आदित्यः

विकिशब्दकोशः तः
दिनेशः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

दिनेशः, अर्कः,सूर्यः

पर्यायपदानि[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

फलकम्:തർജ്ജമ-മേലഗ്രം

फलकम्:തർജ്ജമ-മധ്യം

फलकम्:തർജ്ജമ-അടിഭാഗം

फलकम्:വൃത്തിയാക്കേണ്ടവ

फलकम्:അപൂർണ്ണം

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदित्यः, पुं, (अदितेरादित्यस्य वा अपत्यं + ण्यः ।) देवः । सूर्य्यः । इत्यमरमेदिन्यौ ॥ द्वादशादित्य- गणे बहुवचनान्तः । इत्यमरः ॥ तत्प्रत्येकनामानि । विवस्वान् १ अर्य्यमा २ पूषा ३ त्वष्टा ४ सविता ५ भगः ६ धाता ७ विधाता ८ वरुणः ९ मित्रः १० शक्रः ११ उरुक्रमः १२ । एते कश्यपात् अदितिभार्य्यायां जाताः । कल्पान्तरे त्वष्टृकन्या संज्ञा आदित्यपत्नी आदित्यस्य तेजः सोढुमस- मर्था अतस्तस्याः पितृकृतादित्यद्वादशखण्डा द्वा- दशादित्याः । तेषां द्वादशमासेष्वेकैकस्योदयः । इति पुराणं ॥ अर्कवृक्षः । इत्यमरः ॥ आकन्द इति भाषा । (“आदित्यमण्डलस्थितो हिरण्म- योविष्णुः” । यथा शान्तिशतके । ४ । २४ । “आदित्यस्य गतागतैरहरहःसंक्षीयते जीवितं” । भारते । “आदित्यचन्द्रावनिलाऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च” । हरिवंशे द्वादशादित्यकथा यथा । “मरीचात् कश्यपाज्जातास्तेऽदित्या दक्षकन्यया । तत्र शक्रश्च विष्णुश्च जज्ञाते पुनरेवह ॥ अर्य्यमा चैव धाता च त्वष्टा पूषा च भारत । विवस्वान् सविता चैव मित्रो वरुण एव च । अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः” ॥ तस्य संवत्सरात्मनो भगवानादित्यो गतिविशे- षेणाक्षिनिमेषकाष्ठाकलामुहूर्त्ताहोरात्रपक्षमास- र्त्त्वयनसंवत्सरयुगप्रविभागं करोति ॥ इति सुश्रुतः)

"https://sa.wiktionary.org/w/index.php?title=आदित्यः&oldid=506600" इत्यस्माद् प्रतिप्राप्तम्