्रा॰

१ ।

१५ ।


“सप्त शीर्षण्याःप्राणाः मुखं नासिके अक्षिणी इन्द्रियाधिष्टानत्वात्” भा॰।

१३ घ्राणे ग्रहशब्दे

२७

४६ पृ॰ सू॰।

१४ दे-हस्थच्छिद्रे चतत्र प्राणीत्पत्तिमभिधाय तस्य गौणमुख्यभावः संख्या-विशेषावधारणम् इन्द्रियसामान्यवृत्तितो भेदादिकञ्चशा॰ सू॰ भा॰

२ ।

४ पादे समर्थितं यथा
“सप्त गतेर्विशेषितत्वाच्च” सू॰
“उत्पत्तिविषयः श्रुतिविप्र-तिषेधः प्राणानां परिहृतः, संख्याविषय इदानीं परि-ह्रियते। तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति। सम्प्रति तुकतीतरे प्राणा इति सम्प्रधारयति। श्रुतिविप्रतिपत्ते-श्चात्र विशयः। क्वचित् सप्त प्राणाः सङ्कीर्त्त्यन्ते
“सप्तप्राणाः प्रभवन्ति तस्मात्” इति। क्वचिदष्टौ प्राणा ग्र-हत्वेन गुणेन सङ्कीर्त्त्यन्ते
“अष्टौ ग्रहा अष्टावतिग्रहाः” इति, क्वचिन्नव
“सप्त वै शीर्षण्याः प्राणा द्वाववाञ्ची” इति। क्वचिद्दश
“नव वै पुरुषे प्राणा नाभिर्दशमा” इति। क्वचिदेकादश
“दशेमे पुरुषे प्राणा आत्मैका-दशः” इति। क्वचिद्द्वादश
“सर्वेषां स्पर्शानां त्वगेकायं-तनम्” इत्यत्र। क्वचित्त्रयोदश
“चक्षुश्च द्रष्टव्यञ्च” इत्यत्र। एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः। किंतावत् प्राप्तं सप्तैव प्राणा इति। कतः गतेः, यत-स्तावन्तोऽवगम्यन्ते
“सप्त प्राणाः प्रभवन्ति तस्मात्” इत्येवंविधासु श्रुतिषु। विशेषिताश्चैते
“सप्त वै शी-[Page4509-b+ 38] र्षण्याः प्राणाः” इत्यत्रं। ननु
“गुहाशया निहिताःसप्त सप्त” इति वीप्सा श्रूयते, सा सप्तम्योऽतिरिक्तान्प्राणान् गमयतीति। नैष दोषः, पुरुषभेदाभिप्रायेयंवीप्सा प्रतिपुरुषं सप्त सप्त प्राणा इति न तत्त्वभे-दाभिप्राया सप्त सप्तान्येऽन्ये प्राणा इति। नन्वष्टत्वा-दिकापि संख्या प्राणषूदाहृता कथं सप्तैव स्युः। सत्य-मुदाहृता विरोधात्त्वन्यतमा संख्याध्यवसातव्या, तत्रस्तोककल्पनोपरोधात् सप्तसंख्याध्यवसानं वृत्तिभेदापेक्षञ्चसङ्ख्यान्तरश्रवणमिति गम्यते। अत्रोच्यते” भा॰
“ह-स्तादयस्तु स्थितेऽतो नैवम्” सू॰
“हस्तादयस्त्वपरे सप्त-भ्योऽतिरिक्ताः प्राणाः श्रूयन्ते,
“हस्तो वै ग्रहः सकर्मणातिग्र्हेण गृहीतः, हस्ताभ्यां हि कर्म करोति” इत्येवमाद्यासु श्रुतिषु। एवं स्थिते च (अष्टादिसंख्यत्वे)सप्तत्वमन्तर्भावाच्छक्यते सम्भावयितुम्। हीनाधिक-सङ्ख्याविप्रतिपत्तौ ह्यधिका सङ्ख्या संग्राह्या भवति,तस्यां हि हीनान्तर्भवति, न तु हीनायामधिका। अतश्च नैवं मन्तव्यं स्तोककल्पनानुरोधात् सप्तैव प्राणाःस्युरिति। उत्तरसङ्ख्यानुरोधात्त्वेकादशैव ते प्राणाःस्युः। तथा चोदाहृता श्रुतिः
“दशेमे पुरुषे प्राणाआत्मैकादशः” इति। आत्मशब्देन चात्रान्तःकरणंपरिगृह्यते करणाधिकारात्। ननु एकादशत्वादप्य-धिके द्वादशत्वयोदशत्वे उदाहृते, न त्वेकादशभ्यःकार्यजातेभ्योऽधिकं कार्यजातमस्ति यदर्थम् अधिकंकरणं कल्प्येत। शब्दस्पर्शरूपरसगन्धविषयाः पञ्चबुद्धिभेदास्तदर्थानि पञ्च बुद्धिन्द्रियाणि, वचनादान-विहरणोत्सर्गानन्दाः पञ्च कर्मभेदास्तदर्थानि च पञ्च क-र्मेन्द्रियाणि, सर्वार्थविवयं त्रैकाल्यवृत्ति मन एकमनेक-वृत्तिकं तदेव वृत्तिमेदात् क्वचिद्भिन्नवद्व्यपदिश्यते
“मनोबुद्धिरहङ्कारश्चित्तञ्च” इति। तथा च श्रुतिः कामाद्यानानाविधा वृत्तीरनुक्रम्याह
“एतत् सर्वं मन एव” इति। अपि च सप्तिव शीर्षण्यान् प्राणानभिमन्यमा-नस्य चत्वार एव प्राणा अभिमताः स्युः स्थानभेदा-द्ध्येते चत्वारः सन्तः सप्त गण्यन्ते,
“द्वे श्रोत्रे द्वे च-त्तुषी द्वे नासिके एका वाक्” इति। न च तावतामेववृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुं हस्तादि-वृत्तीनामत्यन्तविजातीयत्वात्। तथा
“नव वै पुरुषेप्राणा नाभिर्दशभी” इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैवदश प्राणा उच्यन्ते, न प्राणतत्त्वभेदाभिप्रायेण
“ना-[Page4510-a+ 38] भिर्दशमी” इति वचनात्। न हि नाभिर्नाम कश्चित्प्राणः प्रसिद्धोऽस्ति, मुख्यस्य तु प्राणस्य भवति, नाभि-रपि एकं विशेषायतनमित्यतो नाभिर्दशमीत्युच्यते। क्वचिदुपासनार्थं कतिचित् प्राणा गण्यन्ते, क्वचित् प्रद-र्शनार्थम्। तदेवं विचित्रे प्राणेयत्ताम्नाने सति क्वकिं परमाम्नानमिति विवेक्तव्यम्। कार्यजातवशात्त्वेका-दशत्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम्। इयमं-परा सूत्रद्वययोजना। सप्तैव प्राणाः स्युः यतः सप्ता-नामेव गतिः श्रूयते
“तमुत्क्रामन्तं प्राणोऽनूत्क्रागतिप्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” इत्यत्र। ननु सर्वशब्दोऽप्यत्र पठ्यते कथं सप्तानामेव गतिः प्रति-ज्ञायत इति, विशेषितत्वादित्याह। सप्तैव हि प्राणा-श्चक्षुरादयः त्वक्पर्य्यन्ताः विशेषिताः इह प्रकृताः,
“सयत्रैष चाक्षुषः पुरुषः पराङ् पर्य्यावर्त्तत्रे अथारूपज्ञोभवति एकीभवति न पश्यतीत्याहुरित्येवमादिनानुक्रम-णेन। प्रकृतगामी च सर्वशब्दो भवति। यथा सर्वेत्राह्मणा भोजिता इति ये निमन्त्रिताः प्राकृता ब्राह्म-णास्त एव सर्वशब्देनोच्यन्ते नान्ये, एवमिहापि येप्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते नान्ये इति। नन्वत्र विज्ञानमष्टममनुक्रान्तं कथं सप्तानामेवानुक्रमणंनैष दोषः। मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदेऽपि सप्त-त्वोपपत्तेः। तस्मात् सप्तैवप्राणा इत्येव प्राप्ते व्रूमः। हस्तादयस्त्वपरे यप्तभ्योऽतिरिक्ताः प्राणाः प्रतीयन्तेहस्तो वै ग्रहः” इत्यादिश्रुतिषु। ग्रहत्बञ्च बन्धन-भावो गृह्यते बध्यते क्षेत्रज्ञोऽनेन ग्रहसंज्ञकेन बन्धने-नेति। स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते शरी-रान्तरेष्वपि तुल्यत्वाद्बन्धनस्य। तस्माच्छरीरान्तरसञ्चा-रीदं ग्रहसंज्ञकं बन्धनमित्यर्थादुक्तं भवति। तथा चस्मृतिः
“पुर्य्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते। तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च” इति। प्राङ्मोक्षाद्ग्रहसंज्ञकेनानेन बन्धनेनावियोगं दर्शयति। आथर्वणे च विषयेन्द्रियानुक्रमणे
“चक्षुश्च द्रष्टव्यञ्च” इत्यत्र तुल्यबद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामति
“हस्तौ चादातव्यञ्च उपस्थश्चानन्दयितव्यञ्च पायुश्च वि-सर्जयितव्यञ्च पादौ च गन्तव्यञ्च” इति। तथा
“दशेमेपुरुषे प्राणा आत्मैकादशः ते यदास्याच्छरीरान्मर्त्यादुत्-क्रामन्त्यथ रोदयन्ति” इत्येकादशानां प्राणानामुत्क्रान्तिंदर्शयति। सर्वशब्दोऽपि च प्राणशब्दे न सम्बध्यमानो-[Page4510-b+ 38] ऽशेषान् प्राणानभिदधानी न प्रकरणवशेन सप्तस्वेवव्यवस्थापयितुं शक्यते प्रकरणाच्छब्दस्य च बलीयस्त्वात्। सर्वे ब्राह्मणा भोजिता इत्यत्रापि सर्वेषामेव अवनि-वर्त्तिनां ब्राह्मणानां ग्रहणं न्याय्यं सर्वशब्दसामर्थ्यात्। सर्वभोजनासम्भवात् तु तत्र निमन्त्रितमात्रविषया सर्व-शब्दस्य वृत्तिराश्रिता, इह तु न किञ्चित् सर्वशब्दार्थ-सङ्कोचकारणमस्ति, तस्मात् सर्वशब्देनात्राशेषाणां प्रा-णानां परिग्रहप्रदर्शनार्थं सप्तानामनुक्रमणमित्यनवद्यम्। तस्मादेकादशैव प्राणाः शब्दतः कार्य्यतश्चेति सिद्धम्” भा॰
“अणवश्च” सू॰
“अधुना प्राणानामेव स्वभावान्तरमभ्युच्चि-नोति। अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः। अणु-त्वञ्चैषां सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, कृत्स्न-देहव्यापिकार्य्यानुपपत्तिप्रसङ्गात्। सूक्ष्मा एते प्राणाःस्थूलाश्चेत् स्युः मरणकाले शरीरान्निर्गच्छन्तो बिलादहि-रिवोपलभ्येरन् म्रियमाणस्य पार्श्वस्थैः। परिच्छिन्ना-श्चैते प्राणाः सर्वगताश्चेत् स्युः उत्क्रान्तिगत्यागतिश्रुति-व्याकोपः स्यात्, तद्गुणसारत्वञ्च जीवस्य न सिध्येत्। सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत्, न,वृत्तिमात्रस्य करणत्वोपपत्तेः। यदेव तूपलब्धिसाधनंवृत्तिः अन्यद्वा तस्यैव नः करणत्वं तेन संज्ञामात्रे विवादइति करणानां व्यापित्वकल्पना निरर्थिका। तस्मात् तूक्ष्माःपरिच्छिन्नाश्चैते प्राणा इत्यध्यवस्यामः” भा॰
“श्रेष्ठश्च” सू॰
“मुख्यश्च प्राणः इतरप्राणवद्ब्रह्मविकार इत्यतिदिशति। नन्विशेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम्
“एत-स्माज्जायते प्राणो ममः सर्वेन्द्रियाणि च” इति, मे-न्द्रियमनोव्यतिरेकेणापि प्राणस्योत्पत्तिश्रवणात्,
“स प्राण-मसृजत” इत्यादिश्रबणेभ्यश्च। किमर्थः पुनरतिदेशः,अधिकाशङ्काकारणार्थः। नासदासीये हि ब्रह्मप्रधानेसूक्ते मन्त्रवर्णो भवति,
“न मृत्युरासीदसृतं न ताह नरात्र्या अह्न आसीत् प्रकेतः आनीदवातं स्वधया तदेकंतस्माद्धान्यन्न परं किञ्च नाम” इति। आनीदिति प्राण-कर्मोपादानात् प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति। तस्मात् अजः प्राण इति जायते कस्यचिन्मतिः, तामति-देशेनापनुदति। आनीच्छब्दोऽपि न प्रागुत्पत्तेः प्राण-सद्भावं सूचयति। अवातमिति विशेषणात्
“अप्राखोह्यमना शुभ्रः” इति च मूलप्रकृतेः प्राणादिसमस्तविशेष-रहितत्वस्य दर्शितत्वात्। तस्मात् कारणसद्भावप्रदर्शनार्थएवायमानीच्छब्द इति। श्रेष्ठ इति च मुख्यं प्राणममि-[Page4511-a+ 38] दधाति,
“प्राणो वाव ज्येष्ठः श्रेष्ठश्च” इति श्रुतिनिर्दे-शात् भा॰
“ज्येष्ठश्च प्राणः” सू॰
“शुक्रनिषेककालादारभ्यतस्य वृत्तिलाभात्, न चेत् तस्य तदानीं वृत्तिलाभः स्यात्योनौ निषिक्तं शुक्रं पूयेत न सम्भवेद्वा, श्रोत्रादीनान्तुकर्णशष्कुल्यादिस्थानबिभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठ-त्वम्” भा॰
“श्रेष्ठश्च प्राणः गुणाधिक्यात्” सू॰
“न वैशक्ष्यामस्त्वदृते जीवितुम्” इति श्रुतेश्च भा॰।
“न वायुक्रियेपृथगुपदेशात्” सू॰
“स पुनर्मुख्यः प्राणः किंस्वरूपइतीदानीं जिज्ञास्यते। तत्र प्राप्तं तावत् श्रुतेर्वायुः प्राणइति, एवं हि श्रूयते,
“यः प्राणः स एष वायुः पञ्च-विधः प्राणोऽपानो व्यान उदानः समानः” इति। अथवा तन्त्रान्तरीयाभिप्रायात् समस्तकरण वृत्तिः प्राण इतिप्राप्तं, एवं हि तन्त्रान्तरीया आचक्षते।
“सामान्याकरणवृत्तिः प्राणाद्या वायवः पञ्च” इति। अत्रोच्यते। न वायुः प्राणः नापि करणव्यापारः कुतः पृथगुप-देशात्। वायोस्तावत् प्राणस्य पृथगुपदेशो भवति,
“प्राण एव ब्रह्मणश्चतुर्थः पादः, स वाय्ना ज्योतिषाभाति च तपति च” इति। न हि वायुरेय सन् वायोःपृथगुपदिश्यते तथा करणवृत्तेरपि पृथगुपदेशो भवति,यागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानु-क्रमणात्। न हि करणव्यापार एव सन् करणेभ्यःपृथगुपदिश्येत। तथा
“एतस्माज्जायते प्राणो सनः सर्वेन्द्रियाणि च। स्वं वायुः” इत्येवमाहयोऽपि वायोः कर-णेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्त्तव्याः। न च सम-स्तानां करणनामेका वृत्तिः सम्भवति, प्रत्येकमेकैक-वृत्तित्वात्, समुदायस्य चाकारकत्वात्। ननु पञ्जरवा-लनन्यायेन एतद्भविष्यति यथैकपञ्जरवर्त्तिना एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः सम्भूयैकंपञ्जरं चालयन्ति एवमेकशरीरवर्त्तिनः एकादश प्राणाःप्रत्येकं नियतवृत्तयः सन्तः सम्भूयैका प्राणाख्यां वृत्तिंप्रतिलप्स्यन्ते इति। नेत्युच्यते, युक्तम् तत्र प्रत्येक-वर्त्तिभिरबान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः प-क्षिणः सम्भूयैकं पञ्जरं चालयेयुरिति तथा दृष्टत्वात्। इह तु{??}णाद्यवान्तरव्यापारोषेताः प्राणा न सम्मूयप्राण्युरिति युक्तं, प्रमाणाभावात् अत्यन्तविजातीयत्वाच्च{??}वणादिभ्यः प्राणनस्य। तथा प्राणस्य श्रेष्ठत्वाद्युद्घो-षणं गुणभावोपगमश्च तं प्रति वागादीनां न करणवृत्ति-मात्रे प्राणेऽवकल्पते, तस्मादन्यो वायुक्रियाभ्यां प्राणाः” [Page4511-b+ 38] कथं तर्हीयं श्रुतिः,
“यः प्राणः स वायुः” इतिउच्यते। वायुरेवायमध्यात्ममपन्नः पञ्चव्यूहो विशेषा-त्मनावतिष्ठमानः प्राणो नाम भण्यते न तत्त्वान्तरं नापिवायुमात्रं, अतश्चोमे अपि भेदाभेदश्रुती न विरुध्येते। स्यादेतत्, प्राणोऽपि तर्हि जीववदस्मिन् शरीरे स्वातन्त्र्यंप्राप्नोति, श्रेष्ठत्वात् गुणभावोपगमाच्च तं प्रति वागादां-नामिन्द्रियाणाम्। तथा हि अनेकविधा बिभूतिः प्रा-णस्य श्राव्यते
“सुप्तेषु वागादिषु प्राण एकैको जा-जर्त्ति प्राण एकैको मृत्युनाऽनाप्तः प्राणः संवर्गो वागा-दीन् संवृङुक्ते प्राण इतरान् प्राणान् रक्षति मातेवपुत्रान्” इति। तस्मात् प्राणस्यापि जीववत् स्वातन्त्र्य” प्रसङ्गः, तं परिहरति” भा॰
“चक्षुरादिवत्तु तत्सह-शिष्ट्यादिभ्यः” सू॰
“तुशब्दः प्राणस्य स्वातन्त्र्य व्याव-र्त्तयति। यथा चक्षुरादीनि राजप्रकृतिवत् जीवस्यकर्तृत्वं भोक्तृत्वं च प्रत्युपकरणानि न स्वतन्त्राणितथा मुख्योऽपि प्राणो राजमन्त्रिवत् जीवस्य सर्वार्थत्वेनउपकरणभूतो न स्वतन्त्रः। कुतः तत्सहशिष्ट्यःदिभ्यःतैश्चक्षुरादिभिः सहैव प्राणः शिष्यते, प्राणसंवादादिषुसमानधर्माणाञ्च सह शासनं युक्तं वृहद्रथन्तरादिवत्। आदिशब्देन संहतत्वाचेतनत्वादीन् प्राणस्य स्वातन्त्र्यनि-राकरणहेतून् दर्शयति। स्यादेतत् यदि चक्षुरादिवत्प्राणस्य जीवं प्रति करणभावोऽभ्युपगम्येत विषयान्तरंरूपादिवत् तस्य प्रसज्येत रूपालोचनाद्याभिर्वृत्तिभिर्यथाचक्षुरादीनां जीवं प्रति करणभावो भवति। अपिचैकादशैव कार्यजातानि रूपालोचनादीनि परिगणि-तानि यदर्थमेकादश प्राणाः संगृहीताः न तु द्वादशम-षरं कार्यजातमवगम्यते यदर्थमयं द्वादशः प्राणः प्रतिज्ञा-यत इति। अत उत्तरं पठति” भा॰
“अकरणत्वाच्चन दोषस्तथा हि दर्शयति” सू॰
“न तावद्विषयान्तरप्र-सङ्गो दोषः अकरणत्वात् प्राणस्य। न हि चक्षुरादि-वत् प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते। न चास्यैतावता कार्य्याभाव एव। कस्मात्, तथा हिश्रुतिः प्राणान्तरेष्वसम्भाव्यमानं सुख्यप्राणस्य वैशे-षिक कायं दर्शयति। प्राणसंवादादिषु
“अथ ह प्राणाअहं श्रेयसि व्यूदिरे” इत्युपक्रम्य
“यस्मिन् व उत्क्रान्तेइदं शरीरं पापिष्ठतरमिव दृश्यते स वा श्रेष्ठः” इतिचोप्रन्यस्य प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनंयथापूर्वं जीवनं मुख्यप्राणस्य वैशेषिकं कार्य्यं दर्शयित्वा[Page4512-a+ 38] प्राणोच्चिक्रमिषायां वागादिशेथिल्यापत्तिं शरीरपात-प्रसङ्गञ्च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रिय-स्थितिं दर्शयति।
“तान् वरिष्ठः प्राणः उवाच मामोहमापद्यथाहमेवैतत् पञ्चधात्मानं प्रविभज्यैतद्वाणमव-ष्टभ्य विधारयामि” इति च। एतमेवार्थं श्रुतिराह।
“प्राणेन रक्षन्नवरं कुलाये” इति च। सुप्तेषु चक्षुरादिषुप्राणनिमित्तां शरीररक्षां दर्शयति।
“यस्मात् कस्मा-च्चाङ्गात् प्राण उत्क्रामति तदेव उच्छुष्यति तेन यदश्नातियत् पिवति तेनेतरान् प्राणानवति” इति च प्राणनि-मित्तां शरीरेन्द्रियपुष्टिं दर्शयति।
“कस्मिन्नहसुत्क्रान्तेउत्क्रान्तो भविष्यामि? कस्मिन्? वा प्रतिष्ठितेऽहं प्र-तिष्ठास्यामीति स प्राणमसृजत” इति प्राणनिमित्तेएव जीवस्योत्क्रान्तिप्रतिष्ठे दर्शयति” भा॰।
“पञ्चवृत्तिर्मनोबद्व्यपदिश्यते” सू॰।
“इतश्चास्ति मुख्यप्राणस्य वैशेषिकंकार्यं यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु
“प्रा-णोऽपानो व्यान उदानः समानः” इति। वृत्तिभेदश्चायंकार्य्यभेदापेक्षः। प्राणः प्राग्वृत्तिरुच्छ्वासादिकर्मा,अपानोऽवाग्वृत्तिर्निश्वासादिकर्मा, व्यानः तयोः सन्धौवर्त्तमानो वीर्य्यवत्कर्महेतुः, उदानः ऊर्ध्ववृत्तिरुत्-क्रान्त्यादिहेतुः, समानः समं सर्वेष्वङ्गेषु योऽन्नरसा-न्नयति इति। एवं पञ्चवृत्तिः प्राणः मनोवत् यथामनसः पञ्च वृत्तयः एवं प्राणस्यापीत्यर्थः। श्रोत्रादिनि-मित्ताः शब्दादिविषयाः मनसः पञ्च वृत्तयः प्रसिद्धाः। न तु कामः सङ्कल्प इत्याद्याः परिपठिताः परिगृह्ये-रन्, पञ्चसङ्ख्यातिरेकात्। नन्वत्रापि श्रोत्रादिनिर-पेक्षा भूतभविष्यदादिविषयाऽपरा मनसो वृत्तिरस्तीतिसमानः पञ्चसङ्ख्यातिरेकः। एवं तर्हि परमतमप्रति-षिद्धमनुमतं भवतीति न्यायादिहापि योगशास्त्रप्रसिद्धामनसः पञ्च वृत्तयः परिगृह्यन्ते प्रमाणविपर्य्ययविकल्प-निद्रास्मृतयो नाम। बहुवृत्तित्वमात्रेण वा मनः प्राणस्यनिदर्शनमिति द्रष्टव्यम्। जीवोपकरणत्वमपि प्राणस्यपञ्चवृत्तित्वान्मनोवदिति योजयितव्यम्” भा॰।
“अणुश्च” सू॰।
“अणुश्चायं मुख्यः प्राणः प्रत्येतव्यः इतरप्राणवत्। अणु-त्वञ्चेहापि सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, पञ्च-भिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात्। सूक्ष्मः, प्राणउत्क्रान्तौ पार्श्वस्थेनानुपलभ्यमानत्वात्, परिच्छिन्न-श्रोत्क्रान्तिनत्यागतिश्रुतिभ्यः। ननु विभुत्वमपि प्राणस्यसमाम्नायते,
“समः प्लषिणा समो मशकेन समो नागेन[Page4512-b+ 38] सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण” इत्येवमा दिषुप्रदेशेषु। तदुच्यते, आधिदैविकेन समष्टिरूपेणहैरण्यगर्भेण प्राणात्मना एतद्विभुत्वमाम्नायते नाध्या-त्मिकेन। अपि च समः प्लुषिणेत्यादिना साम्यवचनेनप्रतिप्राणिवर्त्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते तस्मा-ददोषः” भा॰।
“ज्योतिराद्यधिष्ठानन्तु तदामननात्” सू॰।
“ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै स्वस्मैकार्य्याय प्रभवन्ति आहोस्विद्देवताधिष्ठानाः प्रभवन्तीतिविचार्य्यते। तत्र प्राप्तं तावद्यथा, स्वकार्य्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति। अपि च देवता-धिष्ठितानां प्राणानां प्रवृत्तावभ्यु पगम्यमानाया तासा-मेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गात् शारीरस्यभोक्तृत्वं प्रलीयेत, अतः स्वमहिम्नैवैषां प्रवृत्तिरिति,एवं प्राप्ते इदमुच्यते। ज्योतिराद्यधिष्ठानन्त्विति। तुशब्देन पूर्वपक्षो व्यावर्त्त्यते। ज्योतिरादिभिरग्न्या-द्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजात स्व-स्वकार्य्येषु प्रवर्तत इति प्रतिजानीते। हेतुञ्च व्याचष्टेतदामननादिति। तथा ह्यामनन्ति
“अग्निर्वाग्भूत्वा मुखंप्राविशदित्यादि”। अग्नेश्चायं वाग्भावो मुखप्रवेशश्चदेवतात्मनोऽधिष्ठातृत्वमङ्गीकृत्योच्यते। नहि देवता-सम्बन्धं प्रत्याख्यायाग्नेर्वाचि मुखे वा कश्चिद्विशेषःसम्बन्धो दृश्यते। तथा
“वायुः प्राणो भूत्वा नासिकेप्राबिशत्” इत्येवमाद्यपि योजयितव्यम्। तथान्यात्रापि
“वानेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भातिच तपति च” इत्येवमादिना वागादीनामग्न्यादिज्योति-ष्ट्ववचनेनैतभेवार्थं द्रढयति।
“स वै वाचमेव प्रथममत्य-वहत् सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्” इति च। एवमादिना वागादीनामग्न्यादिभावापत्तिवचनेनैतमेवार्थद्योतयति। सर्वत्र चाध्यात्माधिदैवतविभागेन वागाद्य-ग्न्याद्यनुक्रमणमनयैव प्रत्यासत्त्या भवति। स्मृतावपि
“वागध्यात्ममिति प्राहुः ब्राह्मणास्तत्त्वदर्शिनः। वक्तव्य-मधिभूतन्तु वह्निस्तत्राधिदैवतम्” इत्यादिना वागादी-नामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं प्रदर्शितम्। यदुक्तंस्वकार्य्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्त्ते-रन्निति तदयुक्तम् अशक्तानामपि शकटादीनामानडुदा-द्यधिष्ठितानां प्रवृत्तिदर्शनात्। उपयथोपपत्तौ चाग-माहेवताधिष्ठितत्वमेव निश्चीयते। यदप्युक्तं देवताना-मेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गो न शारीरस्य जीवस्येति[Page4513-a+ 38] तत् परिहियते” भा॰।
“प्राणवता शब्दात्” सू॰।
“सतीष्वपिप्राणानामधिष्ठात्रीषु देवतासु प्राणवता कार्यकरणसङ्घात-स्यामिना शारीरेनैवैषां प्राणानां सम्बन्धः श्रुतेरवगम्यते। तथा हि श्रुतिः
“अथ यत्रैतदाकाशमनुप्रविषण्णं चक्षुःस चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्रा-णीति स आत्मा गन्धाय घ्राणम्” इत्येवंजातीयकाशारीरेणैव प्राणानां सम्बन्धं श्रावयति। अपि चानेक-त्वात् प्रतिकरणमधिष्ठात्रीणो देवतानां न भोक्तृत्व-मेकस्मिन् शरीरेऽवकल्पते। एको ह्ययमस्मिन् शरीरे शा-रीरो भोक्ता प्रतिसन्धानादिसम्भवादवगम्यते” भा॰।
“तस्यच नित्यत्वात्” सू॰।
“तस्य च शारीरस्यास्मिन् शरीरेभोक्तृत्वेन नित्यत्वं पुण्यपापोपलेपसम्भवात् सुस्वदुः-खोपभोगसम्भवाच्च न देवतानाम्। ता हि परस्मिन्नै-श्वर्य्ये पदेऽवतिष्ठमाना न हीमेऽस्मिंच्छरीरे भोक्तृत्वंप्रतिलब्धुमर्हन्ति। श्रुतिश्च भवति
“पुण्यमेवामुं गच्छतिन ह वै देवान् पापं गच्छति इति शारीरेणैव च नित्यःप्राणानां सम्बन्धः” भा॰।
“उतक्रान्त्यादिषु तदनुवृत्ति-दर्शनात्” सू॰।
“तमुत्क्रामन्तं प्राणोऽनुत्क्रामति प्राणम-मूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” इत्यादिश्रु-तिभ्यः। तस्मात् सतीष्वपि करणानां नियन्त्रीषु देव-तासु न शारीरम्य भोक्तृत्वमपगच्छति, करणपक्षस्यैवहि देवता न भोक्तृत्वपक्षस्येति” भा॰।
“त इन्द्रियाणितद्व्यपदेशादन्यत्र श्रेष्ठात्” सू॰।
“मुख्यश्चैकः इतरेचैकादश प्राणा अनुक्रान्ताः, तत्रेदमपरं सन्दि-ह्यते किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणाआहोस्वित् तत्त्वान्तराणीति। किन्तावत् प्राप्तं मुख्य-स्यैवेतरे वृत्तिभेदा इति। कुतः श्रुतेः। तथाहिश्रुतिर्मुख्यमितरांश्च प्राणान् सन्निधाप्य मुख्यात्मतामित-रषां ख्यापयति
“हन्तास्यैव सर्वे रूपमसामेति तत्रतस्यैव सर्वे रूपमभवन्” इति। प्राणैकशब्दत्वाच्चैक-त्वाध्यवसायः, इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्यप्रसज्येत एकत्र वा मुख्यत्वमितरत्र वा लाक्षणिकत्वमा-मद्येत। तस्माद् यथैकस्यैव प्राणस्य प्राणाद्याः पञ्चवृत्तयः एवं वागाद्या अप्येकादशेत्येवं प्राप्ते ब्रूमः। तत्त्वान्तराण्येव प्राणाद्वागादीनीति कुतः व्यपदेशभेदात्। कोऽयं व्यपदेशभेदः, ते प्रकृताः, प्राणाः श्रेष्ठं वर्ज-यित्वाऽवशिष्टा एकादशेन्द्रियाणीव्युच्यन्ते श्वतावेवंअपदेशभेददर्शनात्।
“एतस्माज्जायते प्राणो मनः सर्वे-[Page4513-b+ 38] न्द्रियाणि च” इत्यैवं जातीयकेषु श्रुतिप्रदेशैषु पृथक्प्राणो व्यपदिश्यते पृथक् चेन्द्रियाणि। ननु मनसोऽप्येवंवर्जनम् इन्द्रियत्वेन प्राणवत् स्यात्
“मनः सर्वेन्द्रियाणिच” इति पृथक् व्यपदेशभेददर्शनात्। सत्यमेतत् स्मृतौतु एकादशेन्द्रियाणीति मनोऽपीन्द्रियत्वेन श्रोत्रादिवत्संगृह्यते, प्राणस्य त्विन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्ध-मस्ति। व्यपदेशभेदश्चायं तत्त्वभेदपक्षे उपपद्यते। तत्त्वै-कत्वे तु स एवैकः सन् प्राण इन्द्रियव्यपदेशं लभतेन लभते च इति विप्रतिषिद्धं, तस्मात्तत्त्वान्तरभूतामुख्यादितरे। कुतश्च तत्त्वान्तरमूता मुख्यादितरे” भा॰।
“भेदश्रुतेः” सू॰।
“भेदेन च वागादिभ्यः प्राणः सर्वत्र श्रूयते
“ते ह वाचमूचुः” इत्युपक्रम्य वागादीनसुरपाप्मविध्व-स्तानुपन्यस्योपसंहृत्य वागादिप्रकरणम्,
“अथ हेममासन्यंप्राणमूचुः” इत्यसुरविध्वंसिभ्यो मुख्यस्य प्राणस्य पृथ-गुपक्रमात्, तथा
“मनो वाचं प्राणं तान्यात्मनेऽकुरत” इत्येवमाद्या अपि भेदश्रुतय उदाहर्त्तव्याः। तस्मादपितत्त्वान्तरभूता मुख्यादितरे। कुतश्च तत्त्वान्तरभूतामुख्यादितरे” भा॰।
“वैलक्षण्याच्च” सू॰।
“वैलक्षण्यञ्च भवतिमुख्यप्राणस्येतरेषाञ्च सुप्तेषु वागादिषु मुख्य एको जा-गर्त्ति
“स एव चैको मृत्युनाऽनाप्तः। आप्तास्त्वितरे” तस्यैव प्राणस्यावस्थित्युत्क्रान्तिभ्यां देहधारणपातनहेतुत्व नेन्द्रियाणां विषयालोचनहेतुत्वञ्चेन्द्रियाणाम्। नप्राणस्येत्येवंजातीयको भूयान् लक्षणभेदः प्राणेन्द्रिया-णाम्। तस्मादप्येषां तत्त्वान्तरभावसिद्धिः। यदुक्तं
“तत्रतस्यैव सर्वे रूपमभवन्” इतिश्रुतेः प्राणएवेन्द्रियाणीतितदयुक्तम् तत्रापि पौर्वपर्य्यालोचनाद्भेदप्रतीतेः। तथाहि
“वदिष्याम्येवाहमिति वाग्दध्रे” इति वागादीनी-न्द्रियाण्यनुक्रम्य
“तानि मृत्युः श्रमो भूत्वोपयेमे तस्मा-च्छ्राम्यत्येव वाक्” इति च श्रमरूपेण मृत्युना ग्रस्तत्वंवागादीनामभिधाय
“अथेममेव नाप्नोत् योऽयं मध्यमःप्राणः” इति पृथक्प्राणं मृत्युनानभिभूतमनुक्रामति।
“अयं वैनः श्रेष्ठः” इति च श्रेष्ठतामस्यावधारयति। तस्मात्तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वंतद्रूपभ्रवनं वागादीनामिति मन्तव्यं न तु तादात्म्यम्। अत एव प्राणशब्दस्येन्द्रियेषु, लाक्षणिकत्वसिद्धिः। तथाच श्रुतिः
“तत्र तस्यैव सर्वे रूपमभवन तस्मादेते एतेनाख्यायन्ते प्राणाः” इति मुख्यप्राणविषयस्यैव प्राण-शब्दस्य इन्द्रियेष् लाक्षणिकीं वृत्तिं दर्शयति। तस्मा-[Page4514-a+ 38] त्तत्त्वान्तराणि प्राणाद्वागादीन्द्रियाणीति” शाङ्करभा॰। अतएव वेदान्तसारादौ आकाशादिपञ्चतन्मात्राणां सम-स्तानां रजोऽंशेभ्यः पञ्चवृत्तिकप्राणस्योत्पत्तिमङ्गीचकारतेनापि इन्द्रियेभ्यस्तस्य पृथक्त्वं गम्यते।

१५ देहस्थेदशवृत्तिके वायुभेदे प्राणकर्मन्शब्दे दृश्यम्।

१६ धातुःपुत्रभेदे पु॰
“भार्य्ये धातृविधात्रोस्ते तयोर्जातौ सुताबुभौ। प्राणश्चैव मृकण्डुश्च” मार्क॰

५२ अ॰। वैवस्वतमन्वन्तरे

१७ सप्तर्षिभेदे पु॰ हरिवं॰

३ अ॰। धराख्यवसौः

१८ पुत्रभेदेपु॰ हरिवं॰

६ अ॰।

१९ विष्णौ पु॰
“ईशानः प्राणदः प्राणः” विष्णुस॰। ‘ प्राणस्य प्राणः’ इति श्रुतेस्तस्य तथात्वम्। प्राणयति प्राणः
“अच्युतः प्राचितः प्राणः” विष्णुस॰।
“सूतात्मना प्राणयतिचेष्टयति प्रजाः प्राणः” भा॰ व्यु-त्पत्तिद्वययोगात् नामद्वयम्। प्राणस्य जलेनैवोपचयस्य करणात् जलमयत्वम् यथोक्तंछा॰ उ॰
“आपः पीतास्त्रेधा बिधीयन्ते तासां यःस्थ-विष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽ-णिष्ठः सः प्राणः” इत्युक्त्वा
“अन्नमयं हि सौम्य!मन आपोमयः प्राणस्तेजोमयी वाक्” इति च संक्षि-म्योक्त्वा तत्समर्थितं यथा
“यथा दध्नः सौम्य! मथ्यमानस्ययोऽणि मा ऊर्द्ध्वः समुदीषति तत्सर्पिर्भवति” इति-दृष्टान्तीकृत्य
“एवमेव खलु अपां सौम्य! पीयमानानांयोऽणिमा स ऊर्द्ध्वः समुदीषति स प्राणो भवतीति” छा॰ उ॰।
“यथायं दृष्टान्तः एवमेव खलु सौम्यान्नादेरसस्यभुज्यमानस्यौदर्य्येणाग्निना वायुसहितेन खजेनेव मथ्य-मानस्य योऽणिमा स ऊर्द्ध्वः समुदीषति तन्मनो भवतिमनोऽवयवैः सह सम्भूय उपत्तिनोति तद्वत् तथाऽपासौम्य! पीयमानानां योऽणिमा स प्राण इत्यादि” भाष्यम्।

२० मूलाधारस्थे वायौ च
“मूलाधारोद्गतःप्राणः” शा॰ ति॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राण¦ mfn. (-णः-णा-णं) Full, replete, filled. m. (-णः)
1. Air inhaled, ins- piration, breath.
2. Air, wind.
3. Life, vitality.
4. A vital organ or part.
5. Strength, power.
6. Myrrh.
7. Poetical talent or ins- piration.
8. A name of BRAMHA
4.
9. A title of BRAMHA4, the Su- preme spirit.
10. An aspiration in the articulation of letters. m. plu. (-णाः) The five vital airs or modes of inspiration and expira- tion collectively. E. प्र before, अन् to breathe, aff. घञ् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणः [prāṇḥ], 1 Breath, respiration.

The breath of life, vitality, life, vital air, principle of life (usually pl. in this sense, the Prāṇas being five; प्राण, अपान, समान, व्यान and उदान); प्राणैरुपक्रोशमलीमसैर्वा R.2.53;12.54; (हृदि प्राणो गुदे$पानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥).

The first of the five life-winds or vital airs (which has its seat in the lungs); अपाने जुह्वति प्राणं प्राणे$पानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायाम- परायणाः ॥ Bg.4.29.

Wind, air inhaled.

Energy, vigour, strength, power; as in प्राणसार q. v.; युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर Rām.3.5.28; Bhāg.8.2.29; सर्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्षः Mv.1.45.

The spirit or soul (opp. शरीर).

The Supreme Spirit; इमानि भूतानि प्राणमेवाभिसंविशन्ति Bṛi. Up.1.11.5.

An organ of sense; स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ Ms.4.143; मरीचिमिश्रा ऋषयः प्राणेभ्यो$हं च जज्ञिरे Bhāg.1.6.31.

Any person or thing as dear and necessary as life, a beloved person or object; कोशः कोशवतः प्राणाः प्राणाः प्राणा न भूपतेः H.2.9; अर्थपतेर्विमर्दको बहिश्चराः प्राणाः Dk.

The life or essence of poetry, poetical talent or genius; inspiration.

Aspiration; as in महाप्राण or अल्पप्राण q. v.

Digestion.

A breath as a measure of time.

Gum-myrrh.

Life, living (जीवन); दैवं च दैवसंयुक्तं प्राणश्च प्राणदश्च ह । अपेक्षापूर्वकरणादशुभानां शुभं फलम् ॥ Mb.12.36.14.

Food (अन्न); अनस्तिकानां भूतानां प्राणदाः पितरश्च ये Mb.12.12.4.

N. of Brahmā, Viṣṇu and other gods. -Comp. -अतिपातः killing a living being, taking away life. -अत्ययः loss of life. -अधिक a.

dearer than life.

superior in strength or vigour. -अधिनाथः a husband. -अधिपः the soul. -अन्तः death; capital punishment; अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति Ms.8.359. -अन्तिक a.

fatal, mortal.

lasting to the end of life, ending with life.

dangerous.

capital (as a sentence); अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्ध्यति । मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ॥ Ms. 11.146. (-कम्) murder. -अपहारिन् a. fatal, destructive to life. -अपानम्, -नौ air inhaled and exhaled; प्राणापाना- न्तरे देवी वाग्वै नित्यं प्रतिष्ठिता Mañjūṣā. -अयनम् an organ of sense; (सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः । नेहते$हमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥ Bhāg.4.29.72. -आघातः destruction of life, killing a living being; प्राणाघातान्निवृत्तिः Bh.3.63.-आचार्यः a physician to a king. -आत्मन् m. the vital or animal soul. -आद a. fatal, mortal, causing death.-आबाधः injury to life; प्राणाबाधयुक्तास्वापत्सु Kau. A.1.8.-आयामः restraining or suspending the breath during the mental recitation of the names or attributes of a deity. -आहुतिः f. an oblation to the five Prāṇas.

ईशः, ईश्वरः a lover, husband; नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति Amaru.67; बाला लोलविलोचना शिव शिव प्राणेशमालोकते Bv.2.57.

wind. -ईशा, -ईश्वरी a wife, beloved, mistress. -उत्क्रमणम्, -उत्सर्गः departure of the soul, death. -उपहारः food. -कर a. refreshing or reviving the spirits; सद्यो मांसं नवान्नं च बाला स्त्री क्षीरभोजनम् । क्षीर- मुष्णोदकं चैव सद्यः प्राणकराणि षट् ॥ Chāṇakya. -कर्मन् n. Vital function. -कृच्छ्रम्, -बाधा peril of life, a danger to life.-ग्रहः the nose. -घातक a. destructive to life. -घोषः the sound from the ears when the fingers are put therein; छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः Bhāg.1.42.29. -घ्नःa. fatal, life-destroying. -चयः increase of strength.-छिद् a.

murderous.

destructive. -छेदः murder.

त्यागः suicide; वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिः H.1.

death. -द a. life-giving.

(दम्) water.

blood.

(दः) Viṣṇu.

Brahmā.

Terminalia Tomentosa (Mar. ऐन). -दा Terminalia Chebula (Mar. हिरडा).-दक्षिणा gift of life; प्राणदक्षिणां दा 'to grant one his life'.-दण्डः capital punishment. -दयितः a husband. -दातृa. 'life-giver', saviour, deliverer.

दानम् resigning life.

the gift of life, saving one's life. -दुरोदरम्, -द्यूतम् fighting for life. -दृह् a. Sustaining or prolonging the breath. -द्रोहः an attempt upon any body's life.-धार a. living, animate. (-रः) a living being.

धारणम् maintenance or support of life.

vitality.

a means of supporting life.

नाथः a lover, husband.

an epithet of Yama. -निग्रहः restraint of breath, checking the breath.

पतिः a lover, husband.

the soul; बुद्धिं समाच्छाद्य च मे समान्युरुद्भूयते प्राणपतिः शरीरे Mb.3. 269.4.

a physician. -पत्नी the voice. -परिक्रयः staking one's life. -परिक्षीण a. one whose life is drawing to a close. -परिग्रहः possession of life, life, existence. -प्रद, -दायक, -दायिन् a. restoring or saving life.-प्रयाणम् departure of life, death. -प्रियः 'as dear as life', a lover, husband. -भक्ष a. feeding on air only.-भास्वत् m. the ocean. -भृत् a. possessed of life, living, animate, sentient. (-m.) a living being; अन्तर्गतं प्राणभृतां हि वेद R.2.43.

N. of Viṣṇu.

मोक्षणम् departure of life, death.

suicide. -यमः = प्राणायाम q. v.

यात्रा support of life; maintenance, livelihood; पिण्डपात- मात्रप्राणयात्रां भगवतीम् Māl.1.

the act of breathing.-यात्रिक requisite for subsistence; प्राणयात्रिकमात्रः स्यात् Ms.6.57.

योनिः the Supreme Being.

wind. (-f.) the source of life.

रन्ध्रम् the mouth.

a nostril.

रोधः suppressing the breath.

danger to life. -वल्लभा a mistress, wife. -विद्या the science of breath or vital airs. -विनाशः, -विप्लवः loss of life, death. -वियोगः separation of the soul from the body, death. -वृत्तिः f. a vital function. -व्ययः cost or sacrifice of life. -शरीरः the Supreme Being; स क्रतुं कुर्वीत मनोमयः प्राणशरीरः Ch. Up. -संयमः suspension of breath.-संशयः, -संकटम्, -संदेहः risk or danger to life, peril of life, a very great peril. -संहिता a manner of reciting the Vedic text. -सद्मन् n. the body. -सम a. as dear as life. (-मः) a husband, lover. (-मा) a wife; नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति Māl.9.33. -सार a. 'having life as the essence', full of strength and vigour, muscular; गिरिचर इव नागः प्राणसारं (गात्रं) विभर्ति Ś.2.4. -हर, -हारिन् a. causing death, taking away life, fatal; पुरो मम प्राणहरो भविष्यसि Gīt.7.

capital.-हारक a. fatal. (-कम्) a kind of deadly poison.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राण mfn. (for 2. See. p. 705 , col. 1.) filled , full L.

प्राण/ प्रा m. ( ifc. f( आ). ; for 1. See. under प्रा, p.701) the breath of life , breath , respiration spirit vitality

प्राण/ प्रा m. pl. life RV. etc. ( प्रा-णान्with मुच्or हाor परि-त्यज्, " to resign or quit life " ; with रक्ष्, " to save -llife " ; with नि-हन्, " to destroy -llife " ; त्वम् मे प्रा-णः, " thou art to me as dear as -llife " ; often ifc. ; See. पति-, मा-न-प्र्)

प्राण/ प्रा m. a vital organ vital air (3 in number , viz. प्रा-ण, अपा-नand व्यानAitBr. TUp. Sus3r. ; usually 5 , viz. the preceding with सम्-आनand , उद्-आनS3Br. MBh. Sus3r. etc. See. MWB. 242 ; or with the other vital organs 6 S3Br. ; or 7 AV. Br. Mun2d2Up. ; or 9 AV. TS. Br. ; or 10 S3Br. ; pl. the 5 organs of vitality or sensation , viz. प्रा-ण, वाच्, चक्षुस्, श्रोत्र, मनस्, collectively ChUp. ii , 7 , i ; or = nose , mouth , eyes and ears GopBr. S3rS. Mn. iv , 143 )

प्राण/ प्रा m. air inhaled , wind AV. S3Br.

प्राण/ प्रा m. breath (as a sign of strength), vigour , energy , power MBh. R. etc. ( सर्वप्रा-णेनor -प्रा-णैः, " with all one's strength " or " all one's heart " ; See. यथा-प्रा-णम्)

प्राण/ प्रा m. a breath (as a measure of time , or the -ttime requisite for the pronunciation of 10 long syllables = 1/6 विनाडिका) Var. A1ryabh. VP.

प्राण/ प्रा m. N. of a कल्प(the 6th day in the light half of ब्रह्मा's month) Pur.

प्राण/ प्रा m. (in सांख्य) the spirit(= पुरुष) Tattvas.

प्राण/ प्रा m. (in वेदान्त) the spirit identified with the totality of dreaming spirits Veda7ntas. RTL. 35 (See. प्राणा-त्मन्)

प्राण/ प्रा m. poetical inspiration W.

प्राण/ प्रा m. myrrh L.

प्राण/ प्रा m. a N. of the letter य्Up.

प्राण/ प्रा m. of a सामन्Ta1n2d2Br. ( वसिष्ठस्य प्रा-णा-पा-नौA1rshBr. )

प्राण/ प्रा m. of ब्रह्माL.

प्राण/ प्रा m. of विष्णुRTL. 106

प्राण/ प्रा m. of a वसुBhP.

प्राण/ प्रा m. of a son of the वसुधरHariv.

प्राण/ प्रा m. of a मरुत्Ya1jn5. Sch.

प्राण/ प्रा m. of a son of धातृPur.

प्राण/ प्रा m. of a son of विधातृBhP.

प्राण/ प्रा m. of a ऋषिin the 2nd मन्व्-अन्तरHariv.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of विधात्रि and नियती (आयति-ब्र्। प्।)। His wife was पुण्डरीका and द्युतिमान् was his son. भा. IV. 1. ४४-45; Br. II. ११. 6-9, ४०.
(II)--a Vasu and a son of Dharma; married ऊर्जस्वती. Father of Saha and two other sons. भा. VI. 6. ११-12; Vi. I. १५. ११३.
(III)--a भार्गव and a sage of the स्वारोचिष epoch. Br. II. ३६. १७; M. 9. 8. [page२-442+ ३२]
(IV)--a son of Dhara; फलकम्:F1:  M. 5. २४.फलकम्:/F a साध्य. फलकम्:F2:  Ib. २०३. ११; Br. III. 3. १६.फलकम्:/F
(V)--a son of Angiras; फलकम्:F1:  M. १९६. 2; वा. ६५. १०५.फलकम्:/F a साध्य; फलकम्:F2:  Ib. ६६. १५.फलकम्:/F a तुषित; फलकम्:F3:  Br. III. 3. १९; वा. ६६. १८.फलकम्:/F an Ajitadeva. फलकम्:F4:  Ib. ६७. ३४.फलकम्:/F
(VI)--the अन्तरात्म; it is अन्नम् or food; अन्नम् is ब्रह्मा, etc.; from this grows creatures. (cf. उपनिषद्; also Yajur Veda); फलकम्:F1:  वा. १५. १४.फलकम्:/F one of the वायुस् which determine the कर्म of people; फलकम्:F2:  Ib. २१. ४७; ३१. ४१.फलकम्:/F is जीव। फलकम्:F3:  Ib. १०२. १०१.फलकम्:/F
(VII)--a son of धातृ and father of Dyutimat. V. I. १०. 4-5.
(VIII)--one of the seven seers of the स्वारोचिष epoch. Vi. III. 1. ११.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRĀṆA I : Grandson of sage Bhṛgu. Bhṛgu got of his wife Khyāti a daughter named Lakṣmī and two sons named Dhātā and Vidhātā. They married Āyati and Niyati respectively and they got two sons named Prāṇa and Mṛkaṇḍu. Mārkaṇḍeya was the son of Mṛkaṇḍu. (Chapter 10, Aṁśa 1, Viṣṇu Purāṇa).


_______________________________
*3rd word in right half of page 602 (+offset) in original book.

PRĀṆA II : A son born to the Vasu named Soma of his wife Manoharā. This Prāṇa was the younger brother of Varccas. These brothers had two other brothers named Śiśira and Ramaṇa. (Śloka 26, Chapter 66, Ādi Parva).


_______________________________
*4th word in right half of page 602 (+offset) in original book.

PRĀṆA III : Prāṇavāyu. The wind of life. (See under Parāvaha).


_______________________________
*5th word in right half of page 602 (+offset) in original book.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Prāṇa, properly denoting ‘breath,’ is a term of wide and vague significance in Vedic literature. It is frequently mentioned from the Rigveda[] onwards; in the Āraṇyakas and Upaniṣads it is one of the commonest symbols of the unity of the universe.[] In the narrow sense Prāṇa denotes one of the vital airs, of which five are usually[] enumerated--Prāṇa, Apāna, Vyāna, Udāna, and Samāna; but often only two, Prāṇa and Apāna,[] or Prāṇa and Vyāna,[] or Prāṇa and Udāna;[] or three, Prāṇa, Apāna, and Vyāna,[] or Prāṇa, Udāna, and Vyāna,[] or Prāṇa, Udāna, and Samāna;[] or four, Prāṇa, Apāna, Vyāna, and Samāna,[१०] or Prāṇa, Apāna, Udāna, Vyāna.[११] The exact sense of each of these breaths when all are mentioned cannot be determined.[१२]

Prāṇa is also used in a wider sense to denote the organs of sense,[१३] or as Sāyaṇa[१४] puts it, the ‘orifices of the head,’ etc. These are given as six in one passage of the Śatapatha Brāhmaṇa,[१५] presumably the eyes, ears, and nostrils. More frequently there are stated to be seven in the head, the mouth being then included.[१६] Sometimes again they are mentioned as nine,[१७] or as seven in the head and two below.[१८] Ten are counted in the Śatapatha Brāhmaṇa[१९] and the Jaiminīya Brāhmaṇa,[२०] while even eleven are mentioned in the Kāṭhaka Upaniṣad,[२१] and twelve in the Kāṭhaka Saṃhitā,[२२] where the two breasts are added. Exactly what organs are taken to make up the numbers beyond seven is not certain.[२३] The tenth is the navel (nābhi) in the Maitrāyaṇī Saṃhitā;[२४] when eleven are named the Brahma-randhra[२५] (suture in the crown) may be included; in the Atharvaveda,[२६] as interpreted by the Bṛhadāraṇyaka Upaniṣad,[२७] the seventh and eighth are the organs of taste and speech respectively. But usually these make one only, and the eighth and ninth are either in the breast[२८] or below (the organs of evacuation).[२९]

The word Prāṇa has sometimes merely the general sense of breath, even when opposed to Apāna.[३०] But its proper sense is beyond question ‘breathing forth,’ ‘expiration,’ and not as the St. Petersburg Dictionary explains it, ‘the breath inspired,’ a version due to the desire to interpret Apāna as ‘expiration,’ a meaning suggested by the preposition apa, ‘away.’ This being clearly shown both by the native scholiasts[३१] and by other evidence,[३२] Bo7htlingk[३३] later accepted the new view.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राण पु.
1. (महावीर के कृत्य के साथ प्रारम्भ होने से पहले) गार्हपत्य अगिन् में ‘प्राणाय स्वाहा, व्यानाय स्वाहा, अपानाय स्वाहा, चक्षुसे-----मनसे स्वाहा’, एवं ‘वाचे सरस्वत्यै स्वाहा’ के साथ लगातार दी जाने वाली सात आहुतियों के वर्ग का नाम, बौ.श्रौ.सू.9.6-7; 2. श्वास = नाक, भा.श्रौ.सू. 1.18.6; पशु के सजीव अंग, जिन्हें फुलाया जाता है (आप्यायन), भा.श्रौ.सू. 7.14.2 (पशु); बौ.श्रौ.सू. 15.29 (अश्व); 3. न. एक साम का नाम, 5.21.1 सा.वे. 1.318 पर।

  1. i. 66, 1;
    x. 59, 6;
    90, 13, etc.
  2. Deussen, Philosophy of the Upanishads, 89 et seq.
  3. See Udāna, n. 1.
  4. Av. ii. 28, 3;
    v. 4, 7 (Paipp.);
    vii. 53, 4 (in vii. 53, 3, Apāna, Prāṇa);
    Taittirīya Saṃhitā, iii. 4, 1, 4, etc.
  5. Av. v, 4, 7;
    vi. 41, 2, etc.
  6. See Udāna, n. 3.
  7. Av. xiii. 2, 46;
    Maitrāyaṇī Saṃhitā, iv. 5, 6, 9;
    Vājasaneyi Saṃhitā, xxii. 23;
    Aitareya Brāhmaṇa, ii. 29;
    Kauṣītaki Brāhmaṇa, vi. 10;
    Śāṅkhāyana Āraṇyaka, viii. 8;
    Taittirīya Upaniṣad, ii. 2, etc.
  8. See Udāna, n. 2.
  9. Ibid.
  10. Av. x. 2, 13.
  11. Bṛhadāraṇyaka Upaniṣad iii. 4, 1.
  12. Cf. Deussen, Philosophy of the Upanishads, 273 et seq.
  13. Colebrooke, Miscellaneous Essays, 1, 339, 355;
    St. Petersburg Dictionary, s.v. 1.
  14. On Aitareya Āraṇyaka, i. 3, 7.
  15. xiv. 1. 3, 32;
    4, 1.
  16. Av. ii. 12, 7;
    Aitareya Brāhmaṇa, i. 17;
    iii. 3;
    Śatapatha Brāhmaṇa, iii. 1, 3, 21;
    vi. 4, 2, 5;
    xiii. 1, 7, 2;
    Jaiminīya Upaniṣad Brāhmaṇa, ii. 5, 9, 10;
    6, 8, etc.
  17. Taittirīya Saṃhitā, iii. 5, 10, 2;
    Taittirīya Brāhmaṇa, iii. 1, 7, 4;
    Śatapatha Brāhmaṇa, i. 5, 2, 5;
    Pañcaviṃśa Brāhmaṇa, xxii. 12, 5;
    Aitareya Āraṇyaka, i. 4, 1;
    Śāṅkhāyana Āraṇyaka, ii. 2;
    Av. v. 28, 1;
    x. 8, 43 (navadvāram), etc.
  18. Jaiminīya Upaniṣad Brāhmaṇa, ii. 5, 9, 10;
    6, 8.
  19. xi. 6, 3, 17, where the eleventh is given as the Ātman.
  20. ii. 77 (Journal of the American Oriental Society, 15, 240).
  21. v. 1.
  22. xxxiii. 3.
  23. Cf. Deussen, op. cit., 269;
    Keith, Aitareya Āraṇyaha, 185, 187.
  24. iv. 6, 1;
    Kāṭhaka Saṃhitā, ix. 16.
  25. Aitareya Upaniṣad, i. 3.
  26. x. 8, 9.
  27. ii. 2, 3, 4.
  28. Kāṭhaka Saṃhitā, xxxiii. 3.
  29. Jaiminīya Upaniṣad Brāhmaṇa, ii. 5, 9, 10;
    6, 8.
  30. Av. v. 4, 7 (Paippalāda) . See Blloomfield, Hymns of the Atharvaveda, 552.
  31. Rudradatta on Āpastamba Śrauta Sūtra, xii. 8, 8;
    xiv. 11, 1;
    Sāyaṇa on Śatapatha Brāhmaṇa, i. 1, 3, 2;
    Taittirīya Brāhmaṇa, ii. 5, 6, 4;
    Śaṅkara on Chāndogya Upaniṣad, i. 3, 2;
    Ānartīya on Śāṅkhāyana Śrauta Sūtra, vi. 8, 1, 2, etc.
  32. Śatapatha Brāhmaṇa, ii. 2, 2, 15, as compared with Kātyāyana Śrauta Sūtra, iv. 8, 29;
    Bṛhadāraṇyaka Upaniṣad, iii. 2, 2;
    Jaiminīya Upaniṣad Brāhmaṇa, i. 60, 5;
    ii. 1, 16. 19;
    Aitareya Āraṇyaka, v. 1, 4. See Caland, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 55, 261-265;
    56, 556-558;
    and Apāna.
  33. Zeitschrift, 55, 518.
"https://sa.wiktionary.org/w/index.php?title=प्राण&oldid=503000" इत्यस्माद् प्रतिप्राप्तम्