समुद्रः
संस्कृतम्
[सम्पाद्यताम्]- सागरः, समुद्रः, उदधिः, अर्णवः, जलधिः, वारधिः, अपांपतिः।
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | समुद्रः | समुद्रौ | समुद्राः |
सम्बोधनप्रथमा | समुद्र | समुद्रौ | समुद्राः |
द्वितीया विभक्तिः | समुद्रम् | समुद्रौ | समुद्रान् |
तृतीया विभक्तिः | समुद्रेन | समुद्राभ्याम् | समुद्रैः |
चतुर्थी विभक्तिः | समुद्राय | समुद्राभ्याम् | समुद्रेभ्यः |
पञ्चमी विभक्तिः | समुद्रात् | समुद्राभ्याम् | समुद्रेभ्यः |
षष्ठी विभक्तिः | समुद्रस्य | समुद्रयोः | समुद्रानाम् |
सप्तमी विभक्तिः | समुद्रे | समुद्रयोः | समुद्रेषु |
नामः
[सम्पाद्यताम्]- समुद्रः नाम सागरं, लवणजलम्।
अनुवादाः
[सम्पाद्यताम्]- आङ्ग्लम्-sea,ocean
- मलयाळम्-കhttp://sa.wiktionary.org/w/index.php?title=समुद्रः&action=editടൽ,ആഴി,സമുദ്രം
- हिन्दि-सागर
- तेलुगु-సముద్రము
- कन्नड-ಅಮ್ಬುಧಿ
उदाहरणम्
[सम्पाद्यताम्]- इक्ष्वाकुकुलमानार्धी चिन्तयामास सागरः।
- अहमिक्ष्वाकुनाधेन सागरेण विवर्धितः॥ सुन्द.१.१०.॥
- अट्लान्टिक् महासमुद्रं, अर्किटिक् महासमुद्रं, हिन्दू महासमुद्रं, दक्षिण महासमुद्रं इत्यादि।
- अहं समुद्रजलं तरणं करोमि।
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
समुद्रः, पुं, जलसमूहस्थानम् । तस्य व्युत्पत्ति- र्यथा । “चन्द्रोदयात् आपः सम्यगुन्दन्ति क्लिद्यन्ति अत्र । चन्द्रोदयात् समुन्दयन्ति वा समुद्रः । उन्दधी क्लेदे नाम्नीति रक् हसुङ् नलोप इति नलोपः । ‘अपां चैव समुन्नेन स समुद्र इति स्मृतः ।’ इति वायुपुराणम् ॥ मुद्रा मर्य्यादा तया सह वर्त्तते इति वा समुद्रः । सम्यगुद्गतो रोऽग्निरत्र इति । मुदं राति ददा- तीति डे । मुद्राणि रत्नादीनि तैः सह वर्त्तते इति वा ।” इति भरतः ॥ तत्पर्य्यायः । अब्धिः २ अकूपारः ३ पारावारः ४ सरित्पतिः ५ उद- न्वान् ६ उदधिः ७ सिन्धुः ८ सरस्वान् ९ सागरः १० अर्णवः ११ रत्नाकरह् १२ जल- निधिः १३ यादःपतिः १४ अपांपतिः १५ । इत्य- मरः । १ । ७ । १ ॥ महाकच्छः १६ नदीकान्तः १७ तरीयः १८ द्वीपवान् १९ जलेन्द्रः २० मन्थिरः २१ क्षौणीप्राचीरम् २२ मकरालयः २३ । पीतप्रायेऽमृते देवैर्भगवान् लोकभावनः । पश्यतामसुरेन्द्राणां स्वरूपं जगृहे हरिः ॥” पाद्मे उत्तरखण्डे ६९ अध्यायेऽप्येवम् ॥ (अन्त- रिक्षम् । इति निघण्टुः । १ । ३ ॥ अस्य व्युत्- पत्तिर्यथा, तट्टीकायाम् । “समुद्द्रवन्ति सङ्गता ऊर्द्ध्वं द्रवन्ति गच्छन्त्यस्मादापो रश्मिभिराकृष्य- माणा आदित्यमण्डलम् । समुत्-पूर्ब्बात् द्रवते- र्गत्यर्थात् अन्येष्वपि दृश्यते इति अपादाने ड-प्रत्यये टि-लोपे च रूपम् । यद्बा, संहता अभिद्रवन्त्येनमापो भौमरसलक्षणा वायुना प्रेर्य्यमाणाः आदित्यमण्डलाद्बा वर्षाकाले रश्मिभिः प्रवर्त्तमानाः । अत्र उदित्येष उप- सर्गोऽभीत्यर्थे वर्त्तते । कर्मणि ड-प्रत्यय इति विशेषः । सम्मोदन्तेऽस्मिन् भूतानि अन्तरिक्ष- चारीणीति वा । सम्पूर्वात् मुद हर्षे इत्यस्मात् स्फायितञ्चिवञ्चि इत्यादिना अधिकरणे रक्- प्रत्यये समो म-लोपे च रूपम् । यद्वा, सम् इत्येकीभावे उदकात् उच्छब्दः रो मत्वर्थीयः । एकीभूतमुदकमस्मिन् विद्यते वर्षास्विति उदक- शब्दस्योद्भावश्छान्दसः । यद्बा सम्पूर्वात् उन्दी क्लेदने इत्यस्मात् स्फायितञ्चिवञ्चि इत्यादिना कर्त्तरि रक्-प्रत्यये कित्त्वान्नलोपे च समुद्रः ॥” इति देवराजकृतनिर्व्वचनम् ॥)