वंश

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशः, पुं, (वमति उद्गिरति पुरुषान् वन्यते इति वा । टु वम उद्गिरणे इति धातोर्यद्वा वन शब्दे इति धातोर्बाहुलकात् शः । यद्बा, वष्टि उश्यते इति वा । वशंकान्तौ + अच् घञ् वा । ततो नुम् ।) पुत्त्रपौत्त्रादिः । तत्पर्य्यायः । सन्ततिः २ गोत्रम् ३ जननम् ४ कुलम् ५ अभिजनः ६ अन्वयः ७ अन्ववायः ८ सन्तानः ९ । इत्यमरः । २ । ७ । १ ॥ निघनम् १० जातिः ११ । इति जटाधरः ॥ कुलञ्च विद्यया जन्मना वा प्राणिनामेकलक्षणः सन्तानो वंश इति जयादित्यः । धनेन विद्यया वा ख्यातस्या- पत्यधारा वंश इति सुभूः । वमति उद्गिरति पूर्ब्बपुरुषान् वंशः नाम्नीति शः । इत्यमर- टीकायां भरतः ॥ * ॥ (यथा, रघुः । १ । २ । “क्व भूर्य्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥” पुत्त्रः । यथा, भागवते । ९ । २ । १७ । “नृपस्य वंशः सुमतिर्भूतज्योतिस्ततो वसुः ॥”) तृणजातिविशेषः । वा~श इति भाषा । तत्- पर्य्यायः । त्वक्सारः २ कर्म्मारः ३ त्वचिसारः ४ तृणध्वजः ५ शतपर्व्वा ६ यवफलः ७ वेणुः ८ मस्करः ९ तेजनः १० । इत्यमरः । २ । ४ । ६० ॥ किष्कुपर्व्वा ११ । इति जटाधरः ॥ वम्भः १२ । इति शब्दरत्नावली ॥ तृणकेतुकः १३ कण्टालुः १४ कण्टकी १५ महाबलः १६ दृढ- ग्रन्थिः १७ दृढपत्रः १८ धनुर्द्रुमः १९ धानुष्यः २० दृढकाण्डः २१ ॥ (यथा, ऋतुसंहारे । १ । २५ । “ध्वनति पवनविद्धः पर्व्वतानां दरीषु स्फुटति पटुनिनादः शुष्कवंशस्थलीषु । प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन क्षपयति मृगयूथं प्राप्तलग्नो दवाग्निः ॥”) अस्य गुणाः । अम्लत्वम् । कषायत्वम् । किञ्चित्तिक्तत्वम् । शीतलत्वम् । मूत्रकृच्छ्र- प्रमेहार्शःपित्तदाहास्रनाशित्वञ्च । इति राज- निर्घण्टः ॥ * ॥ अपि च । “वंशः सरो हिमः स्वादुः कषायो वस्ति- शोधनः । छेदनः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित् ॥ * ॥ तत्करीरः कटुः पाके रसे रूक्षो गुरुः सरः । कषायः कफकृत् स्वादुर्व्विदाही वातपित्तलः ॥ तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः । वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः ॥” इति भावप्रकाशः ॥ * ॥ (गृहोर्द्धकाष्ठम् । यथा, -- “वंशः पृष्ठास्थ्नि गेहोर्द्ध्वकाष्ठे वेणौ गणे कुले ॥” इति रघुटीकायां मल्लिनाथधृतकेशवः । ७ । ३९ ॥) पृष्ठावयवः । पिठेर दोडा इति भाषा ॥ (यथा, भागवते । ११ । ८ । ३३ । “यदस्थिभिर्निर्म्मितवंशवंश्य- स्थूनं त्वचा रोमनखैः पिनद्धम् ॥”) वर्गः । इति मेदिनी । शे, १३ ॥ (यथा, रघुः । ७ । ३९ । “उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ॥”) वाद्यभाण्डविशेषः । इति धरणिः ॥ वा~शी इति भाषा ॥ (यथा, रघुः । २ । १२ । “स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चै- रुद्गीयमानं वनदेवताभिः ॥” विवृतिरस्य वंशीशब्दे द्रष्टव्या ॥) इक्षुः । सालवृक्षः । इति राजनिर्घण्टः ॥ (प्राधागर्भ- सम्भूताप्सरोविशेषे, स्त्री । यथा, महाभारते । १ । ६५ । ४६ । “अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम् । अनूपां सुभगां भासीमिति प्राधा व्यजायत ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंश पुं।

वेणुः

समानार्थक:वंश,त्वक्सार,कर्मार,त्वाचिसार,तृणध्वज,शतपर्वन्,यवफल,वेणु,मस्कर,तेजन

2।4।160।2।1

स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा। वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॥

अवयव : वेणोः_फलम्,वम्शादिग्रन्थिः

वृत्तिवान् : वेणुवादकः

 : वाताहतवेणुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वंश पुं।

वंशः

समानार्थक:सन्तति,गोत्र,जनन,कुल,अभिजन,अन्वय,वंश,अन्ववाय,सन्तान,अनूक,निधन

2।7।1।2।1

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ। वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

 : सगोत्रः, ब्राह्मणादिवर्णचतुष्टयवाचकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंश¦ पु॰ वमति उद्गिरति वम--श तस्य नेत्त्वम्।

१ पुत्रपौत्रा-द्यपत्यवर्गे

२ तृणजातिभेदे (वां श) अमरः। (
“वंशः सरो हिमः स्वादुः कषायो वस्तिशोधनः। छेदनः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित्। तत्करीरःकटुः पाकरसे रूक्षो गुरुः सरः। कषायः कफकृत्स्वादुर्विदाही वातपित्तलः। तद्यवास्तु सरा रूक्षाःकषायाः कटुपाकिनः। वातपित्तकरा उष्णा बद्धमूत्राःकफापहाः” भावप्र॰।

३ पृष्ठावयवे

४ वर्गे च मेदि॰

५ इक्षौ

६ सालवृक्षे च राजनि॰।

७ वाद्यभेदे पुंस्त्री॰धरणिः स्त्रीत्वे गौरा॰ ङीष्
“वंशीकलेन वडिशेन” इति वृन्दावनचम्पूः। तद्विवृतिर्यथा(
“तालेन राजते गीतं तालो वादित्रसम्भवः। गरीय-स्तेन वादित्रं तच्चतुर्विधमुच्यते। ततं शुषिरमानद्धंघनमित्थं चतुर्विधम्। ततं तन्त्रीगतं वाद्यं वंशाद्यंशुषिरं तथा। चर्मावनद्धमानद्धं घनं तालादिकंसतम”। तत्र शुषिरं यथा
“वंशोऽथ पारी मधुरी({??}री शङ्खबाहुला। तोडही मुरली वुक्का शृङ्गिकास्वरनाभयः। शृङ्गं कापालिकं वंशश्चर्मवंशस्तथा परः। एते शुषिरभेदास्तु कथिताः पूर्वसूरिभिः। वर्त्तुलःसरलश्चैव प्रर्वदोषविवर्जितः। वैणवः खादिरो वापिरक्तचन्दनजोऽथ वा। श्रीखण्डजोऽथ सौवर्णो दन्ति-दन्तमयोऽपि वा। राजतस्ताम्रजो वापि लौहजःस्फाटिकोऽथ वा। कनिष्ठाङ्गुलितुल्येन गर्भरन्ध्रेणशोभितः। शिल्पविद्याप्रवीणेन वंशःकार्य्यो मनोहर। वंशेनैव मतःप्रीतिः मतङ्गमुनिनोदितम। ततोऽन्येऽपितदाकारा वंशा एव प्रकीर्त्तिताः। तत्र त्यक्त्वा शिरो-देशादधोद्विमितमङ्गुलम्। फुत्काररन्ध्र कुर्वीत मित-मङ्गुलिपर्वणा। पञ्च ङ्गुलानि संत्यज्य ताररन्ध्राणिकारयेत्। कुर्य्यात्तथान्यरन्ध्राणि सप्तसंख्यानि कौशलात्। बदरीवीजतुल्यानि संत्यज्यार्द्धार्द्धमङ्गुलम्। प्रान्तयो-बन्धनं कार्य्यं स्वराद्यैर्नादहेतवे। सिक्थकेन कला देया[Page4837-b+ 38] तेन सुस्वरता भवेत्। पञ्चाङ्गुलोऽयं वंशः स्यादेकैका-ङ्गुलिवृद्धितः। षडङ्गुलानि नाम्ना स्यात् यावदष्टादशा-ङ्गुलम्। फुत्कारताररन्ध्रस्य यावदङ्गुलिमन्तरम्। तदेवनाम वंशस्य वांशिकैः परिकीर्त्त्यते। एकाङ्गुलोद्व्यङ्गुलश्चत्र्यङ्गुलश्चतुरङ्गुलः। अतितारतरत्वेन वांशिकैः समुपे-क्षितः। त्रयोदशाङ्गुलो वंशोऽपरः पञ्चदशाङ्गुलः। नि-न्दितो वंशतत्त्वज्ञैस्तथा सप्तदशाङ्गुलः। महानन्दस्तथा-नन्दो विजयोऽथ जयस्तथा। चत्वार उत्तमा वंशा मतङ्गमुनिसम्मताः। दशाङ्गुलो महानन्दोनन्द एकादशा-ङ्गुलः। दृदशाङ्गुलमानस्तु विजयः परिकीर्त्तितः। चतुर्दशाङ्गुलमितो जय इत्यभिधीयते। ब्रह्मा रुद्रोरविर्विष्णुः क्रमादत्र व्यवस्थिताः। नैविड्यं प्रौढता-चापि मुस्वरत्वञ्च शीघ्रता। माधुर्य्यमिति पञ्चामी फुत्-कृतेषु गुणाः स्मृताः। शीत्कारबहुलः स्तब्धो विस्यरःस्फुटितो लघुः। अमधुरश्च विज्ञेयाः षड्दोषाः फुत्कृतेक्रमात्। वृथा प्रयोगबाहुल्यमल्पता गीतवादने। एभिर्दोषैर्युतोऽतीव निन्दितो वांशिको मतः। स्थानकादिनयाभिज्ञोगमकाढ्यः स्फुटाक्षरः। शीघ्रहस्तःकलाभिज्ञो वांशिको रक्त उच्यते। प्रमुक्तिर्वद्धमुक्तिश्चयुक्तिश्चेत्यङ्गुले गुणाः। सुस्थानत्वं सुस्वरत्वमङ्गुली-सारणक्रिया। समस्तगमकज्ञानं रागरागाङ्गवेदिता। क्रियाभाषाविभाषासु दक्षता गीतवादने। स्वस्थानेचापि दुःस्थाने नादनिर्माणकौशलम्। गातॄणां स्थान-दातृत्वं तद्दोषाच्छादनं तथा। वांशिकस्य गुणा एतेमया संक्षिप्य दर्शिताः” सङ्गीतदा॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंश¦ m. (-शः)
1. Race, lineage, family.
2. Assemblage, multitude.
3. A bamboo, (Bambusa arundinacea.)
4. The back-bone, the spine.
5. A staff.
6. A joint.
7. The Sa4l tree.
8. A sort of sugar- cane.
9. A particular measure of length equal to ten hastas. mf. (-शः-शी)
1. A pipe, a fife, a flute.
2. Bamboo-manna. E. वंश् to shine, घ aff., and नुम् augment; or वन् to sound, to serve, aff. श | According the Va4chaspatya:--वमति उद्गिरात वम-श तस्य नेत्त्वम् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशः [vaṃśḥ], [वमति उद्गिरति वम्-श तस्य नेत्वम् Uṇ.4.116]

A bamboo; धनुर्वशविशुद्धो$पि निर्गुणः किं करिष्यति H. Pr.23; वंशभवो गुणवानपि संगविशेषेण पूज्यते पुरुषः Bv.1.8 (where वंश has sense 2 also); Me.81.

A race, family, dynasty, lineage; स जातो येन जातेन याति वंशः समुन्नतिम् H.2; सूर्यप्रभवो वंशः R.1.2. &c.; see वंशकर, वंशस्थिति &c.

A shaft.

A flute, pipe, reed-pipe; कूजद्भिरापादितवंशकृत्यम् R.2.12.

A collection, assemblage, multitude (usually of similar things); सान्द्रीकृतः स्यन्दनवंशचक्रैः R.7.39.

A cross-beam; यदस्थिभिर्निर्मित- वंशवंश्यस्थूणं त्वचा रोमनखैः पिनद्धम् Bhāg.11.8.33.

A joint (in a bamboo).

A sort of sugar-cane.

The back-bone.

The Śāla tree.

A particular measure of length (equal to ten hastas).

The central projecting part of a sabre.

Bamboo-manna.

Offspring.

A son.

A particular musical note.

Pride, arrogance.

Comp. अग्रम्, अङ्कुरः the tip or end of a bamboo-cane.

the shoot of a bamboo. -अनुकीर्तनम् genealogy. -अनुक्रमः genealogy.-अनुचरितम् the history of a dynasty or family.-आगत a. inherited. -आवली a pedigree, genealogy.-आह्वः bamboo-manna. -कठिनः a thicket of bamboos.-कफम् cottony seeds floating in the air. -कर a.

founding a family.

perpetuating a race; वंशस्थितिं

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंश m. (derivation doubtful) the bamboo cane or any cane (accord. to L. also " sugarcane " and " Shorea Robusta ") RV. etc.

वंश m. the upper timbers or beams of a house , the rafters or laths fastened to the beams (of a roof ; See. प्राचीन-व्) AV. etc.

वंश m. a cross-beam , joist , joint VarBr2S.

वंश m. a reed-pipe , flute , fife Ka1v. Ra1jat.

वंश m. the back-bone , spine VarBr2S. BhP.

वंश m. a hollow or tubular bone BhP. (B.) Sch.

वंश m. the upper nasal bone L.

वंश m. the central projecting part of a scimitar or sabre VarBr2S.

वंश m. the line of a pedigree or genealogy (from its resemblance to the succession of joints in a bamboo) , lineage race , family , stock S3Br. etc. etc. ( esp. a noble race , a dynasty of kings , a list of teachers etc. ; See. Pa1n2. 2-1 , 19 Sch. )

वंश m. offspring , a son BhP.

वंश m. ( ifc. )a succession or collection of similar things , assemblage multitude , host (as of chariots , stars etc. ) MBh. Ka1v. etc.

वंश m. a partic. measure of length (= 10 हस्तs) Li1l.

वंश m. a partic. musical note S3is3.

वंश m. pride , arrogance Va1s.

वंश m. bamboo-manna L.

वंश m. N. of विष्णुL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Vaṃśa, denoting the ‘rafters’ or ‘beams’ of the house as made of bamboo cane, is found in this sense from the Rigveda[१] onwards.[२] Cf. Tiraścīnavaṃśa, Prācīnavaṃśa, and see Gṛha.

2. Vaṃśa (lit. ‘bamboo’) in the sense of ‘spiritual genealogy,’[३] ‘list of teachers,’ is found in the Śatapatha Brāhmaṇa,[४] the Vaṃśa Brāhmaṇa,[५] and the Śāṅkhāyana Āraṇyaka.[६]

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंश पु.
1. बीच में खाली स्थान (चिति की ईंटों के बीच अथवा एक दूसरे से 12 अंगुल की दूरी पर तने के चारों पक्षों के समानान्तर रेखाओं के बीच), मा.श्रौ.सू. 1०.2.3.1, 4-6; 1०.2.4.1; 1०.3.1.7; तुल. अनुवाद गेल्डर, पृ. 22०, बाँस की धरन अथवा सरदल Lintel (यज्ञ-मण्डप के निर्माण के लिए प्रयुक्त); एक मध्य धरन होती है, जिसके सामने गार्हपत्य कुण्ड तैयार किया जाता है, भा.श्रौ.सू. 5.2.3; हविराधान-मण्डप के आगे के भाग में स्थित) सरदल, जिस पर रराटी लटकाई जाती है, 12.8.7; तुल. प्राचीनवंश।

  1. i. 10, 1.
  2. Av. iii. 12, 6;
    ix. 3, 4;
    Maitrāyaṇī Saṃhitā, iv. 8, 10;
    Taittirīya Brāhmaṇa, i. 2, 3, 1;
    Śatapatha Brāhmaṇa, ix. 1, 2, 25;
    śālā-vaṃśa, Aitareya Āraṇyaka, iii. 2, 1;
    Śāṅkhāyana Āraṇyaka, viii. 1, where perhaps the main beam of the house is meant. Cf. Zimmer, Altindisches Leben, 71, 153;
    Bloomfield, Hymns of the Atharvaveda, 346.
  3. From the analogy of the successive joints of the bamboo. Cf. ‘familytree.’
  4. x. 6, 5, 9;
    Bṛhadāraṇyaka Upaniṣad, vi. 3, 14.
  5. Indische Studien, 4, 374.
  6. xv. 1.
"https://sa.wiktionary.org/w/index.php?title=वंश&oldid=504046" इत्यस्माद् पुनः प्राप्तिः