गृह

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृह, त् क ङ ग्रहे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-आत्मं-सकं-सेट् ।) सप्तमस्वरी । क ङ, गृहयते । ग्रहो ग्रहणम् । इति दुर्गादासः ॥

गृहम्, क्ली, (गृह्णाति धान्यादिकं जीवनार्थं यस्मि- न्निति । ग्रह + “गेहे कः ।” ३ । १ । १४४ । इति कः ।) इष्टकादिरचितवासस्थानम् । घर इति भाषा ॥ (यथा, मनुः । २ । ३४ । “चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं गृहात् ॥” अर्द्ध्वर्च्चादित्वादेवायं शब्दो विभाषया पुंसि च वर्त्तते । तत्र बहुवचनान्त एव । यथा, -- “गृहाः पुंसि च भूम्न्येव ।” इत्यमरः ॥ अत- एव मनौ । ४ । २५० । “शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि ॥”) तत्पर्य्यायः । गेहम् २ उदवसितम् ३ वेश्म ४ सद्म ५ निकेतनम् ६ निशान्तम् ७ वस्त्यम् ८ सदनम् ९ भवनम् १० अगारम् ११ मन्दिरम् १२ गृहाः १३ निकाय्यः १४ निलयः १५ आलयः १६ वासः १७ कुटः १८ शाला १९ सभा २० । इत्य- मरः । २ । २ । ४-५ ॥ पस्त्यम् २१ सादनम् २२ आगारम् २३ कुटिः २४ कुटी २५ गेहः २६ निकेतः २७ साला २८ मन्दिरा २९ ओकः ३० । इति भरतः ॥ निवासः ३१ संवासः ३२ आवासः ३३ अधिवासः ३४ निवसतिः ३५ वसतिः ३६ केतनम् ३७ । इति शब्दरत्नावली ॥ गयः ३८ कृदरः ३९ गर्त्तः ४० हर्म्म्यम् ४१ अस्तम् ४२ दुरोणे ४३ नीलम् ४४ दुर्य्याः ४५ सुतार्थदा तथाप्युदक् सुरेशदिक्प्लवा मही ॥” अन्यद्विवरणन्तु तत्रैव विस्तरशो द्रष्टव्यम् ॥ * ॥ गृहकर्म्मणि वर्ज्यकाष्ठान्याह यथा, ज्योतिषतत्त्वे । “क्षीरिवृक्षोद्भवं दारु गृहेषु न निवेशयेत् । कृताधिवासं विहगैरनिलानलपीडितम् ॥ गजैर्विभग्नञ्च तथा विद्युन्निर्घातपीडितम् । चैत्यदेवालयोत्पन्नं वज्रभग्नं श्मशानजम् ॥ देवाद्यधिष्ठितं दारुनीपनिम्बविभीतकान् । कण्टकिनोऽसारतरून् वर्जयेद् गृहकर्म्मणि ॥ वटाश्वत्थौ च निर्गुण्डीं कोविदारांस्तथैव च । प्लक्षकं शाल्मलीञ्चैव पलाशञ्च विवर्जयेत् ॥” * ॥ गृह्यते निर्द्दिश्यतेऽनेन इति ।) नाम । (गृह्यते स्वीक्रियते धर्म्माचरणायासौ इति ।) कलत्रम् । इति शब्दरत्नावली ॥ तथा च स्मृतिः । “न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । तया हि सहितः सर्व्वान् पुरुषार्थान् समश्नुते ॥”

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृह नपुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

2।2।4।2।1

भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम्. गृहं गेहोदवसितं वेश्म सद्म निकेतनम्.।

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

गृह पुं-बहु।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

2।2।5।2।1

निशान्तवस्त्यसदनं भवनागारमन्दिरम्. गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः॥

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

गृह पुं-बहु।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

3।3।239।1।1

दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः। व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृह¦ ग्रहणे अद॰ चु॰ आत्म॰ सक॰ सेट्। गृहयते अजगृहत गृहयालुः। [Page2632-b+ 38]

गृह¦ न॰ गृह्यते धर्माचरणाय ग्रह--गेहार्थे क। इष्टका-मृत्तिकादिरचिते

१ गेहे। अर्द्धर्च्चादित्वादयमुभयलिङ्गःतत्र एकगृहे न॰ पुंलिङ्गस्तु बहुवचनान्त एव
“तत्रा-गारं धनपतिगृहानुत्तरेणास्मदीयम्” मेधदू॰।
“जाला-गताभ्योऽधिगृहं गृहिण्यः”
“गृहाणि नीब्रैरिव तत्ररेजुः” लिप्तेषु भासा गृहदेहलीनाम्” गृहैर्विशालैरपिभूरिशालैः” माघः। चु॰ गृह--ग्रहणे कर्मणि अच्।

२ कलत्रे
“न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते” इति स्मृतिः।

३ नामनि शब्दर॰

४ मेषादिभवने राशौ च। गेहनिर्माणप्रयोजनमाह वशिष्ठः
“वास्तुज्ञानं प्रवक्ष्यामियदुक्तं व्रह्मणा पुरा। ग्रामसद्मपुरादीनां निर्माणंवक्ष्यते मया”। भवि॰ पु॰
“गृहस्थस्य क्रियाः सर्व्वाःन सिध्यन्ति गृहं विना। यतस्तस्माद् गृहारम्भप्रवेशसमयं ब्रुवे। परगेहे कृताः सर्वाः श्रौतस्मार्त्तादिकाःक्रियाः। निष्फला स्युर्यतस्तासामधीशः फलमश्नुते” तत्र ग्रामादिभेदे पुरुषभेदस्य शुभाशुभं राशिभेदेन द्वार-निवेशनञ्चोक्तम्
“यद्भं द्व्यङ्कसुतेशदिङ्तितमभौ ग्रामःशुभोनामभात्स्वं वर्गं द्विगुणं विधाय परवर्गाढ्यं गजैःशेषितम्। काकिण्यस्त्वनयोश्च तद्विवरतो यस्याधिकाःसोऽर्थदोऽथ द्वारं द्विजवैश्यशूद्रनृपराशीनां हितं पूर्वतः” मु॰ चि॰।
“व्यवहारप्रसिद्धं यन्नाम (नीलकण्ठः) इत्या-दिकं तस्यावकहडचक्रानुसारेण यदनुराधादिकं नक्षत्रंततो यद्वृश्चिकादिराशिः स्यात्तन्नामभमेवं यस्मिन् ग्रामेनगरे वा बस्तुमिष्यते तस्य (चरणाद्रिः) इत्यादिकं यन्नामतस्माज्जातो यो राशिर्मीनादिस्तद्ग्रामभम् एवं नाम-भद्वयं ज्ञात्वा नामभात् पुरुषनामराशेः सकाशात् यद्भंयस्यग्रामस्य भं राशिः यदा द्वितीयो नवमः पञ्चमः एका-दशसङ्ख्योदशमश्च स्यात्तदासौ ग्रामः स्वस्य शुभो फलदातास्यात् अन्यथा न भवतीत्यर्थः। यथा नीलकण्ठस्य वृ-श्चिकराशितः पञ्चमोमीनराशिरतश्चरणाद्रिर्नीलकण्ठस्यंवासयोग्यः सन् शुभफलदो न वाराणस्यादिः। उक्तञ्चमुहूर्त्तमार्तण्डे
“नामर्क्षात् द्विसुताङ्कदिग्भवगतो ग्रामःशुभोनाऽन्यथेति”। अत्र काकिण्यादौ नामराशिरेवग्राह्यः। उक्तञ्च
“काकिण्यां वर्गशुद्धौ च वादे द्यूते-स्वरोदये। मन्त्रे पुमर्भूवरणे नामराशेः प्रधानतेति” अथ ग्रामात्मनोरुत्तमर्णत्वमधमर्णत्वं चाह स्वं वर्ग-मिति। वर्गास्तु
“अकचटतपयशाः खगेशमार्जारसिंहशुनाम्। सर्पाखुमृगावीनां निजपञ्चमवैरिणामष्टौ” [Page2633-a+ 38] इत्युक्तास्तत्र यस्य पुंसः यत्संख्याकोवर्गोगरुडादिःस्यात्तद्वर्गसंङ्ख्यां द्विगुणां विधाय कृत्वा परस्य ग्रामस्य वर्गसंङ्ख्यया आद्यां च कृत्वा गजैरष्टभिः शोषितमव-शिष्टन्ताः काकिण्योज्ञेयाःपुंसः। एवं ग्रामस्यापि स्ववर्ग-संङ्ख्यां द्विगुणां कृत्वा परस्य पुंसः वर्गसंङ्ख्यया युक्तां चकृत्वा गजभक्तावशिष्टाःग्रामस्य कादिण्यो भवन्ति एवमनयोःपुरुषग्रामयोः काकिण्यःस्युः। तत्र तद्विवरतः पुरुगका-किणीनां ग्रामकाकिणीनां विवरमन्तरन्तस्मिन् क्रियमाणेयस्य ग्रामस्य दातृत्वात् पुंसः काकिण्याविशेषे पुंसोद्रव्य-हानिः। ग्रामस्य प्रतिग्रहीतृत्वादित्यर्थः। यथा। नील-कण्ठस्य वर्गः सर्पः तत्संङ्ख्या

५ द्विगुणा

१० चरणाद्रे-र्वर्गःसिंहस्तत्संङ्ग्यया

३ युक्ता

१३ गजभक्तशेषं

५ नी-लकण्ठस्य काकिण्यः। एवं ग्रामवर्गसङ्ख्या

३ द्विगुणा

६ नीलकण्ठवर्ग

५ सङ्ख्यया युक्ता

११ अष्टभक्ताघशेषं

३ ग्रामस्य काकिण्यः द्वयोरन्तरे शेषं

२ नीलकण्ठस्य दातृ-त्वात् स्वद्रव्यहानिरित्यर्थः। उक्तञ्च
“स्ववर्गं द्घिगुणंकृत्वा परवर्गेण योजयेत्। अष्टभिस्तु हरेद्भागं योऽधिकःस ऋणी भवेत्” इति। इतोऽन्यथाहुः कश्यपवशिष्ठनार-ददाः
“अकारादिषु वर्गेषु दिक्षु प्रागादिघु क्रमात्। गृध्रमार्जारसिंहाश्वसर्पाखुगजमेषकाः। दिग्वर्गाणामियं योनिः स्ववर्गात्पञ्चमो रिपुः। रिपुवर्गं परि-त्यज्य शेषवर्गाः शुभप्रदाः। साध्यवर्गं पुरः स्थाप्यपृष्ठतः साधकं न्यसेत्। विभजेदष्टभिः शेषं साधकस्यधनं स्मृतम्। व्यत्ययेनागतं शेषं साधकस्य ऋणंस्मृतम्। धनाधिकं स्वल्पमृणं सर्वसंपत्प्रदं स्मृतम्” इति। गृघ्रोऽत्र गरुडः गरुडसर्पयोर्महावैरस-त्त्वात् साध्य इत्यर्थः। साध्यो वासयोग्यो ग्रामादि-स्तस्य वर्गं वर्गसंख्यां पुरः संस्थाप्य साधकस्य नीलकण्ठादेःवर्गसंख्यां पृष्ठतोन्यसेत्। एवं विशिष्टोऽङ्कोऽष्टभिर्भक्तः शेषंसाधकस्य ऋणं स्यात्। यथा साध्यवर्गसंख्या

३ पुरः-स्थापिता साधकस्य

५ वर्गसंख्या च पृष्ठतः साचैवम्

५३ एतास्त्रिपञ्चाशत् अष्टभक्तावशिष्टं साध्यस्य

५ धनंसाधकस्य साध्यस्य च संख्या विपरीतस्थापित

३५ अष्टभक्तंशेषं साधकस्य

३ ऋणं स्यात्। अथ द्वारनिवेशनमाह। अथेति। द्विजादिराशिमतां पुंसां क्रमेण पूर्वतःप्राच्यादिदिक्चतुष्टये द्वारं हितं यथा द्विजराशयःकर्कवृश्चिकमीनास्तेषां पूर्वदिशि। वैश्यराशयो वृषक-न्यामकरास्तेषां दक्षिणदिशि। शूद्रराशयो मिथुनतुला[Page2633-b+ 38] कुम्भास्तेषां पश्चिमदिशि नृपराशयो मेषसिंहधनुर्धरा-स्तेषामुत्तरदिशि द्वारनिवेश इत्यर्थः” पीयु॰ धा॰अत्रेदं वीध्यम्
“शेषाङ्केन फले बोध्ये शेषाभावे तुहारकात्। अङ्कादेव फलं बोध्यमिति तन्त्रविदां मतम्” ज्यो॰ त॰ वचनादङ्काभावे हारकाङ्कात् फलनिर्णयः। राशिविशेषस्य ग्रामादिस्थानविशेषे निवासनिषेधमाह।
“गोसिंहनक्रमिथुनं निवसेन्न मध्ये ग्रामस्य पूर्वककुभो-ऽलिवृषाङ्गनाश्च। कर्को धनुस्तुलभमेषघटाश्च तद्वद्वर्गाःस्वपञ्चमपरा बलिनः स्युरैन्द्र्याः” मु॰ चि॰
“वस्तुमिष्टस्यग्रामस्य वस्त्रविभागवन्नवधा विभागं कृत्वा मध्ये मध्य-मविभागे गोसिंहनक्रमिथुनं समाहारद्वन्द्वः न निवसेत्वृषसिंहमकरमिथुनराशिमन्तः पुरुषा न वसेयुः। अथपूर्बककुभः पूर्वदिशातोऽष्टदिक्षु अलिर्वृश्चिकः तदादिराशिमन्तः पुरुषाः न वसेयुः। यथा। पूर्वस्यां वृश्चिकःआग्नेय्यां झषो मीनः, दक्षिणस्यां कन्या, नैरृत्यां कर्कःपश्चिमायां धनुः। वायव्यां तुला उत्तरस्यां मेषः ऐशा-न्यां कुम्भः न वसेदित्यर्थः। अथ वर्गाः। अकचटत-पयशवर्गाः अष्टौ ऐन्द्र्याः पूर्वदिशमारभ्य अष्टदिक्षुबलिनः। यथा अवर्गः पूर्वस्याम्। कवर्ग आग्नेय्याम्। चवर्गो दक्षिणस्याम् टवर्गो नैरृत्याम्। तवर्गः पश्चिमायाम्पवर्गो वायव्याम्। यवर्गः उत्तरस्याम्। शवर्ग ऐशान्यांबलीत्यर्थः। कीदृशाः वर्गाः स्वपञ्चमपराः स्वस्मात् पञ्च-मः परः शत्रुर्येषां ते। यस्य अवर्गः पूर्वस्यां बली तेनस्वपञ्चमपश्चिमायां द्वारं निवासो वा न विधेयः एवंकवर्गादीनामाग्नेयादिसप्तदिक्षु बलित्वं तत् पञ्चमस्यरिपुत्वञ्च ज्ञेयम्”। पी॰ धा॰( तत्र गृहयोग्यभूमिपरीक्षा विश्वकर्मणोक्ता यथा
“अथातः संप्रवक्ष्यामि लोकानां हितकाम्यमा। श्वेतारक्ता तथा पीता कृष्णा वर्णानुपूर्बशः। सुगन्धा ब्राह्मणीमूमीरक्तगन्धा तु क्षत्रिणो। मधुगन्धा भवेद्वैश्यामद्यगन्धा च शूद्रिणी। मधुरा ब्राह्मणी भूमिः कषायाक्षत्रियान्विता। अम्ला वैश्या भवेदूमिस्तिक्ता शूद्रा प्रकीर्त्तिता। चतुरस्रा द्विपाकारा सिंहा वृषभरूपिणी। वृत्तं च भद्रपीठं च त्रिशूलं लिङ्गसन्निभम्। प्रासा-दध्वजकुम्भादिदेवानामपि दुर्लभम्। त्रिकोणां शकटा-कारां शूर्पव्यजनसन्निभाम्। मुरजाकारसदृशीं सर्प-मण्डूकरूपिणीम्। खराजगरसंकाशां वक्रां चिपिटरूपि-णीम्। मुद्गराभां तथा लूककाकसर्पनिभां तथा। [Page2634-a+ 38] शूकरोष्ट्राजसदृशीं धनुःपरशुरूपभाम्। क्रकलासशवा-कारां दुर्गन्धां च विवर्जयेत्। मनोरमाऽत्र या भूमिःपरीप्सेत्तां प्रयत्नतः। द्वितीया दृढभूमिश्च निम्ना चोत्तर-पूर्बके। गम्भीरा ब्राह्मणी भूमिर्नृपाणां तुङ्गमाश्रिता। वैश्यानां समभूमिश्च शूद्राणां विकटा स्मृता। सर्वेषांचैव वर्णानां समभूमिः शुभावहा। शुक्लवर्णा चसर्वेषां शुभा भूमिरुदाहृता। कुशकाशयुता ब्राह्मी दूर्वानृपतिवल्लभा। फलपुष्पयुता वैश्या शूद्राणां तृणसंयुता। नदीपाताश्रितां तद्वत् महापाषाणसंयुताम्। मुश-लाभां महाधोरां वायुना वापि पीडिताम्। वल्लझल्लकसंयुक्तां मध्ये विकटरूपिणीम्। श्वशृगालनिभां रूक्षांदन्तिकैः परिवारिताम्। चैत्यश्मशानवल्मीकधूर्त्ता-न्तिकेषु वर्त्तिनीम्। चतुष्पथमहावृक्षदेवमन्त्रिनिवासतः। अदूरस्थां श्वभ्रगर्त्तयुक्ताञ्चैव विवर्जयेत्” भूमिभेदेफलानि तत्रैव
“सुवर्णगन्धा सुरसा धनधान्य शुभावहा। व्यत्यये व्यत्ययफला ततः कार्यं परीक्षणम्। चतुरस्रामहाधन्या द्विपाभा धनदायिनी। सिंहाभा सद्गुणन्यूनावृषामा पशुवृद्धिदा। वृत्ता सद्वृत्तदा मूमिर्भद्रपीठनिभातथा। त्रिशूलरूपा वीराणां सत्खनिर्धनसौख्यदा। लिङ्गाभा लिङ्गिता श्रेष्ठा प्रासादध्वजसन्निभा। पदोन्नतिंपकुरुते कुम्भाभा धनवर्द्धिनी। त्रिकोणशकटाकारा शूर्प-व्यजनसन्निभा। क्रमेण सुतसौख्यार्थधर्महानिकरी-स्मृता। मुरजा वंशहा सर्पमण्डूकाभा भयावहा। नैःस्वाखरानुकारा च मृत्युदाऽजगरान्विता। चिपिटा पौरुषैर्हीना वक्राकारा तथैव च। काकोलूकनिभा तद्वद्दुःख-शोकभयप्रदा। सर्पाभा पुत्रपौत्रघ्नी वंशाभा वंशहानिदा। शूकरोष्ट्राजसदृशी धनुःपरशुरूपिणी। कुचेलान्म-लितान् मूर्खान् ब्रह्मघ्नान् जनयेत् सुतान्। कृकलासशवा-कारा मृतपुत्रा धनार्त्तिदा। दुर्गम्यां पापिनीं दुष्टप्रजांभूमिं परित्यजेत्। मनोरमा सुतप्रदा दृढा धनप्रदा मता। सुतार्थदा तथाप्युदक्सुरेशदिक्प्तवा सही। गम्भीरशब्दाजनयेत् पुत्रान् गम्भीरनिःस्वनान्। तुङ्गा पदान्वितान्कुर्यात् सदा सौभाग्यदायिनी। विकटा शूद्रजातीनांतथा दुर्गमवासिनाम्। शुभदा न परेषां च तस्कराणांशुभावहा। सुवर्णवर्णा खान् वर्णान् वर्णानामाधिपंसदा। शुक्लवर्णा च सर्वेषां पुत्रपौत्रप्रवर्द्धिनी। कुश-काशान्विता ब्रह्मवर्चसान् कुरुते सुतान्। दूर्वान्विता वीर-जनिः फलाढ्या धनपुत्रदा। नदीपाताश्रिता मूर्खान्[Page2634-b+ 38] मृतवत्सांस्तथैव च। दरिद्रानश्ममध्यस्था गर्त्तान्तस्था मृषा-युतान्। विवरा पशुपुत्रार्त्तिदायिनी सौख्यहारिणी। वक्रातिवक्रा जनयेत् पुत्रान् विद्याविहीनकान्। शूर्प-मार्जारलगुडनिभा भीतिसुतार्तिदा। मुशला मुशलान्पुत्रान् जतयेद्वंशघातकान्। घोराघोरप्रदा वायुपीडितावायुमीतिदा। बल्लझल्लकसंयुक्ता पशुहानिप्रदा सदा। विकटा विकटान् पुत्रान् श्वशृगालनिभा तथा। ददातिरूक्षा परूषा दुर्बलान् जनयेत् सुतान्। गृहस्वामिभयंचैव वल्मीके विपदः स्मृताः। धूर्त्तालयसमीपे तुपुत्रस्य मरणं ध्रुवम्। चतुःपथे त्वकीर्तिः स्यादुद्वेगोदेवसद्मनि। अर्थहानिश्च सचिवे श्वभ्रे विपद उत्कटाः। गर्तायां तु पिपासा स्यात् कूर्माभं धननाशदम्। दश-ण्डादिपर्यन्तं पीड्यन्ते पुरवासिनः। चैत्यश्मशानदेवानांगृहाणि परिवर्जयेत्। निखनेद्धस्तमात्रेण पुनस्तेनैवपूरयेत्। पांसुनाधिकमध्योनाः श्रेष्ठमध्याधमाः क्रमात्। जलेनापूरयेत् श्वभ्रं शीघ्रं गत्वा शतं पदम्। तथैवागम्यवीक्षेत न हीनं सलिलांशुना। अरत्निमात्रे श्वभ्रे वाह्यनुलिप्ते च सर्वतः। वृतमामशरावस्थं कृत्वावर्त्तिचतुयम्। ज्वाल--येद्भूपरीक्षार्थं सम्पूर्णं सर्व-दिङ्मुखम्। दीप्त्वा पूर्वादि गृह्णीयाद्वर्णानामनुपूर्बशः। हलाकष्टे तथोद्देशे सर्ववीजानि वावयेत्। त्रिपञ्च-सप्तरात्रेण संप्ररोहन्ति तान्यपि। उप्तवीजा त्रिरात्रेणसाङ्कुरा शोभना मही। मध्यमा पञ्चरात्रेण सप्त-रात्रेण निन्दिता। तिलान्वा वापयेत्तत्र यवांश्चापि चसर्षपान्। अथ वा सर्वधान्यानि वापयेच्च समन्ततः। यत्र नैव प्ररोहन्ति तां प्रयत्नेन वर्जयेत्। व्रीहयःशालयो मुद्गाः गोधूमाः सर्षपास्तिलाः। यवाश्चोषधयःसप्त सर्ववीजानि चैव हि। सुवर्णताम्रपुष्पाणि श्वभ्र-मध्यं गतानि च। यस्य नान्नि समायान्ति स भूमिस्तस्यशोभना। पांसवो रेणुतां नीता निरीक्ष्याश्चान्तरिक्षगाः। अधोमध्योर्द्धगा नृणां गतितुल्यफलप्रदाः”। भूमेः पूर्वादिदिक्प्लवफलं तत्रैवोक्तम्
“चतुरस्त्रां समांशुद्धां भूमिं कृत्वा प्रयत्नतः। तस्मिन् दिक्साधनं कार्यंवृत्तमध्ये गते दिशि। पूर्बप्लवे भवेल्लक्ष्मीराग्रेय्यां शोकमादिशेत्। याम्यां याति यमद्वारं नैरृते च महाभयम्। पश्चिमे कलहं कुर्याद्वायव्यां मृत्युमादिशेत्। उत्तरेवंशवृद्धिः स्यादीशाने रत्नसञ्चयम्। दिङ्मूढे कुलनाशःस्याद्वक्रे दारिद्र्यमादिशेत्”। [Page2635-a+ 38]( गृहे आयामविस्तारभेदेन ध्वजाद्यायास्तत्फलंवर्णदिग्भेदेन ध्वजादीनां विधिनिषेधौ चाह तत्रैव
“विस्तारेण हतं दैर्घ्यं विभजेद्दष्टभिस्ततः। यच्छेषं स भवे-दायोध्वजाद्यास्ते स्युरष्टधा। ध्वजो धूमो हरिः श्वा गौःखरेभौ वायसोऽष्टमः। पूर्वादिदिक्षु चाष्टानां ध्वजादीनामवस्थितिः। स्वस्थानात् पञ्चमे स्थाने वैरत्वं च मह-द्भवेत्। विषमायः शुभः प्रोक्तः समायः शोकदुःखदः। स्वस्थानगा बलिष्ठाः स्युर्नचान्यस्थानगाः शुभाः। ध्वजः सिंहे तौ च गजे ह्येते गवि शुभप्रदाः। वृषो नपूजितोह्यत्र ध्वजः सर्वत्र पूजितः। वृषसिंहगजाश्चैवकुण्डे कर्कटकीटयोः। द्विपः पुनः प्रयोक्तव्यो वापीकूप-सरःसु च। मृगेन्द्रमासने दद्याच्छयनेषु गजं पुनः। वृषं भोजनपात्रेषु छत्रादिषु पुनर्ध्वजम्। अग्निवेश्मसुसर्वेषु, गृहे वह्न्युपजीविनाम्। धूमं नियोजयेत् केचित्श्वानं म्लेच्छादिजातिषु। खरो वैश्यगृहे शस्तोध्वाङ्क्षः शेषकुटीषु च। वृषसिंहगजाश्चापि प्रासादपुरवेश्मसु। गजायेवा ध्वजाये वा गजानां सदनं शुभम्। अश्वालयं ध्वजायेच खराये वृषभेऽपि वा। उष्ट्राणां मन्दिरं कार्यं ग-जाये वा वृषध्वजे। पशुसद्म वृषाये च ध्वजाये वा शुभ-प्रदम। शय्यासु वृषभः शस्तः पीटे सिंहः शुभप्रदः। अमत्रच्छत्रवस्त्राणां वृषाये वा ध्वजेऽपि वा। पादुकोपा-नहौ कार्य्ये सिंहायेऽप्यथ वा ध्वजे। स्वर्णरौप्यादिधातूनामन्येषां तु ध्वजः स्मृतः। ब्राह्मणे तु ध्वजः श्रेष्ठःप्रतीच्यां कारयेन्मुखम्। सिंहश्च भूभृतां शस्त उदीच्यांच मुखं शुभम्। विशां वृषः प्राग्वदन शूद्राणां दक्षिणेगजः। सर्वेषामेव चायानां ध्वजः श्रेष्ठतमोमतः। ध्वजायः क्षत्रियविशोः प्रशस्तो गुरुरब्रवीत्सिंहायः सर्वथा त्याज्यो ब्राह्मणेन वृषस्तथा। सिंहायेशुनि चाये च अल्पायासं प्रजायते। ध्वजाये पूर्ण-सिद्धिः स्याद्वृषायः पशुवृद्विदः। गजाये सम्पदांवृद्धिः शेषायांः शोकदुःखदाः”। तथा च ध्वजाद्याआया यत्र स्युस्तद्दिङमुखद्वाराणि स्युरिति फलितार्थ
“प्रत्यगध्वज द्वारमर्थाक्ष्णि पूर्वं हरावुदक् स्यात्द्विरदे च याम्यम्” इति श्रीपत्युक्तेः
“सर्वद्वार इहध्वजो वरुणदिग्द्वारं च हित्वा हरिः प्राग्द्वारोवृषभो गजो यमसुरेशाशामुखे स्याच्छुभः” महेश्वरो-क्तेश्च।
“पश्चादुदकपूर्वयमे द्विजादितः” मु॰ चि॰ ब्राह्म-णादिवर्णभेदेन द्वारनिवेशनमुक्तम् द्विजादितः ब्रह्म-[Page2635-b+ 38] णादिवर्णभेदेन पश्चादादि दिक्षु गृहद्वारं स्यात्। यथाब्राह्मणस्य पश्चान्मुखं गृहद्वारं क्षत्रियस्योदग्दिशिवैश्यस्य पूर्वस्यां, शूद्रस्य यमे दक्षिणस्याम् इत्यर्थः। उक्तञ्चश्रीपतिना
“ध्वजे प्रतीच्यां मुखमग्रजानामुदङ्मुखभूमिभृताञ्च सिंहे। विशो वृषे प्राग्वदनं गजे तु शूद्रस्ययाम्याननमामनन्तीति”। टोडरानन्दे च्यवनः
“ध्वजेपरास्यं विप्राणां राज्ञां सिंहेऽप्युदङ्मुखम्। गजेशूद्रस्य याम्यास्यं विशः पूर्वमुखं वृषे इति॥ ” पी॰ धा॰गृहाणामायवारांशादिकं तत्फलञ्च विश्व॰ उक्तं वथा
“पिण्डे नवाङ्काङ्गगजैरग्निनागाष्टसागरैः। नागैश्चगुणिते भक्ते क्रमादेते पदार्थकाः। नागाद्रिनवसूर्याष्टर्क्षतिथ्यृक्षखभानुभिः। आयो वारोऽशको द्रव्य-मृणमृक्षन्तिथिर्युतिः। आयुश्चाथ गृहेशर्क्षगृहभैक्यंमृतिप्रदम्। संपूर्णाः शुभदा ह्येते ह्यसंपूर्णास्त्वनिष्टदाः”। अस्यार्थः। इष्टगृहदीर्घः

२७ हस्ताः विस्तारः

७ हस्ताः।
“तथायते तद्भुजकोटिघातः” लीला॰ उक्तदिशा क्षेत्रफ-लम्

२०

३ इदं पिण्डं नवधा स्थापितम् यथाक्रमम् नवाद्यड्कैर्गुणिते नागाद्यङ्कैर्हृते आयादयःस्युः। यथा

२०

३ पिण्डे

९ गुणिते

१८

२७ ।

८ भक्ते शेषाङ्कात्

३ आयसिंहाख्यः।

९ हतः

१८

२७ ।

७ भक्तः शेषः

७ तेन वारशनिः।

६ गुणः

१२

१८ ।

९ भक्तः

३ शेषः अंशकः (नवां-शकः)।

८ गुणः

१६

२४ ।

१२ भक्तः

४ धनम्।

३ गुणः

६०

९ ।

८ भक्तः शेषः

१ ऋणम्।

८ गुणः

१६

२४ ।

२७ भक्तः शेषः

४ नक्षत्रं रोहिणी।

८ गुणः

१६

२४ ।

१५ भक्तः। शेषः

४ चतुर्थी तिथिः।

४ गुणः

८१

२ ।

२७ भक्तः शेषः

२ पीतिर्योगः।

८ गुणः

१६

२४ ।

१२

० भक्तः शेषः

६४ वर्षाआयुः। आयादीनां प्रयोजनं पी॰ धा॰ दर्शितं यथाअथैषामायादीनां प्रयोजनमुच्यते। आयस्य तावत्
“विष-मायः शुभायैव समायः शोकदुःखदः” इति वसिष्ठोक्तम्।
“वाराणां च सूर्यारवारराश्यंशाः सदा वह्निभयप्रदाः। शेषग्रहाणां वारांशाः कर्त्तुरिष्टार्थसिद्धिदाः” इति यथागणितेनागतो भौमवारः सोऽपि निन्द्यः तदाशी मेष-वृश्चिकौ निन्द्यौ एवमन्येष्वपि राशिषु तन्नवांशालिन्द्याः
“ग हस्यागतम् यत्तु तद्द्विराश्यात्मकं यदि। तन्नवांश-वशास्तत्र ज्ञातव्यं सर्वदा ग हमिति” तथा च कृत्तिकाद्विराश्यात्मिका तत्रैकावशेषे मेषः। मृगेऽपि द्व्यादिके शेषेमिथुनमन्यथा वृषः। पुनर्वसावप्यंशकत्रय यावन्मिथुनमन्यथाकर्कः। एवमुत्तराफाल्गुन्यादिषु द्विराश्यात्मकेषूहनीय वि-[Page2636-a+ 38] द्वद्भिः। न तु निःसन्दिग्धेष्वेकराश्यात्मकेषु अश्विन्यादिषु। ( धनर्णयोश्च फलम्
“धनाधिकं गृहं वृद्ध्यै निर्द्धनायऋणाधिकमिति”। नक्षत्रस्य फलम्
“विपत्प्रदा विपत्ताराप्रत्यरिः प्रतिकूलदः। मिधनाख्या तारका तु सर्वथा निध-नप्रदा। विवर्ज्यतारकास्वेतन्निर्माणमशुभप्रदम्। कुर्वन्नज्ञानतो मोहाद्दुःखभाग्व्याधिभाग्भवेत्। अत्र गृहन-क्षत्राद्दिनभं यत्संख्यं तन्नवभक्तमवशिष्टतारका विपत्ता-रादिकाः स्युश्चेत्तदानिष्टास्तद्दिने गृहारम्भं न कुर्या-दन्यस्मिन् दिने शुभतारासु गृहारम्भं कुर्यादित्यर्थःइति केचित्। अपरे तु गृहकर्तुनामनक्षत्राट्गृहभंसंगण्यं नवभक्तमवशिष्टं विपत्तारादिकं स्यात्तद्गृहम-निष्टमन्यथा शुभमिति यदाह कश्यपः
“दत्ते दुःखं तृती-यर्क्षं पञ्चमर्क्षं यशःक्षयम्। आयुःक्षयं सप्तमर्क्षं कर्त्तु-र्भाद्यदि सप्तममिति” वास्तुशास्त्रेऽपि
“गृहभात् स्वामिभंगण्य भक्त च नवभिः पुनः। यच्छेष सा भवेत्तारासप्तपञ्चत्रिकाऽधमेति” प्राहुः। यदा तु गृहकर्त्तुर्गृहस्यचैकं नक्षत्रं स्यात्तदा तच्छुभमशुभं वेति निर्णयमाह। वसिष्ठः
“गृहस्य तत्पतेस्त्वेकं धिष्ण्यं चेन्निधनप्रद-मिति” निधनं मरणम्। राश्यैक्येऽयं दोषः न तु भिन्न-राशित्वे तद्वाक्यस्य विवाहप्रकरणोक्तत्वात्। कैश्चिद-न्यदपि प्रयोजनमुक्तं तदुक्तं व्यवहारसमुच्चये
“त्रिभि-स्त्रिभिर्वेश्मनि कृत्तिकाद्यैरुक्छेदपुत्राप्तिधनानि शोकम्। शत्रोर्भयं राजभयं च मृत्युः सुखं प्रवासश्च नव प्रभेदाः” इति। गृहभवशाद्राशिज्ञानेऽपि प्रयोजनमाह स एव। (विश्वकर्म्मा) राशिकूटादिकमित्यादि (तद्वाक्यमनुपदंदृश्यम्) वास्तुशास्त्रे कृत्तिकादिषु द्विराशिषु भेषु राशि-निर्णयो यथा
“अश्विन्यादित्रयं मेषे सिंहे प्रोक्तं मघात्रयम्। मूलादित्रितयं चापे शेषेषु नव राशय” इति। शेषेषु भेषु रोहिण्यादिषु नव राशयो ज्ञेयाः। यथारोहिणीमृगयोर्वृषः। आर्द्रार्पुनर्वस्वोर्मिथुनम्। पुष्याश्लेषयोः कर्कः। एवं हस्तादिके श्रवणादिद्विके चकन्यामकराद्याराशयः स्युरित्यर्थः अयं च पक्षोवास्तुशास्त्रे नवाशानुक्तेरुक्तः। अत्र राशिकूटेनाडीवेधो न दोषाय। उक्तं च ज्योतिश्चिन्तामणौ( सेव्यसेवकयोश्चैव गृहतत्स्वामिनोरपि। परस्परंमित्रयोश्चेदेकनाडी प्रशस्यते” इति। तिथिप्रयोजनंतिथ्यानयनप्रकारान्तरं च वास्तुशास्त्रे
“शक्राहतंशेत्रफलं त्रिंशद्भक्तावर्शषकम्। तिथ्यः प्रतिपदाद्याःस्यु[Page2636-b+ 38] र्दर्शं रिक्तां च वर्जयेदिति”। तुल्यन्यायत्वाच्छुभाशुभप्रक-रणोक्तं नेष्टयोगवर्जनं च योगानां, प्रयोजनं स्पष्टमेवआयुषः प्रयोजनं तावत्कालं गृहस्थितिरिति” पी॰ धा॰आयादिफलं विश्व॰ वास्तुशास्त्रे
“धिष्ण्ये च वसुभिर्भक्तेव्ययः स्याच्छेषकाङ्कके। धनाधिकं गृहं वृद्ध्यै निर्द्ध-नाय ऋणाधिकम्। व्ययान्विते क्षेत्रफले ध्रुवाद्यक्षरसं-युते। त्रिभिः शेषे क्रमादिन्द्रयमभूभूमिपाशयाः। इन्द्रांशेपदवीवृद्धिर्महत्सौख्यं प्रजायते। यमांशे मरणं नूनंरोगशोकमनेकधा। राजांशे धनधान्यानि पुत्रवृद्धिश्चजायते। राशिकूटादिकं सर्वं दम्पत्योरिव चिन्तयेत्। नैःखं द्विद्वादशे नूनं त्रिकोणे त्वनपत्यता। षट् काष्टकेनैधनं स्याद्व्यत्यये मध्यमं स्मृतम्। (व्यत्यये द्वादशद्विती-यादौ) द्यूनस्थिते पुत्रलाभः स्त्रीलाभश्च तथैव च। जन्मतृतीये च तथा धनधान्यागमीभवेत। दशमैका-दशे चन्द्रे धनायुर्भद्रपुत्रदः। चतुर्थाष्टमरिप्फस्थोमृत्युपुत्रविनाशदः। त्रिकोणेऽत्वनपत्यं स्यात् केचिद्बन्धुगृहे शुभम्। वदन्ति चन्द्रेमुनयोनैतन्मम मतंस्मृतम्। अश्चिन्यादित्रयम् इत्यादिकम् (अनुपदमुक्तम्)। सूर्यारवारराश्यंशाः सदा वह्निभयप्रदा। शषग्रहाणां वारांशाः कर्त्तुरिष्टार्थसिद्धिदाः। गृहस्यागतभंयत्तु तद्धि राश्यात्मकं यदि। तन्नवांशवशात्तत्र ज्ञा-तव्यं सर्वदा गृहम्। विपत्प्रदा विपत्तारा प्रत्यरिःप्रतिकूलदः। निधनाख्या तु या तारा सर्वथा निध-नप्रदा। विवर्ज्य तारकास्वेतन्निर्माणमशुभप्रदम्। प्रत्य-रितारा भयदा निरंशर्क्षेतु मृत्युभीः। निधानाख्यातु या तारा स्त्रीसूतार्त्तिप्रदायिनी। कुर्वन्नज्ञानतोमोहाद्दुःखभाग्व्याधिभाग्भवेत्। तिथौ रिक्ते दरि-द्रत्वं दर्शे गर्भनिपातनम्। कुयोगे धनधान्यादिनाशःपातश्च मृत्युदः। वैधृतौ सर्वनाशय नक्षत्रैक्ये तथैव च। आयुर्विहीने गेहे तु दुर्भगत्वं प्रजायते। नाडीवेधो नशुभदस्तारा रोगभयप्रदा। गणवैरे पुत्रहानिर्द्धन-हानिस्तथैव च। योनौ कलिर्महादुःखं यमांशेमरणं ध्रुवम्। नक्षत्रैक्ये स्वामिमृत्युर्वर्णे वंशवि-नाशनम्। पापवारे दरिद्रत्वं शिशूनां मरणं तथा। केचिच्छनिं प्रशंसन्ति चौरमीतिस्तु जाय ते”। आयादिकचिन्ताया मर्यादां दिग्भेदेन गृहभेदनिर्माण-ञ्चाह विश्वकर्मा
“एकादशकरादूर्द्धं यावद्द्वात्रिंशहस्तकम्। तावदायादिकं चिन्त्यं तदृर्द्धं नैव चिन्तयेत्। आय-[Page2637-a+ 38] व्ययौ मासशुद्धिर्न जीर्णे चिन्तयेद्गृहे। शिलान्यासप्रकुर्वीत मध्ये तस्य विधानतः। ऐशान्यां देवतागेहंपूर्वस्यां स्नानमन्दिरम्। आग्नेयां पाकसदनं शयनंदक्षिणे न्यसेत्। शस्त्रगेहं च नैरृत्यां पश्चिमे भोजनाल-यम्। वायव्यां धान्यसदनं भाण्डारागारमुत्तरे। आग्नेयीपूर्वयोर्मध्ये दधिमन्थनमन्दिरम्। अग्निप्रेतेशयोर्मध्ये आज्यगेहं प्रशस्यते। याम्यनैरृतयोर्म-ध्ये पुरीषत्यागमन्दिरम्। नैरृत्यम्बुपयोर्मध्ये विद्या-भ्यासस्य मन्दिरम्। पश्चिमानिलयोर्मध्ये रोदनार्थंगृहं स्मृतम्। वायव्योत्तरयोर्मध्ये रतिगेहं प्रशस्यते। उत्तरेशानयोर्मध्ये औषधार्थं च कारयेत्। ईशानपूर्व-योर्मध्ये शेषं सर्वगृहं स्मृतम्। नैरृत्यां सूतिका-गेहं नृपाणां{??}हमिष्यते। आसन्नप्रसवे मासि कुर्या-च्चैव विशेषतः। तद्वत् प्रसवकाले स्यादिति शास्त्रेषु नि-श्चितम्। मासे तु नवमे प्राप्ते पूर्वपक्षे शुभेदिने। प्रसूतिसम्भवे काले गृहारम्भणमिष्यते”। अलिन्दभेदेन गृहनामभेदान् तत्फलमलिन्दशब्दार्थञ्चाहंतत्रैव
“गुरोरधो लघुः स्थाप्यः पुरस्तादुर्द्ध्वगं न्यसेत्। गुरुभिः पश्चिमे पूर्यं सर्वलघ्ववधिर्विधिः। स्यादलिन्दं लघु-स्थाने नालिन्दं गुरुमाश्रितम्। प्रदक्षिणैर्गृहद्वारादलिन्दै-र्दशषड्विधैः

१६ । ध्रुवसंज्ञं

१ गृहं त्वाद्यं धनधान्यसुख-प्रदम्। धन्यं

२ धान्यप्रदं नॄणां जयं

३ स्याद्विजयप्रदम्। मन्दं

४ स्त्रीहानिदं नूनं खरं

५ सम्पद्विनाशनम्। पुत्रपौत्रप्रदं कान्तं

६ श्रीपदं स्यान्मनोरमम्

७ । सुवक्त्रं

८ भोगदं नूनं दुर्मुखं

९ विमुखप्रदम्। सर्वदुःखप्रदंक्रूरं

१० विपक्षं

११ शत्रुभीतिदम्। धनदं

१२ धनदंगेहं क्षयं

१३ सर्वक्षयावहम्। आक्रदं

१४ शोकजननंविपुलश्रीयशःप्रदम्। विपुलं

१५ नामसदृशं धनदंविजयाभिधम्

१६ । प्रदक्षिणं सद्ममुखादलिन्दं विद्या-ल्लघुस्थानसमाश्रितं च। गृहस्य पूर्वादिगतेष्वलिन्देष्वेवंभवेयर्दश षट्कभेदाः

१६ । भवेत् पुनः शुभालिन्दयुतंकापालसंज्ञकम्। विस्तारात् द्विगुणं गेहं गृहस्वामिविनाशनम्। निरर्थकं तद्गृहं स्याद्भयं वा राजसम्भ-वम्। केचिदलिन्दं द्वारं तु प्रवदन्ति मनीषिणः। केचिदलिन्दं शालाञ्च केचिच्चालिन्दकं च तत्। गृहा-द्बहिश्च ये कोष्ठा गृहस्यान्तर्गताश्च ये। तेषां कोष्ठीकृतंतिर्यग्गेहं चालिन्दसंज्ञकम्। स्तम्भहीनं गृहाद्-बाह्यान्निर्गतं कोष्ठनिर्मितम्। मध्यादूर्द्धं तच्च गेहं[Page2637-b+ 38] वाचालिन्दसज्ञकम्। यत्रालिन्दं च तत्र व द्वारमार्गःप्रशस्यते। अलिन्दद्वारहीनं च गृहं कोटीसमं स्मृतम्यत्रालिन्दं तत्र शाला तत्र द्वारं च शोभनम्। शाला-लिन्दद्वारहीनं न गृहं कारयेद्बुधः” अयमर्थः।
“प्रस्तारे तु लघुं न्यस्य प्रथमस्य गुरोरधः। यथोपरितथा शेषं भूयः कुर्यादमुं विधिम्। ऊने दद्यागुरूनेव यावत् सर्वलघुर्भवेत्” वृ॰ र॰ उक्तरीत्या चतुर्द्वाररूपचतुर्गुरुप्रकल्पनेन प्रस्तारे लघुं द्वारं प्रकल्प्य षोडश भेदाःस्वरूपतोदर्श्यन्ते यथा

१ । ऽ ऊर्द्ध्वमुखम् ध्रुवं शुभदम्।

२ । ।  प्राग्मुखं धान्यं शुभम्।

३ । ऽ।  दक्षिणद्वारम् जयं शुभदम्।

४ । ॥  प्राग्दक्षिणद्वारम् मन्दमशुभदम्।

५ । । ऽ पश्चिमद्वारं खरमशुभदम्।

६ । । ऽ। ऽ प्राग्पश्चिममुखम् कान्तं शुभदम्।

७ । ऽ॥ ऽ दक्षिणपश्चिमास्यम् मनोरमं शुभदम्।

८ । ॥ । ऽ प्राग्दक्षिणपश्चिमास्यं सुंमुखं शुभदम्।

९ । । उत्तरास्यम्--दुर्मुखमशुभदम्।

१० । । । पूर्वोत्तरद्वारम्--उग्रमशुभदम्।

११ । ऽ। ऽ। दक्षिणोत्तरास्यम् विपक्षमशुभदम्।

१२ । ॥ ऽ। प्राग्दक्षिणादिगास्यम् धनदंशुभदम्।

१३ । । ऽ॥ पश्चिमोत्तरास्यम् क्षयमशुभदम्।

१४ । । ऽ॥ पूर्वपश्चिमोत्तरास्यम् आक्रन्दमशुभदम्।

१५ । ऽ॥ । दक्षिणपश्चिमोत्तरद्वारम् विपुलं शुभदम्।

१६ । ॥ ॥ चतुर्दिग्द्वारम् विजयं सर्वत्र शुभदम्। दिग्भेदेनैकशालादिनिर्माणप्रकारं तत्राह
“यद्वास्तुनि च विस्तारः सैवोच्छायः शुभः स्मृतः। एक-शालो गृहः कार्यो विस्ताराद्द्विगुणोच्छ्रयः। चतुःशालगृहस्यैवमुच्छ्रायो व्याससंमितः। विस्ताराद्द्विगुणंदैर्घ्यमेकशालेषुशस्यते। विस्तीर्णं यद्भवेद्गेहं तदूर्द्ध्वंत्वेक-शालके। द्विशाले द्विगुणं प्रोक्तं त्रिशाले त्रिगुणं तथा। चतुः शाले पञ्चगुणं तदूर्द्ध्वं नैव कारयेत्। शिखा चैवत्रिभागे तु गृहं चोत्तमसंज्ञकम्। एकं नागेन्द्रसंशुद्धौद्वे च दक्षिणपश्चिमे। त्रिशालं पूर्वतोहीनं कार्यंवा सौम्यवर्जितम्। ऊर्द्धभागत्रयं त्यक्त्वा अधोभागद्वयंतथा। मध्ये नाभिं विजानीयादिति प्राह पराशरः। पूर्वादिषु चतुर्द्दिक्षु वाममेकादयोध्रुवाः। विस्तारस्याथदैर्ष्यस्य तथैवैकैकसंयुताः। वामं वातादिकोणेषु ध्रुवं[Page2638-a+ 38] विस्तारदैर्घ्ययोः। एकाद्याः स्वेच्छया सर्वे कार्यावेदसम-न्विताः। अनेनैव प्रकारेण क्रियमाणे च वास्तनि। आय-व्ययादिसंशुद्धिं न चिन्तयति पूर्बतः” अस्यार्थः यदिवास्तु न एकमेव गृहं क्रियते तदा नागेन्द्रसंशुद्ध्या-सौम्यवर्जितं उत्तरशालाहीनं गृहं कार्यं यदि-द्विशालकं गृहं क्रियते तदा दक्षिणपश्चिमे शाले कार्येत्रिशाले पूर्वतोहीनं कार्यम् उत्तरशालया वाहीनं कार्यम्। शालाविभागस्तु अनेनैव विधानेन कार्यःपूर्वतः ऊर्द्धभागत्रयं त्यक्त्वा पश्चिमे भागद्वयं त्यक्त्वा योमध्यगतो भागः स नाभिः तत्र शाला न विधेया अ-नेनैव प्रकारेण पूर्वादिदिक्षु एकादयो विस्तारस्य दैर्ध्यस्यएकैकभागं संयोज्य वातादिकोणेषु उत्तरशाला हीनत्वान्नदेयं सर्वे एकाद्याश्चतुःशालान्ता वेदसमन्विताः कार्याःअनेनैव प्रकारेण शालायुते गृहवास्तुति आयव्ययादि-शुद्धिर्न चिन्तनीया। एकशाले आयव्ययादिविचारः कर्त्तव्यःद्विशालादिगृहे आयव्ययादिशुद्धिर्न विचारणीयायतः निर्गमालिन्दनिर्यूहादीनि यानि चतुर्दिशं वेश्मनांतानि न ग्राह्याणि इति। वर्णभेदेनैकशालादिविशेष-भेदादिकमाह तत्रैव
“ब्राह्मणानां चतुःशालं क्षत्रियाणांत्रिशालकम्। द्विशालकं च वैश्यानां शूद्राणामेकशालकम्। सर्वेषामेव वर्णानामेकशालं प्रशस्यते। एकशालं द्विशालंवा त्रिशालं तुर्यशालकम्। यथालिन्दगृहं कुर्यात्तादृक्शाला प्रशस्यते। शालाभेदो न कर्त्तव्यो न कुर्यात्तुङ्गनिम्नकम्। समां शालां ततः कुर्यात्समं प्राकारमेवच। कुलीरो वृश्चिकोमीन उत्तरद्वारसंस्थिताः। मेष-सिंहधनुर्द्वारी पूर्वद्वारेषु संस्थिताः। वृषभो मकरःकन्या याम्यद्वारसमाश्रिताः। मिथुनं तुलकुम्भौ चपश्चिमद्वारमाश्रिता। ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा-श्चैव यथाक्रमम्। यदीशा राशयः प्रोक्तास्तस्मिन्शाला प्रवर्त्तते। अथ पूर्वविभागे तु ब्राह्मणा उत्तरे नृपाः। वैश्याश्च दक्षिणे भागे पश्चिमे शूद्रकास्तथा। आग्ने-यादिक्रमेणैवापभ्रंशावर्णसङ्कराः। ज्ञातिभ्रष्टाश्च चौ-राश्च विदिक्स्थाः शोभनाः स्मृताः। ब्राह्मणाः क्षत्रिया-वैश्याः शूद्राः प्रागादिषु स्मृताः”। नृपादीनां गृहमानभेदमाह तत्रैव।
“अष्टोत्तरं हस्तशतं विस्तारे नृपम-न्दिरम्। कार्य प्रधानमन्यानि तथाष्टाष्टोनितानितु। विस्तारपादसंयुक्तं तेषां दैर्घ्यं प्रकल्पवेत्। एवं नृपाणां पञ्चैव गृहाणि शुभदानि च। सेना-[Page2638-b+ 38] नीनां च पञ्चैव गृहाणि शुभदानि च। षड्भिःषड्भिर्विहीनानि चतुःषष्टिमितानि च। पञ्चैव, तस्यविस्तारे दैर्घ्यं षड्भागसंयुतम्। षष्टिश्चतुर्वि-हीनानि वेश्मानि सचिवस्य च। पञ्चस्वष्टांशसंयुक्तंदैर्घ्यं तस्यार्द्धमेव च। नृपाणां महिषीणाञ्च प्र-शस्तं पञ्च चैव हि। षड्भिः षड्भिश्च वर्ज्यानि अशीत्याश्चतथैव च। त्रिंशद्युतञ्च दैर्घ्यं च युवराजगृहाणिच। पञ्च ऊर्द्धं च तस्यैव भ्रातॄणां प्रभवन्ति हि। नृप-मन्त्रिगृहाणाञ्च अन्तरे यत्प्रमाणकम्। सामन्तराजभृ-त्यानां प्रवराणां गृहं स्मृतम्। नृपाणां युवराजस्य गृ-हाणामन्तरेण यत्। तत् गृहं कञ्चुकीवेश्म कला-ज्ञानां तथैव च। युवराजमन्त्रिगृहेष्वन्तरं यद्भवेदिह। अध्यक्षस्य तु तद्गेहं तत्कर्मकुशलाश्च ये। अध्य-क्षाधिकृतानां च रतिकोशप्रमाणकम्। चत्वारिंश-च्चतुर्हीना पञ्च गेहा भवन्ति हि। षट्भागसंयुतं दैर्घ्यंदैवज्ञभिषजां तथा। पुरोहितानां शुभदं सर्वेषांकथयाम्यतः। हस्तात् द्वात्रिंशता युक्तं विस्तारस्यद्वजालयम्। विस्तारं सदशांशं तु दैर्घ्यं तस्य प्रक-ल्पयेत्। त्रयाणां क्षत्रियादीनामालयं पूर्वचोदि-तम्। नृपसेनापतिगेहस्यान्तरं यद्भवेदिह। तत्कोश-गेहं भवति रतिगेहं तथैव च। सेनापतनृपगेहाना-मन्तरं यत्प्रमाणकम्। चातुर्वर्ण्यस्य यद्गेहं तद्राजपूज्यसम्मतम्। अथ पारसवादीनां मातापित्रोर्यदन्त-रम्। ब्राह्मणस्य च यन्मानं शूद्रेण सह तद्भवेत्। शतहस्तोच्छ्रितं कार्यं चतुःशालं गृहं भवेत्। प्रमि-तन्त्वेकशालतु शुभदं तत्प्रकीर्त्तितम्। सेनापतिनृ-पादीनां सप्तत्या सहिते कृते। व्यासे चतुर्दश हृते शालामानं विनिर्दिशेत्। पञ्चत्रिंशद्धृतेऽन्यत्रालिन्दमानभवेच्च तत्। शाला त्रिभागतुल्या च कर्त्तव्या वीथिकाबहिः। भवनात् पूर्वं सोष्णीषं पश्चात्पापाश्रयं भवेत्सावष्टम्भंपार्श्वयोस्तु सर्वत्र सुस्थिरं भवेत्। विस्तारषोडशांशस्तु चतुर्हस्तयुतोच्छ्रयः। तदन्तरस्थोच्चतरंप्रमाणं प्रवदेद्वुधः। द्वादशभागेनोनं च समस्तानांप्रकल्पयेत्। यजन्ते राजसूयाद्यैः क्रतुभिर्येऽवनीश्वराः। नलैरप्यष्टमैस्तेषां कारयेद्भवनोत्तमम्। तथा च सप्तमैरेवविप्राणां कारयद्गृहम्। सार्द्धषष्ठैः क्षत्रियाणां वैश्या-नां सार्द्धपञ्चमैः। त्रिभिः सार्द्धैश्च शूद्राणां भवनं शुभ{??}ंस्मृतम्। स्वगृहाणां विभागेन प्रमाणमिह लक्षयेत्[Page2639-a+ 38] विस्तारायामगुणितं नलैः षौडशभिः स्मृतम्। स्वगृ-हाणां विभागेन प्रमाणमिह लक्षयेत्। व्यासाच्च षोड-शोभागः सर्वेषां भित्तयः स्मृताः। पक्वेष्टकाकृतानांच न दारूणां कदाचन। नृपसेनापतिगृहेष्वष्टाशीतिंशतैर्युताम्। अङ्गुलानि द्वारमानं प्रवदन्ति मनीषिणः। विप्रादीनां विशतिस्तु अङ्गुलानि च सप्त च। द्वारस्यमानं तत्प्रोक्तं द्विगुणोच्छ्राय उच्यते। उच्छ्रायहस्त-संख्यायाः परिमाणाङ्गुलानि च। शाखाद्वयेऽपिबाहुल्यं कार्यं सार्द्धांशसंयुतम्। उच्छ्रायात् सप्तगुणिता-दशीतिः पृथुता मता। भागः पुनर्नवगुणाशीत्यंशस्तम्भ-मानकम्। दशांशहीनं तस्याग्रं स्तम्भानां परिमाणकम्। वेदाश्रो रुचकः

१ स्तम्भो वज्रो

२ ऽष्टाश्रियुती मतः। द्विवज्रः

३ षोडशाश्रस्तद्द्विगुणाश्रःप्रलानकः

४ । समन्तवृत्तो वृत्ताख्यः

५ स्तम्भः प्रोक्तो द्विजोत्तमैः। विभज्य नवधा स्तम्भ कुर्या-दुद्वहन घटम्। पद्मं तु सोत्तरोष्ठञ्च कुर्याद्भागेन भा-गतः। स्तम्भसमं बाहुल्यं भारतुलानामुपर्युपर्यासाम्। भवति तुलोपतुलानामूनं पादेन पादेन। अप्रतिषिद्धा-लिन्दं समन्ततो वास्तु सर्वतोभद्रम्। नृपविबुधसमू-हानां कार्यं द्वारैश्चतुर्भिरपि”। अथ द्विशालानि गृहाणिं दक्षिणे दुर्मुखं कृत्वा पूर्वे चखरसंज्ञकम्। तद्वाताख्यं

१ भवेद्गेहं वातरोगप्रदं स्मृतम्। दक्षिणे दुर्मुखं गेहं पश्चिमे धान्यसज्ञकम्। यमसूर्यं

२ द्विशालं तन्मृत्युदं नाशदं स्मृतम्। पूर्वे तु स्वरनामान-मुत्तरे धान्यसंज्ञकम्। दण्डाख्यं

३ तद्द्विशालं स्याद्दण्डंकुर्यात् पुनः पुनः। दुर्मुखं दक्षिणे कुर्यादुत्तरे जयसंज्ञकम्। वीच्याख्यं

४ तद्द्विशालन्तु बन्धुनाशं धनक्षयम्। खरञ्च पूर्बदिग्भागे पश्चिमे धान्यसंज्ञकम्। गृहं चुल्ला

५ द्विशालं तद्धनधान्यविनाशनम्। आक्रन्दं दक्षिणे भागेपश्चिमे धनदं तथा। द्विशालं चेक्षुसंज्ञं

६ तत्पशुवृद्धिधनप्रदम्। विपक्षं दक्षिणे भागे पश्चिमे क्रूरसंज्ञकम्। शोभनाख्यं

७ द्विशालं तद्धनधान्यकरं परम्। विजयंदक्षिणे भागे विजयं चैव पश्चिमे। द्विशालं चैव कु-म्भाख्यं

८ पुत्रदारादिसंयुतम्। धान्यञ्च पूर्बदिग्भागेधान्यं चैव तु पश्चिमे। नन्दाख्यं

९ तद्द्विशालञ्च घनदंशोभनं स्मृतम्। विजयं सर्वदिगभागे द्विशालाख्यतदेव

१० हि। अङ्काद्यं

११ नाम तद्गेहं शुभटं द्वारतो भ-वेत्। विपुलं सर्वदिग्भागे द्विशालं तत्प्रजायते। तानि-सम्पुटसज्ञानि

१२ धनधान्यप्रदानि च। धनदं सर्वदिग्-[Page2639-b+ 38] भागे सुमुखं वा मनोरमम्। कान्तनाम्

१३ तु तद्गेहंसर्वांशे शोभनं स्मृतम्। द्विशालानां सद्मनां च भेदाश्चैवत्रयोदश। फलपाकार्थमेतेषां मया प्रोक्तं सुविस्त-रात्। पूर्वयाम्यमथ याम्यपश्चिमं पश्चिमोत्तरमुदीचिपूर्ब-मम्। प्राक्प्रतीचीमथ दक्षिणोत्तरं वास्तु षड्विधमिदंद्विशालकम्”। अथ त्रिशालानि
“उत्तरद्वारहीनं यत्त्रिशालं धनधान्यदम्। हिरण्यनाभनामानं

१ राज्ञांसौख्यविवर्द्धनम्। प्राक्द्वारशालाहीनन्तु सुक्षेत्रं

२ नामंतद्गृहम्। वृद्धिदं पुत्रपौत्राणां धनधान्यसमृ-द्धिदम्। याम्यशालाविहीनं तत् त्रिशालं चुल्ही-संज्ञकम्

३ । विनाशनं धनस्यापि पुत्रपौत्रादिनाशनम्। प्रत्यक्शालाविहीनन्तु पक्षघ्नं

४ नाम तद्गृहम्। पुत्राणांदोषदं चैव परञ्च पुरवासिनाम्। चत्वारोऽमी मया-प्रोक्ता भेदाश्चैव चतुर्विधाः। तस्माद्विचार्य कुर्वीत गृह-कर्मणि कोविदैः”। अथ चतुःशालानि
“याम्यशालांन्यसेदादौ द्वितीयां पश्चिमे ततः। तृतीया चोत्तरेस्थाप्या चतुर्थी पूर्वपश्चिमा। गृहाणां क्रमयोगेनचतुःषष्टिः समासतः। अनेकयोगभेदाच्च शतं विंशोत्तरस्मृतम्। अलिन्दानां व्यवच्छेदो नास्ति यत्र समन्ततःतद्वास्तु सर्वतोभद्रं

१ चतुर्द्वारसमन्वितम्। एकग्रामेचतुःशाले दुर्भिक्षे राजविप्लवे। स्वामिना नोयमानायांपतिशुक्रो न दुष्यति। नृपाणां बिबुधानाञ्च गृहंसौख्यप्रदायकम्। प्रदक्षिणं ततः सर्वैःशालाभित्तेरलि-न्दकैः। विनापरेण द्वारेण नन्द्यावर्त्तमिदं

२ स्मृतम्। श्रेष्ठं सुतारोग्यकर सर्वेषां शुद्धजन्मनाम्। द्वारलिन्दोगतस्त्वेको नेत्रयोर्दक्षिणाङ्गतः। विहाय द-क्षिणद्वार वर्द्धमानमिति

३ स्मृतम्। शुभदं सर्ववर्णानांवृद्धिदं पुत्रपौत्रदम्। पश्चिमोत्तरतोऽलिन्दं प्रागन्तौवैतदुच्छ्रितौ। अन्यस्तन्मध्यविधृतः प्राग्द्वारं स्वस्तिक

४ शुगम। प्राकाश्चिमावलिन्दौ यावन्तगौ तद्भवौ परौसौम्यद्व विना यत्स्याद्रु चकाख्य

५ तु तत् स्मृतम्”। ग्रन्थस्य ग्रहान्तरं टीकेत्यभियुक्तोक्तेः अत्रास्पष्टार्थानामर्थःवृ॰ स॰ वाक्येन मत्स्यपुराणवाक्येन च स्पष्टोक्रियते यथावृ॰ स॰
“उत्तममष्टाभ्यधिकं हस्तशतं नृपगृह पृथुत्वेन। अष्टाष्टोनान्येवं पञ्च सपादानि दैर्घ्येण षद्भिः षद्भि-र्हीना सेनापतिसद्मनां चतुःषष्टिः। पञ्चैव विस्तारात्षद्भागसमन्विता दैर्घ्ये। षष्टिश्चतुर्वि हीना वेश्मानिभवन्ति पञ्च सचिवस्य। स्वाष्टांशयुता दैर्घ्ये तदर्धतो राज-[Page2640-a+ 38] महिषीणाम्। षद्भिः षद्भिश्चैवं युवराजस्यापवर्जिता-ऽशीतिः। त्र्यंशान्विता च दैर्घ्ये पञ्च तदर्धैस्तदनुजा-नाम्। नृपसचिबान्तरतुल्यं सामन्तप्रवरराजपुरुषाणाम्। नृपयुवराजविशेषः कञ्चुकिवेश्याकलाज्ञानाम्। अध्य-क्षाधिकृतानां सर्वेषामेव कोशरतितुल्यम्। युवराज-मन्त्रिविवरं कर्मान्ताध्यक्षदूतानाम्। चत्वारिंशद्धीनाचतुश्चतुर्भिस्तु पञ्च यावदिति। षद्भागयुता दैर्घ्येदैवज्ञपुरोधसोर्भिषजः। वास्तुनि यो विस्तारः स एवचोच्छ्रायनिश्चयः शुभदः। शालैकेषु गृहेष्वपि विस्तारा-द्द्विगुणितं दैर्घ्यम्। चातुर्वर्ण्यव्यासे द्वात्रिंशत् स्या-च्चतुश्चतुर्हीना। आ षोडशादिति परं न्यूनतरम-तीव हीनानाम्। सदशांशं विप्राणां क्षत्रस्याष्टांशसं-युतं दैर्घ्यम्। षड्भागयुतं वैश्यस्य भवति शूद्रस्यपादयुतम्। नृपसेनापतिगृहयोरन्तरमानेन कोश-रतिभवने। सेनापतिचातुर्वर्ण्यविवरतो राजपुरुषा-णाम्। अथ पारसवादीनां स्वमानसंयोगदलसमं भव-नम्। हीनाधिकं स्वमानादशुभकरं वास्तु सर्वेषाम्। पश्वाश्रमिणाञ्च मितं धान्यायुधवह्निरतिगृहाणां च। नेच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रितं परतः। सेनापतिनृपतीनां सप्ततिसहिते द्विधाकृते व्यासे। शाला चतु-र्दशहृते पञ्चत्रिंशद्धतेऽलिन्दः। हस्तद्वात्रिंशादिषु चतुश्चतुस्त्रित्रिकत्रिकाः शालाः। सप्तदशत्रितयतिथित्रयोद-शकृताङ्गुलाभ्यधिकाः। त्रित्रिद्विद्विद्विसमाः क्षयः क्रमा-दङ्गुलानि चैतेषाम्। व्येका विंशतिरष्टौ विंशतिरष्टादशत्रितयम्। शालात्रिभागतुल्या कर्त्तव्या बीथिका बहि-र्भवनात्। यद्यग्रतो भवति सा सोष्णोषं

१ नाम तद्-वास्तु। सायाश्रयमिति

२ पश्चात् सावष्टम्भं

३ तु पार्श्वसं-स्थितया। सुस्थितमिति

४ च समन्तात् शास्त्रज्ञैः पूजिताःसर्वाः। विस्तारषोडशांशः सचतुर्हस्तो भवेद्गृहो-च्छ्रायः। द्वादशभागेतोनो भूमौ भूमौ समस्तानाम्। व्यासात् षोडशभागः सर्वेषां सद्मनां भवति भित्तिः। पक्वेष्टकाकृतानां दारुकृतानां तु स विकल्पः। एकादश-भागयुतः ससप्ततिर्नृपबलेशयोर्व्यासः। उच्छ्रायोऽङ्गु-लतुल्यो द्वारस्यार्द्धेन विष्कम्भः। विप्रादीनां व्यासात्पञ्चांशोऽष्टादशाङ्गुलसमेतः। साष्टांशो विष्कम्भो द्वा-रस्य द्विगुण उच्छ्रायः। उच्छ्रायहस्तसङ्ख्यापरिमाणा-न्यङ्गुलानि बाहुल्यम्। शाखाद्वयेऽपि कार्यं सार्द्धंतत्स्यादुदुम्बरयोः। उच्छ्रायात् सप्तगुणादशीतिभागः[Page2640-b+ 38] पृथुत्वमेतेषाम्। नवगुणितेऽंशीत्यंशः स्तम्भस्य दशां-शहीनोऽग्रे। समचतुरश्रो रुचको

१ वज्रो

२ ऽष्टाश्रिर्द्वि-वज्रको

३ द्विगुणः। द्वात्रिंशता तु मध्ये प्रलीनको

४ वृत्तइति वृत्तः

५ । स्तम्भं विभज्य नवधा वहनं

१ भागो वटो

२ ऽस्य भागोऽन्यः। पद्मं

३ तथोत्तरोष्ठं

४ कुर्याद्भागेन भा-गेन। स्तम्भसमं बाहुल्यं भारतुलानामुपर्युपर्यासाम्। मवति तुलोपतुलानामूनं पादेन पादेन। अप्रतिषि-द्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम्

१ । नृपविबुध-समूहानां कार्यं द्वारैश्चतुर्भिरपि। नन्द्यावर्त्त

२ मलिन्दैःशालाकुद्ध्यात् प्रदक्षिणान्तगतैः। द्वारं पश्चिममस्मिन्विहाय शेषाणि कार्याणि। द्वारालिन्दोऽन्तगतः प्रद-क्षिणोऽन्यः शुभस्ततश्चान्यः। तद्वच्च वर्द्धमाने

३ द्वारं तुन दक्षिणं कार्यम्। अपरोऽन्तगतोऽलिन्दः प्रागन्त-गतौ तदुत्थितौ चान्यौ। तदवधिविवृतश्चान्यः प्राग्-द्वारं स्वस्तिके

४ ऽशुभदम्। प्राक्पश्चिमावलिन्दावन्तगतौतदवधिस्थितौ शेषौ। रुचके

५ द्वारं न शुभदमुत्तरतो-ऽन्यानि शस्तानि। श्रेष्ठं नन्द्यावर्तं सर्वेषां वर्द्ध-मानसज्ज्ञं च। स्वस्तिकरुचके मध्ये शेषं शुभदंनृपादीनाम्। उत्तरशालाहीनं हिरण्यनाभं त्रिशा-लकं धन्यम्। प्राक्शालया वियुक्तं सुक्षेत्रं वृद्धिदंवास्तु। याभ्याहीनं चुल्ली त्रिशालकं वित्तनाशकरमे-तत्। पक्षघ्नमपरया वर्जितम् सुतध्वंसवैरकरम्। सिद्धार्थमपरयाम्ये यमसूर्यं पश्चिमोत्तरे शाले। दण्डाख्यमुदक्पूर्बे बाताख्यं प्राग्युता याम्या। पूर्वापरेतु शाले गृहचुल्ली दक्षिणोत्तरे काचम्। सिद्धार्थेऽर्था-वाप्तिर्यमसूर्ये गृहपतेर्मृत्युः। दण्डबधो दण्डाख्येकलहोद्वेगः सदैव वाताख्ये। वित्तविनाशश्चुल्ल्यांज्ञातिबिरोधः स्मृतः काचे”। तत एकाशीतिपदं चतुःषष्टिपदञ्च द्विधा वास्तुनरविभाग-मुक्त्वोक्तम्
“सम्पाता वंशानां मध्यानि समानानि यानि चपदानाम्। मर्माणि तानि विद्यान्न परिपीडगेत् प्राज्ञः। तान्यशुचिभाण्डकीलस्तम्भाद्यैः पीडितानि शल्यैश्च। गृहभर्तुस्तत्तुल्ये पीडामङ्गे प्रयच्छन्ति। कण्डूयते य-दङ्गं गृहपतिना यत्र वाऽमराहुत्याम्। अशुभं भवे-न्निमित्तं विकृतिर्वाग्नेः सशल्यं तत्। धनहानिर्दारु-मये पशुपीढारुग्भयानि चास्थिकृते। (लोहमये शस्त्र-भयं कपालकेशेषु मृत्युः स्यात्। अङ्गारे स्तेनभयंभस्मनि च विनिर्दिशेत्सदाग्निभयम्। शल्यं हि मर्म-[Page2641-a+ 38] संस्थं सुवर्णरजतादृतेऽत्यशुभम्। मर्मण्यमर्म यो वारुणद्ध्यर्थागमं तुषसमूहः) (क्षेपकम्) अपि नागदन्तकोमर्मसंस्थितो दोषकृद्भवति। रोगाद्वायुं पितृतो हुताशनंशोषसूत्रमपि वितथात्। मुख्याद्भृशं जयन्ताच्चभृशमदितेश्च सुग्रीवात्। तत्सम्पाता नव ये तान्यतिमर्माणि सम्प्रदिष्टानि। यच्च पदस्याष्टांशस्तत्प्रोक्तं मर्म-परिमाणम्। पदहस्तसंख्यया सम्मितानि वंशोऽङ्गु-लानि विस्तीर्णः। वंशव्यासोऽध्यर्द्धः शिराप्रमाणं वि-निर्दिष्टम्। सुखमिच्छन् ब्रह्माणं यत्नाद्रक्षेद्गृहीगृहान्तःस्थम्। उच्छिष्टाद्युपघाताद्गृहपतिरुपतप्यतेतस्मिन्। दक्षिणभुजेन हीने वास्तुनरेऽर्थक्षयोऽङ्गना-दोषाः। वामेऽर्थधान्यहानिः शिरसि गुणैर्हीयते सर्वेः। स्त्रीदोषाः सुतमरण प्रेष्यत्वं चापि करेण वैकल्ये। अ-विकलपुरुषे वसतां मानार्थयुतानि सौख्यानि। गृह-नगरग्रामेषु च सर्वत्रैबं प्रतिष्ठिता देवाः। तेषु चयथामुरूपं वर्णा विप्रादयो वास्याः। वासगृहाणिच विद्याद् विप्रादीनामुदग्दिगाद्यानि। विशतांच तथा भवनं भवन्ति तान्येव दक्षिणतः। नवगुणसूत्र-विभक्तान्यष्टगुणेनाथवा चतुःषष्टेः। द्वाराणि यानि तेषा-मनलादीनां फलोपनयः। अनलभयं स्त्रीजन्मप्रभूत-धनता नरेन्द्रवाल्लभ्यश्। क्रोधपरताऽनृतत्वं क्रौर्यं चपूर्बेण। अल्पसुतत्वं प्रैष्यं नीचत्वं भक्ष्यपानसुतवृद्धिः। रौद्रं कृतघ्नमधनं सुतवीर्यघ्नं च याम्येन। सुतपीडारिपुवृद्धिर्न धनसुताप्तिः सुतार्थबलसम्पत्। धनसम्पन्नृ-पतिभयं धनक्षयो रोग इत्यपरे। बधबन्धौ रिपुवृद्धि-र्धनसुतलाभः समस्तगुणसम्पत्। पुत्रधनाप्तिर्वैरं सुतेनदोषाः स्त्रिया नैःस्वम्। मार्गतरुकोणकूपस्तम्भभ्रमवि-द्धमशुभदं द्वारम्। उच्छ्रायाद्द्विगुणमितां त्यक्त्वा भूमिंन दोषाय। रथ्याविद्धं द्वारं नाशाय कुमारदोषदं त-रुणा। पङ्कद्वारे शोको व्ययोऽम्बुनि स्राविणि प्रोक्तः। कूपेनापस्मारो भवति विनाशश्च देवताविद्धे। स्तम्भेनस्त्रीदोषाः कुलनाशो ब्रह्मणोऽभिमुखे। उन्मादः स्वय-मुद्घाटितेऽथ पिहिते स्वयं कुलविनाशः। मानाधिकेनृपभयं दस्युभयं व्यसनदं नीचम्। द्वारं द्वारस्यो-परि यत्तन्न शिवाय सङ्कटं यच्च। आव्यात्तं क्षुद्भयदंकुब्जं कुलनाशनं भवति। पीडाकरमतिपीडितमन्तर्वि-नतं भवेदभावाय। बाह्यविनते प्रवासो दिग्भ्रान्तेदस्युभिः पीडा। मूलद्वारं नान्यैर्द्वारैरतिसन्दधीत रू-[Page2641-b+ 38] पर्द्ध्या। घटफलपत्रप्रसवादिभिश्च तन्मङ्गलैश्चिनुयात्। ऐशान्यादिषु कोणेषु संस्थिता बाह्यतो गृहस्यैताः। चरकी बिदारिनामाथ पूतना राक्षसी चेति। पुरभवन-ग्रामाणां ये कोणास्तेषु निवसतां दोषाः। श्वपचादयोऽन्त्यजात्यास्तेष्वेव विवृद्धिमायान्ति। याम्यादिष्वशुभ-फला जातास्तरवः प्रदक्षिणेनैते। उदगादिषु प्र-शस्ताः प्लक्षवटोदुम्बराश्वत्थाः। आसन्नाः कण्ठकिनोविपुभयदाः क्षीरिणोऽर्थनाशाय। फलिनः प्रजाक्षय-करा दारूण्यपि वर्जयेदेषाम्। न छिन्द्याद्यदि तरूं-स्तान् तदन्तरे पूजितान्वपेदन्यान्। पुन्नागाशोकारिष्ट-बकुलपनसान् शमीशालौ। शस्तौषधिद्रुमलतामधुरासुगन्धा स्निग्धा समा न सुषिरा च मही नराणाम्। अप्यध्वनि श्रमविनोदमुपागतानां धत्ते श्रियं किमुतशाश्वतमन्दिरेषु। सचिवालयेऽर्थनाशो धूर्तगृहे सुतबधःसमीपस्थे। उद्वेगो देवकुले चतुष्पथे भवति चाऽ-कीर्तिः। चैत्ये भयं ग्रहकृतं वल्मीकश्वभ्रसङ्कुले वि-पदः। गर्त्तायां तु पिपासा कूर्माकारे धनविनाशः। उदगादिप्लवमिष्टं विप्रादीनां प्रदक्षिणेनैव। विप्रः स-र्वत्र वसेदनुवर्णमथेष्टमन्येषाम्। गृहमध्ये हस्तमितंखात्वा परिपूरितं पुनः श्वभ्रम्। यद्यूनमनिष्टं तत्समे समं घन्यमधिकं यत्। श्वभ्रमथ वाम्बुपूर्णं पदश-तमित्वागतस्य यदि नोनम्। तद्धन्यं यच्च भवेत् पलान्य-पामाढकं चतुःषष्टिः। आमे वा मृत्पात्रे श्वभ्रस्थे दी-पवर्त्तिरभ्यनिलम्। ज्वलति दिशि यस्य शस्ता साभूमिस्तस्य वर्णस्य। श्वभ्रोर्पितं न कुसुमं यस्मिन् प्रम्ला-यतेऽनुवर्णसमम्। तत्तस्य भवति शुभदं यस्य च यस्मि-न्मनोरमते। सितरक्तपीतकृष्णा विप्रादीनां प्रशस्यतेभूमिः। गन्धश्च भवति यस्या वृतरुधिरान्नाद्यमद्यसमः। कुशयुक्ता शरबहुला दूर्वाकाशावृता क्रमेण मही। अनुवर्णं वृद्धिकरी मधुरकषायाम्लकटुका च। कृष्टांप्ररूढवीजां गोऽध्युषितां ब्राह्मणैः प्रशस्तां च। गत्वामहीं गृहपतिः काले सांवत्सरोद्दिष्टे। भक्ष्यैर्नाना-कारैर्दध्यक्षतसुरभिकुसुमधूपैश्च। दैवतपूजा कृत्वा स्थप-तीनभ्यर्च्य विप्रांश्च। विप्रः स्पृष्ट्वा शीर्षं, वक्षश्च क्षत्रियोविशश्चोरू। शूद्रः पादौ स्पृष्ट्वा कुर्याद्रेखां गृहारम्भे। अङ्गुष्ठकेन कुर्यान्मध्याङ्गुल्याथवा प्रदेशिन्या। कनक-मणिरजतमुक्तादधिफलकुसुभाक्षतैश्च शुभम्। शस्त्रेणशस्त्रमृत्युर्बन्धी लोहेन भस्मनाग्निभयम्। तस्करभय[Page2642-a+ 38] तृणेन च काष्ठील्लिखिता च राजभयम्। वक्रा पादा-लिखिता शस्त्रभयक्लेशदा विरूपा च। चर्माड्गारास्थि-कृता दन्तेन च कर्तुरशिवाय। वैरमपसव्यलिखिताप्रदक्षिणं सम्पदी विनिर्देश्याः। वाचः परुषा निष्ठी-वितं क्षुतं चाशुभं कथितम्। अर्धनिचितं कृतं वाप्रविशन् स्थपतिर्गृहे निमित्तानि। अवलोक्येद्गृह-पतिः क्व संस्थितः स्पृशति किं चाङ्गम्। रविदीप्तांयदि शकुनिस्तस्मिन् काले विरौति परुषरवः। संस्पृ-ष्टाङ्गसमानं तस्मिन्देशेऽस्थि निर्देश्यम्। शकुनममयेऽथवान्ये हस्त्यश्वश्वादयोऽनुवाशन्ते। तत्प्रभवमस्थि त-स्मिंस्तदङ्गसम्भूतमेवेति। सूत्रे प्रसार्यमाणे गर्दभरावोऽस्थिशल्यमाचष्टे। श्वशृगाललङ्घिते वा सूत्रे शल्यंविनिर्देश्यम्। दिशि शान्तायां शकुनिर्मधुरविरावीयदा तदा वाच्यः। अर्थस्तस्मिन् स्थाने गृहेश्वराधिष्ठितेऽङ्गे वा। सूत्रच्छेदे मृत्युः कीले चत्वाङ्मुखे महान्रोगः। गृहनाथस्थपतीनां स्मृतिलोपे मृत्युरादेश्यः। स्कन्धाच्च्युते शिरोरुक् कुलोपसर्गोऽपवर्जिते कुम्भे। भग्नेऽपि च कर्मिबधश्च्युते कराद्गृहपतेर्मृत्युः। दक्षि-णपूर्बे कोणे कृत्वा पूजां शिलां न्यसेत्प्रथमम्। शेषाःप्रदक्षिणेन स्तम्भाश्चैवं समुत्थाप्याः। छत्रस्रगम्बरयुतःकृतधूपविलेपनः समुत्थाप्यः। स्तम्भस्तथैव कार्यो द्वारो-च्छ्रायः प्रयत्नेन। विहगादिभिरवलीनैराकम्पितपति-तदुःस्थितैश्च फलम्। शक्रध्वजफलसदृशं तस्मिंश्च शुभंविनिर्दिष्टम्। प्रागुत्तरोन्नते धनसुतक्षयः सुतबधश्चदुर्गन्धे। वक्रे बन्धुविनाशो न सन्ति गर्भाश्च दिग-मूढे। इच्छेद्यदि गृहवृद्धिं ततः समन्ताद्विवर्धयेत्तु-ल्यम्। एकोद्देशे दोषः प्रागथवाप्यत्तरे कुर्यात्। प्राग्-भवति मित्रवैरं मृयुर्दक्षिणेन यदि वृद्धिः। अर्थविनाशःपश्चादुदग्विवृद्धौ मनस्तापः। ऐशान्यां देवगृहं महानसंचापि कार्यमाग्नेय्याम्। नैरृत्यां भाण्डोपस्करोऽथधान्यानि मारुत्याम्। प्रागादिस्थे सलिले सुतहानिःशिखिभयं रिपुभयं च। स्त्रीकलहः स्त्रीदौष्ट्यं नैःस्वंवित्तात्मजविवृद्धिः। खगनिलयभग्नसशुष्कदग्धदवालयश्म-शानस्थान्। क्षीरतरुधवविमीतकनिम्बारणिवर्जितांश्छि-न्द्यात रात्रौ कृतबलिपूज प्रदक्षिणं छेदयेद्दिवावृक्षम्। धन्यमुदक पाक्पतनं न ग्राह्योऽन्यथा पतितः। छेदो यद्यावकारो ततः शुमं दारु नद्गृहौपयिकम्। पीते तु तरुमण्डले निर्दिशत् तरोर्मध्यग गोधाम। [Page2642-b+ 38] मञ्जिष्ठाभे भेकं नीले सर्पं तथारुणे सरटः। मुद्गाभेऽश्मा कपिले तु भूषकोऽम्भश्च खड्गाभे। धान्यगोगुरु-हुताशसुराणां न स्वपेदुपरि नाप्यनुवंशम्। नोत्तरा-परशिरा न च नग्नो नैव चार्द्रचरणः श्रियमिच्छन्। भूरिपुष्पनिकरं सतोरणं तोयपूर्णकलसोपशोभितभ्। धूपगन्धबलिपूजितामरं ब्राह्मणध्वनियुतं विशेदगृहम्” मत्स्यपुराणे वास्तुप्रकरणे चोक्तं यथा
“पूर्बं भूमिंपरी ते पश्चाद्वास्तुं प्रकल्पयेत्। श्वेता रक्ता तथापीता कृष्णा चैवानुपूर्बशः। विप्रादेः शस्यते भूमि-रतः कार्यं परीक्षणम्। विप्राणां मधुरास्वादा कटुकाक्षत्रियस्य तु। तिक्ता कषाया च तथा वैश्यशूद्रेषुशस्यते। अरत्निमात्रे वै गर्त्ते स्वनुलिप्ते च सर्वशः। घृतमामशरावस्थं कृत्वावर्त्तिचतुष्टयम्। ज्वालयेद्-भूपरीक्षार्थं तत्पूर्णं सर्वदिङ्मुखम्। दीप्तौ पूर्वादि-गृह्णीयाद्वर्णानामनुपूर्वशः। वास्तुः सामूहिकोनामदीप्यते सर्व्वतस्तु यः। शुभदः सर्ववर्णानां प्रासादेषुगृहेषु च। अरत्निमात्राधोगर्त्ते परीक्ष्यं स्वातपूरणे। अधिके श्रियमाप्नोति न्यूने हानिं समे समम्। फाल-कृष्टेऽथवा देशे सर्ववीजानि वापयेत्। त्रिपञ्चसप्तरात्रेणयत्र रोहन्ति तान्यपि। ज्येष्ठा समा कनिष्ठा भूर्वर्ज-नोयेतरा सदा। पञ्चगव्यौषधिजलैः परीक्षित्व चसेचयेत्। एकाशीतिपदं कृत्वा रेखाभिः कनकेन चपश्चात्पिष्टेन चालिप्य सूत्र णावेष्ट्य सर्वतः। दश पूर्वायता रेखा दश चैवोत्तरायताः। सर्ववास्तुविभागेषु वि-ज्ञेया नवका नव। एकाशीतिपदं कृत्वा वास्तुवि-त्सर्ववास्तुषु। पदस्थान् पूजयेद्देवां स्त्रिंशत्पञ्चदशैव तु

४५ । द्वात्रिंशद्बाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश। नाम-तस्तान् प्रवक्ष्यामि स्थानानि च निबोधत। ईशान-कोणादिषु तान् पूजयेद्धविषा नरः। शिखी चैवाथपर्जन्यो जयन्तः कुलिशायुधः। सूर्यसत्यौ भृशश्चैवआकाशो वायुरेव च। पूषा च वितथश्चैव वृहत्क्ष-तयमावुभौ। गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्तथा। दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः। असुरःशोषपापौ च रोगोहिर्मुख्य एव च। भल्लाटःसोमसर्पौ च अदितिश्च दितिस्तथा। बहिर्द्वात्रिंशदेतेतु तदन्तस्तु ततः शृणु। ईशानादिचतुष्कोणसस्थि-तान पूजयेदबुधः। आपश्चैवाथ मावित्रो जयोरुद्र-स्तथै च मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगान्। [Page2643-a+ 38] साध्यानेकान्तरान् विद्यात् पूर्वाद्यान्नामतः शृणु। अर्यमासविता चैव विवस्वान् विबुधाधिपः। मित्रोऽथ राज-यक्ष्मा च तथा पृथ्वीधरः स्मृतः। अष्टमश्चापबत्मस्तुपरितो ब्रह्मणः स्मृताः। आपश्चैवापवत्सश्च पर्ज्य-न्योऽग्निर्दितिस्तथा। पदिकानान्तु वर्गोऽयमेवं कोणे-ष्वशेषतः। तन्मध्ये तु बहिर्विंशत् द्विपदास्ते तु स-र्वशः। अर्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा। ब्रह्मणः परितोदिक्षु त्रिपदास्ते तु सर्वशः। वंशानि-दानीं वक्ष्यामि ऋजूनपि पृथक् पृथक्। वायुं याव-त्तथा रोगात् पितृभ्यः शिखिनं पुनः। मुख्यात् भृशंतथा शोषाद्वितथं यावदेव तु। सुग्रीवाददितिं यावत्मृगात् पर्जन्यमेव च। एते वंशाः समाख्याताः क्वचिच्चजयमेव तु। एतेषां यस्तु सम्पातः पदं मध्यं समंतथा। मर्म चैतत्समाख्यातं त्रिशूलं कोणगञ्च यत्। स्तम्भन्यासेषु वर्ज्यानि तुलाविधिषु सर्वदा। कीलो-च्छिष्टोपघातादि वर्जयेद् यत्नतो जनः। सर्वत्र वास्तु-र्निर्दिष्टो पिवृवैश्वानरायतः। मूर्द्धन्यग्निः समादिष्टोमुखे चापः समाश्रितः। पृथ्वीधरोऽर्यमा चैव स्तनयो-स्तावधिष्ठितौ। वक्षःस्थले चापवत्सः पूजनीयः सदाबुधैः। नेत्रयोर्दितिपर्जन्यौ श्रौत्रेऽदितिजयन्तकौ। सर्पेन्द्रावंससंस्थौ तु पूजनीयौ प्रगत्नतः। सूर्यस-त्यादयस्तद्वत् बाह्वोः पञ्च च पञ्च च। रुद्रश्च राज-यक्ष्मा च वामहस्ते समास्थितौ। सावित्रः सवितातद्वधस्तं दक्षिणमास्थितौ! विवस्वानथ मित्रश्च ज-ठरे संव्यवस्थितौ। पूषा च पापयक्ष्मा च हस्तयोर्म-णिबन्धने। तथैवासुरशोषौ च वामपार्श्वं समाश्रितौ। पार्श्वे तु दक्षिणे तद्वत् वितथः सवृहत्क्षतः। ऊर्वो-र्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्वपुष्पकी। जङ्घयोर्भृशसुग्रीवौ स्फिक्स्थौ दौवारिको मृगः। जयशक्रौ तथामेढ्रे पादयोः पितरस्तथा। मध्ये नवपदे ब्रह्मा हृदयेस तु पूज्यते। चतुःषष्टिपदोवास्तुः प्रासादे ब्रह्मणास्मृतः। ब्रह्मा चतुष्पदस्तत्र कोणेष्वर्धपदास्तथा। बहिःकोणेषु वास्तौ तु सार्धाश्चाभयसंस्थिताः। विंशतिर्द्वि-षदाश्चैव चतुःषष्टिपदे स्मृताः। गृहारम्भेषु कण्डूतिःस्वाम्यङ्गे यत्र जायते। शल्य त्वपनयेत्तत्र प्रासादेभवने तथा। सशल्यं भयदं यस्मादशल्यं शुभदायकम्। हींनाधिकाङ्गतां वास्तोः सर्वथा तु विवर्जयेत्। नगरग्रामदेशेष सर्वत्रैवं विवर्जयेत्। चतुःशालं त्रिशालञ्च[Page2643-b+ 38] द्विशालं चैकशालकम्। नामतस्तान् प्रवक्ष्यामि स्वरू-पेण द्विजोत्तम!। चतुःशालं प्रवक्ष्यामि स्वरूपन्नामत-स्तथा। चतुःशालञ्चतुर्द्वारैरलिन्दैः सर्वतोमुखम्। नाम्नातत् सर्वतोभद्रं

१ शुभं देवनृपालयम्। पश्चिमद्वारहीनञ्चःनन्द्यावर्तं

२ प्रचक्षते। दक्षिणद्वारहीनन्तु वर्द्धमानं

३ प्रचक्षते। पूर्वद्वारविहीनं तत् स्वस्तिकं

४ नाम विश्रुतम्। रुचकं

५ चोत्तरद्वारविहीनं तत् प्रचक्षते। सौम्यशीला-विहीनं यत्त्रिशालं धान्यक

६ ञ्च तत्। क्षेमवृद्धिकरंनॄणां बहुपुत्रफलप्रदम्। शालया पूर्वया हीनं सु-क्षेत्रमिति

७ विश्रुतम्। धन्यं यशस्यमायुष्यं शोकमोहविनाशनम्। शालया याम्यया हीनं यत्त्रिशालं तुशालया। कुलक्षयकरं

८ नॄणां सर्वव्याधिविनाशनम्। हीनं पश्चिमया यत्तु पक्षघ्नं

९ नाम तत् पुनः। मित्रबन्धून् सुतान् हन्ति तथा सर्वभयावहम्। याम्याप-राभ्यां शालाभ्यां धन्यं

१० धान्यफलप्रदम्। क्षेमवृद्धिकरंनॄणां तथा पुत्रफलप्रदम्। यमसूर्य्यञ्च

११ विज्ञेयं पश्चि-मोत्तरशालिकम्। राजाग्निभयदं नॄणां कुलक्षयकरंच तत्। उदक्पूर्वे तु शाले हि दण्डाख्यं

११ यत्र तद्भवेत्। अकालमृत्युभयदं परचक्रभयावहम्। धनाख्यं

१३ पूर्व-याम्याभ्यां शालाभ्यां यद्द्विशालकम्। तच्छस्त्रभयदं नॄणांपराभवभयावहम्। चुल्ली

१४ पूर्वापराभ्यां तु सा भवेन्मृत्युसूचिनी। वैधव्यदायकं स्त्रीणामनेकभयकारकम्। कार्य-मुत्तरयाम्याभ्यां शालाभ्यां भयदं नृणाम्। सिद्धार्थसंज्ञं

१५ वर्ज्याणि द्विशालानि सदा बुधैः। अथातः संप्रवक्ष्यामिभवनं पृथिवीपतेः। पञ्चप्रकारं तत्प्रोक्तमुत्तमादिविभे-दतः। अष्टोत्तरं हस्तशतं द्विस्तरश्चोत्तमोमतः। चतु-र्ब्बन्येषु विस्तारो हीयते चाष्टभिः करैः। चतुर्थांशा-धिकं दैर्घ्यं पञ्चस्वपि निगद्यते। युवराजस्य वक्ष्यामितथा भवनपञ्चकम्। षड्भिः षड्भिस्तथाशीतिर्हीयतेतत्र विस्तरात्। त्र्यंशेन चाधिकं दैर्घ्यं पञ्चस्वपि निय-द्यते। सेनापतेः प्रवक्ष्यामि तथा भवनपञ्चकम्। चतुःषष्टिस्तु विस्तारात् षड्भिः षड्भिस्तु हीयते। पञ्चस्वेतेषु दैर्घ्यञ्च षड्भागेनाधिक भवेत्। मन्द्रिणामथवक्ष्यामि तथा भवनपञ्चकम्। चतुश्चतुभिर्हीना स्यात्करषष्टिः प्रविस्तरे। अष्टांशेनाधिकं दैर्घ्यं पञ्चखपिनिगद्यते। सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम्। चत्वारिंशत्तथाष्टौ च चतुर्भिर्हीयते क्रमात्। चतुर्थांशा-धिकं दैर्घ्यं पञ्चस्वेतेषु शस्यते। शिल्पिकञ्च किनाञ्चैव[Page2644-a+ 38] वेश्यानां गृहपञ्चकम्। अष्टाविंशत् कराणान्तु त्रिहीनंविस्तरे क्रमात्। द्विगुणं दैर्घ्यमेवोक्तं मध्यमेष्वेवमेवतत्। दूतीकर्माधिकृतानां वक्ष्ये भवनपञ्चकम्। चतु-र्थांशाधिकं दैर्व्यं विस्तारोद्वादशैव तु। अर्धार्द्धकर-हानिःस्याद्विस्तारात्पञ्चशः क्रमात्। दैवज्ञगुरुवैद्यानांसभास्तारपुरोधसाम्। तेषामपि प्रवक्ष्यामि तथा भवन-पञ्चकम्। चत्यारिंशत्तु बिस्ताराच्चतुर्भिर्हीयते क्रमात्। पञ्चस्वेतेषु दैर्घ्यञ्च षड्भागेनाधिकं भवेत्। चातुर्वर्ण्यस्यवक्ष्यामि सामान्यं गृहपञ्चकम्। द्वात्रिंशतिः कराणान्तुचतुर्भिर्हीयते क्रमात्। आ षोडशादिति परं नूनमन्त्यावसायिनाम्। दशांशेनाष्टभागेन त्रिभागेणाथ पादिकम्। अधिकं दैर्घ्यमित्याहुर्ब्राह्मणादेः प्रशस्यते। सेनापतेर्नृ-पस्यापि गृहयोरन्तरेण तु। नृपवासगृहं कार्य्यं भा-ण्डागारन्तथैव च। सेनापतेर्गृहस्यापि चातुर्वर्ण्यस्यचान्तरे। वासाय च गृहं कार्य्यं राजपूज्येषु सर्वदाअन्तरप्रभवानाञ्च स्वपित्रीर्गृहमिष्यते। तथा हस्तशता-दर्द्धं गदितं वनवासिनाम्। सेनापतेर्नृपस्यापि सप्तत्यासहिते कृते। चतुर्दशहृते व्यासे शालाव्यासः प्रकी-र्तितः। पञ्चत्रिंशान्विते तस्मिन्नलिन्दः समुदाहृतः। तथा षड्त्रिंशद्धस्ता तु सप्ताङ्गुलसमन्विता। विप्रस्यमहती शाला न दैर्घ्यं परतोभवेत्। दशाङ्गुलाधिकातद्वत् क्षत्रियस्य निगद्यते। पञ्चत्रिंशत्करा वैश्ये अङ्गु-लानि त्रयोदश। तावत्करैव शूद्रस्य युता पञ्चदशाङ्गुलैः। शालायास्तु त्रिभागेण यस्याग्रे वीथिका भवेत्। सोष्णीषंनामं तद्वास्तु, पश्चात् सायाच्छ्रयं भवेत्। पार्श्वयोर्वी थकायत्र सावष्टम्भन्तदुच्यते। समन्ताद्वीथिका यत्र सुस्थितं तदि-हीच्यते। शुभदं सर्वमेतत्स्याच्चातुवर्ण्ये चतुर्विधम्। विस्तारात् षोडशोभागस्तथा हस्तचतुष्टयम्। प्रथमोभूमिकोच्छ्राय उपरिष्टात् प्रहीयते। द्वादशांशेन सर्वासुभूमिकासु तथोच्छ्रयः। पक्वेष्टकाभवा भित्तिः षोडशांशेनविस्तरात्। दारवैरपि कल्प्या स्यात्तथा मृण्मयभि-त्तिका। गर्भमानेन मानन्तु सर्ववास्तुषु शस्यते। गृह-व्यासस्य पञ्चाशदष्टादशभिरङ्गुलैः। संयुतोद्वारविष्कम्भोद्विगुणश्चोच्छ्रयो भवेत्। द्वारशाखासु बाहुल्यमुच्छ्रायः-करसम्मितैः। अङ्गुलैः सर्ववास्तूनां पृथुत्वं शस्यते बुधैः। उदुम्बरोत्तरायामस्तदर्धार्धं प्रविस्तरात्”

२५

३ अ॰।
“अथातः संप्रवक्ष्यामि स्तम्भमानविनिर्णयम्। कृत्वास्वभवनोच्छ्रायं सदा सप्तगुणं बुधैः। अशीत्यंशः पृथत्व[Page2644-b+ 38] स्यादग्रेणाष्टगुणैः सह। रुचकश्चतुरस्रः स्यादष्टास्रो वज्रउच्यते। द्विवज्रः षोडशास्वस्तु द्वात्रिंशास्रः प्रलीनकः। मध्यप्रदेशे यस्तम्भी वृत्तोवृत्त इति स्मृतः। एते पञ्च महा-स्तम्भाः प्रशस्ताः सर्ववास्तुषु। पद्मवल्लीलताकुम्भपत्र-दर्पणरूपिताः। स्तम्भस्य नवमांशेन पद्मकुम्भान्तराणितु। स्तम्भतुल्या तुला प्रोक्ता हीना चोपतुला ततः। त्रिभागेणेह सर्वत्र चतुर्भागेण वा पुनः। हीनं हीनंचतुर्थांशात् तथा सर्वासु भूमिषु। वासगेहेषु सर्वेषाप्रवेशो दक्षिणेन तु। द्वाराणि तु प्रवक्ष्यामि प्रशस्तानीहयानि तु। पूर्वेणेन्द्रं जयन्तञ्चद्वारं सर्वत्र शस्यते। याम्यञ्च वितथञ्चैव दक्षिणेन विदुर्बुधाः। पश्चिमे पुष्पदन्तंच वारुणञ्च प्रशस्यते। उत्तरेण तु भल्लाटं सौम्यं तुशुभदं भवेत्। तथा वास्तुषु सर्वत्र वेधं द्वारस्य वर्जयेत्। द्वारे तु रथ्यया विद्धे भवेत् सर्वकुलक्षयः। तरुणा द्वेष्य-बाहुल्यं शोकः पङ्केन जायते। अपस्मारो भवेन्नूनं कूप-वेधेन सर्वदा। व्यथा प्रस्रवणेन स्यात्कीलेनाग्निभयं भवेत्। विनाशो देवताविद्धे स्तम्भेन स्त्रीकृतो भवेत्। गृहभर्तु-र्विनाशः स्यात् गृहेण च व्यधे कृते। अमेध्यावस्करै-र्विद्धे गृहिणी बन्धकी भवेत्। तथा शस्त्रभयं विद्या-दन्तयजस्य गृहेण तु। उच्छ्रायाद्द्विगुणां भूमिं त्यक्त्वा वेधोन जायते। स्वयमुत्पाटिते द्वारे उन्मादोगृहवासिनाम्। स्वयं वा पिहिते विद्यात् कुलनाशं विचक्षणः। मानाधि-के राजभयं न्यूने तस्करतो भवेत्। द्वारोपरि च यद्-द्वारं तदन्तकमुखं स्मृतम्। अध्वनोमध्यदेशे तु अधिकोयस्य विस्तरः। वज्रन्तु सङ्कटं मध्ये सद्योभर्तुर्विनाशन-म्। तथान्यपीडितं द्वारं बहुदोषकरं भवेत्। मूलद्वा-रात्तथान्यत्तु नाधिकं शोमनं भवेत्। कुम्भश्रीपर्णिव-ल्लीभिर्मूलद्वारन्तु शोभयेत्। पूजयेच्चापि तन्नित्यं वलिनाचाक्षतोदकैः। भवनस्य वटः पूर्वे दिग्भागे सर्वकामिकः। उदुम्बरस्तथा यान्ये वारुण्यां पिप्पलः शुभः। प्लक्षं-श्चोत्तरतोधन्यो विपरीतास्त्वसिद्धये। कण्टकी क्षीरवृक्षश्चअसनः फलिनीद्रुमः। भार्य्याहान्यै प्रजाहान्यै भवतांक्रमशस्तदा। न च्छिद्यात्यदि तानन्यानन्तरे स्थापयेच्छु-भान्। पुन्नागाशोकवकुलशमीतिलकचम्पकान्। दाडि-मीपिप्पलद्राक्षा स्तथा कुसुममण्डपान्। जम्बीरपूगपनस-द्रुमकेतकीभिर्जातीसरोजशतपत्रिकमल्लिकाभिः। यन्ना-लिकेरकदलीदलपाटलाभिर्युक्तं तदत्र भवन श्रियमातनी-ति”

२५

४ अ॰। द्वारवेधे वराहवाक्यं पी॰ धा॰ व्याख्यातं यथा[Page2645-a+ 38]
“मार्गतरुकोणकूपस्तम्भभ्रमविद्धमशुभदं द्वारम्। उच्छृआ-याद्द्विगुणितां भूमिं त्यक्त्वा न दोषायेति” वृ॰ स॰ भ्रमोजलनि-र्गमप्रदेशः प्रणालिकेत्यर्थः। विद्धं सम्मुखावस्थितम्। अत्रोच्छ्रायो द्वारस्य गृह्यते। तथा च वर्गः
“द्वारो-च्छ्रायाद्द्विगुणितां भूमिं त्यक्त्वा बहिःस्थिताः। न दो-षाय भवन्त्येव” इति। रथ्याविद्धं द्वारं नाशाय कुमार-दोषदं तरुणा। पङ्कद्वारे शोको व्ययोऽम्बुनि स्राविणिप्रोक्तः। कूपेनापस्मारो भवति विनाशश्च देवताविद्धे। क्रमेण स्त्रीदोषः कुलनाशो व्रह्मणोऽभिमुखे भवति” वृ॰ स॰पङ्कविद्धं द्वारं पङ्कद्वारं यस्य द्वारस्याग्रतः निरन्तरंपङ्कस्तिष्ठति। देवता सुरप्रतिभा। नाशः स्वामिनएव। ब्रह्मवेध एकाशीतिपदचक्रस्थितब्रह्मवेधो गृ-ह्यते। यदाह विश्वकर्मा
“गृहमध्ये कृतं द्वारं द्रव्यघान्यविनाशनमिति” विशेषमाह भरद्वाजः
“शिरोमर्माणि वंशञ्च नालं मध्यं च सर्वशः। विहाय वास्तु-मध्यं च द्वाराणि विनिवेशयेदिति” वास्तुमध्यं ब्रह्म-स्थानम्।
“तत्र द्वारं चेन्निधनप्रदमिति” वशिष्ठोक्तेश्चअस्यापवादमाह विश्वकर्मा
“देवागारे विहारे चप्रपायां मण्डपेषु च। प्रतोल्यां च मखे वास्तुमध्ये द्वारंनिवेशयेदिति” वास्तुमध्यं ब्रह्मस्थानं देवालयादिस्था-नेषु कृतस्य गृहान्तर्गतद्वारस्य ब्रह्मणो न वेध इतिनिष्कुष्टोऽर्थः”। गृहकर्मणि वर्ज्यकाष्ठमाह ज्यो॰ त॰
“क्षीरिवृक्षो-द्भवं दारु गृहेषु न निवेशयेत्। कृताधिवासं विहगै-रनिलानलपीडितम्। गजैर्विभग्नञ्च तथा विद्युन्निर्घातपीडितम्। चैत्यदेवालयोत्पन्नं वज्रभग्नं श्मशानजम्। देवाद्यधिष्ठितं दारु नीपनिम्बविभीतकान्। कण्टकि-नोऽसारतरून् वर्जयेत् गृहकर्मणि। वटाश्वत्थौ चनिर्गुण्डीं कोविदारांस्तथैव च। प्लक्षकं शाल्मलीञ्चैवपलाशञ्च विवर्ज्जयेत्”। गृहजातरक्तपुष्पवृक्षादिफलमुक्तं तत्रैव
“रक्तपुष्पाद्भयं प्राहुः क्षीरिणा च पशोर्भयम्। कण्ठ-क्यरिभयं कुर्यात् गृहभेदञ्च शाल्मलिः” वास्तुमध्ये-दिग्भेदात् कूपफलमुक्तम् मु॰ चि॰
“कूपे वास्तोर्मध्यदेशेऽर्थ-नाशस्त्वैशान्यादौ पुष्टिरैश्वर्यवृद्धिः। सूनोर्नाशः स्त्रीवि-नाशोमृतिश्च सम्पत्पीडाशत्रुतः स्याच्च सौख्यम्” मू॰
“या-स्तोर्गृहस्य मध्यदेशे मध्यभागे कूपे जलकूपे कृते सतिस्वामिनोऽर्थनाशः स्यात्। अथैशान्यादिषु पुष्टिरित्या-[Page2645-b+ 38] दिफलम्। यथा ऐशान्यां कूपे पुष्टिः। पूर्वस्यां कूपेऐश्वर्यवृद्धिः। आग्नेय्यां कूपे पुत्रनाशः। दक्षिणस्यांकूपे स्त्रीविनाशः। नैरृत्यां कूपे गृहकर्त्तुर्मृतिः। पश्चिमायां कूपे सम्पत्। वायव्यां कूपे शत्रुतःसकाशात्पीडा। उत्तरस्यां कूपे सुखम्। गृहस्वामिनएव” पी॰ धा॰। एवं गृहसन्निवेशप्रकारेऽवधारितेऽधुनागृहारम्भकालः प्रदर्श्यते। तत्रादौ सौरमासभेदेन वास्तुनरमुखादिप्रदर्शनेन पूर्वादिमुखगृहारम्भकालमाहविश्व॰ वा॰ शा॰
“वास्तुनागं जगत्प्राणं पूर्व्वस्यां प्रथमाश्रितम्। कुक्षिप्रदेशे निखनेद्वास्तुनागस्य मन्त्रितः। त्रिषु त्रिषु च मासेषु नभस्यादिषु च क्रमात्। यद्दि-ङ्मुखो यास्तुनरस्तन्मुखं सदनं शुभम्। अन्यदि-ङ्मुखगेहं तु दुःखशोकभयप्रदम्। वृषार्कादित्रिकमेवां सिंहादि गणयेद्गृहे। देवालये च मीनादि तडागेमकरादिकम्। पूर्वादिषु शिरः कृत्वा नागः शेते त्रिमि-स्त्रिभिः। भाद्राद्यैर्वामपार्श्वेन तस्य क्रोडे गृहं शुभम्” व्यक्तमाह ज्यो॰ त॰
“वास्तुप्रमाणेन तु यात्रकेण वामेनशेते खलु नित्यकालम्। त्रिभिस्त मासैः परिवृत्य भूमौतं वास्तुनागं प्रवदन्ति वृद्धाः भाद्रादिके वासवदिक्शिराः स्यात् मार्गादिकेषु त्रिषु याम्यमूर्द्धा। प्रत्यक्शिराः स्यात् खलु फाल्गुनादौ ज्येष्ठादि कौवेरशिराः सनागः। मूर्ध्नि खाते भवेन्मृत्युः पृष्ठे स्यात्पुत्रभार्ययोः। जघनेऽर्थक्षयं विद्यात् सर्वसम्पत्तथोदरे” गृहारम्भाद्युपयोगिराहुमुखादिकमाह वा॰ शा॰
“ईशानतः कालसर्पः संहारेण प्रसर्पति। विदिक्षुशेषवास्तोश्च मुखं त्यज्य चतुर्थकम्। खनेच्च सौर-मानेन व्यत्यये चाशुभं भवेत्। चतुस्त्रिद्विकशा-लानामेष दोषो न विद्यते। एकं नागेन्द्रसंशुद्ध्यामन्दिरारम्भणं शुभम्। अधोमुखे च नक्षत्रे शुभेऽह्निशुभवासरे। चन्द्रतारानुकूले च भवनारम्भणं शुभम्। त्रिषु त्रिषु च मासेषु मार्गशीर्षादिषु क्रमात्। पूर्ब्ब-दक्षिणतोयेशपौलस्त्याशां क्रमादगुः (राहुः) स्तम्भे धनविनाशः स्यात् द्वारे वह्निभयं भवेत्। गमने कार्य-हानिः स्यात् गृहारम्भे कुलक्षयः। रक्षःकुवेराग्निजलेशयाम्यावायव्युकाष्ठासु च सूर्य्यवासात्। वसेद-सावष्टसु दिग्भचक्रे मुखे विवर्ज्यो गमने गृहे च। शिरःखाते विनाशः स्यान्मातापित्रोश्च पृष्ठके। स्त्रीपुत्रनाशः पुच्छ तु गोत्रपुत्रविनाशनम्। कुक्षौ सर्व्वसमृप्ति[Page2646-a+ 38] स्याद्धनधान्यसुतागमः। सिंहादिषु त्रिमासेषु चाग्नेय्यांकुक्षिमाश्रितः। वृश्चिकादिषु ईशान्यां कुम्भादिषु चवायुदिक्। वृषादित्रिषु नैरृत्यां मुखपुच्छं न शोभनम्। गृहारम्मविहितमासादि विश्व॰ वा॰ शा॰ उक्तं यथा
“चैत्रे व्याधिमवाप्नोति यो नवं कारयेद्गृहम्। वैशाखेधनरत्नानि ज्यैष्ठे मृत्युं तथैव च। आषाढे भृत्य-रत्नानि पशुवर्जमवाप्नुयात्। श्रावणे मित्रलाभं चहानिं भाद्रपदे तथा। युद्धं चैवाश्विने मासि का-र्त्तिके धनधान्यकम्। धनवृद्धिं मार्गशीर्षे पौषे त-स्करतोभयम्। माघे चाग्निभयं विद्याल्लक्ष्मीवृद्धिश्चफाल्गुने। गृहसंस्थापनं सूर्ये मेषस्थे शुभदं भवेत्। वृषस्थे धनवृद्धिः स्यान्मिथुने मरणं भवेत्। कर्कटेशुभदं प्रोक्तं सिंहे भृत्यविवर्द्धनम्। कन्या रोगं तुलासौख्यं वृश्चिके धनधान्यकम्। कार्मुके च महाहा-निर्मकरे स्याद्धनागमः। कुम्भेऽर्के रत्नलाभः स्यान्मीनेमृत्युभयावहम्। चापमीननृयुक्कन्या मासा दोषा वहाःस्मृताः। ज्यैष्ठोर्जमाघसिंहाख्याः सौरमाने तु शोभनाः। माघे तपस्ये तपसि माधवे नभसि त्विषे। ऊर्जे चगृहनिर्माणं पुत्रपौत्रधनप्रदम्। निषिद्धेष्वपि कालेषुसानुकूले शुभे दिपे। तृणदारुगृहारम्भे मासदोषोन विद्यगे। पाषाणेष्टकगेहानि निन्द्यमासे न कार-येत्। निन्द्यमासेऽपि चन्द्रस्य मासेन शुभदं गृहम्”
“तत्र सौरचान्द्रमासविशेषस्य ग्राह्यतां मासभेदेन पूर्वा-दिमुखगृहकरणञ्चाह मु॰ चि॰
“कुम्भेऽर्के फाल्गुने प्रागपरमुखगृहं श्रावणे सिंहक-र्क्योः पौषे नक्रे च याम्योत्तरमुखसदनं गीऽजगेऽर्केच राधे। मार्गे जूकालिगे सत् ध्रुवमृदुवरुणस्वाति-वस्वर्कपुष्यैः सूतीगेहं त्वदित्यां हरिभविधिभयोस्तत्रशस्तः प्रवेशः। कैश्चिन्मेपरवौ मधौ, वृषभगे ज्यैष्ठे,ढुचौ कर्कटे, भाद्रे सिंहगते, घटेऽश्वयुजि चोर्जेऽलौमृगे पौषके। माघे नक्रघटे शुभं निगदितः गेहं तथो-र्जे न सत्कन्यायां च तथा धनुष्यपि न सत् कृष्णादिमा-साद्भवेत्” मू॰।
“कुम्भे कूम्भस्थिते सूर्ये फाल्गुने च मासिप्रागपरमुखं गृहं प्राङ्मुखं पश्चिममुखं च गृहं सत्शुभफलदं स्यादित्यर्थः। श्रावणे मासि सिंहकर्किसं-स्थार्के प्रागपरमुखं गृहं सत्। पौषे मासे नक्रेमकरसंस्थार्के च प्रागपरमुखं गृहं सत्। अथ गो-जगे वृषमेषगे सूर्ये राधे वैशाखे मासे च तथा मार्गे[Page2646-b+ 38] मार्गशीर्षे मासि जूकालिगे तुलावृश्चिकगते सूर्ये सतियाम्योत्तरमुखं सदनम् दक्षिणमुखं उत्तरमुखं च स-दनं सत् यदाह नारदः
“गृहसंस्थापनं सूर्ये मे-षस्थे शुभदं भवेत्। वृषस्थे धनवृद्धिः स्यान्मिथुने मरणंध्रुवम्। कर्कटे शुभदं प्रोक्तं सिंहे भृत्यविवर्धनम्। कन्या रोगं तुला सौख्यं वृश्चिके धनवर्द्धनम्। कार्मुकेतु महाहानिर्मकरे स्याद्धनागमः। कुम्भे तु रत्न-लाभः स्यान्मोने सद्म भयावहमिति” चान्द्रमासफलान्याहश्रीपतिः
“शोकोधान्यं मृतिपशुहृतिर्द्रव्यवृद्धिर्वि-नाशोयुद्धं भृत्यक्षतिरथःधनं श्रीश्च वह्नेभयञ्च। ल-क्ष्मीप्राप्तिर्भवति भवनारम्भकर्तुः क्रमेण चैत्रादूचे मुनिरिति फलं वास्तुशास्त्रीपदिष्टम्” इति अन्यच्च
“आषाढ-चैत्राश्वयुजीर्जमाघज्यैष्ठेषु च प्रौष्ठपदेषु नूनम्। निकेत-नानां घटनं नृपाणां योगेश्वराचार्यमते न शस्तम्” इति। मते न इति पदच्छेदः। अत्र सौराणां चा-न्द्रमासानां महान् शुभाशुभफलदभेदेन विरोधः। अत्र चिकीर्षितगृहद्वारानुकूलरविसंक्रमसमीचीनविहित-मासेष्वेव वैशाखादिषु गृहारम्भः कार्य इति वि-रोधाभावः इति पितृचरणाः। तत्र द्वारनियममाहश्रीपतिः
“कर्किनक्रहरिकुम्भगतेऽर्के पूर्वपाश्चममु-खानि गृहाणि। तौलिमेषवृषवृश्चिकयाते दक्षिणो-त्तरमुखानि च कुर्यात्। अन्यया यदि करोति दुर्मति-र्व्याधिशोकधननाशमश्नुते। मीनचापमिथुनाङ्गना-गते कारयेन्न गृहमेव भास्करे” इति। कर्कार्कसहितेश्रावणे मासि तादृशमेव गृहम् उक्ताद्धेतोः। एवमकरार्कसहिते पौषे मासे अनेनैव हेतुना दक्षिणोत्त-रमुखं गृहं मेषवृषार्कसहिते वैशाखे स्यात्। तुला-वृश्चिकार्कसहिते मार्गशीर्षमासे तथैव गृहं स्यादि-त्यर्थः। अथात्र सौराणां चान्द्राणां च मासानांनिषेधस्तृणादिनिर्मेयगृहाद्यारम्भे नैव भवति। य-दुक्तं व्यवहारसमुच्चये
“निषिद्धेष्वपि ऋक्षेषु स्वानु-कूले शुभे दिने। तृणदारुगृहारम्भे मासदोषो नविद्यते” इति। जगन्मोहनेऽपि
“पाषाणेष्टादिगेहादिनिन्द्यमासे न कारयेत्। तृणदारुगृहारम्भे मास-दोषो न विद्यते” अत्र केचिदनियतदिग्गृहारम्भेसवदा कालदोषो न प्रवर्तत इत्याहुः तन्न वचनाभा-वात्। किं च
“दिङ्मूढे कुलनाशः स्यादित्यनियतदिग्गृहस्य विचारकीटिसन्निवेशाभावात्। अथ गृह[Page2647-a+ 38] निर्माणनक्षत्राण्याह। ध्रुवेति। ध्रुवाणि मृदूनिच प्रसिद्धानि वरुणः शतभं स्वाती प्रसिद्धा वसुः धनिष्ठाअर्कोहस्ता पुष्यश्च एषु भेषु गृहनिर्माणं सत् शुभफल-दम्। यदाह गर्गः
“त्र्युत्तरेऽपि च रोहिण्यां पुष्येमैत्रे

१७ करद्वये

१३ ।

१४ । धनिष्ठाद्वितये पौष्णे

२७ गृहारम्भः प्रशस्यते” अत्र वाक्ये मृगानभिधानेऽपितदुक्तिर्महेश्वरवाक्यालोचनेन
“प्रारम्भो भवनस्य वारु-ण

२४ मृदु

१४ ।

१७ ।

५ ।

२७ स्वात्यर्क

१३ पुष्यध्रुवै

४ ।

१२ ।

२१ ।

२६ । र्वस्वृक्षेण

२३ युतैरिति” अथ सूतिकागृहनिर्माणे वि-शेषमाह सूतीगेहमिति। अदित्यां पुनर्वसौ सूति-कागृहनिर्माणं शस्तम्। तत्रेति तत्र सूतिकागृहे हरिभविधिभयोः श्रवणाभिजितोर्नक्षत्रयोः प्रवेशः शस्तः। उक्तं च श्रीपतिना
“पुनर्वसौ च सूतिकागृहस्यनिर्मितिः शुभा। विरञ्चिविष्णुभान्तरे प्रवेशनंहितं भवेत्” इति। तदेतद्ब्राह्मणव्यतिरिक्तवर्णत्रि-कपरम् यदाह लल्लः
“पुनर्वसौ नृपादीनां क-र्त्तव्यं सूतिकागृहम्। श्रवणाभिजितोर्मध्ये प्रवेशंतत्र कारयेदिति” आवश्यकत्वे तु श्रवणाभिजितोर्मु-हूर्त्तस्तदुदयो वा ग्राह्यः इत्यर्थः। व्राह्मणस्य तु प्रा-गुक्तनक्षत्रेष्येव सूतिकागृहनिर्माणप्रवेशौ। तत्र सूति-कागृहं नैरृत्यां कार्यं यदाह वृद्धवशिष्ठः
“ऐन्द्र्यांतु विक्रयस्थानमाग्नेय्यां पचनालयः। वारुण्यां भो-जनगृहं नैरृत्यां सूतिकागृहम्। याम्यायां शयन-स्थानं वायव्यां पशुमन्दिरम्। कौवेर्य्यां तु धनस्थान-मैशान्यां देवतालयः” इति। मृतिभास्करे गर्गः
“वारेऽनुकूले राशौ तु दिने दोषविवर्जिते। सानुकूल-दिशि प्रोक्तं सूतिकाभवनं बुधैरिति” कालनियम उक्तोरत्नकोशे
“आसन्नप्रसवे मासि कुर्याच्चैव विशेषतः। तद्वत् प्रसवकाले स्यादिति शास्त्रेषु निश्चयः” इति। वराहे-णात्रानेकनक्षत्राणामभिधानं कृतं यथा
“हस्तादित्यशशा-ङ्कतिष्यपवनप्राज्येशमित्रोत्तराचित्राश्विश्रवणेषु वृश्चिक-घटौ हित्वा विरिक्ते तिथौ। शुक्राचार्यशनैश्चरज्ञश-शिनां वारेऽनुकूले विधौ सद्भिर्वेश्मनि सूतिकागृह-विधिः क्षेमङ्करः कीर्त्यते” इति। वेश्मनि चतुर्थस्थानेसद्भिः शुभग्रहैः। सूतिकागृहप्रवेशे कालविशेषमाहज्योतिवसिष्ठः
“अथातः संप्रवक्ष्यामि सूतिकागारवेश-नम्। मासि तु नवमे प्राप्ते पूर्वपक्षे शुभे दिने। प्रसूति-सम्भवे काले सद्य एव प्रवेशयेदिति” पूर्वपक्षे शुक्ल-[Page2647-b+ 38] पक्षे। प्रवेशे नक्षत्रादीन्याह गर्गः
“रोहिण्यैन्दवपौ-ष्णेषु स्वातीवारुणयोरपि। पुष्ये पुनर्वसौ हस्तधनिष्ठा-त्र्युत्तरासु च।
“मैत्रत्वाष्ट्रे तथाश्विन्यां सूतिकागारवेशनम्”।
“सर्वेशुभग्रहाः केन्द्रे पापाश्च त्रिषडायगाः। शुभांशे शुभसन्दृष्टे सूतिकागारवेशनमिति”। प्राग-भिहितानां सौरचान्द्रमासानां प्रकारान्तरेणैकपाक्यतांशार्दूलविक्रीडितेनाह। कैश्चिदिति पूर्वदिग्द्वारवशेनै-कवाक्यता उक्ता इदानीमेतादृशमुच्यते मेषसंस्थे रवौमधौ चैत्रेमासि गेहं प्रारब्धं शुभं स्यात्। तथा वृ-षस्थे सूर्ये ज्यैष्ठे मासि, कर्कस्थेऽर्के शुचावाषाढे, सिंह-गतेऽर्के भाद्रपदे मासि, घटे तुलास्थे रवौ आश्वयुजिआश्विनमासि। अलौ वृश्चिकगेऽर्के ऊर्जे कार्त्तिके मासि। मृगे मकरस्थेऽर्के पौषे मासि, नक्रघटे मकरकुम्भस्थेऽर्केमाघे मासि प्रारब्धं गृहं शुभं स्यात् इत्यर्थः इति कै-श्चिन्निगदितम्। अस्यायमाशयः। मीनचापेत्या-दिना द्विस्वभावराशयो निषिद्धाः शोको धान्यमित्या-दिना च कियन्तश्चान्द्रा अपि मासा निषिद्धाः। अतो-ऽन्थे सौराश्चान्द्रा वा विहितास्तेषामयमेव एकवा-क्यताप्रकारः। मेषस्थे रवौ चैत्रेऽपि गृहं शुभम्। यस्तु चैत्रोनिषिद्धः स मीनार्कविषयः। वृषभस्थे रबौज्यैष्ठेऽपि शुभम्। वैशास्वस्तु विहितएवास्ति ज्येष्ठोनिषिद्धः स मिथुनार्कविषयः। कर्कटस्थे सूर्ये आषाढे-ऽपि शुभं आषाढनिषेधस्तु मिथुनार्कविषयः। सिंह-गते सूर्ये भाद्रपदेऽपि शुभम्। श्रावणश्चेत्तत्र स्यात्सविहितत्वादेव शुभः। यस्तु भाद्रपदनिषेधः स कन्यार्क-विषयः। तुलागते सूर्ये आश्विनेऽपि शुभम्। यस्त्वस्यनिषेधः। स कन्यार्कपरः। वृश्चिकस्थे सूर्ये कार्त्तिकेऽपिशुभं स्यात् निषेधविषयं स्वयमेव वक्ष्यति। मार्गशीर्षोविहित एव। मकरस्थे सूर्ये पौषे शुभं धनुरर्कसाहित्ये सोऽप्यशुभः। मकरकुम्भस्थे सूर्ये माघेऽपि शुभंनिषेधस्तु धनुरर्कविषयः। अत एव
“पौषफाल्{??}नवै-शाखमाघश्रावणकार्तिकाः। मासाः स्युर्गृहनिर्माणेपुत्रारोग्यशुभप्रदाः” इति नारदवाक्यम्
“मासे तपस्येतपसि माधवे नभसि त्वि। ऊर्जे च गृहनिर्माणंपुत्रपौत्रधनप्रदम्” इति वसिष्ठवाक्यं च आश्विनकात्तिकमावमासानां शुभत्वप्रतिपादक तुलावृश्चिकमकरकुम्भा-र्कविषयं मीनार्कराहित्यप्राशस्त्यपरं च वचनान्तरबो-धितो निषेधः प्रागुक्तविषय एव। फाल्गुनस्य शुभत्वं[Page2648-a+ 38] कुम्भार्कविषयं मीनार्कसाहित्ये तु निषिद्धम्। ननुकार्त्तिकमाघमासौ श्रीपतिना निषिद्धौ तयोः कोविषय इत्यत आह अथेति ऊर्जः कार्तिको मासःकन्यायां कन्यागते रवौ न सन् न शुभः। च पुनःतपा माघमासो धनुषि धनुरर्के न सन् अपिः पादपूरणे। नन्वेतदयुक्तं प्रतिभाति यतश्चान्द्रमासेषु चैत्रादिमास-संज्ञाः सन्ति तत्र कार्त्तिके मासि कन्यासंक्रान्तिः। माघे मासि धनुरर्कश्च कदापि न सम्भवेत्। यतः का-र्त्तिकस्य माघमासस्य च शुक्लप्रतिपदादित्रिंशत्तिथयःयावत् तावत् संज्ञेत्यत आह कृष्णादिमासादिति। अस्ति द्विविधो मासः शुक्लादिः कृष्णादिश्चेति। तत्रशुक्लप्रतिपदमारभ्यामावास्यापर्यन्तः शुक्लादिः। कृष्णपक्ष-प्रतिपदमारभ्य पूर्णिमान्तः कृष्णप्रतिपदादिः। यथा। चैत्रशुक्लपक्षे मतद्वयेऽपि स एव चैत्रपूर्णिमास्यनन्तरंकृष्णपक्षः चैत्रमास एव एवं चान्द्रमासो भवति। सएव कृष्णपक्षो यदि वैशाखकृष्णपक्षत्वेन व्यवह्रियते। भाविशुक्लपक्षो वैशाखशुक्लः सर्ववादिसिद्धः। तदा कृष्णा-दिर्मासः सम्भवति उभयथा हि शास्त्रे व्यवहारः
“अश्व-युक्कृष्णपक्षे तु श्राद्धं कुर्य्यात् दिने दिन इति” पी॰ धा॰तत्र विहितनिषिद्धतिथिनक्षत्रादिनिरूपणम् वा॰ शा॰
“अथातः संप्रवक्ष्यामि गृहकालविनिर्णयम्। यथा-कालं शुभं ज्ञात्वा तदा भवनमारमेत्। मृदुध्रुवस्वातिपुष्यधनिष्ठाद्वितये रवौ (

१३ )। मूले पुनर्वसौ सौम्यवारे-प्रारम्भणं शुभम्। आदित्यभौमवर्ज्याःस्युर्वाराः सर्वेशुभावहाः। द्वितीया च तृतीया च पञ्चमी षष्ठिकातथा। सप्तमी दशमी चैव द्वादश्येकादशी तथा। त्रयोदशी पञ्चदशी तिथयः स्युः शुभावहाः। दारिद्र्यंप्रतिपत् कुर्यात् चतुर्थीं धनहारिणी। अष्टम्युच्चाटनंचैव नवमी शस्त्रघातिनी। दर्शे राजभयं चैव भूते दारविनाशनम्। धनिष्ठापञ्चके नैव कुर्यात् स्तम्भसमुच्छ्रयम्। सूत्रधाराशलान्यासं प्राकारादि समारभेत्। जामित्रंद्विविधं चैव वेधोपग्रहकर्त्तरी। एकार्गलं तथा लत्तायतक्रकचसंज्ञकाः। पातश्च द्विविधोवर्ज्यो व्यती-पातश्च वधृतिः। कुलिकं कण्टकं कालं यमधण्टस्त-थैव च। कुयोगातिथिवारोत्यास्तिथिभोत्था भवारजा। विवाहादिपु ये वर्ज्यास्तेवर्ज्या वास्तुकर्मणि” बास्तुचक्रं तत्रैव
“वास्तुचक्रं प्रवक्ष्यामि यच्च व्यासेनभाषितम्। यस्मिन्नृक्षे स्थितो भानुस्तदादि त्रीणि म-[Page2648-b+ 38] स्तके। चतुष्कमग्रपादे स्यात् पुनश्चत्वारि पश्चिमे। पृष्ठे च त्रीणि ऋक्षाणि कुक्षौ चत्वारि वामतः। च-त्वारि दक्षिणे कुक्षौ पुच्छे भत्रयमेव च। मुखे भत्रयमेवंस्युरष्टाविंशतितारकाः। शिरस्ताराग्निदाहाय गृहोद्वा-सोऽग्रपादयोः। स्थैर्यं स्यात् पश्चिमे पादे पृष्ठे चैवधनागमः। कुक्षौ स्याद्दक्षिणे लाभः पुच्छे च स्वामिनाश-नम्। वामकुक्षौ च दारिद्र्यं मुखे पीडा निरन्तरम्”। तत्र वर्ज्यकालमाह विश्व॰ वा॰ शा॰। कृष्णपक्षे तिथौ रिक्तेगण्डान्ते रविसंक्रमे। रविभौमदिमे विष्टौ व्यती-पाते च वैधृतौ। मासदग्धं वारदग्धं तिथिदग्धं चवर्जयेत्। अनुक्तेष्वपि धिष्ण्येषु न कर्त्तव्यं कदाचनक्रकचं चन्द्रदग्धं च योगानां वज्रसंज्ञकम्। उत्पातै-र्दूषितमृक्षं त्रिस्पृशं दर्शसंज्ञकम्। वज्रव्याघातशूलेषुव्यतीपातातिगण्डयोः। विष्कम्भगण्डपरिघं वर्ज-यित्वा च कारयेत्”। विहितमुहूर्तमाह तत्रैव
“स्वातौ मैत्रेऽथ माहेन्द्रे गान्धर्वे भगरोहिणे। तथावैराजसावित्रे मुहूर्ते गृहमारमेत्। चन्द्रादि सबलंज्ञात्वा शुभं लग्नं निरीक्ष्य च। स्तम्भोच्छायादि कर्तव्य-मन्यत्र परिवर्जयेत्”। तिथिभेदेन पूर्वादिदिङ्मुखगृहारम्भनिषेधमाह मु॰ चि॰
“पूर्णेन्दुतः प्राग्वदनं नवम्यादिषूत्तरास्यन्त्वथ पश्चि-मास्यम्। दर्शादितः शुक्लदले नवम्यादौ दक्षिणास्यं नशुभं वदन्ति” मू॰
“पूर्णेन्दुतः पूर्णिमातः कृष्णाष्टमी-पर्यन्तं प्राङ्मुखं गृहं शुभं न वदन्ति। कृष्णनव-मीतश्चतुर्दशीपर्यन्तं क्रियमाणं गृहमुत्तरास्यं न शु-भम्। अथ दर्शादितः शुक्लाष्टमीपर्यन्तं पश्चिमास्यगृहं न शुभम्। शुक्लनवमीतश्चर्दशीपर्यन्तं दक्षिणास्यगृहं न शुभम् वदन्ति। तासु तिथिषु तत्तद्दिङ्मुखंगृहं न कर्त्तव्यम् इति वाक्यार्थः फलितः। यदुक्तव्यवहारसमुच्चये
“पूर्णिमातोऽष्टमीं यावत् पूर्वास्यंवर्जयेद्गृहम्। उत्तरास्यं न कुर्वीत नवम्यादिचतु-र्दशीम्। अमावास्याष्टमीं यावत्पश्चिमास्यं विवर्जयेत्नवम्यादौ दक्षिणास्यं यावत् शुक्लचतुर्दशीमिति” दिग्भेदमुखनक्षत्राण्याह
“कृत्तिकाद्याः सप्त पूर्वे मघाद्याःसप्त दक्षिणे। मैत्राद्याः पश्चिमे सप्त धनिष्ठाद्यास्तथोत्तरेअग्रे चन्द्रे स्वामिभयं कर्मकर्त्ता च पृष्ठके। दक्षिणे चधनं दद्याद्वामे स्त्रीसुखसम्पदः। गृहोपलक्ष्यकार्येषु यत्रऋक्षेषु चन्द्रमाः। शलाकासप्तके देयं कृत्तिकादिकमेव[Page2649-a+ 38] च। ऋक्षं चन्द्रस्य वास्तोश्च अग्रे पृष्ठे न शस्यते। लग्नादृक्षाद्विचार्योऽत्र चन्द्रः सद्यःफलपदः। गृहेचन्द्रे सम्मुखस्थे पृष्ठस्थे न शुभं गृहम्। वामदक्षिणतःचन्द्रः प्रशस्तो वास्तुकर्मणि”( तत्र विहितनिषिद्धलग्नादिकमाह तत्रैव चर-लग्नं चरांशञ्च सर्वथा परिवर्जयेत्। जन्मभाच्चोपचयभेलग्ने वर्गे तथैव च। प्रारम्भणं प्रकुर्वीत नैधनं परि-वर्जयेत्। पापैस्त्रिषष्ठायगतैः सौम्यैः केन्द्रत्रिकोणगे। निर्माणं कारयेद्वीमानष्टमस्थैः खलैर्मृतिः। मनुष्य-लग्ने सौम्यानां दृग्योगे योगतस्तथा। कुम्भं विहा-यान्यलग्ने सौम्यग्रहयुतेक्षिते। जलाशयादिवास्तूनांप्रारम्भः शुभदः स्मृतः” अत्र शुभयोगास्तत्रैव
“गुरुर्लग्नेरविः षष्ठे द्यूने

७ सौम्ये सुखे

४ सिते। तृतीयस्थेऽर्कपुत्रेऽत्र तद्गृहं तु शतायुषम्। भृगुर्लग्नेऽम्बरे

१० सौम्येलाभस्थाने

११ च भास्करे। गुरुः केन्द्रगतो यत्र शतव-र्षाणि तिष्ठति। हिवुके

४ ज्येऽम्बरे

१० चन्द्रे लाभे

११ चकुजभास्करौ। आरम्भः क्रियते यस्य अणीत्यायुः क्रमात्भवेत्। लग्ने भृगौ पुत्रगेज्ये

५ षष्ठे भौमे त्रिगे रवौ। यस्य गृहस्य प्रारम्भः स च तिष्ठेच्छतं समाः। लग्नस्थौगुरुशुक्रौ चेत् रिपु

६ राशिगते कुजे। सूर्ये लाभगते

११ यस्य द्विशताव्दानि तिष्ठति। स्वोच्चस्थो वा भृगुर्लग्नेस्वोच्चे जीवे सुख

४ स्थिते। स्वोच्चे लाभगते

११ मन्देसहस्राणि समाः स्थितिः। स्वोच्चे स्वभवने सौम्येलग्नस्थे वापि केन्द्रगैः। प्रारम्भः क्रियते यस्य शतद्वयंस तिष्ठति। इज्योत्तरात्रयाहीन्दुविष्णु धातृजलोडुषु।

८ ।

१२ ।

२१ ।

२६ ।

९ ।

५ ।

२२ ।

४ ।

२० । गुरुणा सहितेष्वेषु कृतंगेहं श्रिया युतम्। द्विदैवत्वाष्ट्रवारीश रुद्रादिति वसू-डुषु।

१६ ।

१४ ।

२४ ।

६ ।

७ ।

२३ । शुक्रेण सहितेष्वेषु कृतंधान्यप्रदं गृहम्। हस्तार्यमत्वाष्ट्रदस्रचतुरास्येन्द्रभेषु च

१३ ।

१२ ।

१४ ।

२ ।

४ ।

१८ । बुधेन सहितेष्वेषु धनपुत्रसुखप्रदम्”। कुयोगास्तत्रैव
“शत्रुक्षेत्रगतैः स्वेटैर्नीचस्थैर्वा परा-जितैः। प्रारब्धं यस्य भवनं लक्ष्मीस्तस्य विनश्यति। एकोऽपि परभागस्थो दशमे सप्तमेऽपि वा। वर्णाधिपेबलैर्हीने तद्गृहं परहस्तगम्। पापान्तरगते लग्नेचन्द्रे सौम्ययुतेक्षिते। अष्टमस्थेऽर्कपुत्रे च अशीत्यब्दा-द्विहन्यते। मन्दे लग्नगते चैव कुजे सप्तमसंस्थिते। शुभैरवीक्षिते वापि शतवर्षान्निहन्यते। लग्नगे शशिनिक्षीणे मृत्युस्थाने च भूसुते। प्रारम्भः क्रियते यस्य[Page2649-b+ 38] शीघ्रं तच्च विनश्यति। दशापतौ बलैर्हीने वर्णनार्थेतथैव च। पीडितर्क्षगते सूर्ये न विदध्यात्कदाचन। पितृमूलेज्यभाग्यार्कपौष्णभेषु च

१० ।

१९ ।

८ ।

११ ।

१३ ।

२७ यत्कृतम्। कुजेन सहितेष्वेषु गृहं सन्दह्यतेऽग्निना। मूलञ्च रेवती चैव कृत्तिकाषाढमेव च। पूर्वफाल्गुनीहस्ते च मघा चैव तु सप्तकम्। एषु भौमेन युक्तेषुवारे तस्यैव वेश्म यत्। अग्निना दह्यते कृत्स्नं पुत्रनाशःप्रजायते। अग्नित्तभर्क्षगते सूर्ये चन्द्रे वा तत्र संस्थिते। निर्मितं मन्दिरं नूनमग्निना परिदह्यते। ज्येष्ठानु-राधके चैव भरणीखातिपूर्बभे। धनिष्ठाष्वपि ऋक्षेषुशनिस्तिष्ठेद्दिनस्य च। कृपणो नामतः प्रोक्तो धनधा-न्यादिके गृहे। पुत्रे जातेऽथवा तस्मिन् दह्यते यक्ष-राक्षसैः। प्रासादेष्वेवमेव स्याद्वापीकूषेषु चैव हि। तस्माद्विचार्य कुर्वीत गृहारम्भं शुभे शुभम्। नाश-न्दिशन्ति मकरालिकुलीरलग्ने, मेषे घटे धनुषि कर्मसुदीर्घसूत्रम्। कन्याझषे मिथुनगे ध्रुवमर्थलाभं ज्योति-र्विदः कलससिंहवृषेषु सिद्धिम्। सायाह्ने तु कृतंवास्तु कर्त्तुर्वित्तविनाशदम्। महानिशास्वपि तथासन्ध्ययोर्नैव कारयेत्”। भावस्थग्रहफलानि तत्रैव
“लग्नेऽर्के विघ्नपातः स्यात्कोशहानिश्च शीतगौ। मृत्युंर्विश्वम्भरापुत्रे दारिद्र्यं रविनन्दने। जीवे धर्मार्थकामाःस्युः पुत्रोत्पत्तिश्च भार्गवे। चन्द्रजे कुशला शक्तिर्या-वदायुः प्रवर्त्तते। द्वितयस्थे रवौ हानिश्चन्द्रे शत्रुभयं भवेत्। भूमिजे बन्धनं प्रोक्तं नानाविघ्नानिभानुजे। बुधे द्रविणसम्पत्तिर्गुरौ धर्माभिबर्द्धनम्। यथाकामविनोदेन भृगौ कामं व्रजेत् फलम्। तृतीय-स्थेषु पापेषु सौम्येष्वेषु विशेषतः। सिद्धिः स्यादचिरादेव यथाभिलषितं प्रति। चतुर्थस्थानगे जीवे पूजासम्पद्यते नृपात्। चन्द्रजे चार्थलाभः स्याद्भूमिलाभश्चभार्गवे। वियोगः सुहृदां भानौ मन्त्रभेदो महीसुते। बुद्धिनाशो निशानाथे सर्वनाशोऽर्कनन्दने। पञ्चमे तुसुराचार्ये चित्रो वसुधनागमः। शुक्रे पुत्रसुखावाप्तीरत्नलाभस्तथेन्दुजे। सुतदुःखं सहस्रांशौ शशाङ्के क-लहः स्मृतः। भौमे कार्यविरोधः स्यात्सौरौ बन्धु-विमर्द्दनम्। षष्ठस्थानगते सूर्ये रोगनाशं विनिर्द्दि-शेत्। चन्द्रे पुष्टिः कुजे प्राप्तिः सौरौ शत्रुबलक्षयः। गुरौ मन्त्रोदयः प्रोक्तो भृगौ विद्यागमो भवेत्। सर्व-ज्ञानार्थकौशल्यं नक्षत्रपतिनन्दने। सप्तमस्थानगे जीवे[Page2650-a+ 38] बुधे दैत्यपुरोहिते। गजवाजिधरित्रीणां क्रमाल्लाभंविनिर्दिशेत्। भास्करे कीर्त्तिभङ्गः स्यात् कुजेविपदमादिशेत्। हिमगौ क्लेश आयासः सौरौ सर्वधनक्षयः। पतङ्गे पङ्गुताष्टस्थे भौमे सौरौ च रुग्-भयम्। चन्द्रे रोगविवृद्धिः स्यात् कुजे शोकागमोभवेत्। बुधे मानधनप्राप्तिर्जीवे च विजयो भवेत्। शुक्रे स्वजनभेदः स्यान्मन्त्रज्ञस्यापि देहिनः। वागीशेनवमस्थाने विद्याभोगाभिनन्दनम्। बुधे विविध-भोगाप्तिर्भार्गवे विजयो भवेत्। चन्द्रे धातुक्षयःप्रोक्तो धर्महानिश्च भास्करे। कुजे चाथ भयं विद्या-द्रविजे धर्मदूषणम्। दशमस्थानगे शुक्रे शयनासनसिद्धयः। सुराचार्ये महत्सौख्यं विजयः स्त्रीधनंबुधे। मार्त्तण्डे च सुहृद्वृद्धिस्तथा शोकविवर्द्धनम्। भौमे रत्नागमः प्रोक्तः शनौ कीर्त्तिविलोपनम्। लाभस्थानेषु सरेषु लाभस्थानं विनिर्द्दिशेत्। व्यय-स्थानेषु सर्वेषु विनिर्देश्यो व्ययः सदा। स्वोच्चे पूर्णफलःप्रोक्तः पादोनः स्वर्क्षगो ग्रहः। स्वत्रिकोणेऽर्द्धफलदःपादं मित्रपदाश्रितः। समर्क्षे रिपुराशौ च समकष्टफलोग्रहः। नीचस्थो विफलो द्वेष्यवर्गेऽसत्फलदः शुभः”। गृहारम्भे रव्यादिगोचरादिशुद्धिफलादि वा॰ शा॰
“गोचराष्टकवर्गाभ्यां वामवेधं विचिन्तयेत्। दशा चा-न्नार्दशादिश्च विचार्य्यश्चात्र कर्मणि। गुरुशुक्रवलेविप्रात् सूर्यभूमिजयोस्तथा। शशिसौम्यबले सौरि-वले वर्णानुपूर्वशः। गृहारम्भं प्रकुर्वीत वर्णनाथवलेमति। सर्वेषामपि वर्णानां सूर्यचन्द्रबलं स्मृतम्। विषमस्थे रवौ स्वामी पीड्यते गृहिणी विधौ। शुक्रेण पीड्यते लक्ष्मीर्जीवेन सुखसम्पदः। बुधेनपुत्रपौत्राश्च सौभेन भ्रातृबान्धवाः। सौरिणा दासवर्गाश्चपीड्यन्ते नात्र संशयः। विशेषेण तु सूर्यस्य बलंप्रोक्तं गृहे बुधैः। सर्वेषामेव वर्णानां रविशुद्धिर्वि-धीयते। दशापतौ हीनबले वर्णनाथे तथैव च। पी-डितर्क्षगते सूर्ये न विदध्यात् कदाचन। प्रथमकोष्ठगेरोगं द्वितीये चार्थनाशनम्। तृतीये धनलाभं च च-तुर्थे भयदो रविः। पञ्चमे पुत्रलाभं च शत्रुनाशायशत्रुगे। स्त्रीकष्टं सप्तमे सूर्ये मृत्युश्चाष्टमगेहगे।{??}वमे धर्मनाशाय दशमे कर्भसंयुतिः। एकादशे भवे-{??}क्ष्मीर्द्वादशे च धनक्षयः। पुत्रे

५ द्वितीये द्यूने

७ च{??}र्से मध्यबलो रविः। द्वितीयपुत्राङ्क

५ ।

९ गतस्त्रिदशाहात्[Page2650-b+ 38] परः शुभः। अस्तगा नीचराशिस्थाः परराशौ परैर्जिताः। वृद्धस्था बालाभावस्था वक्रगाश्चातिचारिणः। रिपुदृष्टिवशंयाता उल्कापातेन दूषिता। न फलन्ति ग्रहागेहप्रारम्भे तान् प्रपूजयेत्”। गृहारम्भे स्वातारम्भोपयोगिनक्षत्राण्याह माण्डव्यः।
“अधोमुखैर्भैर्विदधीत खातं शिलास्तथा चोर्द्ध्वमुखैश्च प-ट्टम्। तिर्य्यङ्मुखैर्द्वारकपाटदानं गृहप्रवेशो मृदुभिर्ध्रुवैश्च” अधोमुखादिनक्षत्राण्याह पी॰ पा॰ गरुडपु॰
“भरणी कृत्तिकाऽश्लेषा मघामूलविशाखिकाः। तिस्रःपूर्वास्तथा चैव अधोवक्त्राः प्रकीर्त्तिताः। वापीकूप-तडागादिखननं च तृणादिकम्। देवतागारखननंनिघानखननं तथा। गणितं ज्योतिषारम्भं खनीबिलप्रवेशनम्। कुर्यादधोगतान्येव कार्याणि वृषभध्वज!। रोहिण्यार्द्रा तथा पुष्यो धनिष्ठा चोत्तरात्रयम्। वारुणं श्रबणं चैव नव चोर्द्धमुखाः स्मृताः। एषु रा-ज्याभिषेकं च पट्टबन्धं च कारयेत्। उर्द्ध्वमुखान्युच्छ्रि-तानि सर्वाण्येषु च कारयेत्। रेवती चाश्विनी चित्रास्वाती हस्तः पुनर्वसुः। अनुराधा मृगः ज्येष्ठा एताःपार्श्वमुखाः स्मृताः। गजोष्ट्राश्वबलीवर्ददमनं महिषस्यच। वीजानां वपनं कुर्याद्गमनागमनादिकम्। चक्र-यन्त्र रथादीनां नावादीनां प्रवाहनम्। पार्श्वेषु यानिकर्माणि कुर्यादेतेषु तानि च” नक्षत्रभेदे द्वारनिर्माणाय सफलं द्वारचक्रमाह मु॰ चि॰
“सूर्यर्क्षाद्युगभैः शिरस्यथ फलं लक्ष्मीस्ततः कोणभैर्ना-गैरुद्वसनं ततो गजमितैः शाखासु सौख्यं भवेत्। देह-ल्याङ्गुणभैर्मृतिर्गृहपतेर्मध्यस्थितैर्वेदभैः सौख्यं चक्र-मिदं विलोक्य सुधिया द्वारं विधेयं शुभम्” भू॰
“द्वारस्य चत्वारः पाषाणा आवश्यकाः। द्वौ ऊर्द्ध्वाधो-भावेनावस्थितौ समावल्पपरिमाणौ। तत्र उत्तरङ्गइत्यूर्द्धावस्थितस्य संज्ञा। अधोवस्थितस्य तु देहलीतिसर्वसाधारणं नाम। द्वौ पार्श्वयोः स्थितौ महापरिमाणौशाखासंज्ञौ (साह) इति भाषया द्वयोरपि संज्ञा एवंदीर्घचतुरस्रद्वारं भवति। पाषाणासम्भवे तु काष्ठादेरपिनिवेशः। तत्र द्वारे चिकीषिते सूर्याधिष्ठितनक्षत्राद्यु-गभैश्चतुर्भिर्नक्षत्रैः शिरस्यवस्थितैः सद्भिः लक्ष्मीप्राप्तिरूपंफलं स्यात्। ततस्तदग्रिमैर्नागैः कोणभैर्द्वयोरव-स्थित्या चतुःकोणेष्ववस्थितैरष्टसंख्यकैर्नक्षत्रैरुद्वसनं तत्द्वारगृहं सर्वदा जनवासरहितं स्यात्। ततस्तदग्रिमै[Page2651-a+ 38] र्गजमितेरष्टाभिर्भैः शाखासु तत्रावस्थितैर्गृहस्वामिनःसौख्यरूपं फलं स्यात्। ततस्तदग्रिमेर्गुणभैस्त्रिभिर्न-क्षत्रैर्दहल्यामवस्थितैर्गृहपतेर्मृतिः स्यात्। तत-स्तदग्रिमैर्वेदभैश्चतुर्भिर्नक्षत्रैर्मध्यस्वरूपेऽवकाशे स्थितैःसौख्यं स्यात्। फलितार्थमाह। चक्रमिति। इदंद्वारचक्रं विलोक्य सुधिया शुभं शुभफलदं द्वारं विधेयंकर्त्तव्यम्। तदुक्तं ज्योतिर्निबन्धे
“द्वारचक्रं प्रवक्ष्यामिभाषितं विश्वकर्मणा। सूर्यभाद्भचतुष्कं तु द्वार-स्योपरि विन्यसेत्। द्वे द्वे कोणे च दातव्ये शाखायुग्मेद्वयं द्वयम्। अधश्च त्रीणि देयानि वेदा मध्ये प्रति-ष्ठिताः। राज्यंस्यादूर्द्ध्वनक्षत्रे कोणेषूद्वसनं भवेत्। शाखायां लभते लक्ष्मीमधश्चैव मृतिं लभेत्। मध्य-भेषु लभेत्सौख्यं चिन्तनीयं सदा बुधैरिति” अथ द्वार-स्थापनम्
“द्वारंस्थापननक्षत्राण्युच्यन्तेऽश्विनी चोत्तरा। हस्तापुष्यश्रुतिमृगाः सूरैरेताः प्रकीर्त्तिताः। स्वातौपूष्णि च रोहिण्यां द्वारशाखावरोपणमिति” ज्योतिर्निब-न्धेऽभिहितत्वात्तेऽपि ग्राह्याः। तिथयोऽपि तत्रैवाभिहि-ताः
“पञ्चमी धनदा चैव मुनिनन्दवसौ शुभम्। प्रतिपत्सुनकर्त्तव्यं कृते दुःखमबाप्नुयात्। द्वितीयायां द्रव्यहानिःपशुपुत्रविनाशनम्। तृतीया रोगदा ज्ञेया चतुर्थी भङ्ग-कारिणी। कुलक्षयं तथा षष्ठी दशमी धननाशिनी। विरोधकृदमा पूर्णा न स्याच्छाखावरोपणमिति” एवंसति विरुद्धतिथिं विहाय विहिततिथिषु विहितभेषुच तत्रापि चक्रशुद्धेषु भेषु द्वारं विहितं शुभफल-दातृस्यादिति निष्कृष्टोऽर्थः” पी॰ धा॰तत्प्रवेशकालमाह मु॰ चि॰
“सौम्यायने ज्यैष्ठतपो-ऽब्धिमाधवे यात्रानिवृत्तौ नृपतेर्नवे गृहे। स्याद्वेशनंद्वाःस्थमृदुधुवोडुभिर्जन्मर्क्षलग्नोपचोदये स्थिरे” (

१ ) मू॰
“जीर्णे गृहेऽग्न्यादिभयान्नवेऽपि मार्गोर्जयोः श्रावणि-केऽपि सन् स्यात्। वेशोऽम्बुपेज्यानिलवासवेषु नावश्य-मस्तादिविचारणात्र। (

२ ) मृदुघ्रुवक्षिप्रचरेषु मूलभे वा-स्त्वर्चनं भूतवलिञ्च कारयेत्। त्रिकोणकेन्द्रायधनत्रिगैःशुभैर्लग्ने त्रिषष्ठायगतैश्च पापकैः। (

३ ) शुद्धाम्बु रन्ध्रेविजनुर्भमृत्यौ व्यर्काररिक्ताचरदर्शचैत्रे। अग्रेऽम्बुपूर्णंकलसं द्विजांश्च कृत्रा विशेद्वेश्म भकूटशुद्धम् (

४ ) वामोरविर्मृत्युसुतार्थलाभतोऽर्के पञ्चमे प्राग्वदनादिमन्दिरे। पूर्णातिथौ प्राग्वदने गृहे शुभो नन्दादिके याम्यजलो-त्तरानने। (

५ ) वक्त्रे भूरविभात् प्रवेशसमये कुम्भेऽग्नि-[Page2651-b+ 38] दाहः कृताः

४ प्राच्यामुद्वसनङ्कृता

४ मयगता लाभःकृताः

४ पश्चिमे। श्रीर्तेदाः कलिरुत्तरे युगमिता गर्भेविनाशो गुदे रामाः

३ स्थैर्यमतः स्थिरत्वमनलाः

३ कण्ठेभवेत्सर्वदा” (

६ ) भू॰(
“तत्रापूर्वप्रवेशसुपूर्बप्रवेशयोः कालशुद्ध्यादिकमिन्द्रवंशा-च्छन्दसाह सौम्यायने इति। एतेषु सौम्यायन इत्यादिकेषुपदार्थेषु सत्सु नृपतेर्यात्रानिवृत्तौ अथवा नवे नूतनो-त्थापिते गृहे प्रवेशनं स्यात्। सौम्यायने उत्तरायणे। अत्र शुक्रगुर्वस्तादिको दोषो वाप्यारामतडागेत्यादिनोक्तइति न पुनरुक्तः। एवं गीर्वाणाम्बुप्रतिष्ठेत्यादिनादक्षिणायननिषेधोऽपि। अतःपरिशेषात्सौम्यायनग्रहणेसिद्धे तदुक्तिर्मन्दबुद्धीनां शीघ्रप्रतिपत्त्यर्था। उक्तं चवसिष्ठेन
“अथ प्रवेशो नवसद्मनश्च सौम्यायने जीवसितेबलाद्य” इति बलाढ्ये उदिते। नारदेनापि
“अथ सौ-म्यायने कार्यं नववेश्मप्रवेशनम्। राज्ञां यात्रानिवृत्तौवेति” केवलायां भूमौ क्रीतायां प्राप्तायां वा स्वतःसिद्धायांवोत्थापितं गृहं नूतनमित्युच्यते। ज्यैष्ठेति ज्यैष्ठमाघ-फाल्गुनवैशाखमासेष्वेव सत्यप्युत्तरायणे प्रवेशनंशुभम्। यदाह नारदः माघफाल्गुनवैशाखज्यैष्ठमासेषु शोभनः। प्रवेशो मध्यमोज्ञेयः सौम्यकार्त्तिक-मासयोरिति” सौम्यो मार्गशीर्षः। मध्यमोक्तिराव-श्यकविषया। चान्द्रमासफलान्याह वसिष्ठः
“माघे-ऽर्थलाभः प्रथमप्रवेशे पुत्रार्थलाभः खलु फाल्गुनेच। चैत्रेऽर्थहानि, र्धनधान्यलाभो वैशाखमासे, पशुपुत्रलाभः। ज्यैष्ठे, च मासेषु परेषु नूनं हानिप्रदःशत्रुभयप्रदश्च”।
“शुक्ले च पक्षे सुतरां विवृद्ध्यै कृष्णेच यावद्दशमीं च तावत्” इत्याद्युक्तेरेव ग्रन्थकृता पक्ष-विशुद्धिर्नोक्ता तिथिवारशुद्धिश्चाग्रे वक्ष्यते। वसिष्ठेनतु गृहप्रवेशे सौरमानमनूद्य दूषितं यथा
“मृगादिष-ड्राशिषु संस्थितेऽर्के नवप्रवेशः शुभदः सदैव। कुम्भंविनान्येष्वपि केचिदूचुर्न सौरमिष्टं खलु सन्निवेशे। इति अस्यार्थः नूतनगृहप्रवेशो मकरादिषड्राशिसंस्थिते सूर्ये शुभफलदो भवति तत्रापि माघादिषु कु-म्भरहितेषु चतुर्षु मासेषु शुभतरः ननु
“अथ प्रवेशोनवसद्मनश्च सौम्यायने” इति स्वयं प्राक् सौम्यायन इत्यु-क्तत्वात् किमित्येव तत् पुनरुक्तभित्यत आह। कुम्भंविनेति। सत्यप्युत्तरायणे कुम्भसंक्रान्तौ नूतनगृह-प्रवेशो न भवतीत्येतदर्थं पुनरुक्तमित्यर्थः। नन्विदं[Page2652-a+ 38] पूर्वापरविरुद्धम्। तथाहि
“माघेऽर्थलाभः प्रथमः प्रवेशः” इत्यादिना माघफाल्गुनयोश्चान्द्रमासयोः शुभफला-भिधानात्तत्रैव च कुम्भसंक्रान्तिसद्भावाद्घयोरन्यतरस्या-शुभत्वं प्रतिपाद्यते। उभयमासनिर्मुक्तः कुम्भस्तु ना-स्त्येवेति चेत्। उच्यते। सन्ति हि द्विविधाश्चान्द्रा-मासा शुक्लादयः कृष्णादयश्चेति। तत्र फाल्गुनपूर्णि-मोत्तरमासस्य कृष्णादिमासगणनया चैत्रत्वात्तस्यच विरुद्धफलत्वात्तद्विषयकोऽयं कुम्भसंक्रान्तिनिषेधः। चान्द्रमासस्य शुक्लादिकृष्णाद्यभिधायकानि वाक्यानिगृहारम्भप्रकरणेऽस्माभिरुक्तानि अयमपि निषेधो मासस्यकृष्णादित्वे ज्ञापकः। अथ कर्कादिसंक्रान्तिषु मतान्तर-माहान्येष्वपीति केचिदाचार्य्या अन्येष्वपि कर्कादि-षड्राशिस्थिते सूर्येऽपि नवगृहप्रवेशः कार्य इत्यूचुः। तदेतद्द्वन्द्वसौपूर्विकगृहप्रवेशविषयम्। तदुक्तं स्वयमेव
“नवप्रवेशे त्वथ कालशुद्धिर्न द्वन्द्वसौपूर्विकयोः कदाचि-दिति”। नूतनतृणागारप्रवेशविषयं वा। तदुक्तंज्योतिःप्रकाशे
“गृहारम्भोदितैर्मासैर्धिष्ण्यैर्वारैर्विशे-द्गृहम्। विशेत्सौम्यायने हर्म्यं तृणागारं तु सर्व-देति” अतएव
“कुलीरकन्यकाकुम्भे दिनेशे न विशे-द्गृहम्। ग्रामं वा नगरं वापि पत्तनं वा सुराधि-पेति” गुरुवाक्यमप्येवमेव व्याख्येयम्। ननु पौष-चैत्रादिषु विरुद्धफलेषु चान्द्रमासेषु विहितसंक्रान्तिश्चे-त्तदा नूतनगृहप्रवेशः कार्यो वा नवेत्यत आह न सौर-मिति खलु निश्चये न सौरं मानं सत् प्रवेशे नेष्टंन शुभफलदम्। विरुद्धशुभफलयोश्चान्द्रसौरमासयोःसाहित्ये विहितचान्द्रमासैरेव गृहप्रवेशः कार्य इत्यल-मतिप्रसङ्गेन। द्वाःस्थेति। द्वाःस्थनक्षत्राणि गृहा-रम्भे उक्तानि। मृदूनि ध्रुवाणि चोडूनि प्रसिद्धानि। द्वाःस्थानि च तानि मृदुध्रुवोडूनि चेति कर्मधारयः। तादृशैर्भैः प्रवेशनं हितं स्यात्। अयमर्थः यस्मिन्गृहे प्रवेशः कर्तुमिष्यते तस्य द्वारं यद्दिगऽभिमुखंतद्दिङ्नक्षत्रैर्विहितैः प्रवेशः कार्यः। यदाह वसिष्ठः
“यद्दिग द्वारं मन्दिरं तद्दिगृक्षैरुक्तर्क्षैः स्यात् संप्रवेशोन सर्वैरिति” उक्तर्क्षाण्याह स एव
“चित्रोत्तरा-धातृशशाङ्कमित्रवस्वन्त्यवारीश्वरभेषु

१४ ।

१२ ।

२१ ।

२६ ।

४५ ।

१७ ।

२३ ।

२७ ।

२४ नूनम्। आयुर्धनारोग्यसुपुत्रपौत्र-सत्कीर्तिदः स्यात्त्रिविधः प्रवेशः” इति। नारदो-ऽपि
“वखिज्यान्त्येषु

२३ ।

८ ।

२७ वरुणत्वाष्ट्रमित्रस्थिरो-[Page2652-b+ 38] डुषु

२४ ।

१४ ।

१७ ।

४ ।

१२ ।

२१ ।

२६ । शुभःप्रवेशोदेवेज्यशुक्रयो-र्दृश्यमानयोरिति”। अत्र पुष्यधनिष्ठाशततारकाग्रहणंजीर्णगृहप्रवेशविषयम्। उक्तञ्च ज्योतिःप्रकाशे
“प्रवेशोंनूतने हर्म्ये ध्रुवैर्मैत्रैः सुखाप्तये। पुष्यस्वातीयुतै-स्तैश्च जीर्णे स्याद्वासवद्वये” इति। एतद्ग्रन्थकृदप्य-ग्रिमपद्ये वक्ष्यति। अमुमेवाशयं मनसि निधायाहश्रीपतिः
“शुभः प्रवेशो मृदुभिर्ध्रुवाख्यैः क्षिप्रैश्चरैःस्यात् पुनरेव यात्रा। उग्रैर्नृपोदारुणभैः कुमारोराज्ञां विशाखासु विनाशमेति”
“कृत्तिकासु भवनं कृशा-नुना दह्यते प्रविशतां न संशयः। तन्मुखं च सदनंहि तत्ककुब्द्वारभेषु शुभकृत् प्रवेशनमिति” वसिष्ठोऽपि
“अर्कादितेयानिलदस्रविष्णु

१३ ।

७ ।

१५ ।

२ ।

२२ ऋक्षे प्रविष्टंनवमन्दिरं यत्। अव्दत्रयात्तत्परहस्तयातं शेषेषु (वि-हितभिन्नेषु) धिष्ण्येषु च मृत्युदं स्यादिति” प्रवेशलग्नान्याह जन्मर्क्षेति। जन्मर्क्षं जन्मराशिः जन्मलग्नं चप्रसिद्धम्। ताभ्यामुपचये तृतीयषष्ठैकादशदशमस्थेऽन्येषुतथा स्थिराख्यराशिषु लग्नगतेषु सत्सु नवगृहप्रवेशनंशुभम्। यदाह वसिष्ठः
“कर्तुर्विलग्नादथ जन्मराशे-र्लग्नस्थितो राशिरिति प्रदिष्टः। निर्व्याधिदारिद्र्यय-शस्कराश्च सुहृत् सुतघ्नो रिपुनाशदश्च। कलत्रहन्तानिधनप्रदश्च रोगप्रदः सिद्धिकरोऽर्थदश्च। क्रमाच्चवैरामयदः क्रमेण सदैव नूनं त्रिविधः प्रबेशः” इति। अतो निष्कृष्टमर्थमाह गृहप्रवेशे राजमार्त्तण्डः
“कर्तृ-भोपचयगाश्च विलग्ने राशयः शुभफलायं भवन्तीति” नारदोऽपि
“कर्तुर्जन्मभलग्ने वा ताभ्यामुपचयेऽपिवा। प्रवेशलग्ने स्याद्वृद्धिरन्यभे शोकनिःस्वनः” इति। पुनर्वसिष्ठः
“सौम्ये स्थिरे भे शुभदृष्टियुक्ते लग्नेऽथ वाद्व्यङ्गगृहे विलग्ने” इति। सौम्ये सौम्यग्रहयुक्ते। द्व्यङ्गगृहे द्विस्वभावराशौ। अत्र विवाहप्रकरणोक्ताएकविंशतिविधा दोषा वर्ज्या इत्यपि ध्येयम्। एकविंशतिदोषानुपक्रम्य वसिष्ठेनोक्तम्
“कर्तुर्नाशोगृहारम्भे प्रवेशे पतिनाशनम्” इति (

१ )। अथ जीर्णगृहादिविषयके प्रवेशे विशेषमिन्द्रवज्राच्छन्दसाह जीर्णेपुरातभेऽन्यनिर्मिते गृहेऽथवा सिद्धएव गृहेऽग्न्यादिभयात्अग्निकृतं भयं दाहः। आदिशब्देन बहुवृष्टिपातभयंराजकोपोवा। इत्याद्युपद्रवैः पतिते गृहे पुनरपिसम्यक्कृते उत्थापिते गृहेऽपि प्राक्पद्योक्ताः सर्वे-ऽपि मासास्तादृशगृहप्रवेशेज्ञेयाः। किञ्च। मार्गो[Page2653-a+ 38] र्जयोः मार्गशीर्षकार्त्तिकयोश्च श्रावणिकेऽपि श्रावणेमासि वेशः प्रवेशः सन् शुभफलदः स्यात्। यदाहसनत्कुमारः
“गृहारम्भोदितैर्मासैर्धिण्यैर्वारैर्विशेद्गृह-मिति” अत्र सामान्यतो गृहारम्भोदिता मासा गृहप्र-वेशेऽभिहिताः” ते चेमे।
“सौम्यफाल्गुनवैशाखमाघश्रावणकार्त्तिकाः। मासाः स्युर्गृहनिर्माणे पुत्रारोग्य-धनप्रदाः” इति नारदोक्तेः मार्गशीर्षफाल्गुनर्वशाखमाघश्रावणकार्त्तिका विहिताः। तत्र उत्तरायणेएब गृहप्रवेशस्य वाक्यान्तरेण विहितत्वात् श्रावणकार्त्तिकमार्गशीर्षाणामुत्तरायणत्वाभावाद्विरोधेन नूत-नजीर्णगृहप्रवेशाभ्यां व्यवस्था कथं? प्रागभिहितना-रदवाक्येनोत्तरायणसाहचर्येण नूतनगृहप्रवेशसुपूर्व-गृहप्रवेशयोर्विधानात्
“गृहारम्भोदितैर्मासैः” इत्यनेन तुसामान्यतस्त्रिविधस्यापि गृहप्रवेशस्याभिधानादुत्तरा-यणीयामासास्त्रिविधगृहप्रवेशे शुभाः दक्षिणायनीयामासाः श्रावणादयस्तु जीर्णगृहप्रवेशविषयाः। अतएवनारदो मार्गशीर्षकार्त्तिकयोर्नूतनगृहप्रवेशे मध्यमत्वमाहअर्थादेवजीर्णगृहप्रवेशे उत्कृष्टत्वमध्यवस्यते। अम्बु-पेति अम्बुपः शततारका ईज्यःपुष्यः। अनिलः स्वाती-वासवं धनिष्ठा एष्वपि भेषु जीर्णगृहेऽग्न्यादिभयान्नवेऽपिगृहे प्रवेशः शुभः प्राक्पद्योक्तेषु तु भेषु शुभ एवेतिकैमुतिकन्यायादवगम्यते। यदुक्तं ज्योतिःप्रकाशे
“प्रवेशो नूतने हर्म्ये ध्रुवैर्मैत्रैः सुखाप्तये। पुष्य स्वातियुतैस्तैश्च जीर्णे स्याद्वासवद्वये” इति। नावश्यमितिअत्रैवंविधे जीर्णे गृहे अग्न्यादिभयान्नवेऽपि गृहेऽवश्यमस्तादिविचारणा शुक्रास्तगुर्वस्तबाल्यवार्धक्यसिंहस्थगुरुमकरस्थगुरुलुप्तसंवत्सरादीनां दोषाणां विचारणाविचारो नास्ति। अस्तादयः कालदोषाःसन्तु वा मा वातथापि गृहप्रवेशः कार्यः। परन्तु सोऽपि यथाकथं-चित्पञ्चाङ्गशुद्धिमात्रमङ्गीकृत्य विहितनक्षत्रेष्वेव कार्यः। वास्तुपूजा त्वेवंविधेऽपि गृहप्रवेशे भवतीत्यपि ध्येयम्यदुक्तं ज्योतिःप्रकाशे
“नित्ययाने गृहे जीर्णे प्राशनेपरिधानके। बधूप्रवेशे माङ्गल्ये न मौद्यं गुरुशुक्रयोरि-ति” वसिष्ठेनाप्युक्तम्
“नवप्रवेशे त्वथ कालशुद्धिर्न द्वन्द्वसौपूर्विकयोः कदाचिदिति” अस्यार्थः। नूतनगृहप्रवेशेकालशुद्धिर्विचार्या। द्वन्द्वं द्वन्द्वाभयाख्यो गृहप्रवेशःसौपूर्विको राज्ञो यात्रासमाप्तौ गृहप्रवेशः। तादृश-योर्गृहप्रवेशयोः कालशुद्धिः कदाचिदपि त्वापेक्षिता। [Page2653-b+ 38] सति सम्भवे सुखेनास्तु। किन्तु प्रवेशदिनीयपञ्चाङ्गशुद्धिसहिते सुलग्ने गृहप्रवेशः कार्यः। पूर्वस्मिन्नाद्येनूतने प्रवेशे यथा वास्तुपूजा तथा द्वन्द्वसौपूर्विकयोरपिकार्येत्यर्थः। नारदस्तु यात्रानिवृत्तिप्रवेशे कालशुद्धिरपे-क्षितैवेत्याह तद्वाक्यं प्रागभिहितम्। तदेतयोर्वाक्ययो-रावश्यकाऽनाबश्यकविषयत्वेन व्यवस्था। त्रयाणां गृह-प्रवेशानां लक्षणमुक्तं वसिष्ठेन
“अपूर्वसंज्ञः पथमः प्र-वेशो यात्रावसाने तु सुपूर्वसंज्ञः। द्वन्द्वाभयस्त्वग्निभया-दिजातः प्रवेश एवं त्रिविधः प्रदिष्टः” इति। एतद्व्याख्यानंयात्रानिवृत्ताविति पद्यव्याकृतावस्ति तत्तत एवावधार्यम्। अत्रेदं ध्येयम् यत्त्रिविधेऽपि प्रवेशे प्रवेशदिनीयनक्षत्रंक्रूराकान्तं क्रूरविद्धं वा तत्सर्वथा वर्ज्यमिति। उक्तंच वसिष्ठेन
“क्रूरग्रहाधिष्ठितविद्धभं च विवर्जनीयंत्रिविधप्रवेशे” इति। (

२ )
“अथ गृहप्रवेशदिनात् प्राक्क-र्तव्यां वास्तुपूजां विवक्षुस्तन्नक्षत्राण्युपजातिकापूर्वार्द्धेनाहमृदुध्रुवेति। मृदूनि ध्रुवाणि क्षिप्राणि चराणि नक्ष-त्राणि प्रसिद्धानि मूलभं च एषु सप्तदशसु भेषु नक्ष-त्रेषु वास्तोः वास्तुपुरुषस्यार्चनं भूतबलिं च कारयेत्। गृहपतिर्वास्तुपूजां कुर्यात्। पुरोहितो गृहपतिंवास्तुपूजादिकं कारयेत्। हृक्रोरन्यतरस्यामिति णौ कर्त्तुःकर्मत्वम्। यदाह ऋक्षोच्चयः
“चित्राशतभिषास्वातीहस्तः पुष्यः पुनर्वसुः। रोहिणी रेवतीमूलं श्रवणोत्त-रफाल्गुनी। धनिष्ठा चोत्तराषाढा तथा भाद्रोत्तरा-न्विता। अश्विनी मृगशीर्षं च अनुराधा तथैव च। वास्तुपूजनमेतेषु नक्षत्रेषु करोति यः। स प्राप्नोतिनरो लक्ष्मीमिति प्राह पराशरः” इति। वास्तुपूजा-प्रकारमाह। वसिष्ठः
“निर्माणे मन्दिराणां च प्र-वेशे त्रिविधेऽपि वा। वास्तुपूजा तु कर्त्तव्या यस्मात्तांकथयाम्यतः। गृहमध्ये हस्तमात्रं समन्तात्तण्डुलो-परि। एकाशीतिपदं कार्यं तिलैस्तुल्यं सुशोभनम्। एकद्वित्रिपदाः पञ्चचत्वारिंशत् सुरार्चिताः। द्वात्रिं-द्बाह्यतो वक्ष्यमाणाश्चान्तस्त्रयोदश। तेषां स्थानानिनामानि वक्ष्यामीश्वरकोणतः। तत्राग्निः शम्भुको-णस्थस्त्वसौ चैकपदेश्वरः। तस्माद्द्वितीयः पर्जन्यश्चासा-वेकपदेश्वरः। जयन्तेन्द्रार्कसत्याख्याभृशश्च द्विपदेश्वराः। आकाशवायू परतः क्रमादेकपदेश्वरौ। एवं प्राच्यां न॰ज्ञात्वा त्वेवभेवान्यदिक्षु च। आद्यश्चान्त्यावेकपदौद्विपदाः पञ्च मध्यगाः। पूषाद्यष्टौ यमान्ताः (पितृगणा-[Page2654-a+ 38] धोशान्ताः) स्युरमरायाम्यभागगाः। चाद्यश्चान्त्यावेक-पदौ द्विपदाः पञ्च मध्यगाः। अष्टौ पितृगणाधोशात्रोगान्ताः पश्चिमेश्वराः। आद्यन्तौ द्वावेकपदौ द्विपदाःपञ्च मध्यगाः। रोगाददित्यन्तसुराः सप्त सौम्यदिशिक्रमात्। तत्राधस्थश्चतुष्कोणेष्वीशानादिषु च क्रमात्। आपः सावित्रविजयरुद्राश्चेकपदेश्वराः। मध्ये नवपदोब्रह्मा तस्यैशानादिकोणगाः। आपवत्सोऽथ सविताविबुधाधिपसंज्ञकः। राजयक्ष्मा च चत्वारः सुराश्चै-कपदेश्वराः। ब्रह्मणः पूर्वतो दिक्षु त्रिपदाश्चामराअमी। अर्यमा च विवस्वांश्च मित्रः पृथ्वीधरः क्रमात्। स्वस्वस्थलेषु देवेषु स्थापितेष्वीदृशं भवेत्। कोणेषु पञ्चपञ्चैव (

२० ) चतुर्ष्वेकपदाः सुराः। प्रागादिदिक्षु द्विपदाःपञ्च पञ्च

४० यथाक्रमम्। ब्रह्मणः

९ पूर्बतोदिक्षु त्रि-पदाःस्युः समीपगाः

१२ । हिरण्यरेताः पर्जन्यो जयन्तःपाकशासनः। सूर्यःसत्यो भृशाकाशौ वायुः पूषा चवैतथः। वृहत्क्षतः पितृपतिर्गन्धर्वो भृङ्गराजकः। मृगः पितृगणाधीशस्तथा दौवारिकाह्वयः। सुग्रीवःपुष्पदन्तश्च जलाधीशो निशाचरः। शोषः पापश्चरोगोहिर्मुख्यो भल्लाट एव च। सोमसर्पौ दित्यदितीद्वात्रिंशदमराः स्मृताः। आपश्चैवापवत्सश्च जयोरन्ध्रस्तथैव च। मध्ये नवपदो ब्रह्मा तस्थौ तस्य समीपतः। प्राच्यां द्व्यन्तरिता देवाः परितो ब्रह्मणः स्मृताः। अर्यमा सविता चैव विवस्वान् विबुधाधिपः। मित्रोऽथराजयक्ष्मा च तथा पृथ्वीधरःक्रमात्। आपवत्सोऽष्टमःपञ्चचत्वारिंशत् सुरोत्तमाः। ज्ञात्वैवं स्थाननामानिब्रह्मणा सहितान्न्यसेत्। वास्तुज्ञो वास्तुमन्त्रेण गन्ध-ष्पाक्षतादिभिः। प्रणवेनार्चयेद्वापि अथवा स्वस्वना-मभिः। शुक्लवस्त्रयुगं दद्यात्धूपदीपफलैः सह। अपू-पैर्भूरिनैवेद्यैः पाद्यैः सह समर्चयेत्। ताम्बूलञ्च ततोदद्याद्देवेभ्यश्च पृथक् पृथक्। दत्त्वा पुष्पाञ्जलिं कर्त्ताप्रार्थयेद्वास्तुपुरुषम्। ”
“एवं यः कुरुते सम्यग्वास्तुपूजांप्रयत्नतः। आरोग्यं पुत्रपौत्रादि धनधान्यं लभेन्नरः। वास्तुपूजामकृत्वा यः प्रविशेन्नवमन्दिरे। रोगान्नानाविधान्क्लेशानश्नुते सरसङ्कटम्”। (चतुःषष्टिपद वास्तुमण्डलम्)वृ॰ स॰

५३ अ॰ यथा
“अष्टाष्टकपदमथ वा कृत्वा रेखाश्चकोणगास्तिर्यक्। ब्रह्मा चतुःपदोऽस्मिन्नर्धपदा ब्रह्मको-णस्थाः। अष्टौ च बहिःकोणेष्वर्धपदास्तदुभयस्थिताःसार्धाः। उक्तेभ्यो ये शेषास्ते द्विपदा विंशतिस्ते च”॥ [Page2654-b+ 38] अधिकं वास्तुयागशब्दे दृश्यम्)। केचित्तु पञ्चा-ङ्गशुद्धिमात्रयुक्ते पूर्वदिन एव वास्तुपूजामाहुः यदाहनारदः
“विधाय पूर्वदिवसे वास्तुपूजां बलिक्रियामिति”। श्रीपतिरपि
“अथ प्रवेशो नवमन्दिरस्य यात्रानिवृत्ता-वथ भूपतीनाम्। सौम्यायने पूर्वदिने विधाय वास्त्व-र्चनं भूतबलिं च सम्यगिति” अथ लग्नशुद्धिंतिथिशुद्धिं चोपजातिकोत्तरार्द्धेनेन्द्रषज्रया चाह। त्रिकोणे इति। शुद्धेति। नवमपममचतुर्थसप्तमदशमैका-दशद्वितीयतृतीयस्थानानामन्यतमस्थानस्यैः शुभग्रहैः। पूर्णचन्द्रबुधगुरुशुक्रैरुपलक्षिते। अत्र चन्द्रस्य लग्नरा-हित्यं ध्येयं तथा तृतीयषष्ठैकादशस्थैः पापग्रहैरुपल-क्षिते तथा अम्बु चतुर्थस्थानं रन्ध्रमष्टमस्थानं च। शुद्धेसर्वग्रहरहिते अम्बुरन्ध्रे यस्मिंस्तादृशे लग्ने वेश्मगृहमाविशेत्। यदाह वसिष्ठः
“केन्द्रत्रिकोणायधन-त्रिसंस्थैः शुभैस्त्रिषष्ठायगतैः खलैश्च। लग्नान्त्यषष्ठाष्ट-मवर्जितेन चन्द्रेण लक्ष्मीनिलयः प्रवेशः” इति। अ-न्यच्च
“प्रवेशलग्नान्निधनस्थितो यः क्रूरग्रहः क्रूर-गृहे यदि स्यात्। प्रवेशकर्त्तारमथ त्रिवर्षाद्धन्त्यष्टवर्षैःशुभराशिगश्चेदिति” नारदः
“स्थिरलग्ने स्थिरे राशौनैधने शुद्धिसंयुते। त्रिकोणकेन्द्रखत्र्यायसौम्यैस्त्र्यायारिगैः परैः। लग्नान्त्यार्यष्टमस्थानवर्जितेन हिमां-शुनेति” प्रवेशः स्यादिति पूर्वेण सम्बन्धः। गुरुः
“स-प्तमं शुद्धमुद्वाहे यात्रायामष्टमं तथा। दशमं च गृहा-रम्भे चतुर्थं सन्निवेशने” इति। यत्तु श्रीपतिना
“केन्द्रच्छिद्रव्ययैः शुद्धैः क्रूरैः षट् त्र्यायगैर्गुरौ। लग्नेभृगौ वा केन्द्रे वा स्थिरग्राम्योदये विशेदिति” केन्द्रस्यशुद्धत्वमुक्तं तत्पापग्रहराहित्यकृतं ध्येयम्। लग्नस्थगुरुभृग्वोरुक्तिस्त्वतिप्राशस्त्याभिधानार्था। कीदृशे लग्नेविजनुर्भमृत्यौ भं राशिर्लग्नं च। जनुषि जन्मकालेभे जनुर्भे। ताभ्यां मृत्युरष्टममवनं विगतो जनुर्भमृत्यु-र्यस्मिन्। स्वजन्मलग्नात् स्वजन्मराशेवां अष्टमोराशिःप्रवेशलग्नगो नाऽपेक्षित इत्यर्थः। पुनः कीदृशे व्यर्कार-रिक्ताचरदर्शचैत्रें। अर्कारौ प्रसिद्धौ वारौ। रिक्ता

४ ।

९ ।

१४ उपलक्षणत्वाद्दग्धतिथयोऽपि। चरलग्नानि-मेषकर्कतुलामकराः। उपलक्षणत्वात्तदंशा अपि। दर्शोऽमावास्या चैत्रो मासः। उपलक्षणत्वादाषाढोऽपि। विगता अर्कादयो यस्मिन् अर्कादयः प्रवेशदिने निषिद्धाइत्यर्थः। यदाह वसिष्ठ
“न नैधने भेऽपि न चाष्टनग्ने[Page2655-a+ 38] पञ्चेष्टकेऽप्यष्टमशुद्धियुक्ते। कार्यः प्रवेशो न चरांशलग्नेशुभेक्षिते वाप्यथ संयुते वा। रिक्ताममां दग्धतिथिंदिनेशभूसूनुषड्वर्गमिनेन्दुदृष्टिम्। क्रूरग्रहाधि-ष्ठितविद्धभं च विवर्जनीयं त्रिविधप्रवेशे” इति। वारफलमप्याह स एव
“दह्यते प्रविशतां च मन्दिरं व-ह्निना नियतमेव वह्निभे। ब्रध्नभूमिसुतवासरे तथाशीतरश्मिदिवसे हि वृद्धिदम्। चन्द्रजार्यसितवासरेषुच श्रीकरं सुखमहार्थलाभदम्! सूर्यसूनुदिवसे स्थिर-प्रदं किन्तु चौरभयमत्र विद्यते” इति। एषां निष्कृष्ट-मर्थमाह श्रीपतिः
“रिक्ता तिथिर्भूसुतभानुवारौ नि-न्द्याश्च योगाः परिवर्जनीयाः। मेषः कुलीरोमकर-स्तुला च त्याज्याः प्रवेशे हि तथा तदंशाः” इति। निषिद्धलग्नफलान्यभिहितानि राजमार्तण्डे
“भूपो यात्वामेषलग्ने प्रवेशे नाशङ्गच्छेत् कर्कटस्योदये वा। व्याधिंतौलिन्याश्रिते लग्नवर्त्तिन्याकेकेरे चाप्नुयाद्धान्यना-शम्”। आकेकेरे मकरे।
“लग्नेऽन्यत्रांशकेऽप्येषामेतद्दुष्टफलप्रदाः। शुभान्यन्यानि लग्नानि प्रवेशे मुनयोविदुरिति” अन्यानि स्थिराणि द्विस्वभावानि च। उक्तं च वसिष्ठेन
“पञ्चाङ्गसंशुद्धदिने निशेशताराबलेचाष्टकवर्गयुक्ते। सौम्ये स्थिरेभे शुभदृष्टियुक्ते लग्नेऽथवा द्व्यङ्गगृहे विलग्ने” इति। विशेषो राजमार्त्तण्डे
“निन्दिता अपि शुभांशसमेतास्तौलिमेषमकराः सकु-लीराः। कर्त्तृभोपचयगाश्च विलग्ने राशयः शुभफ-लाय भवन्तीति”। एतल्लग्नान्तराशुद्धौ बहुकालासहि-ष्णुत्वे वा द्रष्टव्यम्। शुभांशाः वृषमिथुनकन्याधनुर्मीना-नामंशा इत्यर्थः कर्कतुलांशयोः स्वरूपतो निषिद्ध-त्वात्। विशेषान्तरमाह बसिष्ठः
“यः क्षीणचन्द्रो-ऽन्त्यषडष्टसंस्थः पापेक्षितः पापयुतोऽथ वा स्यात्। कर्तुः स्त्रियं हन्ति स बत्सरेण त्रिवर्षतः सौम्यनिरीक्षितश्चेदिति” अथ राज्ञां यात्रानिवृत्तिप्रवेशेऽयं विशेषो-ध्येयः यत्र मासे यात्रा कृता तस्मान्नवमे मासि यात्रादिनान्नवमे दिने वा प्रवेशोनिषिद्धः यदाह गुरुः।
“निर्गमान्नवमे मासि प्रवेशो नैव शोभनः। नबमे दिवसेचैव प्रवेशं नैव कारयेदिति”। वामं रविमिति। गृ-हप्रवेशसमये रविं सूर्यं वामं तद्दिगभिमुखात् प्रवेश्य-गृहाद्वामभागस्थं कृत्वा वेश्म गृहं विशेत्। तथा पुरो-ऽग्रे स्वसम्मुखं पूर्णघटं जलपूर्णं कलसमुपलक्षण-त्वात् पूगीफलादिपूर्णं वटं वा कृत्वा। चकारस्याऽ-[Page2655-b+ 38] नुक्तसमुच्चयार्थत्वाद्ब्राह्मणांश्च सजलकलसानपि ब्रा-ह्मणान्वाग्रे कृत्वा वेश्म विशेत्। अत्र शुक्रः पृष्ठगः कर्य!इत्यनुक्तोऽपि विशेषो ध्येयः यदाह वशिष्ठः
“कृत्वाशुक्रं पृष्ठतो वामतोऽर्कं विप्रान् पूज्यानग्रतः पूर्णकु-म्भम्। हर्म्यं रम्यन्तोरणस्रग्वितानैः स्त्रीभिः स्रग्वी गीतमाल्यैर्बिशेत्तदिति” गुरुस्तु वामगोऽग्रगोवा शुक्रोनिषिद्धः, किन्तु पृष्ठगतो दक्षिणगतो वा शुभ इत्याह
“पृष्ठगं दक्षिणं वापि भृगुं कृत्वा विशेत्सदा। पुरोगंवामगं वापि शुक्रं कृत्वा विशेच्च नेति” अत्र शुक्रस्यदिक्चतुष्टयस्थत्वज्ञानं चन्द्रवदेव ज्ञेयं विशेषानुक्तेः। तच्च गृहारम्भप्रकरणेऽस्माभिरुक्तम् अयं च सर्ववर्णानांत्रिविधेऽपि प्रवेशे विधिः राज्ञां तु यात्रानिवृत्तौविशेषमप्याह श्रीपतिः
“कृत्वा विप्रान् सजलकल-सांश्चाग्रतो वामतोऽर्कं स्नातः स्रग्वी विमलवसनोमङ्गलैर्वेदघोषैः। व्यस्तैर्यात्राकथितशकुनैर्द्वारमार्गेणराजा हर्म्यं पुष्पप्रकररुचिरन्तोरणाढ्यं विशेच्चेति” कीदृशं वेश्म भकूटशुद्धं भकूटं षष्ठाऽष्टकादि तेन शु-द्धम्। उपलक्षणत्वाद्विवाहप्रकरणोक्तं
“वर्णोवश्यं तथातारा” इत्येवमादिकं च। तेनापि शुद्धं ध्येयम् यदाहवसिष्ठः
“राशिकूटादिकं सर्वं दम्पत्योरिव चिन्तये-दिति”।

४ । अथ वामगतार्कज्ञानं तिथिभेदेन पूर्वाद्य-भिमुखगृहप्रवेशं चेन्द्रवंशाच्छन्दसाह वाम इति। अष्टमपञ्चमद्वितीयैकादशस्थानेभ्यः पञ्चसु स्थानेषु स्थितेरवौ सति प्राग्वदनादिमन्दिरे प्रवेष्टव्ये गृहप्रवेश-कर्तुर्वामो रविर्ज्ञेयः तद्यथा। यस्मिन् लग्ने प्रवेशःकर्तुमिष्यते तस्मादष्टमं यत् स्थानं तस्मात् पञ्चसुस्थानेषु अर्के स्थिते पूर्वाभिमुखगृहप्रवेशकर्तुर्वामःसूर्यः स्यात्। तथा लग्नाद्यत् पञ्चमस्थानं ततः पञ्चसुस्थानेषु अर्के स्थिते दक्षिणाभिमुखगृहप्रवेशकर्तु-र्वामः सूर्यः। एवं लग्नाद्यद्द्वितीयं स्थानं ततः पञ्चसुस्थानेषु सूर्ये पश्चिमाभिमुखगृहप्रवेश कर्तुर्वामः सूर्यः। तथैव लग्नाद्यदेकादशस्थानं ततः प्रच्चसु स्थानेषु सूर्ये-स्थिते उत्तराभिमुखगृहप्रवेशकर्तुर्वामः सूर्य इत्यर्थः। उक्तञ्च
“रन्ध्रात्पुत्राद्धनादायात्पञ्चस्वर्के स्थिते क्रमात्। पूर्वाशादिमुखं गेहं विशेद्वामो भवेद्यतः” इति। विश्वकर्माऽपि
“लग्नात्प्रागादितोदिक्षु द्वौ द्वौ राशीनियोजयेत्। एकमेकं न्यसेत्कोणे सूर्यं वामं विचिन्तयेत्। प्राच्यां लग्नात् द्वौ राशी स्थाप्यौ कोणे चैकः। तथा[Page2656-a+ 38] पूर्णातिथाविति। प्राग्वदने पूर्वाभिमुखे गृहे पूर्णातिथौपञ्चम्यां दशम्या पूर्णिमायां वा प्रवेशः शुभः। नन्दा-दिके तिथिगणे याम्यजलोत्तरानने गृहप्रवेशः शुभः। थथा दक्षिणाभिमुखे गृहे नन्दायां प्रतिपदि षष्ठ्या-मेकादश्यां वा प्रवेशः शुभः। जलं पश्चिमदिक् तद्दिगभि-मुखे भद्रायां द्वितीयायां सप्तम्यां द्वादश्यां वा प्रवेशःशुभः। उत्तराभिमुखे गृहे जयायां तृतीयायामष्टम्यां त्रयोदश्यांवा प्रवेशःशुभ इत्यर्थः। यदाह गुरुः
“नन्दायांदक्षिणद्वारं भद्रायां पश्चिमामुखम्। जयायामुत्तरद्वारंपूर्णायां पूर्वतोविशेदिति” मूले नन्दादिके इति पदो-पादानाद्रिक्ताग्रहणं यद्यप्यायाति तथापि विदिक्षु द्वार-निषेधाद्दिशां चतुष्टयेन चतुर्णान्द्वाराणां सम्भवात्तस्याः स्वरूपतो निषेधाच्च रिक्ताग्रहणासम्भवोध्येयः। सोऽपिसम्मतिवाक्ये स्पष्ट एव।

५ । तत्र गृहप्रवेशे वास्तुकलस-चक्रं शार्दूलविक्रीडितेनाह। वक्त्रे इति। कलस-स्याऽष्टधा विभागाः परिकल्प्याः सुखं कण्ठो गर्भो मूलंचेति चत्वारो विभागाः पूर्वादिदिक्परत्वेन चत्वारोविभागा एवमष्टौ स्युः। तथाविभागपरत्वेन सूर्यभान्नक्षत्रन्यासे फलमुच्यते। वक्त्रे इति। गृहप्रवेशसमये इति सर्वत्रापि सम्बध्यते कुम्भे कलसाकृतौ वा-स्तुनि रविभात्सूर्याक्रान्तनक्षत्रादिति ल्यब्लोपे पञ्चमी। रव्यृक्षमारभ्य नक्षत्रन्यास इत्यर्थः। तत्र कलसस्य बक्त्रे-मुखे भूरेकं सूर्याक्तान्तनक्षत्रमेव स्थाप्यन्तत्फलं गृहस्याऽग्निदाहः। ततः सुर्यभात् कृतास्तदग्रिमाणि चत्वारिभानि प्राच्यां स्थाप्यानि, फलमुद्वसनं जनवासशून्यंगृहं-स्यात्। ततः कृता यमगतास्तदग्रिमाणि चत्वारिभानि दक्षिणस्यां यमदिशि स्थाप्यानि, फलं गृहपतेर्लाभोद्रव्यप्राप्तिः। ततः कृताः तदग्रिमाणि चत्वारि मानिपश्चिमे पश्चिमायां स्थाप्यानि, फलं गृहपतेः श्रीप्राप्तिः। ततो वेदाः तदग्रिमाणि चत्वारि भानिउत्तरे उत्तरस्यां स्थाप्यानि। फलं कलिर्लोकैः सहगहसम्बन्धी निरर्थकः कलहः स्यात्। ततोयुगमिता-स्तदग्रिमाणि चत्वारि भानि गर्भे कलसमध्येस्थाप्यानि, फलं विनाशः। कस्येत्याकाङ्क्षायां गर्भोपा-दानाद्भाविनां गर्भाणां विनाश इत्यर्थः। ततोरामा-स्तदग्रिमाणि त्रीणि भानि गुदे बुध्ने स्थाप्यानि। फलंस्थैर्यं गृहपतेर्बहुकालं तत्र गृहे निवासः। ततोऽनलास्तदग्रिमाणि त्रीणि भानि कण्ठे स्थाप्यानि, फलं स्थिरत्वं[Page2656-b+ 38] सर्वदा गृहपतेर्भवेत्। एवमभिजिद्रहितानि स्युः। तदुक्तं विश्वकर्मणा
“घटाकारं लिखेच्चक्रं रविधिष्ण्यक्रमेण च। मुखैकं दिक्षु चत्वारि त्रित्रीणि गुद-कण्ठयोः। एवं चक्रं समालेख्यं प्रवेशार्थं सदा बुधैः” अत्र चत्वारि इति वीप्सा द्रष्टव्या। दिक्षु इत्यनेनगर्भोऽप्युपलक्ष्यते। तथा तत्फलनिर्देशस्तत्रैव
“अग्ने-र्नाशो मुखे प्रोक्त, उद्वासः पूर्वतो भवेत्। दक्षिणे चार्थ-लाभाय, पश्चिमे श्रीप्रदो भवेत्। उत्तरे कलहश्चैव, गर्भेगर्भविनाशनम्। स्थिरता च गुदे, कण्ठे कलसस्यप्रकीर्त्तितेति” ज्योतिःप्रकाशेऽपि
“भूर्वेदपञ्चकं त्रिस्त्रिः।

१ ।

४ ।

४ ।

४ ।

४ ।

४ ।

३ ।

३ प्रवेशे कलसेऽर्कभात्। मृति-र्गतिर्धनं श्रीः स्याद्वैरं शुक् स्थिरता सुखमिति” वेदपञ्चकं वेदाश्चत्वारस्तेषां पञ्चवारं चत्वारि भानि-लेख्यानीत्यर्थः। मृतिरित्यादीन्यष्टौ यथासङ्ख्यं फ-लानि। अत्र कलसचक्रे शुभफलदस्थाने याते सत्येवविहितनक्षत्राणां परिग्रहो युक्तस्त्रत्रापि यद्दिङ्मुखगृहप्रवेशो विधित्सितः तद्दिङमुखविहितनक्षत्रपरिग्रहः। यथा पूर्वदिङ्मुखगृहप्रवेशे विधित्सिते रोहिणीमृगे ग्राह्ये। दक्षिणाभिमुखगृहप्रवेशे। उत्तरफाल्गुनी-चित्रे। एवं पश्चिमाभिमुखे अनुराधोत्तराषाढे। एवम्उत्तराभिमुखे उत्तरभाद्रपदारेवत्यौ ग्राह्ये इति निष्-कृष्टोऽर्थः। अतएवोक्तं वसिष्ठेन
“यद्दिग्द्वारं मन्दिरंतद्दिगृक्षैरुक्तर्क्षैः स्यात्सन्निवेशो न सर्वैरिति”। तद्दिगृक्षै-रिति उक्तर्क्षैरिति चानयोः सामानाधिकरण्येनान्वयः। भिन्नवाक्यत्वे तु विवक्षिते चकारः कर्त्तव्यः।
“सम्भवत्येक-वाक्यत्वे वाक्यभेदो हि दूषणमिति” न्यायाच्च। अतएव
“अर्कादितेयानिलदस्रविष्णुऋक्षे प्रविष्टं नव मन्दिरंयत्। अव्दत्रयात्तत् परहस्तयातं शेषेषु धिष्ण्येषु चमृत्युदं स्यादिति”
“निषेधोऽप्युपपन्नो भवति” पी॰ धा॰

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृह¦ r. 1st cl. (ऊ,)गृहू(गर्हते) also r. 10th cl. (गृहयते) To take, to seize, to receive or accept; also ग्रह।

गृह¦ n. (-हं)
1. A hous, a mansion, a habitation in general.
2. A wife: [Page243-b+ 60] (in these senses the plural is always masculine, गृहाः)
3. A name, an appellation. E. गृह् to receive or take, (grain, goods, &c.) affix क।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृहम् [gṛham], [गृह्यते धर्माचरणाय, ग्रह् गेहार्थे क Tv.]

A house, dwelling, habitation, mansion; न गृहं गृहमित्याहुर्गृहिणी गृह- मुच्यते Pt.4.81,5.15; पश्य वानरमूर्खेण सुगृही निर्गृहीकृतः Pt. 1.39.

A wife; (the first quotation in

is sometimes erroneously cited as an illustration).

The life of a householder; न हि सति कुलधुर्ये सूर्यवंश्या गृहाय R.7. 71,5.1; Mv.4.28.

A sign of the zodiac.

A name or appellation.

A square (in chess or any other game). -हाः (m. pl.)

A house, dwelling; इमे नो गृहाः Mu.1; स्फटिकोपलविग्रहा गृहाः शशभृद्भित्तनिरङ्कभित्तयः N.2.74; तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम् Me.77.

A wife; अथावलोकको$गच्छद्गृहानेकः परावसुः Mb.3.138.4.

The inhabitants of a house, family; the life of a householder; गृहानुत्सृज्य यो राजन् मोक्षमेवाभिपद्यते Mb.12.16.29.-हः Ved. An assistant, or servant; गृहो याम्यरंकृतो देवेभ्यो हव्यवाहनः Rv.1.119.13. In comp. oft. rendered by 'domestic', 'household' or 'tame'; e. g. ˚कपोतः 'a tame pigeon'; ˚कार्याणि-कर्माणि 'household duties'; ˚ शकु- न्तिका 'tame bird'; छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिका- मिव U.1.45 &c. -Comp. -अक्षः a loophole, eyelet-hole, a round or ablong window.

अधिपः, ईशः, ईश्वरः a house-holder.

a regent of a sign of the zodiac. संशयस्थः see अनुपात. -अयनिकः a house-holder. -अर्थः domestic affairs, any household matter; गृहार्थो$ग्निपरि- ष्क्रिया Ms.2.67. -अभिपालिन् m. a watchman. -अम्लम् a kind of sour-gruel. -अवग्रहणी the threshold. -अश्मन् m. a flat ablong stone upon which condiments are ground (Mar. पाटा). -आगत a. one who has come to a house. (-तः) a guest. -आचारः household or domestic business; U.2. -आरम्भः building a house; गृहारम्भातिदुःखाय Bhāg.11.9.15. -आरामः, -वाटी, -वाटिका a garden attached to a house. -आशया, -आश्रया the betel-tree. -आश्रमः the order of a householder, the second stage in the religious life of a Bāhmaṇa; see आश्रम; Ms.6.1. -आश्रमिन् m. a householder; Bhāg.1.8.7. -ईश्वरी a housewife; दिष्ट्या गृहेश्वर्यसकृन्मयि त्वया कृतानुवृत्तिर्भवमोचनी खलैः Bhāg.1.6.54.-उत्पातः any domestic nuisance. -उपकरणम् a domestic utensil, anything required for household use; एकदा निर्गता क्रेतुं गृहोपकरणानि सा Ks.2.15. -कच्छपः = गृहाश्मन् q. v.-कन्या, -कुमारी the plant Aloe Perfoliata (Mar. कोरफड).-कपोतः, -तकः a tame or domestic pigeon; Śi.4.52.

करणम् household affairs.

house-building. -कर्तृm.

'a house-builder,' a kind of sparrow.

a carpenter; गृहकर्ता भवानेव देवानां हृदयेप्सितम् Rām.7.5.19.-कर्मन् n.

household affairs.

a domestic rite. ˚करः, ˚कारः, ˚दासः a menial, domestic servant; शंभुस्वयंभुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः Bh.1.1. -कलहः domestic feuds, intestine broils. -कारकः a housebuilder, mason; करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः Y.3.146.-कारिन् m.

a housebuilder.

a kind of wasp.-कुक्कुटः a domestic cock. -कार्यम्, -कृत्यम् household affairs; सदा प्रहृष्टया भाव्यं गृहकार्येषु दक्षया Ms.5.15.-गोधा, -गोधिका the small house-lizard. -चुल्ली a house with two rooms contiguous to each other, but one facing west, the other east; Bṛi. S.53.4. -चेतस् a. thinking only of one's house; Bhāg.9.11.17.

छिद्रम् a family-secret or scandal.

family dissensions; आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् H.1.123. -ज, -जात a. born in the house (a slave &c.); Bṛi.5.61.7; Ms. 8.415. -जनः family, members of a family, especially the wife; Mu.1. -जालिका deceit, disguise. -ज्ञानिन् (also गृहेज्ञानिन्) 'wise only in the inside of the house', inexperienced, stupid, foolish. -तटी a terrace in front of the house. -दारु n. a house-post; नरपतिबले पार्श्वायाते स्थितं गृहदारुवत् Mk.4.3. -दाहः setting a house on fire, incendiarism. -दासः a domestic slave. -दासी a female domestic slave; एकदा गृहदासीषु यशोदा नन्दगेहिनी । कर्मान्तर- नियुक्तासु निर्ममन्थ स्वयं दधि ॥ Bhāg.1.9.1. -दीप्तिः f. the splendour or ornament of a house, a virtuous woman; प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः Ms.9.26. -देवता the goddess of a house; (pl.) a class of household deities; Ks.4.74. -देहली the threshold of a house; यासां बलिः सपदि मद्गृहदेहलीनाम् Mk.1.9. -नमनम् wind. -नाशनः a wild pigeon. -नीडः a sparrow,

पतिः a householder; बामं गृहपतिं नय Rv.6.53.2; a man who has entered on the second stage of life, one who, after having completed his studies, is married and settled.

a sacrificer.

the virtue of a householder; i. e. hospitality.

Ved. an epithet of Agni.

the maintenance of the sacred and perpetual fire.

the head or judge of a village; Mk.2; Dk.8. -पत्नी Ved. 'the mistress of a house', the wife of the householder; गृहान् गच्छ गृहपत्नी यथासः Rv.1.85.26.

पालः the guardian of a house.

a housedog; आस्ते$वमत्योपन्यस्तं गृहपाल इवाहरन् Bhāg.3.3.15. -पिण्डी f. the basement of a building; Kāmikāgama 55.2-21. -पोतकः the site of a house, the ground on which it stands and which surrounds it. -पोषणम् maintenance of a household; तेन चास्य नियुक्ताभूत्स्वभार्या गृहपोषणे Ks.2.55. -प्रवेशः a solemn entrance into a house according to prescribed rites. -बभ्रुः a domestic ichneumon. -बलिः a domestic oblation, offering of the remnants of a meal to all creatures, such as animals, supernatural beings, and particularly household deities; Ms.3.265. ˚प्रियः a crane. ˚भुज् m.

a crow.

a sparrow; नीडारम्भैर्गृहबलि- भुजामाकुलग्रामचैत्याः Me.23. ˚देवता a deity to whom a domestic oblation is offered.

भङ्गः one who is driven from his house, an exile.

destroying a house.

breaking into a house.

failure, ruin or destruction of a house, firm &c.

भञ्जनम् breaking down or destroying a house.

causing the decay or ruin of a family. -भद्रकम् an audience-hall. -भर्तृ m. the master of a house; Bṛi. S. 53.58. -भूमिः f. the site of a house. -भेदिन् a.

prying into domestic affairs.

causing domestic quarrels.-भोजिन् m. an inmate of the same house, tenant; तस्मा- दप्यग्रहारान्ये जगृहुर्गृहभोजिनः Rāj. T.5.43. -मणिः a lamp.-माचिका a bat. -मार्जनी a female servant of the house; सख्योपेत्याग्रहीत्पाणिं यो$हं तद्गृहमार्जनी Bhāg.1.83.11. -मृगः a dog. -मेघः a multitude of houses; Rām.5. -मेध a.

one who performs the domestic rites or sacrifices; गृह- मेधास आ गत मरुतो माप भूतन Rv.7.59.1.

connected with the duties of a householder.

(धः) a householder.

a domestic sacrifice; Bhāg.2.6.19. -मेधिन् m. a householder, a married Brāhmaṇa who has a household; (गृहैर्दारैर्मेधन्ते संगच्छन्ते Malli.); प्रजायै गृहमेधिनाम् R.1. 7; see गृहपति above.

(नी) the wife of a householder, a house-wife; न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् Bhāg.4. 26.13.

the intellect based on the Sattva quality.-यज्ञः see गृहमेधः; Mb.1.18.5. -यन्त्रम् a stick or other instrument to which, on solemn occasions, flags are fastened; गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता Ku.6.41.-रन्ध्रम् family-dissensions. -वाटिका, -वाटी a garden attached to a house. -वित्तः the owner of a house. -व्रतa. devoted to home. मतिर्न कृष्णे परतः स्वतो वा मिथो$भिपद्येत गृहव्रतानाम् Bhāg.7.5.3. -शायिन् m. a pigeon.

शुकः a domestic parrot, one kept for pleasure; Amaru.16.

a domestic poet; आयातेन शुकैः सार्धं दत्ता गृहशुकेन यः । मुक्ताः प्राप्य प्रतिष्ठायां चक्रे ख्यातां शुकावलीम् ॥ Rāj. T.5.31.-संवेशकः a house-builder by profession; Ms.3.163.-सार property; गृहीतसारमेनं सपुत्रकलत्रं संयम्य Mu.1. -स्थः a householder, one who has entered on the stage of a house-holder; संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता U.1.9; see गृहपति above and Ms.3.68;6.9. ˚आश्रमः the life of a householder; see गृहाश्रम. ˚धर्मः the duty of a householder. -स्थूणा the pillar of a house.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृह m. an assistant , servant RV. x , 119 , 13

गृह m. ( m. sg. and pl. , in later language m. pl. and n. sg. ) a house , habitation , home RV. ( मृन्-मय ग्, " house of earth " , grave , vii , 89 , 1 ) AV. ( अधराद् ग्, " the lower world " , ii , 14 , 3 ) etc.

गृह m. ( ifc. f( आ). R. i , 5 , 9 ; f( ई). Pan5cat. i , 17 , 5 )

गृह m. ifc. with names of gods " a temple "(See. चण्डिका-, देवता-) , of plants " a bower "

गृह m. pl. a house as containing several rooms RV. AV. etc.

गृह m. the inhabitants of a house , family S3Br. i BhP. iii , 2 , 7 Katha1s. xx , 21

गृह m. a wife Pa1n2. 3-1 , 144 Ka1s3.

गृह m. a householder BhP. xi , 8 , 9

गृह n. a wife Pan5cat. iii , 7 , 13

गृह n. a sign of the zodiac VarBr2S. vci , civ

गृह n. an astrological mansion VarBr2. i , iv f.

गृह n. N. of the 4th astrological mansion , i , 16

गृह n. a square (in chess or in any similar game) Ka1d. i , 48 Pa1n2. 5-2 , 9 , Kaiy.

गृह n. a name , appellation L. ( cf. अन्ति-, भुमि-, शय्या-, सु)( cf. Zd. geredha ; Got. gards ; Lat. hortus.)

"https://sa.wiktionary.org/w/index.php?title=गृह&oldid=456197" इत्यस्माद् पुनः प्राप्तिः