इषु

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषुः, पुं, स्त्री, (इष्यति गच्छतीति । इष् + उ ।) बाणः । इत्यमरः ॥ (“उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले” । इति शाकुन्तले २ अङ्के ।)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषु स्त्री-पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

2।8।87।1।6

कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः। प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषु¦ पुंस्त्री ईष्यते हिंस्यतेऽनेन ईष--उ ह्रस्वश्च।

१ वाणे
“पतिसंहरन्निषुम्” रघुः।
“इषुमतिरघुसिंहे दंदशूकान्जिषांमौ” भट्टिः।
“इषुभिः प्रतियोत्स्यामि” गीतास्त्रीत्व
“तस्य साध्वीरिषवो याभिरस्यति” ऋ॰

२ ,

२१ ,

४ ,

८ ।
“यामिषुं गिरिशन्त! बिभर्ष्यस्तवे” यजु॰

१६ ,

३ । तत्त ल्यसंख्ये

२ पञ्चसंख्यान्विते च। पञ्चशरशब्दे वक्ष्यमा-णस्य कामशरस्य पञ्चसंख्याकत्वस्यानुसारेण शरशब्देन हि[Page0987-b+ 38] पञ्चसंख्या बोध्यते।
“पञ्चपञ्चाष्टसप्तेषु ज्ञेयमोजःसु राशिषु” ज्योति॰।

३ वृत्तक्षेत्रान्तर्गते जीवावधिप-रिधिपर्य्यन्तकृतसरलरेखायाञ्च तदानयनप्रकारः सोदा-हरणः लीला॰ दर्शितो यथा
“ज्याव्यासयोगान्तरघातमूलं व्यासस्तदूनोदलितः शरः स्यात्। व्यासाच्छरोनाच्छरसङ्गुणाच्च मूलं द्विनिघ्नं भवतीह जीवा। जीवार्द्धमक्ते शरभक्तयुक्ते व्यासप्रमाणं प्रवदन्ति वृत्ते” उदा॰दशविस्तृतिवृत्तान्तर्यत्र ज्या षण्मिता भवेत्। तत्रेषुंवद वाणाज्ज्यां ज्यावाणाभ्याञ्च विस्तृतिम्” न्यासः। व्यासः

१० , ज्या

६ , अनयोर्योगः

१६ , अन्तरं

४ तयो-र्घातो

६४ , तस्य मूलं

८ , तेनोनोव्यासः

२ , दलितः शरः

१ । तेन

१० हस्तव्यासके वृत्तक्षेत्रे यदि जीवमितिः

६ तदा शरमानम्

१ एकहस्त इति ज्ञेयम्। ज्ञातशरव्यासके वृत्त-क्षेत्रे जीवानयनं यथा व्यासः

१० हस्तः, शरः

१ हस्तःतेनोनितः व्यासः

९ , तस्य मूलम्

३ । द्वाभ्यां गुणितम्

६ , जीवामानम्। ज्ञाताभ्यां ज्यावाणाभ्यां व्यासानय-नम्। यथा जीवा

६ तस्यार्द्धं

३ , तस्य वर्गः

९ । शर-संख्यया

१ भक्ते

९ । शरसंख्यया

१ योगे व्यासमानम्

१० । एवमन्यसंख्यकजीवादौ अनया दिशा शराद्या-नयनम्। ग्रहाणां क्रान्तिवृत्त क्षेत्रस्य शरानयनं संक्षेपेणदर्शितम् सि॰ शि॰
“सत्रिराशिग्रहद्युज्यानिघ्नस्त्रिज्योद्धृतः शरः। स्फुटोऽसौक्रान्तिसंस्कारे दृक्कर्मण्यक्षजे तथा” मू॰।
“अयं संक्षिप्तोगौणप्रकारः। मुख्यस्तु पूर्वं व्याख्यात एव। तथापीहयुक्तिमात्रमुच्यते। विषुवद्वृत्तात् क्रान्तिर्ध्रुवाभिमुखी। क्रान्त्यग्राच्छरः कदम्बाभिमुखः। कथं तेन तिर्य्यक्स्थेन सासंस्कार्या। अतः क्रान्त्यग्रे यद्द्युज्यावृत्त तस्य शराग्रस्यच यदन्तरमृजु तेन संस्कृता सती स्फुटा भवति। तज्ज्या-न्तरं कोटिरूपम्। शरः कर्णरूपः। तद्वर्गान्तरपदं द्युज्यावृत्ते भुजः। एतत् त्र्यस्रं दिग्वलनजत्र्यस्रसंभवम्। तत्रसत्रिराशिग्रहक्रान्तिः कदम्बध्रुवसूत्रयोरन्तरम्। तज्ज्याभुजः। तद्द्युज्या कोटिस्त्रिज्या कर्णः। यदि त्रिज्य-येयं कोटिस्तदा शरेण केत्युपपन्नम्। कोटिरूपस्यैव शरस्यध्रुवोन्प्रुखस्याक्षज्ययाऽक्षजं दृक्कर्म्म कर्त्तुं युज्यते” प्रमि॰विस्तरस्तत्रैव
“विक्षेपलिप्ताः क्षितिजादिकानां खेशा

११

० द्विवाणेन्दुमिता

१५

२ रसाश्वाः

७६ । षट्त्रीन्दवः

१३

६ , खाग्निभुवः

१३

० सितज्ञपातौ स्फुटौ स्तश्चल-केन्द्रयुक्तौ” मू॰
“क्षितिजस्य खरुद्रमिता

११

० मध्यमा[Page0988-a+ 38] विक्षेपलिप्ताः। बुधस्य द्विवाणेन्दुमिताः

१५

२ । गुरोःषट्सप्ततिः

७६ । शुक्रस्य षड्विश्व

१३

६ तुल्याः। शनेः खत्रीन्दु

१३

० मिता वेदितव्याः। तथा बुध-शुक्रयोर्यौ गणितागतौ पातौ तौ स्वस्वशीघ्रकेन्द्रेणयुक्तौ कार्यौ। एवं स्फुटौ स्तः। अत्रोपपत्तिः। मध्य-मगतिवासनायां वेधप्रकारेण वेधवलये ग्रहविक्षेपोपप-त्तिर्दर्शितैव। किंत्वन्त्यफलज्यार्धधनुषा सत्रिगृहेण तुल्यंयदा शीघ्रकेन्द्रं भवति तदा त्रिज्यातुल्यः शीघ्रकर्णो भवतितस्मिन् दिने वेधवलये यावान् परमो विक्षेप उपलभ्यतेतावान् ग्रहस्य परमो मध्यमविक्षेपः। एवमेते भौमा-दीनामुपलब्धाः पठिताः। अथ ज्ञशुक्रयोः पातस्य स्फु-टत्वमुच्यते। भगणाध्याये ये बुधशुक्रयोः पातभगणाः प-ठितास्ते स्वशीघ्रकेन्द्रभगणैरधिकाः सन्तो वास्तवा भवन्ति। ये पठितास्ते स्वल्पाः कर्मलाघवेन सुखार्थम्। अतः पठि-तचक्रभवौ स्वशीघ्रकेन्द्रयुतौ वास्तवभगणनिष्पन्नौ स्फुटौभवतः। तथा चोक्तं गोले।
“ये चात्र पातभगणाः पठि-ता ज्ञभृग्वोस्ते शीघ्रकेन्द्रमगणैरित्यादि”। इदानीं ग्रह-विक्षेपानयनमाह” प्रमि॰।
“मन्दस्फुटात् खेचरतः स्वपातयुक्ताद्भुजज्या पठितेषुनिघ्नी। स्वशीघ्रकर्णेन हृता शरः स्यात्सपातमन्दस्फुटगोलदिक्कः” सू॰।
“मन्दस्फुटाद्ग्रहात्स्वपातयुक्ताद्भुजज्या साध्या। सा ग्रहस्य पठितेन शरेणगुण्या स्वशीघ्रकर्णेन भाज्या फलं स्फुटविक्षेपः स्यात्। सपातोमन्दस्फुटो ग्रहो यदि राशिषट्कादूनस्तदोत्तरो विक्षे-पोऽन्यथा दक्षिणः। अत्रोपपत्तिः। मन्दस्फुटो ग्रहःस्वशीघ्रप्रतिमण्डले भ्रमति। तत्र च तस्य पातोऽपि। पातो नाम प्रतिमण्डलविमण्डलयोः संपातः। तस्मादा-रभ्य विक्षेपप्रवृत्तिः। इह सुसरलबंशशलाकया कक्षाम-ण्डलं तत्प्रतिमण्डलं च छेद्यकोक्तविधिना विरचय्य तत्रशीघ्रप्रतिमण्डले मेषादेः प्रतिलोमं पातस्थानं च चिह्न-यित्वा तत्र विमण्डलं निवेश्यम्। पातचिह्नाद्राशिषट्-कान्तरे विमण्डलप्रतिमण्डलयोरन्यं सम्पातं कृत्वापातात् पूर्व्वतस्त्रिभेऽन्तरे पतितविक्षेपप्रमाणेन प्रति-मण्डलादुत्तरतो विमण्डलं केनचिदाधारे स्थिरं कृत्वामेषादेरनुलोमं मन्दस्फुटं ग्रहं प्रतिमण्डले विमण्डलेच दत्त्वा विक्षेपोपपत्तिं दर्शयेत्। तत्र तयोर्ग्रहयो-र्यावान् विप्रकर्षस्तावां स्तत्र प्रदेशे विक्षेपः। अथ तस्या-नयनम्। पातस्थाने हि विक्षेपाभावः। ततस्त्रिभेऽन्तरे{??}रमो विक्षेपः। अन्तरेऽनुपातेन। अतः पातग्रह-[Page0988-b+ 38] चिह्नयोरन्तरं तावज्ज्ञेयम्। तच्च तयोर्योगे कृतेभवति। यतो भेषादेरनुलोमं ग्रहो दत्तः। पातस्तुप्रतिलोमम्। अतस्तयोर्योगः शरार्थं किल केन्द्रम्। तस्यदोर्ज्या साध्या। यदि त्रिज्यातुल्यया दोर्ज्यया पठित-विक्षेपतुल्यं प्रतिमण्डलविमण्डलयोरन्तरं लभ्यते तदाऽ-भीष्टया ग्रहस्थानभवया दोर्ज्यया किमिति फलं शीघ्र-कर्णाग्रे विक्षेपः। अथ द्वितीयोऽनुपातः। यदि शीघ्रक-र्णाग्रे एतावान् विक्षेस्तदा त्रिज्याग्रे क इति। अत्र गु-णभाजकयोस्त्रिज्यातुल्ययोस्तुल्यत्वान्नाशे कृते सति दोर्ज्या-याः पठितविक्षेपो गुणः शीघ्रकर्णो हरः। फलं कक्षाप्र-देशे विक्षेपो ज्यारूपस्तस्य चापं स्फुटविक्षेप इत्यर्थः। भू-चिह्ने सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं विमण्डले ग्रहस्थानेनिबद्वं सूत्रं कर्णः। सूत्रकक्षमण्डलयोरन्तरं स्फुटः शरइत्यादि सर्वं छात्राय दर्शनीयम्। इदानीं विक्षेपस्यक्रान्तिसंस्कारयोग्यतालक्षणमन्यत् स्फुटीकरणमाह”। प्रमि॰
“चिज्यावर्गादयनवलनज्याकृतिं प्रोह्य मूलं यष्टि-र्यष्ट्या द्युचरविशिखस्ताडितस्त्रिज्ययाप्तः। यद्वा राशि-त्रययुतखगद्युज्यकाघ्नस्त्रिमौर्व्या भक्तः स्पष्टीभवति नियतंक्रान्तिसंस्कारयोग्यः” मू॰। ग्रहस्य
“युतायनांशोडुप-कोटिशिञ्जिनीत्यादिनायनं वलनं साध्यम्। अत्र वलन-शब्देन वलनज्या ग्राह्या न धनुः। तथा इतः प्रभृतिवृहज्ज्याभिः कर्म कर्तव्यम्। यतो वृहज्ज्याभिः शरज्याशरकलातुल्यैव भवति। तस्यानयनम्। वलनस्य वर्गंत्रिज्यावर्गादपास्य यन्मूलं लभ्यते तद्यष्टिसंज्ञं ज्ञेयम्। तया यष्ट्या ग्रहविक्षेपो गुणितस्त्रिज्यया भक्तः स्फुटःक्रान्तिसंस्कृरयोग्यो भवति। अथानुकल्प उच्यते। यद्वाराशित्रययुतखगद्युज्यकाघ्न इति राशित्रययुतस्य ग्रहस्ययावती द्युज्या तया वा गुण्यस्त्रिज्यया भक्तः स्फुटोभवति। अत्र भाजकस्यैकप्त्वाद्गुणकस्यान्यत्वात् फलंस्वल्पान्तरमित्यतोऽनुकल्पेनोक्तम्। अत्रोपपत्तिः। क्रा-न्त्यग्रात् किल शरो भवति। शराग्रे ग्रहः क्रान्तिःशरेण संस्कृता स्फुटा भवति। अत्र गणितागतेनैव शरेणक्रान्तिः स्फुटा क्रियते तदयुक्तम्। यतः क्रान्तिर्विषुवन्मण्डलात् तिर्यग्ध्रुवाभिमुखी। विक्षेपस्तु क्रान्ति-मण्डलात् तिर्यग्रूपः कदम्बाभिमुखः यथोक्तं गोले।
“सर्वतः क्रान्तिसूत्राणां ध्रुवे योगो भवेद्यतः। विषुवन्म-ण्डलप्राच्या ध्रुवे याम्या तथोत्तरा”। सर्वतः क्षेप-सूत्राणां ध्रुवाज्जिनलवान्तरे। योगः कदम्बसंज्ञोऽयं ज्ञेयो[Page0989-a+ 38] वलनबोधकृत्। तत्रापमण्डलप्राच्या याम्या सौम्या च दिक्सदा। कदम्बभ्रभवृत्तं चेति”। अतो विक्षेपः कदम्बाभि-मुखो भवति। ध्रुवाभिमुख्या क्रान्त्या सह कथं तस्य मिन्न-दिक्कस्य योगवियोगावुचितौ। तयोर्यद्भिन्नदिक्त्वं तदायन-वलनवशात्। अथ तद्गोलोपरि प्रदर्श्यते। यथोदितं गोलंविरचय्य क्रान्तिवृत्ते यद्ग्रहचिह्नं तस्मात् परितो नवति-भागान्तरेऽन्यत् त्रिज्यावृत्तं निवेश्यम्। अथ ग्रहचि-ह्नाद्ध्रुवोपरिगामि सूत्रं तस्मिन् वृत्ते यत्र लगति तत्क-दम्बयोरन्तरस्य ज्या त्रिज्या स कर्णः। तयोर्वर्गान्तरपदंकोटिः। सा च यष्टिसंज्ञा। क्रान्त्यग्राद्विक्षेपः कदम्बा-भिमुखः कर्णरूपः। तस्य कोटिरूपकरणायानुपातः। यदि त्रिज्याकर्णे यष्टिः कोटिस्तदा शरकर्णेका। फलंक्रान्तिसंस्कारयोग्यो विक्षेपो मवति। तेन संस्कृताक्रान्तिः स्फुटा। विक्षेपाग्रस्थस्य ग्रहस्य विषुवन्मण्डलस्यच यद्याम्योत्तरमन्तरं सा स्फुटा क्रान्तिरुच्यते अथानु-कल्पेऽपीयमेव वासना। अत्र सत्रिराशिग्रहक्रान्तिज्याभुजस्थाने कल्पिता स भुजः। तद्द्युज्या यष्टिस्थानेकल्पिता सा कोटिः। तत्रापि त्रिज्या कर्ण इति सर्व-मुपपन्नम्” प्रमि॰। तत्रैव स्थानारेऽप्युक्तम्।
“नाडिकामण्डलात् तिर्य्यगत्रापमः क्रान्तिवृत्तावधिःक्रान्तिवृत्ताच्छरः। क्षेपवृत्तावधिस्तिर्य्यगेवं स्फुटो नाडि-कावृत्तखेटान्तरालेऽपमः” मू॰।
“क्रान्तिवृत्ते यत् स्फुटग्र-हस्थानं तस्य नाडिकावृत्तात् तिर्य्यगन्तरं सा क्रान्तिः अथविमण्डले च यत् ग्रहस्थानं तस्य क्रान्तिवृत्ताद्यत् तिर्य्य-गन्तरं स विक्षेपः। अथ विमण्डलस्थग्रहस्थ नाडीवृत्ता-द्यत् तिर्य्यगन्तरं सा स्फुटा क्रान्तिः” प्रमि॰।

३ सामवेदविहिते यज्ञभेदे।
“इषुवज्रौ सामवेदे विहितौ” सि॰ कौ॰। इषुप्रकारः स्थूला॰ कन्। इषुकःशरप्रकारे

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषु¦ mf. (-षुः-षुः)
1. An arrow.
2. A versed sine. E. इष् to go, and उ Una4di aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषुः [iṣuḥ], m., f. [इष्-उ; cf. also Uṇ.1.13]

An arrow; यामिषुं... हस्ते बिभर्षि Śvet.3.6; इषुभिः प्रतियोत्स्यामि Bg.2.4.

The number five.

(In Math.) A versed sine.

N. of a Soma ceremony. -Comp. -अग्रम्, -अनीकम् the point of an arrow; वायुरमित्राणामिष्वग्राण्याञ्चतु Av.11.1.16.-असनम्, -अस्त्रम् the bow; राममिष्वसनदर्शनोत्सुकम् R.11. 37; ˚यन्त्रमुक्तो बाणः Dk.9. -आस a. throwing arrows.

(सः) a bow.

an archer, a warrior; अत्र शूरा महेष्वासा भीमार्जनसमा युधि Bg.1.4.17. -कारः, -कृत् m. an arrow-maker. -धरः, -भृत् m. an archer. -पथः, -विक्षेपः an arrow-shot, the range of an arrow.-पातरामक्षेत्रम् The holy place called Paraśurāma. -पुङ्खा A particular plant (Mar. उन्हाळी); The indigo plant; Mātaṅga L.1.1. -प्रयोगः discharging an arrow; प्रत्यब्रवीच्चैनमिषुप्रयोगे R.2.42. -मात्र a. having the length of an arrow (about 5 short spans or three feet); cf. यदा हि द्विजवरस्येषुमात्रावलोकनानुगतेर्न समाहिता पुरुषगतिः Bhāg.5.1.2.

(त्रम्) the length of an arrow.

an altar (कुण्ड). -हस्त a. carrying arrows in the hand.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषु mf. an arrow RV. AV. VS. MBh. Ragh. S3ak. etc.

इषु mf. (in mathematics) a versed sine

इषु mf. N. of a सोमceremony Ka1tyS3r.

इषु mf. the number five Sa1h.

इषु mf. N. of a particular constellation VarBr2. xii , 7. ([According to दयानन्दइषुmay mean " ray of light " ; cf. Gk. ? ; Zd. ishu.])

इषु इषु-धि, etc. See. 1. इष्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Iṣu is the usual name for ‘arrow’ from the Rigveda[१] onwards. Other names are Śarya, Śārī, and Bāṇa. In the hymn of the Rigveda,[२] which gives a catalogue of armour, two kinds of arrows are distinctly referred to: the one is poisoned (ālāktā), and has a head of horn (ruru-śīrṣṇī); the other is copper-, bronze-, or iron-headed (ayo-mukham). Poisoned (digdhā) arrows are also referred to in the Atharvaveda.[३] The arrows were feathered.[४] The parts of an arrow are enumerated in the Atharvaveda[५] as the shaft (śalya), the feather-socket (parṇa-dhi), the point (śṛṅga), the neck of the point in which the shaft is fixed (kulmala), and the Apaskambha and Apāṣṭha, which are of more doubtful significance. In the Aitareya Brāhmaṇa[६] the parts of an arrow are given as the point (anīka), the śalya, tejana, and the feathers (parṇāni), where śalya and tejana must apparently mean the upper and lower parts of the shaft, since it is reasonable to suppose that the arrow is described as a whole consecutively. So in the Atharvaveda[७] the arrow of Kāma is described as having feathers, a shaft (śalya), and a firm fastening (kulmala).[८] The arrow was shot from the ear, and so is described in the Rigveda[९] as ‘having the ear for its place of birth.’

As a measure of length, the Iṣu was five spans, say three feet.[१०] A regular profession of arrow-making existed (iṣu-kṛt,[११] iṣu-kāra).[१२]

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इषु पु.
बाण, का.श्रौ.सू. 22.5.3०; शां.श्रौ.सू. 12.14.5; 6.2.7; एक यज्ञ का नाम (एकाह), का.श्रौ.सू. 22.5.3० (इषुः श्येनवदसद्यः)।

  1. ii. 24, 8;
    viii. 7, 4, etc.;
    Av. i. 13, 4, etc.;
    Vājasaneyi Saṃhitā, xvi. 3, etc.;
    Nirukta, ix. 18.
  2. vi. 75, 15.
  3. iv. 6, 7;
    v. 18, 8. 15;
    31, 4.
  4. Rv. x. 18, 14;
    vi. 75, 11;
    Av. v. 25, 1.
  5. iv. 6.
  6. i. 25.
  7. Av. iii. 25, 2.
  8. See also Maitrāyaṇī Saṃhitā, iii. 8, 1. 2;
    Kāṭhaka Saṃhitā, xxv. 1.
  9. Rv. vi. 75, 3;
    ii. 24, 8 (karṇayoni).
  10. Satapatha Brāhmaṇa, vi. 5, 2, 10.
  11. Vājasaneyi Saṃhitā, xvi. 46, Cf. Rv. i. 184, 3.
  12. Ibid., xxx. 7;
    Taittirīya Brāhmaṇa, iii. 4, 3, 1.

    Cf. Zimmer, Altindisches Leben, 300;
    Weber, Indische Studien, 18, 29, 286;
    Hopkins, Journal of the American Oriental Society, 13, 275 et seq.;
    25, 337.
"https://sa.wiktionary.org/w/index.php?title=इषु&oldid=491959" इत्यस्माद् पुनः प्राप्तिः