प्रभाकरः

विकिशब्दकोशः तः
दिनेशः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

दिनेशः, अर्कः,सूर्यः

पर्यायपदानि[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

फलकम्:തർജ്ജമ-മേലഗ്രം

फलकम्:തർജ്ജമ-മധ്യം

फलकम्:തർജ്ജമ-അടിഭാഗം

फलकम्:വൃത്തിയാക്കേണ്ടവ

फलकम्:അപൂർണ്ണം

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभाकरः, पुं, (प्रभां करोतीति । कृ + “दिवा- विभानिशाप्रभेति ।” ३ । २ । २१ । इति टः ।) सूर्य्यः । (यथा, रघौ । १० । ७४ । “कृशानुरपधूमत्वात् प्रसन्नत्वात् प्रभाकरः । रक्षोविप्रकृतावास्तामपविद्धशुचाविव ॥”) अग्निः । चन्द्रः । (यथा, महाभारते । ७ । ९९ । ५ । “तावतीत्य रथानीकं विमुक्तौ परुषार्यभौ । ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ॥” “प्रभाकरौ चन्द्रसूर्य्यौ ॥”) समुद्रः । इति शब्द- रत्नावली ॥ अर्कवृक्षः । इत्यमरः । १ । ३ । २८ ॥ (अष्टममन्वन्तरे देवगणभेदः । यथा, मार्कण्डेय- पुराणे । ८० । ६ । “तपस्तप्तश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ॥” अत्रिवंशीयमुनिविशेषः । यथा, हरिवंशे । ३१ । १० । “ऋषिर्जातोऽत्रिवंशे तु तासां भर्त्ता प्रभाकरः । भद्रायां जनयामास सुतसोमं यशस्विनम् ॥” नाभभेदः । यथा, महाभारते । १ । ३५ । १५ । “कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः ॥” मीमांसकप्रभेदः । स च गुरुत्वेन प्रसिद्धः । तस्य मतं दर्शनशास्त्रादौ प्राभाकरमतमिति प्रसिद्धम् । यदुक्तं वेदान्तसारे । ५३ । “प्राभाकर- तार्किकौ तु‘अन्योऽन्तरात्मा आनन्दमय’इत्यादि- श्रुतेः सुषुप्तौ बुद्ध्यादीनामज्ञाने लयदर्शनात् अहमज्ञोऽहं ज्ञानीत्याद्यनुभवाच्च अज्ञान- मात्मेति वदतः ॥” क्ली, कुशद्बीपस्थवर्षभेदः । यथा, मात्स्ये । १२१ । ६८ । “महिषं महिषस्यापि पुनश्चापि प्रभाकरम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रभाकरः&oldid=506834" इत्यस्माद् प्रतिप्राप्तम्