सामग्री पर जाएँ

रविः

विकिशब्दकोशः तः
रविः

संस्कृतम्

[सम्पाद्यताम्]
  • रविः, दिनकरः, दिवाकरः, प्रकाशकः, सूर्यः, अर्कः, मीहीरः, तपनः, उष्णरुचिः, भानुः, सवितृः, आदित्यः, क्रान्तिः, प्रभाकरः, पान्थः, सुरः, अञ्जिष्ठः, अंशुधरः, अंशुपतिः, अंशुभर्तृः, सूर्यरश्मिः, अम्बरमणिः, अम्बुजबान्धवः, अम्बुतस्करः, अयुगसप्तिः, अरुणः, अरुणकरः, अशिरः, अशिशिरकरः, असुरः, अहर्पतिः, अहर्बान्धवः, अहर्मणिः, अहस्करः, अहिमकरः, आकाशपथिकः, आदितेयः, उष्णकिरणः, उष्णकरः, उष्णरश्मिः, उष्णांशुः, उस्रः, कञ्चरः, कमलबान्धवः।
  • रविः नाम सूर्यः, सूर्यरश्मिः।


पर्यायपदानि

[सम्पाद्यताम्]

अनुवादाः

[सम्पाद्यताम्]

फलकम्:തർജ്ജമ-മേലഗ്രം

फलकम्:തർജ്ജമ-മധ്യം

फलकम्:തർജ്ജമ-അടിഭാഗം फलकम्:വൃത്തിയാക്കേണ്ടവ फलकम्:അപൂർണ്ണം

उदाहरणानि

[सम्पाद्यताम्]
  • आदिदेव नमस्तुभ्यं प्रसीदः मम भास्करा।
 दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते॥
  • रविवासरः नाम भानुवासरः।

कोशप्रामाण्यम्

[सम्पाद्यताम्]

भानुर्हम्ससहस्राम्शुः तपनः सविता रविः। अमरकोशम्-१-३-२३८

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रविः, पुं, (रूयते स्तूयते इति । रु + “अच इः ।” उणा० ४ । १३८ । इति इः ।) सूर्य्यः । अर्क- वृक्षः । इत्यमरः ॥ सूर्य्यस्य भोग्यं दिनं वार- रूपम् ॥ यथा, -- “रवौ वर्ज्ज्यं चतुः पञ्च सोमे सप्त द्बयं तथा ॥” इत्यादिवारवेलाकथने समयप्रदीपः ॥ तत्र निषिद्धानि यथा, -- “माषमामिषमांसञ्च मसूरं निम्बपत्रकम् । भक्षयेद्यो रवेर्व्वारे सप्तजन्मन्यपुत्त्रकः ॥ आर्द्रकं मधु मत्स्यञ्च भक्षयेद्यो रवेर्दिने । सप्तजन्म भवेद्रोगी जन्म जन्म दरिद्रता ॥ निम्बं मांसं मसूरञ्च विल्वकाञ्जिकमार्द्रकम् । भक्षयेद्यो रवेर्व्वारे सप्तजन्मन्यपुत्त्रकः ॥” इति कर्म्मलोचनम् ॥ * ॥ रविग्रहस्य रक्तश्याममिश्रितवर्णः । अयं पूर्ब्बदिक्पुरुषक्षत्त्रियजातिसत्त्वगुणकटुरससिंह- राशिहस्तानक्षत्रसप्तमीतिथिताम्रकलिङ्गदेशा- नामधिपतिः । काश्यपगोत्रः । द्बादशाङ्गुल- शरीरः । पद्महस्तद्वयः । पूर्ब्बाननः । सप्ताश्व- वाहनः । शिवाधिदैवतः । रह्निप्रत्यधिदैवतश्च । इति ग्रहयज्ञतत्त्वादयः ॥ * ॥ अस्य व्युत्पत्तिर्यथा, “अवतीमांस्त्रयो लोकांस्तस्मात् सूर्य्यः परि- भ्रमात् । अचिरात्तु प्रकाशेत अवनात् स रविः स्मृतः ॥” इति मात्स्ये १०१ अध्यायः ॥ * ॥ अस्य भार्य्यापत्यानि यथा, -- “मरीचेः कश्यपो जज्ञे तस्माज्जज्ञे विभावसुः । तस्य भार्य्याभवत् संज्ञा पुत्त्री त्वष्टुः प्रजापतेः ॥ त्रीण्यपत्यानि राजेन्द्र ! संज्ञायां महसां निधिः । आदित्यो जनयामास कन्याञ्चैकां सुलोचनाम् । वैवस्वतं मनुश्रेष्ठं यमञ्च यमुनां ततः ॥ नातितेजोमयं रूपं सोढुं सालं विवस्वतः । मायामयीं ततश्छायां सवर्णां निर्म्ममे स्वतः ॥ संज्ञोवाच ततश्छायां सवर्णे शृणु मे वचः । अहं यास्यामि सदनं पितुस्त्वं पुनरत्र मे । भवने वस कल्याणि ! निर्व्विशङ्कं ममाज्ञया ॥ मनुरेष यमावेतौ यमुनायमसंज्ञकौ । स्वापत्यदृष्ट्या द्रष्टव्यमेतद्बालत्रयं त्वया ॥ न वक्तव्यदिदं वृत्तं त्वया पत्यौ कदाचन । इत्याकर्ण्याथ सा त्वाष्ट्रीं देवी छाया जगाद ताम् ॥ आकचग्रहणान्नाहमाशापाच्चं कदाचन । आख्यास्यामि चरित्रं ते याहिदेवि ! यथासुखम् ॥ इति च्छायां गृहे स्थाप्य संज्ञागात् पितुरालयम् । उवाच पितरं देवी जामातुस्तव न क्षमा ॥ तेजः सोढुमहं तात ! काश्यपस्य महात्मनः । तन्निशम्य चुकोपासौ भर्त्सयामास कन्यकाम् ॥ मह्यं श्रेयः कथं वा स्यादिति सा परिचिन्त्य च । अगच्छद्बडवा भूत्वा चरन्ती चोत्तरान् कुरून् ॥ तपस्तेपे च सा तीव्रं पतिमाधाय चेतसि । मन्यमानोऽथ तां संज्ञां सवर्णायां तथा रविः ॥ सावर्णिं जनयामास मनुश्रेष्ठं महीपते । शनैश्चरं द्बितीयञ्च सुतां भद्रं तृयीयिकाम् ॥ सवर्णा स्वेष्वपत्येषु सापत्न्यात् स्त्रीस्वभावतः । चकाराप्यधिकं स्नेहं न तथा पूर्व्वजेष्वहो ॥ चिरमालोक्य तां भार्य्यां उवाच सविता वचः । अयि भाविनि बालेषु समेष्वपि कुतस्त्वया ॥ विधीयतेऽधिकः स्नेहः सावर्ण्यादिसुतान् प्रति । नाचचक्षे तदा साथ भास्वते परिपृच्छते ॥ ततः समुद्यते शप्तुं छाया सर्व्वं शशंस ह । यथा वृत्तं तथा तथ्यं तुतोष भगवान् रविः ॥ निरागसं न शशाप जगाम त्वष्टुरन्तिकम् । त्वष्टापि च यथान्यायं सान्त्वयित्वाथ काश्यपम् । निर्दग्धुकामं कोपेन प्राणर्च्चच्च मुदा तदा ॥ त्वष्टोवाच । तवातितेजसो भीता प्राप्योत्तरकुरून् वने । बडवारूपमास्थाय संज्ञा चरति शाद्वले । द्रष्टा हि तां भवानद्य स्वभार्य्यां तात मा रुष ॥ लब्धानुज्ञोऽथ सविता गत्वोत्तरकुरूनथ । स हरिर्हरिरूपेण मुखेन समताडयत् ॥ त्वरमाणा च सवितुः परपूरुषशङ्कया । सा तन्निरवमत् शक्र नासिकाभ्यां विवस्वतः । देवौ तस्मादजायेतामश्विनौ भिषजां वरौ ॥” इति पाद्मे स्वर्गखण्डे ११ अध्यायः ॥ (अन्यत् सूर्य्यशब्दे द्रष्टव्यम् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रविः [raviḥ], [cf. Uṇ.4.15]

The sun; सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः R.1.18.

A mountain.

The Arka plant.

The number 'twelve'. -Comp. -इष्टः an orange. -कान्तः, ग्रावन् the sun-stone (सूर्यकान्त).-चक्रम् a particular astronomical diagram.

जः, तनयः, पुत्रः, सूनुः the planet Saturn.

epithets of Karṇa; रवितनयो$भ्यहनच्छिनिप्रवीरम् Mb.8.3.9.

of Vāli.

of Manu Vaivasvata.

of Yama.

of Sugrīva. -दिनम्, -वारः, -वासरः, -रम् Sunday. -दीप्तa. lighted by the sun. -ध्वजः day. -नेत्रः N. of Viṣṇu.

प्रियम् a red lotus flower.

copper. -बिम्बः the sun's disk. -मासकः a solar month. -रत्नम् a ruby.-लोचनः N. of

Viṣṇu.

Śiva. -लोहम्, -संज्ञकम् copper. -वंशः the solar race (of kings). -संक्रान्तिः f. the sun's entrance into any zodiacal sign.

सारथिः N. of Aruṇa.

the dawn.

"https://sa.wiktionary.org/w/index.php?title=रविः&oldid=506923" इत्यस्माद् प्रतिप्राप्तम्