घृत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घृतः, पुं क्ली, (जघर्त्ति क्षरतीति । घृ + “अञ्जि- घृसिभ्यः क्तः ।” उणां । ३ । ८९ । इति क्तः ।) पक्वनवनीतम् । घि इति भाषा ॥ तत्पर्य्यायः । आज्यम् २ हविः ३ सर्पिः ४ । इत्यमरः । २ । ९ । ५२ ॥ पवित्रम् ५ नवनीतकम् ६ अमृतम् ७ अभि- घारः ८ होम्यम् ९ आयुः १० तैजसम् ११ । इति राजनिर्घण्टः ॥ आजम् १२ । यथा, -- “घृतोऽस्त्री चाजमाज्यञ्च सर्पिः स्यादमृतं हविः ।” इति जटाधरः ॥ तस्य गुणाः । बुद्ध्यग्निशुक्रौजोमेदःस्मृतिकफ- कारित्वम् । वातपित्तविषोन्मादरोगशोथालक्ष्मी- ज्वरनाशित्वम् । मांसादष्टगुणगुरुत्वञ्च । इति राजवल्लभः ॥ रसायनत्वम् । स्वादुत्वम् । चक्षु- र्हितत्वम् । शीतवीर्य्यत्वम् । पापनाशित्वम् । अल्पाभिस्यन्दित्वम् । कान्तितेजोलावण्यस्वरायु- र्हितबलकारित्वम् । पवित्रत्वम् । गुरुत्वम् । उदा- वर्त्तशूलानाहव्रणक्षयवीसर्परक्तनाशित्वम् । स्निग्ध- त्वम् । रूक्षत्वञ्च । इति भावप्रकाशः ॥ * ॥ अथ गव्यघृतस्य गुणाः । विशेषेण चक्षुर्हितत्वम् । शीतत्वम् । वातपित्तकफालक्ष्मीपापरक्षोनाशि- त्वम् । शुक्राग्निस्वादुपाकमेधालावण्यकान्त्योज- स्तेजोवृद्धिवयःस्थितिबलायुर्हितकारित्वम् । गुरु- त्वम् । पवित्रत्वम् । सुमङ्गल्यत्वम् । रसायनत्वम् । सुगन्धित्वम् । रोचनत्वम् । चारुत्वम् । सर्व्वा- ज्येषु गुणाधिकत्वञ्च । इति भावप्रकाशः ॥ बुद्धिस्मृतिपुष्टिवपुःस्थैर्य्यकारित्वम् । श्रमोपशमन- त्वम् । हव्यतमत्वम् । बहुगुणत्वञ्च ॥ * ॥ माहिष- घृतगुणाः । उत्तमत्वम् । धृतिसौख्यकान्तिबलवर्ण- चक्षुर्हितकारित्वम् । वातश्लेष्मदुर्नामग्रहणी- विकारनाशित्वम् । मन्दानलोद्दीपनत्वम् । नव- गव्यतः परमहृद्यत्वम् । मनोहारित्वञ्च । इति राजनिर्घण्टः ॥ स्वादुत्वम् । पित्तरक्तनाशित्वम् । शीतत्वम् । श्लेष्मशुक्रवृद्धिकारित्वम् । गुरुत्वम् । स्वादुपाकित्वञ्च ॥ * ॥ छागीघृतगुणाः । अग्निचक्षुर्हितबलकारित्वम् । कासश्वासक्षयेषु हितत्वम् । कटुपाकित्वञ्च । इति भाव- प्रकाशः ॥ कफनाशित्वम् । इति राज- निर्घण्टः ॥ * ॥ मेषीघृतगुणाः । पित्तमेदस्कारि- त्वम् । योनिदोषे शोषे कफे अनिले च शस्त- त्वम् । रूक्षत्वम् । दुर्नामोन्मादनाशित्वञ्च । इति राजवल्लभः ॥ पाके लघुत्वम् । पित्तकोपाकारि- त्वम् । शोफे कम्पे च हितत्वञ्च ॥ * ॥ भेडक- घृतगुणाः । अतिगौरवात् सुकुमारदेहिवर्ज्य- कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ॥ मधुरं रक्तपित्तघ्नं गुरुपाके कफावहम् । वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ॥ औष्ट्रं कटुरसं पाके शोफक्रिमिविषापहम् । दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ॥ पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम् । कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम् ॥ पाके लघूष्णवीर्य्यञ्च कषायं कफनाशनम् । दीपनं वद्धमूत्रञ्च विद्यादैकशफं घृतम् ॥ चक्षुष्यमग्र्यं स्त्रीणान्तु सर्पिः स्यादमृतोपमम् । वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् ॥ कषायं बद्धविन्मूत्रं तिक्तमग्निकरं लघु । हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रमीन् ॥” क्षीरघृतं पुनः संग्राहि रक्तपित्तभ्रममूर्च्छा- प्रशमनं नेत्ररोगहितञ्च । सर्पिर्मण्डस्तु मधुरः सरो योनिश्रोत्राक्षिशिरसां शूलघ्नो वस्तिनस्याक्षि- प्रपूरणेषूपदिश्यते । सर्पिः पुराणं सरं कटु- विपाकं त्रिदोषापहं मूर्च्छामेदोन्माद उदर- ज्वरगरशोफापस्मारयोनिश्रोत्राक्षिशिरःशूलघ्नं दीपनं बस्तिनस्याक्षिपूरणेषूपदिश्यते । भवन्ति चात्र । “पुराणं तिमिरश्वासपीनसज्वरकासनुत् । मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् ॥ एकादशशतञ्चैव वत्सरानुषितं घृतम् । रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम् ॥ पेयं महाघृतं भूतैः कफघ्नं पवनाधिकैः । बल्यं पवित्रं मेध्यञ्च विशेषात्तिमिरापहम् ॥ सर्व्वभूतहरञ्चैव घृतमेतत् प्रशस्यते ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥ * ॥ क्ली, सलिलम् । इति मेदिनी । ते । १७ ॥)
घृतः, त्रि, (जघर्त्ति दीप्यते घरति सिञ्चतीति वा । घृ + “अञ्जिघृसिभ्यः क्तः ।” उणां । ३ । ८९ । क्तः ।) दीप्तः । सेचकः । इति शब्दरत्ना- वली ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घृत नपुं।
घृतम्
समानार्थक:घृत,आज्य,हविस्,सर्पिस्
2।9।52।1।1
घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम्. तत्तु हैयङ्गवीनं यद्ध्योगोदोहोद्भवं घृतम्.।
पदार्थ-विभागः : पक्वम्
घृत नपुं।
जलम्
समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष
3।3।76।1।2
वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते। कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥
अवयव : जलकणः,मलिनजलम्
वैशिष्ट्यवत् : निर्मलः
: जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः
पदार्थ-विभागः : , द्रव्यम्, जलम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घृत¦ पुंन॰ घृ--सेके क्त। अर्द्धर्चादि दुग्धभवे
“सर्पिर्विली-[Page2798-b+ 38] नमाज्यं तु घनीभूतं घृतं भवेत्” उक्ते घनीभूते
१ आज्ये घृत गुणभेदादि भावप्र॰ उक्तं यथा
“वृतमाज्यं हविः सर्पिः कथ्यन्ते तद्गुणा अथ। घृतं र-सायनं स्वादु चक्षुव्यं वह्निदीपनम्। शीतं वीर्य्ये विषालक्ष्मीपापपित्तानिलापहम्। अल्पाभिष्यन्दि कान्त्योजस्तेजोलावण्यबुद्धिकृत्। स्वरस्मृतिकरं मेध्यमायुष्यं बलकृद्गुरु। उदावर्त्तज्वरोन्मादशूलानाहव्रणान् हरेत्। स्निग्धंकफकरं रक्षःक्षयवीसर्परक्तनुत्। गव्यस्य घृतस्य गुणाः गव्यं घृतं विशेषेणेत्यादि भावप्र॰वाक्यम्
२५
८२ पृ॰ उक्तम् घृतभेदगुणा भावप्र॰ उक्तायथामाहिषस्य गुणाः।
“माहिषन्तु घृतं स्वादु पित्तरक्तानिला-पहम्। शीतलं श्लेष्मलं वृष्यं गुरु स्वादुविपच्यते”। छागस्य गुणाः
“आजमाज्यङ्करोत्यग्निं चक्षुष्यं बलवर्द्ध-नम्। कासे श्वासे क्षये चांपि हितं पाके भवेत्कटु”। अथ उष्ट्रीवृतम्
“औष्ट्रं कटु घृतं पाके शोषक्रिमिविषा-पहम्। दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम्”। अथ आविकघृतम्
“पाके लघ्वाविकं सर्षिः सर्वरोगविनाश-नम्। वृद्धिं करोति चास्थीनामश्मरीशर्करापहम्। चक्षुष्यमग्निव्युषणं वातदोषनिवारणम्”। अथ नारीघृतम्।
“कफेऽनिले योनिदोषे पित्ते रक्ते चतद्धितम्। चक्षुष्यमाज्यं स्त्रीणां वा सर्पिः स्यादमृतो-पमम्”। अथाश्वघृतम्
“वृद्धिं करीति देहाग्नेर्लघु पाके विषा-पहम्। तर्पणं नेत्ररोगघ्नं दाहनुद्बडवाघृतम्”। दुग्धघृतस्य गुणाः
“वृतं दुग्धभवं ग्राहि शीतलं नेत्ररोगहृत्। निहन्ति षित्तदाहास्रमदमूर्च्छाभ्रमानिलान्”। अथ ह्यस्तनदधिजवृतगुणाः
“हविर्ह्यस्तनदुग्धोत्थ तत्स्या-द्धैयङ्गवीनकम हैयङ्गवीनं चक्षुष्यं दीपनं रुचिकृत्प-रम्। बलकृद्वृंहणं वृष्यं विशेषाज्ज्वरनाशनम्”। पुराणघृतस्य गुणाः
“वर्षादूर्द्ध्वं भवेदाज्य पुराणं तत्-त्रिदोषनुत्। मूर्च्छाकुष्ठविषोन्मादापस्मारतिमिरापहम्। यथा यथाऽखिलं सर्पिः पुराणमधिकं भवेत्। तथा तथागुणैः स्वैः स्वैरधिकं तदुदाहृतम्” अथ नतनस्य घृतस्य विषयाः
“योजयेन्नवमेवाज्यं भोजनेतर्पणे श्रमे। वलक्षये पाण्डुरोगे कामलानेत्ररोगयोः”। घतप्रयोगस्याविपयाः
“राजयक्ष्मणि बाले च वृद्धे श्लेष्म-कृते गदे। रोग सामे विसूच्याञ्च विबन्ध च मदायये। ज्वरे च दहने मन्दे न सर्पर्वहु मन्यते”। [Page2799-a+ 38] अस्य गव्यादिघृतभेदास्तद्गुणादिकं च सुश्रुतेनोक्तं यथा
“घृतन्तु सौम्यं शीतबीर्य्यं भृदु मधुरमल्पाभिस्यन्दिस्नेहनमुदावर्तोन्मादापस्मारशूलज्वरानाहवातपित्तप्रशम-नमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्यसौकुमार्य्यौ-जस्तेजोबलकरमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरुचक्षुष्यं श्लेष्माभिवर्द्धनं पाप्मालक्ष्मीपशमनं विषहरंरक्षोघ्नञ्च। विप्राके मधुरं शीतं वातपित्तविषापहम्। चक्षुष्यमग्र्यं बल्यञ्च गव्य सर्पिर्गुणोत्तरम्। आजंघृतं दीपनीयं चक्षुष्य बलवर्द्धनम्। कासे श्वासे क्षयेचापि पथ्यं पाके च तल्लघु। मधुर रक्तपित्तघ्नं गुरुपाके कफापहम्। वातपित्तप्रशमनं सुशीतं माहिषंघृतम्। औष्ट्र कटुरसं पाके शोफक्रिमिविषापहम्। दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम्। पाके लघ्वा-विकं सर्पिर्नच पित्तप्रकोपणे। कफेऽनिले योनिदोषेशोषे कम्पे च तद्धितम्। पाके लघूष्णवीर्य्यञ्चकषायं कफनाशनम्। दीपनं बद्धमूत्रञ्च विद्यादेकशफंघृतम्। चक्षुष्यमग्र्यं स्त्रीणान्तु सर्पिः स्यादमृतो-पमम्। वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम्। कषायं बद्धविण्मूत्रं तिक्तमग्निकरम् लघु। हन्तिकारेणवं सर्पिः कफकुष्ठविषक्रिमीन्। क्षीरघृतं पुनःसंग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितञ्च। ( सर्पिर्मण्डस्तु मधुरः सरोयोनिश्रोत्राक्षिशिरसांशूलघ्नो वस्तिनस्याक्षिपूरणेषूपदिश्यते। सर्पिः पुराणंसरं कटुविपाकं त्रिदोषापहं मूर्च्छामेद उन्मादोदर-ज्वरगरशोफापस्मारयोनिश्रोत्राक्षिशिरःशूलघ्नं दीपनंवस्तिनस्याक्षिपूरणेषूपदिश्यते। भवन्ति चात्र। पुराणं तिमिरश्वासपीन सज्वरकासनुत्। मूर्च्छाकुष्ठविषो-न्मादग्रहापस्मारनाशनम्। एकादशशतञ्चैव वत्सरानुषितंघृतम्। रक्षोघ्नं कुम्भसर्पिः स्यात्परतस्तु महाघृतम्। पेयं महाघृत भूतैः कफघ्नं पवनाधिकैः। बल्यं पवित्रंमेध्यञ्च विशेषात्तिमिरापहम्। सर्वभूतहरञ्चैव घृतमेत-त्प्रशस्यते”।
“उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम्। लाक्षारसनिभं शीतं प्रपुराणमतः परम्” राजवल्लभः। तस्य गुरुतमत्वमाह वैद्यके
“अन्नादष्टगुणं चूर्णं चूर्णा-दष्टगुणं पयः। पयसोऽष्टगुणं मांसं मांसादष्टगुणंघृतम्” पक्वघृतस्य वर्षोन्तेऽवीर्य्यतामाह
“घृतमव्दात्परं पक्वं हीनवीर्य्यत्वमाप्नुयात्” राजव॰।
“घृतंकांस्ये दशाहिकम्” इत्युक्तघृतस्याभक्ष्यता।
“तेजोवै[Page2799-b+ 38] घृतमिति” श्रुत्या वाक्यशेषे घृतप्रशसनात्
“अक्ताःशर्करा उपदधाति” इत्यादौ घृतेनैवाञ्जनम् न तैलेनेतिमीमांसायां स्थितम्। घृतघटितौषधस्य षण्मासपर्य्यन्तंबीर्य्यवत्त्वं वैद्यके उक्तम्। पक्ववृतादि नानाविधंचक्रदत्तादौ उक्तं विस्तरभयान्नोक्तम्।
“घृतं घृत-पावानः पिबत वसां वसापावानः” यजु॰
६ ।
१९ । घृ--दोप्तौकर्त्तरि--क्त।
२ दीप्ते
३ सेचके च त्रि॰ शब्दर॰। अस्यघृतादित्वात् अन्तोदात्तता।
४ जले न॰ शब्दार्थचि॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घृत¦ mfn. (-तः-ता-तं)
1. Sprinkled.
2. Illumined. n. (-तं)
1. Ghee, clarified butter, or butter which has been boiled gently, and allowed to cool: it is then used for culinary and religious purpose and is highly esteemed by the Hindus.
2. Water. f. (-ता) The name of a tree: see घृतमण्डा। E. घृ to sprinkle Unadi affix क्त।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घृत [ghṛta], a. [घृ-क्त]
Sprinkled.
Illumined.
तम् Ghee, clarified butter; (सर्पिर्विलीनमाज्यं स्याद् घनीभूतं घृतं भवेत् Sāy.).
Butter.
Water.
Spirit, energy (तेजस्); मधुच्युतो घृतपृक्ता विशोकास्ते नान्तवन्तः प्रतिपालयन्ति Mb.1.92.15. -Comp. -अक्त a. annointed with ghee. विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्रं... ॥ Ms.9.6. -अन्नः, -अर्चिस् m. blazing fire; शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यते Mb.12.43.7. -अवनिः the spot on the sacrificial post which is smeared with ghee.-आहवनः fire. -आहुतिः f. an oblation of ghee.
आह्वः the Sarala tree.
turpentine. -उदः 'ocean of ghee' one of the seven oceans. -ओदनः boiled rice mixed with ghee. -कुमारिका, -कुमारी Aloe Indica (Mar. कोरफड); Bhāvapr.5.3.282. -कुल्या a stream of ghee.
केशः fire.
one whose locks are unctuous; ऊर्जो नपातं घृतकेशमीमहे Rv.8.6.2. -गन्धः a horse having the smell of ghee; घृतगन्धो भवेद्वैश्यो ... । Śālihotra Appendix II,17. -दीधितिः fire. -धारा a continuous stream of ghee. -धेनुः ghee in the shape of milch-cow. -निर्णिज् a. shining. (-m.) fire. -पदी an epithet of the goddess Ilā; (whose foot drops with ghee); इळा देवी घृतपदी जुषन्त Rv.1.7.8. -पशुः a sacrificial victim represented by ghee; कुर्याद् घृतपशुं संगे Ms.5.37. -पूरः, -वरः a kind of sweetmeat; also ˚पूर्वकः, -पृच् a. accompanied with ghee; घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा Rv.6.7.4. -पृष्ठ a. having a shining body.-प्रतीकः, -प्रय m., -प्रसत्त fire; घृतप्रतीको घृतपृष्ठो अग्ने Av. 2.13.1; घृतप्रया सधमादे मधूनाम् Rv.3.43.3; घृतप्रसत्तो असुरः सुशेवः 5.15.1. -प्राशः, -प्राशनम् swallowing ghee; Ms.11.143;5.144. -प्लुत a. sprinkled with ghee; अग्नौकरिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् Y.1.236; Bhāg.3.16.8.-मण्डः the scum of melted butter. -योनिः fire; तनूनपाद् घृतयोनिं विधन्तम् Rv.3.4.2. -लेखनी a ladle for ghee.-हेतुः butter.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घृत mfn. sprinkled L.
घृत n. ( g. अर्धर्चा-दि)ghee i.e. clarified butter or butter which has been boiled gently and allowed to cool (it is used for culinary and religious purposes and is highly esteemed by the Hindus) , fat (as an emblem of fertility) , fluid grease , cream RV. VS. AV. etc.
घृत n. (= उदक)fertilizing rain (considered as the fat which drops from heaven) , water Naigh. i , 12 Nir. vii , 24
घृत m. N. of a son of धर्म(grandson of अनुand father of दुदुह) Hariv. 1840
घृत mfn. ( Pa1n2. 6-4 , 37 Ka1s3. )illumined L.
घृत See. 1. and2. घृ.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a son of Dharma and father of Durdama. M. ४८-8; Vi. IV. १७. 4.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
GHṚTA : A King of the Aṅga dynasty. He was the son of Gharman and father of Viduṣa. (Agni Purāṇa, Chapter 277).
_______________________________
*8th word in left half of page 291 (+offset) in original book.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Ghṛta, the modern Ghee or ‘clarified butter,’ is repeatedly mentioned in the Rigveda[१] and later[२] both as in ordinary use and as a customary form of sacrifice. According to a citation in Sāyaṇa's commentary on the Aitareya Brāhmaṇa,[३] the distinction between Ghṛta and Sarpis consisted in the latter being butter fully melted, while the former was butter melted and hardened (ghanī-bhūta), but this distinction cannot be pressed. Because the butter was thrown into the fire, Agni is styled ‘butter-faced’ (ghṛta-pratīka),[४] ‘butter-backed’ (ghṛta-pṛṣṭha),[५] and ‘propitiated with butter’ (ghṛta-prasatta),[६] and ‘found of butter’ (ghṛta-prī).[७] Water was used to purify the butter: the waters were therefore called ‘butter-cleansing’ (ghṛta-pū).[८] In the Aitareya Brāhmaṇa^9 it is said that Ājya, Ghṛta, Āyuta, and Navanīta pertain to gods, men, Pitṛs, and embryos respectively.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घृत न.
(घृ+क्त) घी, शुद्धीकृत नवनीत, का.श्रौ.सू. 1.8.36 (घृतमाज्ये लिङगात्); यदि और कोई हविस् निर्धारित न की गई हो, तो यह घी ही है जिससे आहुति के रुप में अर्पित किया जाता है, ‘तस्य होमोऽनादेशे’ का.श्रौ.सू. 1.8.37; (=आज्य); मो.वि. ः वह नवनीत जो आहिस्ते से उबाला गया हो और पुनः ठण्डा कर दिया गया है।
- ↑ i. 134, 6;
ii. 10, 4;
iv. 10, 6;
58, 5. 7. 9;
v. 12, 1, etc. - ↑ Vājasaneyi Saṃhitā, ii. 22, etc.;
Av. iii. 13, 5, etc.;
Śatapatha Brāhmaṇa, i. 8, 1, 7 (with Dadhi, Mastu, Amikṣā);
ix. 2, 1, 1 (Dadhi, Madhu, Ghṛta), etc. - ↑ i. 3 (p. 240, edition Aufrecht).
- ↑ Rv. i. 143, 7;
iii. 1, 18;
v. 11, 1;
x. 21, 7, etc. - ↑ Rv. i. 164, 1;
v. 4, 3;
37, 1;
vii. 2, 4, etc. - ↑ Rv. v. 15. 1.
- ↑ Av. xii. 1, 20;
xviii. 4, 41. - ↑ i. 3.
Cf. Zimmer, Altindisches Leben, 227.
- यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
- यन्त्रोपारोपितकोशांशः-अमरकोशः
- यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्
- यन्त्रोपारोपितकोशांशः-शब्दसागरः
- यन्त्रोपारोपितकोशांशः-Apte
- यन्त्रोपारोपितकोशांशः-Monier-Williams
- यन्त्रोपारोपितकोशांशः-Purana index
- संस्कतशब्दाः
- यन्त्रोपारोपितकोशांशः-Purana Encyclopedia
- यन्त्रोपारोपितकोशांशः-Vedic Index of Names and Subjects
- यन्त्रोपारोपितकोशांशः-Vedic Rituals Hindi