अश्व

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वः, पुं, (अश्नुते मार्गं व्याप्नोति । अशू व्याप्तौ अशूप्रुषिलटीति क्वन् ।) घोटकः । तत्पर्य्यायः । पीतिः २ पीती ३ वीतिः ४ घोटः ५ घोटकः ६ तुरगः ७ तुरङ्गः ८ तुरङ्गमः ९ वाजी १० वाहः ११ अर्व्वा १२ गन्धर्ब्बः १३ हयः १४ सैन्धवः १५ सप्तिः १६ । इत्यमरः तट्टीकाच ॥ (“जितसिंहभया नागा यत्राश्वा विलयोनयः” । इति कुमारे ॥ “गच्छन्तमुच्चलितचामरचारुमश्वम्” ॥ इति शिशुपालबधे ॥) अश्वेन भ्रमणगुणाः । वातकोपनाङ्गस्थैर्य्यबलाग्निकारित्वं । इति राज- वल्लभः ॥ पुंजातिविशेषः । तस्य लक्षणं । “काष्ठतुल्यवपुर्धृष्टो मिथाचारश्च निर्भयः । द्वादशाङ्गुलमेढ्रश्च दरिद्रस्तु हयो मतः” ॥ इति रतिमञ्जरी ॥ (स्वनामख्यातो वृष्णिवंशी- यो नृपतिश्चित्रकस्य पुत्त्रः । यथा, -- “चित्रकस्याभवन् पुत्त्राः पृथुर्विप्रथुरेव च । अश्वग्रीवोऽश्ववाहुश्च सुपार्श्वकगवेषणौ ॥ अरिष्टनेमिरश्वश्च ।” इति हरिवंशे ॥ स्वनाम ख्यातो दानवश्च यथा महाभारते । “चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्व्वत्र भारत ॥ स्वर्भानुरश्वोऽश्वपतिर्वृषपर्व्वा जकस्तथा” ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्व पुं।

अश्वः

समानार्थक:घोटक,वीति,तुरग,तुरङ्ग,अश्व,तुरङ्गम,वाजिन्,वाह,अर्वन्,गन्धर्व,हय,सैन्धव,सप्ति,तार्क्ष्य,हरि

2।8।43।2।5

वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी। घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः॥

अवयव : अश्वमध्यम्,अश्वगलसमीपभागः,अश्वनासिका,मृगपादः,मृगपुच्छः,केशवल्लाङ्गूलम्,अश्वखुरम्

पत्नी : अश्वा

सम्बन्धि2 : अश्वेन_दिनैकाक्रमणदेशः,अश्वशब्दः,खलीनः,अश्वारोहः

वैशिष्ट्यवत् : अश्वशब्दः,अश्वगतिविशेषः

जन्य : अश्वबालः

: विष्णोः_अश्वः, इन्द्राश्वः, कुलीनाश्वः, सम्यग्गतिमान्_वाजिः, वनायुदेशवाजिः, पारसीदेशवाजिः, काम्बोजदेशवाजिः, बाल्हिकदेशवाजिः, अश्वमेधीयवाजिः, अधिकवेगवाजिः, भारवाह्यश्वः, शुक्लाश्वः, रथवाहकाश्वः, अश्वबालः, श्रान्त्या_भूमौ_लुठिताश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्व¦ पु॰ अशनुते व्याप्नोति भार्गम् अश--क्वन्। घोटके
“गच्छन्तमुच्चलितचामरचारुमश्वम्” माघः।
“जितसिंहभयानागायत्राश्वा विलयोनयः” कुमा॰।
“अमृताद्वाष्पतोवह्नेर्वेदेभ्योऽण्डाच्च गर्भतः। साम्नो हयानामुत्पत्तिः सप्तघापरिकीर्त्तिताः इत्युक्तेस्तेषाममृताद्युत्पत्तिस्थानम्। [Page0499-a+ 38] हयोत्पत्तिस्थानसंख्यासाम्याच्च

२ सप्तसंख्यायाम्
“काष्ठतुल्यवपु-र्धृष्यो मिथ्याचारश्व निर्भयः। द्वादशाङ्गुलमेढ्रश्च दरिद्रस्तुहयो मत” इत्युक्तलक्षणपुरुषभेदे
“पद्मिनी शशके तुष्टाहये तुष्टा च हस्तिनीति” रस॰। अत्र प्रसङ्गात् अश्वाना-मङ्गविभागविशेषसंज्ञालक्षणादिकमुच्यते जयदत्तकृतादश्वशास्त्रात् सारांशः
“अतिप्रसिद्धा जिह्वा तु तस्याः शूनाभवेदधः। ऊर्द्धं तालु भवेत्तस्यास्ततोऽग्रे दन्तपी-ठकम्। ततोदन्ताः समुद्दिष्टा ऊर्द्धंदन्ता भवन्त्यधः। चिवुकं चाघरे भागे तेषां प्रोक्तं विचक्षणैः। चिवुकस्यो-परिष्टात्तु अधरोष्ठः प्रकीर्त्तितः। चिवुकात्पार्श्वभागेतु हनुर्नामाभिधीयते। सृक्वद्वयं विजानीयात् वक्त्रपा-र्श्वगतं बुधः। उत्तरोष्ठं प्रयाणाख्यं तदूर्द्धं प्रोथ उच्यतेनासाच्छिद्रेतथा पार्श्वेप्रोथस्यैव व्यवस्थिते। नासाच्छिद्राक्षि-मध्ये तु घोणाख्या समुदाहृता। घोणापार्श्वगतौ गण्डौ-क्षीरिके च ततःपरम्। नेत्रयोरुत्तरे भागे अश्रुपात उदाहृ-तः। कर्णान्ते चैव नेत्रान्तमपाङ्गं ब्रुवते बुधाः। कनी-निकाख्यो विज्ञेयो यश्च नासासमीपगः। सितासितौ चतन्मध्ये नेत्रयोर्मण्डलं हि तत्। प्रच्छादनं भवेद्वर्त्मचाक्षिकूटमतःपरम्। तस्मादूर्द्धं भ्रुवोर्लेखा ललाटं चतदुत्तरम्। ऊर्द्धं ललाटदेशात्तु केशान्तं च ततः श्रवः। ततः शिरो विजानीयात् श्रवादूर्द्धगतं बुधः। शिरः-पार्श्वगतौ कर्णौ तयोर्मूलं सकुन्तलम्। अपाङ्गाद्द्व्यङ्गुलेचैव शङ्खं विद्याद्विचक्षणः। शङ्क्षकर्णान्तरे चैव कटाक्षंसमुदाहृतम्। विदोमर्म्मविदुश्चैव कर्णस्याधः षडङ्गुले। घण्टाबन्धसमीपस्थो निगालः परिकीर्त्तितः। अधस्तलेनिगालस्य गलमाहुर्मनीषिणः। ततः कण्ठं विजानी-यादधोभागे नतं बुधः। ग्रीवा लोकप्रसिद्धा तुतस्याश्चोपरि केशरः। ग्रीवास्कन्धान्तरे चैव वाहं प्राहुर्म-नीषिणः। वाहस्योपरि यस्तु स्याल्काकसं ककुदं च तत्। ततः पृष्ठं विजानीयादासनं पृष्ठमध्यगम्। अंसके ककुदश्चैवनिबन्धः परिकीर्त्तितः। स्यातामंसादधोबाहू तयोर्बाह्ये-षडङ्गुले। मन्दिरः पश्चिमोमागः कलापी जानुनोऽग्रिमः। जानुनश्चाधरे भागे जङ्घां विद्याद्विचक्षणः। जङ्घापार्श्वेकलां विद्यात् सन्ध्यं चैषिकसंज्ञकम्। अग्रतः पालिहस्तःस्यात् पश्चात्कूर्च उदाहृतः। किणस्तत्रैव मध्यस्थोह्यधोभागेच कुष्टकी। खुरसन्धिं ततोविद्यादधोभागे ततः खुरम। खुरस्य पार्श्वे पार्ष्णिः स्यादग्रभागे नखो भवेत्। खुरस्या-धस्तलं चैव मण्डुकी तलमध्यगा। खुरमांसं विजानीयात्[Page0499-b+ 38] क्षीरकाख्यं विचक्षणः। हृदयात्परतः कुक्षी पार्श्वतश्चविभागतः। जठरं पार्श्वमध्यस्थं तस्य नाभिश्च मध्यतः। रोमराजीं ततो विद्यान्मूत्रकोशमतःपरम्। आ कट्याःपश्चिमे भागे पुटौ स्फिचौ च कीर्त्तितौ। पुच्छमूलं चवाहानां भाषते पुच्छमूलतः। तस्याधः कीर्त्तितः पायुःसीवनी च ततः परम्। मुष्कौ च कटिसन्धिं चततोविद्यात्परं बुधः। अधस्तात्कटिसन्धेस्तु ऊरुसन्धि-रुदाहृतः। सक्थिनी फलसन्धेस्तु ऊरू पादाभिधायके। ततः स्थूरं विजानीयात्तस्याधोमन्दिरं भवेत्। किणंचैव ततो विद्यान्मन्दिराख्ये सुसंस्थितम्। ततः परंविजानीयात् कालकूर्चं च कुष्टिकम्। खुरान्तसंज्ञंमण्डूकं ततो विद्याद्विचक्षणः। अग्रे जङ्घाद्वयं चैव वक्षोग्रीवाशिरोमुखम्। पूर्वकायःसमद्दिष्टः पृष्ठदेशस्तु मध्यमः। आ कटेः पश्चिमे भागे खुरान्तश्चापरं स्मृतम्”। ( तेषां लक्षणाणि
“अशुभैर्लक्षणैर्युक्ता हया न ग्रहणो-चिताः। अतो लक्षणमेवादौ तेषां वक्ष्यामि देहजम्। ओष्ठयोः सृक्वणोश्चैव जिह्वायां दशनेषु च। वक्त्रे तालुनिनासायां गण्डयोर्नेत्रयोस्तथा। ललाटे मस्तके चैव केशेकर्णपुटे तथा। ग्रीवायां केशरे चापि स्कन्धे वक्षसि बाहुके। ऊङ्घायां जानुनोश्चाधः कूर्चे पादे तथैव च। पार्श्वयोःपृष्ठभागे च कुक्षौ कट्यां सवालधौ। मेहने मुष्कयोश्चापितथा चैवोरुकद्वये। आवर्त्ते च खुरे पुच्छे गतौ वर्णे स्वरेतथा। महादोषे त्यजेत्प्राज्ञश्छायायां गन्धसत्वयोः। प्रमाणस्यैव वाहानां लक्षणं यत्प्रतिष्ठितम्। शुभा-शुभविवेकाय तद्विद्याद्वुद्धिमान्भिषक्। शालिहोत्रादि-भिःसम्यक् त्रिकालज्ञानकोविदैः। आताम्रौ पूजिता-वोष्ठौ बलिहीनौ मृदुत्वचौ। सुप्रोथोत्तरसंस्थं चविपरीतं विवर्जयेत्। सृक्वणोर्मृदुता शस्ता जिह्वायांरक्तता तथा। अतश्चान्यद्धि दोषाय न त्वदीर्घा च सा शुभा। घना स्निग्धा सुबद्वा च समा दन्ताः सुशोभनाः। षट्संख्येबन्धरे वृत्ते तेषु व्यञ्जनसंभवः। आयतं तुङ्गघोणं च निर्मांसंप्रियदर्शनम्। सुबन्धं पूजितं वक्त्रं विपरीतं विगर्हितम्। तालु-रक्तं प्रशस्तं च सुपुटे चैव नासिके। नातितनू समौ गण्डौवाहानां कीर्त्तितौ शुभौ। अत्यन्तनिर्गते चैव सुबद्धे नैवचाविले। प्रशस्ते वाजिनां नेत्रे मद्याभे मलतारके। स्रिग्धायते विशाले च श्रेष्टे मधुनिभाक्षिणी। कनक-प्रतिसंकाशे शस्ते वाहस्य लोचने। सावर्त्तं च विशालं चअनिम्नं चैव वाजिनः। ललाटं पूजितं प्राहुर्मुनयः शास्त्र[Page0500-a+ 38] कोविदाः। शिरः समं तथा वृत्तमावर्त्तद्वयभूषितम्। केशाश्चमृदवश्चैव बहवश्चैव पूजिताः। ऋजुता कर्णयोश्चैव तीक्ष्णतातनुता तथा। अदीर्घरोमता चैव प्रशस्ता विप्रकीर्त्तिता। सुवृत्ताङ्कुञ्चिताञ्चैव धन्यां ग्रीवां बिदुर्बुधाः। केशरश्चजटाहीनो मृदुश्चैव प्रशस्यते। सुबद्धश्च दृढश्चैव स्कन्धो-वाहस्य पूजितः। वक्षः प्रशस्त विपुलं निर्गतं विशरं चतत्। ऋजुवृक्षसमौ बाहूगूढं जानु प्रशस्यते। अवक्रामांसहीना च वाजिजङ्घा प्रशस्यते। शुभं स्मृतं सुवृत्तं चसमं चैव नतोन्नतम्। कूर्चमेवंविधं विद्याद्ग्रन्थिव्रणविव-र्जितम्। दृढमण्डकिकायुक्तो वर्त्तुलः श्लिष्टसन्धिकः। खुरः खरखुराकारः प्रशस्तः ससुदाहृतः। पार्श्वे चैव समेवृत्ते ऊर्द्ध्वमांसोपशीभिते। अविलम्बि सुवृत्तं च उदरंचातिपूजितम्। नातिदीर्घं समं पृष्ठं किञ्चिच्च विनतंशुभम्। सुवृत्ता चैव पीना च कटिर्धन्या प्रकीर्त्ति ता। मृदुस्निग्धायतैर्युक्तं बालैः प्रच्छं प्रशस्यते। वृषणौ च समौवृत्तौ ईषल्लम्बावलोमशौ। कृष्णवर्णविहीनं तु ह्रस्वं मेहन-मिष्यते। अनुपूर्वं परं चैव शोभनं चोरुकद्वयम्। पूर्व-जङ्घे च जङ्घादि खुरान्तं चापि पश्चिमम्। शालिहो-त्रादिभिः प्रीक्तं मुनिभिः पूर्ववेदिभिः”। ( आवर्त्तलक्षणम्
“विंशतिस्तु शुभाः प्रोक्ताः षट्सप्तत्यशुभाः” स्मृताः। उत्तरोष्ठप्रपाणस्थास्तत्रावर्त्ताः शुभावहाः। सृक्वणोश्चथा प्रोक्ताः सर्वकामफलप्रदाः। त्रयश्चैवाथ चत्वारो वाजिनो-र्यस्य रोमजाः। द्वौ वा ललाटजौ यस्य स तु धन्यतमः स्मृतः। आनुपूर्ब्ब्या स्थिताश्चोर्द्ध्वं ललाटे रोमजास्त्रंयः। निःश्रेणीनाम सा ख्याता भर्त्तुः सर्वार्थसाधिनी। शिरःकेशान्त-योर्म्मध्ये श्रवोनामाभिधीयते। तत्रावर्त्तः स्थितोऽश्वस्यभर्त्तुर्ज्जयविवर्द्धनः। घण्टाबन्धसमीपस्थो निगालःकीर्त्तितों बुधैः। तस्मिन्देवसणिर्नाम रोमजः शुभकृत्स्मृतः। कर्णमूले तथा बाह्वोः केशान्ते मस्तके तथा। आवत्तोः पूजिता नित्प विशेषेण तु मस्तके। आवर्त्ता यस्य चत्वारो वाजिनो वक्षसि स्थिताः। एकाकण्ठे भवेत् स्पष्टं स धन्यः सर्वकामदः। रन्ध्रे चैव सदाभर्त्तुः शंसितार्थप्रदोमतः। उपरन्ध्रोद्भवश्चैव रोमजश्चातिपूजितः। शङ्खचक्रगदापद्मशुक्तिवज्रोपमाश्च ये। विशेषेणशुभाः प्रोक्ता रोमजाः शुभदेशजाः। अत ऊर्द्ध्वं प्रव-क्ष्यामि रोमजानशुभाय यान्। भर्त्तुः क्लेशवहान् सर्बा-न्धनप्राणापहारकान्। नासिकापुटयोर्मध्ये प्रदेशःप्रोथ उच्यते। तत्र भर्त्तुर्विनाशाय रोमजोऽश्वस्थ[Page0500-b+ 38] कीर्त्तितः। ऊर्द्ध्वस्थो नासिकाच्छिद्रात् स्वामिनः क्लेश-दायकः। गण्डजश्चैव भर्त्तारं हन्त्यावर्त्तो दुरासदः। अश्रुपातः समुद्दिष्टः प्रदेशश्चक्षुषोरधः। तत्रावर्त्तीभवेद्धीनःस्वामिनः कुलनाशनः। अपाङ्गाद्द्व्यङ्गुले चैव प्रदेशःशङ्ख उच्यते। तत्र भर्त्तुर्विनाशाय भवेद्वाहस्य रोमजः। भ्रुवो देशे समुद्भूत आवर्त्तो नैव पूजितः। सुहृद्वियोगकृत्स-स्याद्भर्त्तुरर्थावसादकः। सव्यां ग्रीवां शिरां विद्यात्तत्रावर्त्तस्तुकुत्सितः। कक्षयोश्चापि संग्रामे स्वामिनं चाशु घातयेत्। चिवुकस्य समीपस्थो वामदक्षिणभागतः। प्रदेशस्तु हनुर्नामतत्रावर्त्तो हि दारुणः। अधरोष्ठस्य चाधस्तु चिवुको हिप्रसिद्धकः। तस्मिन् पापो भवेद्भर्त्तुः कर्णयोश्चापि रोमजः। कण्ठस्याथ निगालस्य मध्ये वालक उच्यते। तत्रावर्त्तःस्थितः पापः स्कन्धसन्धिगतश्च यः। अधस्ताज्ज्वङ्घयो-श्चैव ग्रन्थिः कूर्च इति स्मृतः। तत्रावर्त्तः स्मृतो भर्त्तुःसंग्रामे जीवितान्तकृत्। कूर्चादष्टाङ्गुलं चोर्ध्वं पार्श्वयोःककता स्मृता। तत्र भर्त्तुः शराघातै र्जीवितान्ताय रोमज। ककुदं वृषभस्येव सुव्यक्तमुपलक्ष्यते। वाजिनो यस्य तत्रस्थआवर्त्तस्तु विनाशकृत्। ककुदस्य पुरोभागे समीपे वाहउच्यते। भर्त्तुः सुतसमेतस्य तस्मिन् नाशाय रोमजाः। काकसे तु हयस्य स्यादावर्त्तों यस्य दारुणः। रणे हतः समंभर्त्त्रा कृव्यादैः स विलुप्यते। क्रोडे चैवासने चापि हृदयेर्चव वाजिनः। आवर्त्ताः स्वामिघाताय भवन्त्ये ते नसंशयः। पार्श्वयोरोमजो यस्य स चाश्वोनयति क्षयम्। सपक्षंचाशु भर्त्तारं नीहाराम्बु यथाम्बुजम्। कूर्चस्याधःप्रदेशस्तुकुष्टिश्च परिकीर्त्तितः। अधन्यस्तत्र वाहस्य जघन्यो जानु-जश्च यः। नाभिजोमुष्कजश्चैव त्रिकजश्च विशेषतः। पुच्छमूलस्थितश्चापि नैव धन्यः प्रकीर्त्तितः। कुक्षौव्याधिः, क्षयायेव रोमजाः कुक्षिसंभवाः। पायुत्रि-बलिमध्यस्था नैव धन्या प्रकीर्त्तिताः। स्फिचिजः खुरजश्चैवयस्यावर्त्तो हि वाजिनः। लञ्जावर्त्तः स विख्यातो भर्त्तुःसर्वार्थनाशकः। शतपादीति विख्यातस्तथा वै मुकुलोऽपरः। आवर्त्तश्चैव संघातः पादुकश्चार्द्धपादुक्रः। शुक्तिश्चैवावली-ढश्च आवर्त्तः कीर्त्तितोऽष्टधा। वाजिदेहगतः सम्यक्शुभाशुभनिवेदकः। शतपादीसमाकारः शतपादीतिकीर्त्तितः। जातीमुकुलसंकाशो मुकुलः समुदाहृतः। आवर्त्तोभ्रमितो बालैः संघातो रोमपुञ्जकः। शुक्तिश्च शुक्तिसंस्थानै-रोमभिर्व्यक्तलक्षणैः। एतेषामेव लीढस्तु अवलीढः प्रकीर्त्तितः। पादुकः पादुकाकारस्तथाचैवार्द्धपादुकः। बालै-[Page0501-a+ 38] र्विशेषसंस्थानैर्निर्द्दिशेन्मतिमान्भिषक्। शास्त्रमार्गा-नुसारेण यथा प्रोक्तं तपोधनैः एतेषामेव सर्वेषामावर्त्तानांविचक्षणैः। रोम्णां तिलकृता संज्ञा वाजिलक्षणवे-दिभिः। शुभाशुभौ तु यत्र द्वौ तत्रैको न फलप्रदः। एवं हेम्ना दहेत्पापं तेन दोषो न दुष्यति। अथ वावाजिनो मुख्याः ये चाङ्गादिगुणाधिकाः। दत्त्वाग्राह्याः क्रयेणैव दुरावर्त्तस्तु काकूदी। श्रीवृक्षो रोमज-श्चैव रोचमानस्तथैव च। अङ्गादी पेषली नाम राज-रत्नप्रदाः सदा। प्रयाणे मारुतं विद्याल्ललाटे च हुताशनम्। उरसि चाश्विनौ देवौ चन्द्रासूर्य्यौ च मूर्द्धनि। रन्ध्रे स्कन्द-विशाखौ च उपरन्ध्रे हरीहरौ। इत्येवं पूजिताह्ये तेदशबन्धास्तु वाजिनः। अप्येकेन विहीना ये भवेयुर-शुभास्तदा”। ( अथ पुण्ड्रलक्षणम् अत ऊर्द्ध्वं प्रवक्ष्यामि पुण्ड्राणांलक्षणम् शुभम्। शुक्तिशङ्खगदापद्मखड्गचक्राङ्गुशोपमाः। शिरोललाटं वदनं यः पुण्ड्रो व्याप्य तिष्ठति। स धन्यःपूजितोनित्यं मृदुकश्चैव योभवेत्। पर्वतेन्दुपताकाभा ये चस्रग्दामसन्निभाः। ते सर्वे पूजिताः पुण्ड्रा धनधान्यफल-प्रदाः। इति पुण्ड्राः समाख्याताः पूर्व्वशास्त्रानुसारतः। अशुभांश्चैव वक्ष्यामि--यथायीगं समासतः। काककङ्कक-बन्धाहिगृघ्रगोमायुसन्निभाः। असिताः पीतका रक्ताःपुण्ड्रका न च पूजिताः। तिर्य्यगगाश्चैव विच्छिन्नाः शृङ्ल-लापाशशोभिताः। जिह्वाकृष्णाक्षिरूक्षाणि भस्मवर्ण्ण-निभानि च। शूलाग्रा वामदेहस्थाः पुण्ड्रका न शुभप्रदाः। पुण्ड्रकाणि विनश्यन्यि भिन्नवर्ण्णानि वाजिनः”। ( अथ पुष्पलक्षणम्।
“आगतं वत्सरन्तस्य ये भवन्त्यन्यव-र्ण्णकाः। विन्दवः पुष्पसंज्ञा वा हिताहितत्वकारकाः। तेषांप्रदेशभेदे च लक्षणं यद्व्यवस्थितम्। तत्तथैव समासेन विस्पष्टंकीर्त्त्यतेऽधुना। प्रपाणे च ललाटे च कचे मूर्द्धनि कर्णयोः। निगाले चैव केशान्ते पुष्पं धन्यतमं स्मृतम्। स्कन्धे वक्षसिकक्षे च मुष्कयोर्बाहुके मुखे। हनौ पृष्ठे च वाहानां पुष्पंस्वामिहितप्रदम्। नाभौ केशे तथा कण्ठे दन्ते चैव हिवाजिनाम्। पुष्पं धन्यतमं प्रोक्तं भर्त्तुः सर्वार्थसाधकम्। अप्रशस्तानि दृष्टानि मुनिभिर्यानि शास्त्रतः। तानि सम्यक्प्रवक्ष्यामि पुष्पाण्यन्यानि दर्शनात्। अधरोष्ठे करे प्रोथेउत्तरोष्ठे तथैव च। घोणायां गण्डयोश्चैव शङ्खयोश्च तथाभ्रुवोः। ग्रीवायां चैव वाहे च सृक्कणोःस्थूरकेस्थिचि। पायौ क्रोडे च पुष्पाणि निन्दितानीति निश्चयः। [Page0501-b+ 38] रक्तं पीतं तथा कृष्णं पुष्पं सर्वत्र नेष्यते। शुभप्रदेशेसञ्जातं भवेत्साधारणं ततः। पुत्रलाभधनप्राप्तिमारोग्यंविजयं तथा। विद्यात्पुष्पैः शुभैर्भर्त्तुरशुभैश्च विपर्य्ययम्। सर्वाङ्गपुष्पितो वाहो परित्याज्यो न संशयः”। ( अथ गतिशुभादिलक्षणम्
“दूरमुत्क्षिप्य यः पार्दा-स्तप्तांगारान् स्पृशन्निव। पुलं याति शुभं हृष्टो वाजी भद्र-गतिस्तुसः। पूजिता वृषमातङ्गसि हशार्दूलगामिनः। अतो-ऽन्यगतयो नेष्टाः मर्वशुद्धतुरङ्कमाः। संकीर्णा एकतोभ्रष्टाचङ्क्रमौध विवर्जिताः। अत्यूर्द्धा चैव वक्रा च वाजिनां निन्दितागतिः। षोडशाछोटिकाभिस्तु करवेष्टितजानुभिः। शतं द्विगु-णितं गत्वा हस्तानां पुनरेति यः। स शीघ्रगतिरित्युक्तो वाजीधन्यस्तपोधनैः। दशहीना भवन्त्येते मध्यमाधमगा हयाः। ( अथ वर्ण्णभेदेन नामभेदः
“श्वेतः कोकाह इत्युक्तः कृष्णःखुग ह उच्यते। पीतको हरितः प्रोक्तः कषायो रक्तकः स्मृ-तः। पक्कतालनिभो वाजी कयाहः परिकीर्त्तितः। पीयूषव-र्णः सेराहो गर्दभाभः सुरूहकः। नीलो नीलक एवाश्वःत्रिपूहः कपिलः स्मृतः। शिलहः कपिशो वाजीपाण्डुकेशः सुबालधिः। हलाहश्चित्रकश्चत्रिपुलाहःश्वेतपीतकः। ईषत्पीतः कुलाहस्तु यो भवेत् कृष्णजा-नुकः। कृष्णा चास्ये भवेद्रेखा पृष्ठवंशानुगामिनी। उराहःकृष्णजानुस्तु मनाक्पाण्डुस्तु यो भवेत्। वेरुहाणः स्मृतोवाजी पाटलो यः प्रकीर्त्तितः। रक्तपीतकषायोत्थो वर्णजोयस्य दृश्यते। दुकुलाहःस विख्यातो वर्णो वाहस्य देहजः। पूंर्वोक्तानां च वर्ण्णानां मुखपुण्ड्रेण वाजिनाम्। ये भवन्तिपरे भेदास्तान् ब्रवीम्यनुपुर्वगः। कोकाहः पुण्ड्रिकोनाखः कोकुराहः प्रकीर्त्तितः। खुराहखरगाहौ चहरिकोहरिराहिकः। कलाहश्चैव वोल्लाहः सिराहःसिहुराहकः। कुलाहः कुलुराहस्तु सराहः शुभरा-हकः। चारुराहो जयेदश्वो वोरुराहो न यः स्मृतः। कुलीही दुरुणाहस्तु युद्धके नैव कोर्त्तितः। त्रिपुहस्त्रि-पुक्षाहश्च युद्धके नैवकीर्त्तितः। त्रिपुहस्त्रिपुलाहश्च चित्र-लाङ्गश्च यो भवेत्”। ( अथ रोमवर्ण्णभेदेन शुभाश्रुभलक्षणम्।
“यस्य गौराणिपीतानि गात्ररोमाणि वाजिनः। स भर्त्तुः श्रिव-माधत्ते यस्य शुक्लासितानि च। यस्य पादाः सिताःसर्वे पुच्छं वक्षो मुखं तथा। ऊर्द्ध्वजङ्घा सिता यस्य त विद्या-दष्टमङ्गलम्। प्रभूतासितताराश्च प्रशस्ता मुनिभिः स्मृताः। यस्तु पीतासितैस्तारैः स घन्यः कीर्त्तितो हयः। प्रशस्तः[Page0502-a+ 38] कृष्णतारस्तु मल्लिकाक्षः प्रकीर्त्तितः। श्वेतजावेष्टितं कृष्णरेखया तारकं च यत्। मल्लिकाक्षः सविज्ञेयः स्वामिनःसुखवर्द्धनः। सिततयाऽप्रशस्तश्च स्वामिनः क्लेशवर्द्धनः। सर्वश्वेतश्च कृष्णश्च रक्तपीतस्तथैव च। एते सांग्रामिकाःप्रोक्तास्तुरगा मुनिसत्तमैः। हरिताः किल जायन्तेवाजिनः पुण्यदर्शनाः। यतो हिता नरेन्द्राणामायुरारोग्यश्रीप्रदाः। रक्तास्यमेहनः शस्तः श्यामकर्ण्णस्तु यःसितः। कपोतेन च वर्णेन योहयः शुक्लकेशरः। शुक्लपा-दमुखो वाजी प्रशस्तः परिकीर्त्तितः। चतुर्णां चैवपादानां शुक्लता यस्य वाजिनः। मुखं सिततरं चैव पञ्च-भद्रः स उच्यते। श्वेतमण्डलचित्रश्च भर्त्तुः सर्वार्थ-साधकः। पाण्डुरा यस्य रेखा स्यात् पृष्ठवंशानुगामिनीश्वेतकृष्णशिरा यश्च नैव धन्यः प्रकीर्त्तितः। अन्यवर्णंशिरो यस्य पुच्छ वा यस्य वाजिनः। पुच्छेन शिरसावापि नानावर्णेन निन्दितः। अव्यक्तवर्णो योवाहस्तथा ति-त्तिरिसन्निभः। कुत्सितो वानराक्षश्च यीवा व्याघ्रावलीढकः”( तथाङ्गविकृतितोऽशुभलक्षणम्।
“काकुदी कृष्णजिह्वश्चकृष्णसेफाण्डतालुकः कराली हीनदन्तश्च शृङ्गी वाधिक-दन्तकः। एकाण्डश्चैव जाताण्डः कञ्चुकी त्रिसरीतथा। मार्ज्जारपादो व्याघ्राभस्त्रिकंर्णी द्विखुरी स्तनी। यमयो वामनश्चैव काकतित्तिरसंनिभः। वानराक्षोविडालाक्षो मुशली चेन्द्रवृद्धिकः। येषां पृष्ठे हतो भर्त्ताऽजातदन्तस्तथैव च। एते दोषान्विता वाहास्त्याज्या वैभूतिमिच्छता। धनप्राणहराह्येते बन्धुविग्रहकारकाः। एषांचिह्नं प्रवक्ष्यामि येन जानन्ति सादिनः। पूर्ब्बशास्त्रानुसारेणमुनीनां वचनं यथा। आवर्त्ता यत्र ककुदे काकुदी स उदा-हृतः। करालैर्वाधरे दन्तैर्ज्जायते यस्य चोत्तरम् चतुर्भिःपञ्चभिश्चैव हीनदन्तः प्रकीर्त्तित्लः। सप्तमिश्चाष्टभिर्दन्तैर्ज्जातश्चाधिकदन्तकः। अङ्गुष्ठपर्वसंकाशं छागशृङ्गोपमन्तथा। जम्बूवदररूपं च तथा चामलकोपमम्। आम्रास्थिसदृशंचापि हरीतक्याः फलोपमम्। दग्धचर्म्मनिभं चापि बालंसंस्थानमेव च। कालङ्कर्णान्तरे यस्य केशान्ते चापि दृश्यते। धोरेयः सर्वपापानां वाहः शृङ्गी स कीर्त्तितः। एवंविधेनशृङ्गेण शृङ्गी राष्ट्रे न वासयेत्। एकतोलप्रमाणेनमुष्केणैकाण्डसंज्ञकः। अत्यन्तरोमशाभ्यां तु ताभ्यां जाताण्डउच्यते। स्कन्धे वक्षसि बाह्वोश्च अंसदेशे तथैव च। अन्यवर्णो भवेद्वाजी कञ्चुकी स प्रकीर्त्तितः। यस्यान्यवर्णारेखा स्यात्पादे कूर्च्चे च वाजिनः। मार्ज्जारपादः प्रोक्तो-[Page0502-b+ 38] ऽसौ सोऽधन्यः कुलनाशनः। अन्यवर्णस्य वाहस्य शिरःकृष्णं यदा भवेत्। त्रिसरी नाम स प्रोक्तो भर्त्तुः कुल-विनाशनः। द्विखुरं गोखुराकारखुरैर्विद्याद्विचक्षणः। अथ वा त्रिबलियुक्तै र्निम्नमध्यैश्च निर्दिशेत्। वृषणाभ्यांसुजाताभ्यां स्तनाभ्यां विहिता स्तनी। त्रिभिः कर्णैस्त्रि-कर्णी च व्याघ्राभो व्याघ्रवर्णकः। एकेनाङ्गेन हीनेननिम्नेन च विशेषतः। यमयं वाजिनं विद्याद्वामनंवामनाकृतिम्। वर्णादेकेन पादेन अन्यवर्णेन यी हयः। मुसलीति स विख्यातो भर्त्तुः कुलविनाशनः। विरोधं नैवयो याति दृष्ट्वाश्वान् मुष्कवर्जितः। इन्द्रवृद्धिः स विख्यातोभर्त्तुः कुलविनाशनः। अथ चेद्बडवां दृष्ट्वा विरोध-मधिगच्छति। निगूढ वृषणाख्यस्तु स धन्यः सर्वकामदः। द्विवर्षं तु समारभ्य यावद्वा पञ्चवार्षिकः। दन्तानां मुषक-योश्चैव सम्भवो वाजिनः स्मृतः। अत ऊर्द्ध्वं न जायन्तेमुष्कौ दन्ताश्च वाजिनः। अशुभं तु फलं वाच्यमभावे नततस्तथा”। ( अथाश्वाङ्गचेष्टादिशुभाशुभम्। अतःपरं प्रवक्ष्यामि तुर-गाणां विभागतः ज्वलितेन यथाङ्गेन फलं वाच्यं शुभा-शुभम्। यदा ज्वलति वाहानां सर्व्वगात्रे हुताशनः। तदाविद्यादनावृष्टिमव्दमेकं न संशयः। अन्तःपुरविनाशस्तुमेहनेज्वलिते भवेत्। उदरे वित्तनाशस्तु पायौ पुच्छेपराजयः। उत्तमाङ्गे च वक्त्रे च स्कन्धे चैवासनेतथा। भर्त्तुर्जयाय वाहानां ज्वलनं यत्र नेत्रके। धूमं ललाटे बाह्वोश्च तथा वक्षसि निन्दितम्। तत्रैवज्वलनं शस्तं तथा नासासमुद्भवः। यदा व्याधिं विनावाजी ग्रासं त्यजति दुर्म्मनाः। अश्रुपातं च कुरुते तदाभर्त्तुरशोभनम्। स्वयमेव यदा वक्त्रं हृष्टो लोकयते हयः। रवङ्कायप्रदाने तु तदा विद्याज्जयं प्रभोः। सर्वैदेव शिरो-घ्नस्तु सर्वेषां नैव पूजितः। वामपादाभिघातस्तु प्रभीर्या-त्रानिषेधकः। स्वामिनारूढमात्रेण दक्षिणं पार्श्वमात्मनः। तुरङ्गमो यदा न्यस्येत्तदा भर्त्तुर्जयो भवेत्। पुच्छंवाहं यदा वाहो वामतो विकिरेद्यदा। तदा भर्त्तुः प्रवासःस्यात् दक्षिणे विजयस्तया। प्रकिरन्ति यदात्यर्थं सर्व पुच्छ्वंतुरङ्गमाः। अकस्मादेव जाता च तेषां भीतिः प्रभोःस्मृता”। ( अथाश्वमानम्
“हस्तोऽङ्गुलानां विंशत्या चतुरुत्तरया स्मृतः। चतुर्हस्तस्तु विख्यातः शास्त्रोक्तेनोत्तमो हयः। अर्द्धहस्तेनहीनस्तु भवेन्मध्यस्तुरङ्गमः। मुष्टिन्यूनेन हस्तेन हीनश्चाप्य-धमः स्मृतः। ऊर्द्ध्वमानप्रमाणं तु परिणाहं विनिर्दिशेत्। [Page0503-a+ 38] उत्तमानाञ्च मध्यानां होनानां चैव वाजिनाम्। अर्द्धसप्त-महस्तं तु श्रेष्ठं दैर्व्येण निर्दिशेत्। षड्भिश्च मुष्टिभिहीर्नंमध्यमं च विचक्षणः। पञ्चहस्तप्रमाणस्तु जघन्यः समुदाहृतः। द्वात्रिंशदङ्गुलं वक्त्रमुत्तमाश्वस्य कीर्त्तितम्। पृष्ठं वक्षः कटींचैव मुखतुल्यं समादिशेत्। अङ्गुलीद्वयहीनं तु मुखादि मध्य-माधमम्। निर्दिशेन्मतिमान्वैद्यः वाजिशास्त्रविशारदः। स-प्ताङ्गुलं खुरं चैव उत्तमाश्वस्य कीर्त्तितम्। षडङ्गुलं भवे-न्मध्येजघन्ये चतुरङ्गुलम्। षोडशाङ्गुलदीर्घा तु जङ्घा चैवो-त्तमे हये। चतुर्दशाङ्गुला मध्ये हीने च द्वादशाङ्गुला। एवंविधं प्रमाणं तु निर्दिष्टं शास्त्रशालिभिः। अपाङ्गात्पुच्छमूलं तु दैर्व्येणाश्वं प्रमाणयेत्। खुरान्तात् ककुदंयावदूर्द्धमानेन बुद्धिमान्। वक्षोभागे तु सर्बेभ्यो रज्ज्वावा सूत्रकेण च। परिणाहं तुरङ्गस्य मापयेन्मतिमान्भिषक्। एवं प्रमाणभागेन विभक्ताङ्गश्च पूजितः। अतो हीनाधिका-ङ्गाश्च हरयो नैव पूजिताः”। आवर्त्तादिकं विशेषयति हेमा॰ प॰ ख॰ ज्योति॰ पराशर-संहिता।
“आवर्त्तो बहिर्मुखवृत्तमण्डलरोमा, दीर्घवृत्तार्द्ध-रोमा शुक्तिः। कनकमन्तर्मुखवृत्तरोमसंघातं, प्रफुल्लविकच-रोम पुष्परमिति”। पुष्पं विशेषयति तत्रैव।
“श्वेतं स्निग्ध-मन्यवर्ण्णस्थ प्रशस्तंश्वेतस्य कृष्णं पीतं रूक्षंरक्तं वा। यस्या-न्यवर्णं ललाटे श्वेतं बालेन्दुतारकसंस्थानं वा पुष्पम्”। ( अयाश्वायुर्लक्षणम्
“आयुर्लक्षणमश्वानामतऊर्द्ध्वं प्रव-क्ष्यते। शालिहोत्रादिनिर्दिष्टं यथा पूर्ब्बं तपोधनैः। सु-संहताश्च ये वाहा ह्रस्वकर्णास्तथैव च। स्वरनेत्रस्व-भावेषु न दीनाश्चिरजीविनः। महाघोणा महाका-याये चाश्वाः पृथुवक्षसः। तेषां दीर्घं भवेदायुः स्निग्धा-ङ्गाश्चैव ये सदा। कर्णाग्रे पीडिते येषां सिन्दूराभस्यदर्शनम्। शोणितस्य भवेत् क्षिप्रं ते मताश्चिरजीविनः। न विष्किरन्ति ये बालं खपासाय तुरङ्गमाः। न वाजिघ्रन्ति ये चापि तेऽपि दीर्घायुषो मताः। कुष्टिकानांकिणा येषां दृश्यन्ते वाजिनां स्फुटाः। प्रतिस्रोतः पिबन्त्यम्भो ये च ते दीर्घजीविनः। पद्मपत्रदलाकारं जिह्वाग्रंयदि वाजिनः। दन्ताश्च मौक्तिकाकारा लिङ्गं येषां चनिर्मलम्। सीत्कारं च भवेद्येषां लाङ्गूले चालनं पुनः। प्रस्वेदः शुभगन्धस्तु नखा वा दर्पणोपमाः। येषां च दृढ-रोमाणि ते सर्वे चिरजीविनः। स्निग्धा गम्भीरदीर्घाश्चप्रोथगा यस्य वाजिनः। भवन्ति विपुला रेखास्तं विद्या-द्दीर्घजीविनम्। छत्रचामरशृङ्गारखड्गशङ्खाङ्गुशानिभाः। [Page0503-b+ 38] शुक्तिवज्रगदाकारा ध्वजपद्मसमोपमाः। श्रीवृक्षस्वस्ति-काभासाः प्रोथरेखाश्चिरायुषाम्। ऊर्द्ध्वं प्रोथोत्थितारेखा यस्यवामेन चानता। ह्रस्वा वा यस्य वाहस्य नचिरं तस्य जीवितम्। ऊर्द्ध्वं प्रोथसमा रेखा दृश्यते यस्यवाजिनः। तस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरम्। त्र्यङ्गुला चेद् दश द्वे च वर्षाणां तस्य जीवितम्। त्रयो-दशाव्दं स जीवेद्यस्यास्ये चतुरङ्गुले। तिर्यग्गे चोर्द्धगेस्यातां द्वे रेखे चैव वाजिनः। प्रोथगे वाथ वाहस्य तस्यविद्याच्चतुर्द्दश। दक्षिणेन च पार्श्वेन यः शेते सर्वदाहयः। बहुमूत्रोऽल्पमूत्रश्च चिरं जीवति नो हयः। विनतः पूर्ब्बकायेन स्थूलजानुश्च योहयः। शूनाक्षिकूटस्त-ब्धाक्षः स्वल्पायुः स प्रकीर्त्तितः। जातन्दन्तद्वयं बाल्येपतत्यव्दे तृतीयके। चतुरो दशनान् विद्याच्चतुर्थे पतितो-त्थितान्। पञ्चमे पतितोद्भूतान् षट् च दन्तान् मनीषिणः। षष्ठाव्देषु च वर्षेषु कालिकादिसमुद्भवः। कालिका हरिणीशुक्ला कृष्णा काचा समक्षिका। शङ्खा चैव क्रमेणाश्व-वयसः परिसूचिकाः। वक्त्रान्ते कालिका रेखा कृष्णादन्ताग्रसंस्थिता। षष्ठे च सप्तमे वर्षे चाष्टमे च भवेत्क्रमात्। आपीता हरिणी ज्ञेया कालिका स्थानमाश्रिता। नवमे दशमे वर्षे भवेदेकादशे तथा। कृष्णा चैव भवेच्छुक्तादन्ते मूर्द्ध्नि समुद्भवा। द्वादशाव्दं समारभ्य भवेद्याव-च्चतुर्द्दशम्। सिता सिद्धार्थकाकारा काचेति परिकीर्त्तिता। पञ्चदशाव्दमारभ्य यावत्सप्तदशादितः। मक्षिका मक्षि-कांकारा भवेदष्टादशादिषु। विंशत्यन्तेषु वर्षेषु वाजिनांदशनोद्भवा। त्रयोविंशावसानेषु एकविंशादिषु त्रिषु। शङ्खाकारा भवेच्छङ्खा प्रयुक्तस्थानमाश्रिता। छिद्रंच चलनं चैव तथा पातश्च षष्टितः”।
“अतिबद्धाःकषायाश्च तनवश्चेति तत्त्रयः। ते भवन्ति द्विवर्षस्य युक्ताश्चैवद्विजन्मना। ईषच्च शिरसः सूक्ष्मा भवेच्च पतितोत्थिता। खल्लाग्रा विपुला दन्ता भवन्ति पतितोत्थिताः। खल्लभागेविनापूर्णे व्यञ्जनानां न सम्भवः। पूर्णेषु खल्लभागेषुजायन्ते कालिकादयः। निम्नं कृष्णं च दन्ताग्रं खल्लमित्यभिधीयते। पूर्णतां चास्य जानीयात् षष्ठप्रभृतिवत्सरे। खल्लेषु कालिकायाति नैव कार्य्या विचारणा। नियताकालिका रेखा सुपूर्णे दन्तमस्तके। द्वयोर्भवति षष्ठे द्वेचतुर्णां सप्तमे तथा। खल्लमष्टसु वर्षेषु दन्तानां कालिकाक्रमात्। कालिकानुक्रमेणैव हरिण्यादिषु बुद्धिमान्। द्वौद्वौ वर्षेण जानीयाद्वाजिनां व्यञ्जनं प्रति”। [Page0504-a+ 38] देशभेदजाश्वलक्ष्म
“अश्वानां जन्मदेशांस्तु प्रवक्ष्याम्यनुपू-र्व्वशः। उत्तमानां च मध्यानां हीनानां चैव संमतान्। उत्तमास्त्वधिकाः प्रोक्तास्तथापारसिकाश्च ये। कोङ्कणा-श्चैव ये वाहा पृष्ठजा ये च कीर्त्तिताः। उरौजाताश्चकीराश्च तुरुष्का माण्डवाश्च ये। पार्ब्बताः सैन्धवा मध्यास्तथा सारस्वता हयाः। संभलाश्चाष्टलाश्चैव जटा-देशोद्भवाश्च ये। अधमाष्टङ्कणैः सार्द्धंये च प्राग्दक्षिणो-द्भवाः। वृत्तदीर्घाञ्चितग्रीवाह्रस्वकर्णा महाहयाः। महा-काया महोरस्का निस्त्रासास्तेऽधिका मताः। अत्यन्तंविनतं येषां निर्म्मासं च मुखं भवेत्। पीनेन कटिदेशेनमुखराश्च भवन्ति ते। अध्वन्याश्च महासाराः संग्रामे चैवपूजिताः। अपि शस्त्रहताङ्गश्च नैव मुञ्चति सादिनम्। पारसीकोऽधिकस्तस्मात् कोङ्कणाः किञ्चिदूनकाः। स्थूलाःस्थूलशारीराश्च प्रस्थाने दीर्घपृष्ठकाः। कोङ्कणदेशजातानांमध्यमानां च वाजिनाम्। नाधिकैः सदृशं वक्त्रंबाहुल्येन विनिर्देशेत्। सुवृत्तदेहतीक्ष्णश्च स्वप्रमाणेनमध्यमः। उरुजातः समुद्दिष्टः किञ्चित्स्थूलो मनाग्जवः। अतिस्थूलोऽतितीक्ष्णश्च ह्रस्वग्रीवोरुकस्तथा। तुरुष्कःकीर्त्तितो वाजी स्थूलवक्रमुखश्च यः। कोङ्कणाकारदेहस्तुभवेन्माण्डविको हयः। शान्त्या चैव प्रसाणेन केवलंनैव तत्समः। सिब्धुदेशोद्भवो वाजी पृष्ठजश्चारुकोरुकः। आननं चापि दीर्घं च तस्य पृष्ठं प्रकीर्त्तितम्। शान्त्या चैवजवेनापि रणशूरस्त्वयंमतः। सादिभक्त्येच्छया याति-ताजिकादधिकस्तथा। परिमण्डलदेहास्तु तीक्ष्णकर्ण्णमुखाहयाः। पृष्ठदेशोद्भवा दृष्टास्तथा सारस्वताश्च ये। लम्बकर्णजटश्चैव आष्टलः परिकीर्त्तितः। सम्भलः श्लिष्टजानुश्चपदा पश्चाद्बलोपमः। वर्त्तुलाश्चापि ह्रस्वाश्च टङ्कणाः परि-कीर्त्तिताः। दाक्षिणात्यो भवेत्कुण्ठो योऽधन्यः सर्ववाजि-नाम्। जवहीना महादुष्टा पूर्ब्बदेशसमुद्भवाः। वाजिवद्देशजानांच वेशं विद्याद्विचक्षणः”। ( अथाश्वानां विप्रादिजातिः
“साम्येन जायते जातिर्ज्जातिरूपेण वाहयेत्। साम प्रदानं दण्डं च त्रिविधंविनियोजयेत्। त्रासी लुब्धोदयालुश्च विप्रः स परिकी-र्त्तितः। शूरश्च दृढमन्युश्च क्षत्रियस्तुरगः स्मृतः। पापिनः कल्परूपाश्च दुष्टाः वैश्याः प्रकीर्न्तिताः। विरूपाविषमाश्चैव शूद्राश्चण्डा उदाहृताः। ब्राह्मणान् शक्तिदानेनसाम्ना चैव तु क्षत्रियान्। वैश्यान् दण्डेन शब्देन शूद्रान्दण्डेन वाहयेत्”। [Page0504-b+ 38]( अथ भद्रजात्यादि हेमा॰ प॰ ख॰।
“युद्धेऽध्वनि तथाग्तौ चसमः पीडां नियच्छति। योवा व्रजति शीघ्रंच येन केनचिदा-सितः। धृतिं गच्छति सर्वत्र भद्रजातिस्तुरङ्गभः। मङ्गल्योलक्षणैर्युक्तः किञ्चित्त्वेव विगर्हितः। शीघ्रं गृह्णातिशिक्षां च क्षिप्रं च प्रतिमुञ्चति

१ । रात्रौ स्वपिति न तथा-ह्न्युपविष्टस्तुरङ्गमः। तुरङ्गमाणां क्रोधीव कामी चेर्षालुरेवच। आदौ शूरस्ततः पश्चाद्भीतत्वमुपगच्छति। न केनापिप्रकारेण चिरं पालयते तु यः। एवविवस्तु विज्ञेयोमन्दजातिस्तुरङ्गमः

२ । ईर्ष्यी भीतस्तथा त्रासी तथा सर्वत्रशङ्कितः। प्रसार्य्य गात्रं सकलं दिवा वा यदि वा निशि। सततं जातनिद्रोऽन्यान् वाधते च तुरङ्गमान्। न चवेत्ति प्रकरांश्च म्नानिं शीघ्रं च गच्छति। न च तुष्टिंसमाप्नोति मृगजातिस्तुरङ्गमः

३ । मिश्रैर्गुणैः स्यान्मि-श्राख्यस्तथैव बडवा गुणैः

४ । भद्रः श्रेष्ठोहयोज्ञेयो जातिरे-षातु वाजिनाम्। मिश्रोमिश्राधिकोज्ञेयोगुणदोषैः समा-सतः”। वर्णभेदेन अन्या अपि संज्ञाः शालिहोत्रे दर्शिताविस्तरभयान्नोक्तास्ततएवावसेयाः। ( वृहत्संहितायां लक्षणादि समासेनोक्तम्
“दीर्घग्रीवा-क्षिकूटस्त्रिकहृदयपृथुस्ताम्रताल्वोष्ठजिह्वः सूक्ष्मत्वक्केश-बालः सुशफगतिमुखो ह्रस्वकर्णोष्ठपुच्छः। जङ्घा-जानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपो वाजीस र्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम्। अश्रुपातहनुगण्डहृद्गलप्रोथशङ्खकटिवस्तिजानुनि। मुष्क-नाभिककुदे तथा गुदे सव्यकुक्षिचरणेषु चाशुभाः। ये प्रपा-णगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरि स्थिताः। ओष्ठ-सक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः। तेषांप्रपाण एको ललाटकेशेषु च ध्रुवावर्त्तः। रन्ध्रोपरन्ध्र-मूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ। षड्भिर्दन्तैः सिता-भैर्भवति हयशिशुस्तैः कषायैर्द्विवर्षः सन्दंशैर्मध्यमान्त्यैःपतितसमुदितैस्त्र्य व्दपञ्चाव्दिकोऽश्वः। सन्दंशानुक्रमेणत्रिकपरिगणिताः कालिका पीतशुक्लाः काचा माक्षीकशङ्खा-अथ चलनमतो दन्तपातं च विद्धि”। अश्नाति सर्वम् अश-क्रन्।

३ अग्निविशेषे। अश्नुते व्याप्नोति।

४ व्यापके त्रि॰अश्वपर्ण्णशब्दे उदाहरणम्।
“विष्णोरश्वस्य वाजिनम्” ता॰ ब्रा॰।

५ यदुवंश्यचित्रकस्य पुत्रभेदेऽश्वबाहुशब्देविवृतिः। गोत्रापत्ये अश्वा॰ फञ्। आश्वायनःतद्गोत्रापत्ये पुंस्त्री॰। चतुरर्थ्यां कुमुदा॰ठक्। आश्विकः वाजिसन्निकृष्टदेशादौ त्रि॰। अश्वेन[Page0505-a+ 38] चरति पर्पा॰ ष्ठन् अश्विकः अश्वेन चारिणि त्रि॰स्त्रियां ङीप्। कस्यायमश्वः अज्ञाते क। अज्ञात-स्वामिके अश्वे। कुत्सितोऽश्वः क। अश्वकः। कुत्सितेऽश्वेअश्व इव संज्ञायां कन् अश्वसदृशसंज्ञावति पु॰। अश्वइव प्रकृतिकृतौ कन्। अश्वप्रतिकृतौ। अश्वानां समूहःछ यच्च अश्वीयम् अश्व्यञ्च घोटकसमूहे न॰। एत-दन्तस्य पादस्य बहुव्रीहौ हस्त्यादि॰ नान्त्यलोपः अश्वस्यपादाइव पादावस्य अश्वपाद इत्येव। जातित्वेऽपि अजा॰स्त्रियां टाप्। अश्वा अश्वजातिस्त्रियाम्
“अश्वे इवविषिते हासमाने” ऋ॰

३ ,

३३ ,

१ ,।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्व¦ m. (-श्वः)
1. A horse.
2. A set or cast of men horse-like in strength. du. (-श्वी) A horse and a mare. f. (-श्वा) A mare. E. अश to pervade, क्वन् Una4di affix, and टाप् fem. aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वः [aśvḥ], [अश्नुते अध्वानं व्याप्नोति, महाशनो वा भवति Nir.; अश्-क्वन् Uṇ.1.149]

A horse; the horses are said to have 7 breeds: अमृताद् बाष्पतो वह्नेर्वेदेभ्यो$ण़्डाच्च गर्भतः । साम्नो हयानामुत्पत्तिः सप्तधा परिकीर्तिता ॥

A symbolical expression for the number 'seven' (that being the number of the horses of the Sun) सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् V. Ratn.

A race of men (horselike in strength); काष्ठतुल्यवपुर्धृष्यो मिथ्याचारश्च निर्भयः । द्वादशाङ्गुलमेढ्रश्च दरिद्रस्तु हयो मतः ॥ -श्वौ (du.) A horse and a mare. -श्वाः horses and mares. [cf. L. equus; Gr. hippos; Zend aspa; Pers. asp.] -Comp. -अक्षः N. of a plant देवसर्षप. -अजनी a whip अश्वाजनि प्रचेतसो$श्वान् त्समत्सु चोदय Rv.6.75.13. -अधिक a. strong in cavalry, superior in horses. -अध्यक्षः a guardian of horses, commander of horse-cavalry. -अनीकम् a troop of horsemen, cavalry. -अरिः a buffalo. -अवरोहकः N. of a tree अश्वगन्धा. -आयुर्वेदः veterinary science concerning hores.-आरूढ a. mounted, sitting on horse-back. -आरोह a. riding or mounted on horse. (-हः)

a horseman, rider.

one who is fighting.

a ride. (-हा), -आरोहकः N. of the plant अश्वगन्धा. -आरोहणीयम् Horsemen, cavalry. इदानीमश्वारोहणीयं क्व गतम् Pratijñā. 1. -आरोहिन् a. mounted or riding on horseback.-इषित a. hurried along by horses. -उरस a. broad-chested like a horse. (-सम्) the chief or principal horse. -कन्दा, -कन्दिका N. of a plant अश्वगन्धा.

कर्णः, कर्णकः a kind of tree (Vatica Robusta; Mar. साग, राळ) Rām.1.24.15; Māl.9.

the ear of a horse.

a term in surgery for a particular fracture of the bones. (-र्णः) N. of a mountain. -कुटी a stable for horses; Pt.5. -कुशल, -कोविद a. skilled in managing horses.

क्रन्दः N. of a bird.

a general of the army of the gods. -खरजः [अश्वश्च खरी च अश्वा च खरश्च वा ताभ्यां जायते पुंवद्भावः Tv.] a kind of horse, mule.

खुरः a horse's hoof.

a kind of perfume. (-रा) N. of the plant अपराजिता. -गति f.

the pace of a horse.

N. of a metre containing four lines of sixteen syllables in each. -गन्धा [अश्वस्य गन्ध एकदेशो मेढ्रमिव मूलमस्याः] N. of a plant Physalis Flexuosa Lin; ˚तैलम् a kind of oil. -गुप्तः N. of a Buddhist teacher. -गोयुगः, -गम् a pair of horses. -गोष्ठम् a stable.

ग्रीवः N. of a demon who was a foe of Viṣṇu. -घासः a pasture for horses. -घासकायस्थः An officer in charge of the fodder for the horses Rāj. T.3.489. -घोषः N. of a Buddhist writer. -घ्नः [अश्वं हन्ति अमनुष्यकर्तृकत्वात्]

a horse-bane.

N. of a kind of Oleander, Nerium Odorum Ait. (Mar. पांढरी कण्हेर)

चक्रम् a collection of horses.

a kind of wheel. -चर्या Taking care of a horse; तस्या- श्वचर्यां काकुस्थ दृढधन्वा महारथः (अंशुमानकरोत्) Rām.1.396-7.-चलनशाला a riding house. -चिकित्सकः, -वैद्यः a farrier, a veterinary surgeon. -चिकिसा farriery, veterinary science.

चेष्टितम् the motion of horses.

an omen, auspicious or inauspicious. -जघनः a kind of centaur; a creature having his lower limbs like those of a horse. -जित् a. gaining horses by conquest. Rv.2.21.1; पवस्व गोजिदश्वजित् Rv.9.59.1. -जीवनः gram. -तीर्थम् N. of a place of pilgrimage near Kānyakubja on the Gaṅgā; अदूरे कान्यकुब्जस्य गङ्गायास्तीर- मुत्तमम् । अश्वतीर्थं तदद्यापि मानैवः परिचक्ष्यते ॥ Mb.13.4.17-द a. giving horses; Ms.4.231. -दंष्ट्रा the plant Tribulus Lanuginosus (गोक्षुर, Mar. गोखरू). -दाः, -दावन् m. giving horses. अरिष्टो येषां रथो व्यश्वदावन्नीयते Rv.5.18. 3. -दूतः a riding messenger. -नदी N. of a river.-नाथः one who has the charge of a drove of grazing horses; a horse herd. -निबन्धिकः a groom, a horsefastener. -निर्णिज् a. Ved. decorated or embellished with horses, गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि Rv.1.76.3. -पः Ved. a groom; Vāj.3.11.

पतिः lord of horses Rv.8.21.3.

N. of several persons; of a king of Madra and father of Sāvitri. -पर्ण a. [अश्वानां पर्णं गमनं यत्र]

having horses (as a chariot); Rv.1.88.1.

a cloud (that penetrates everywhere). -पालः, -पालकः, -रक्षः a horse-groom. -पुच्छी N. of the tree माषपर्णी Glycine Debilis. (Mar. रान उडीद). -पृष्ठम् horse back. -पेशस् a. decorated or embellished with horses; ये स्तोतृभ्यो गोअग्रामश्वपेशसम् Rv.2.1.16. -बन्धः a groom.-बन्धन a. used for fastening horses. (-नम्) fastening of horses. -बला N. of a vegetable (Mar. मेथी).

बालः a kind of reed, Saccharum Spontaneum Lin. (Mar. बोरू).

the tail or hair of a horse. -बुध्न a. Ved. based on horses, standing on horses, i. e. on a carriage drawn by horses; अस्य पत्मन्नरुषीरश्ववुध्ना Rv.1.8.3.-बुध्य a. Ved. based on horses, having its origin in horses (wealth); distinguished by horses Rv.1.121. 14. -भा lightning. -मन्दुरा A stable of horses.-महिषिका [अश्वमहिषयोर्वैरं वुन्] the natural enmity between a horse and a buffalo. -मारः, -मारकः, -हन्तृm. 'horse-destroying', a kind of Oleander, Nerium Odorum Ait. (Mar. पांढरी कण्हेर). -मालः a kind of serpent. -मुख a. [अश्वस्य मुखमिव मुखमस्य] having the head or face of a horse. (-खः) a horse-faced creature, a Kinnara or celestial chorister; (according to others) a kind of demigod distinct from the preceding. (-खी) a Kinnara woman; भिन्दन्ति मन्दां गतिमश्वमुख्यः Ku.1.11. -मुक् m. a horse-stealer. -मेधः [अश्वः प्रधानतया मेध्यते हिंस्यते$त्र, मेध् हिंसने घञ्] a horse-sacrifice; यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः Ms.11.26. [In Vedic times this sacrifice was performed by kings desirous of offspring; but subsequently it was performed only by kings and implied that he who instituted it, was a conqueror and king of kings. A horse was turned loose to wander at will for a year, attended by a guardian; when the horse entered a foreign country, the ruler was bound either to submit or to fight. In this way the horse returned at the end of a year, the guardian obtaining or enforcing the submission of princes whom he brought in his train. After the successful return of the horse, the rite called Asvamedha was performed amidst great rejoicings. It was believed that the performance of 1 such sacrifices would lead to the attainment of the seat or world of Indra, who is, therefore, always represented as trying to prevent the completion of the hundredth sacrifice. cf. Rv.1.162-163 hymns; Vāj.22 seq.] ˚काण्डम् N. of the thirteenth book of the Śatapatha Brāhmaṇa. -मेधिक, -मेधीय a. fit for a horse-sacrifice, or relating to it. (-कः, -यः) a horse fit for the Aśvamedha sacrifice. (-कम्) the fourteenth parvan in the Mahābhārata; ततो$श्वमेधिकं पर्व प्रोक्तं तच्च चतुर्दशम् Mb. -युज् a.

yoking the horses; वयोवृधो अश्वयुजः परिज्रयः Rv.5.54.2.

having horses yoked to it (as a carriage); रथेनाश्वयुजा Rām.

born under the constellation अश्वयुज्. (f.)

N. of a constellation, the head of Aries.

the first lunar mansion.

the month of Āśvina.

a chariot having horses. -यूपः the post to which the sacrificial horse was bound; ये अश्वयूपाय तक्षति Rv.1.162.6.-योग a.

causing the yoking of horses.

joining or reaching as quickly as horses; उत न ईं मतयो$श्वयोगाः Rv.1.186.7. -रक्षः the keeper or rider of a horse, a groom. -रथः a carriage drawn by horses. (-था) N. of a river near गन्धमादन. -रत्नम्, -राजः the best or lord of horses; i. e. उच्चैःश्रवस्. -राधस् a. Ved. furnishing horses; शुम्भन्त्यश्वराधसः Rv.1.21.2.-रिपुः A buffalo; Bhāvaprakāśa. -रोधकः N. of a plant (अंश्वमार); see अश्वघ्न. -लक्षणम् a sign or mark of a horse. -ललितम् N. of a species of the Vikṛiti metre. -लाला a kind of snake. -लोमन् n. horse-hair; a kind of snake. -वक्त्रः = अश्वमुख q. v.; a Kinnara or Gandharva. -वडवम् a stud of horses and mares; P.II.4.12,27. mares. -वदनः = ˚मुख. -वहः a horseman. -वाजिन् a. Having the strength of a horse; स मातरिश्वा विभुरश्ववाजी Mb.13.158.2. -वारः, -वालः, -वारकः [अश्वं वारयति उप. स.] a horseman, groom; दुःखेन निश्चक्रमुरश्ववाराः Śi.3.66. -वारणम् N. of the Bos Gavaeus (गवय). -वाहः, -वाहकः [अश्वं वाहयति चालयति] a horseman. -विक्रयिन् a. a horse-dealer.-विद् a.

skilled in taming or managing horses.

[अश्वं विन्दते विद्-क्विप्] procuring horses; उत नो गोविद- श्ववित् Rv.9.55.3. (m.)

a jockey.

an epithet of Nala. -वृषः a stallion; वडवेतराभवदश्ववृष इतरः Bṛi. Up.1.4.4. -वैद्यः a farrier. -व्रतम् N. of sāman.-शकृत् n., -शकम् Ved.

excrements of a horse, horse-dung.

N. of a river. -शङ्कुः a pillar to tie a horse. -शाला a stable; -शावः a colt, a foal.

शास्त्रम् manual or text-book of veterinary science;

N. of the work of Nakula. -शिरस् a. having the head of a horse, an epithet of Nārāyaṇa. (n.)

a horse's head.

N. of a Dānava. -शृगालिका [अश्वशृगालयोर्वैरं द्वन्द्वाद् वैरे वुन्] the natural enmity between a horse and a jackal. -षङ्गवम् a set or team of six horses. -सधर्मन्a. Resembling horses in work; अश्वसधर्माणो हि मनुष्याः नियुक्ताः कर्मसु विकुर्वते । Kau. A.2.9. -सनि, -षा, -सा a. Ved. (P.VIII.3.11 and Mbh.) gaining or procuring horses, giving horses; यस्ते$अश्वसनिर्भक्षो Vāj.8. 12. -सादः, -सादिन् m. a horseman, a rider, a horsesoldier; पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी R.7. 47; Vāj.3-13. -सारथ्यम् coachmanship, charioteership, management of horses and chariots; सूतानाम- श्वसारथ्यम् Ms.1.47. -सूक्तिन् N. of the author of the hymns Rv.8.14.15. -सूत्रम् A text book of the management of horses. -सूनृत a. Ved.

praised sincerely for (the gift of) horses; cf. Rv.5.79,1-1.

whose praise for (giving) horses is agreeable and true.

सेनः N. of a king.

N. of a Nāga.

N. of the father of the twentythird Arhat of the present Avasarpiṇī. -स्तोमीय a. relating to the praise of the sacrificial horse. N. of the Ṛigvedic hymn 1. 162. -स्थान a. born in a stable. (-नम्) a stable or stall for horses; Y.1.279. -हन्तृ a. killing a horse, (-ता) N. of a fragrant plant. -हय a. [अश्वेन हिनोति गच्छति हि कर्तरि अच्]

driving or spurring a horse, riding a horse; प्रत्यर्धिर्यज्ञानामश्वहयो रथानाम् Rv.1.26. 5.

to be traversed by a horse; समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः Rv.9.96.2. -हारकः a horsestealer; पङ्गुतामश्वहारकः Ms.11.51. -हृदयम् [अश्वस्य हृदय- मनोगतभावादि]

the desire or intention of a horse.

a kind of veterinary science.

horsemanship; अश्वहृदये निवेश्यात्मानम् K.8. -या N. of the Apsaras रम्भा.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्व m. (2. rarely 3 RV. )(1. अश्Un2. ) ifc. f. a horse , stallion RV. etc.

अश्व m. the horse (in the game of chess)

अश्व m. the number " seven " (that being the number of the horses of the sun)

अश्व m. the archer (in the Zodiac) VarBr2.

अश्व m. a particular kind of lover (horse-like in strength) L.

अश्व m. N. of a teacher (with the patron. सामुद्रि) S3Br. xiii

अश्व m. of a son of चित्रकHariv. 1921

अश्व m. of a दानवMBh. i , 2532

अश्व Nom. P. अश्वति, to behave like a horse Pa1n2. 3-1 , 11 Sch.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an अवतार् of Hari. भा. X. 2. ४०.
(II)--a Satya god, and a progenitor. Br. II. ३६. ३५; III. ११. ७६.
(III)--a son of खशा and a राक्षस. Br. III. 7. १३६.
(IV)--a horse of the moon's chariot. वा. ५२. ५३.
(V)--a son of Citraka. वा. ९६. ११४.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AŚVA I : A demon. This was the same demon who later on was born as Aśoka, King of Kaliṅga. (Chapter 67, Ādi Parva, M.B.).


_______________________________
*5th word in left half of page 67 (+offset) in original book.

AŚVA II : A maharṣi. The sage Vaśa is the son of this ṛṣi. (Sūkta 112 of Ṛgveda).


_______________________________
*6th word in left half of page 67 (+offset) in original book.

AŚVA (H : orse). Horses and camels were born, in this world, of Tāmrā, wife of Kaśyapa, grandson of Brahmā. (Agni Purāṇa, Chapter 19).


_______________________________
*7th word in left half of page 67 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśva is the commonest word for ‘horse’ in the Vedic literature. The horse is also called ‘the runner’ (atya), ‘the swift’ (arvant), ‘the strong,’ for pulling (vājin), ‘the runner’ (sapti), and ‘the speeding’ (haya). The mare is termed aśvā, atyā, arvatī, vaḍavā, etc. Horses of various colour were known, dun (harita, hari), ruddy (aruṇa, aruṣa, piśaṅga, rohita), dark brown (śyāva), white (śveta), etc. A white horse with black ears is mentioned in the Atharvaveda as of special value.[१] Horses were highly prized,[२] and were not rare, as Roth[३] thought, for as many as four hundred mares are mentioned in one Dānastuti (‘Praise of Gifts’).[४] They were on occasion ornamented with pearls and gold.[५]

Mares were preferred for drawing chariots because of their swiftness and sureness.[६] They were also used for drawing carts, but were not ordinarily so employed.[७] No mention is made of riding in battle, but for other purposes it was not unknown.[८]

Horses were often kept in stalls,[९] and fed there.[१०] But they were also allowed to go out to grass,[११] and were then hobbled.[१२] They were watered to cool them after racing.[१३] Their attendants are frequently referred to (aśva-pāla,[१४] aśva-pa,[१५] aśva-pati).[१६] Stallions were frequently castrated (vadhri).[१७]

Besides reins (raśmayaḥ), reference is made to halters (aśvābhidhānī),[१८] and whips (aśvājani).[१९] See also Ratha.

Horses from the Indus were of special value,[२०] as also horses from the Sarasvatī.

  1. Av. v. 17, 15.
  2. Rv. i. 83, 1;
    iv. 32, 17;
    v. 4, 11;
    viii. 78, 2, etc.
  3. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 35, 686.
  4. Rv. viii. 55, 3. Cf. v. 33, 8;
    vi. 47, 22-24;
    63, 10;
    viii. 6, 47;
    46, 22, and Hopkins, American Journal of Philology, 15, 157.
  5. Rv. x. 68, 11.
  6. Pischel, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 35, 712714;
    Vedische Studien, 1, 10, 305. Cf. ratho vadhūmān, Rv. i. 126, 3;
    vii. 18, 22, vājinīvān, vii. 69, 1.
  7. Śatapatha Brāhmaṇa, v. 5, 4, 35.
  8. The Aśvins ride, Rv. v. 61, 1-3. An aśva-sāda is referred to in Vājasaneyi Saṃhitā, xxx. 13;
    Taittirīya Brāhmaṇa, iii. 4, 7, 1;
    and riding is meant in Rv. i. 162, 17;
    163, 9. Av. xi. 10, 24. is doubtful. Cf. Hopkins, Journal of the American Oriental Society, 13, 262;
    Ludwig, Translation of the Rigveda, 3, 221. Zimmer, Altindisches Leben, 230, denies the use;
    but see p. 295, where it is admitted for ordinary purposes.
  9. Cf. the epithet of richness, ‘filling the stalls with horses’ (aśva-pastya), in Rv. ix. 86, 41, and see Av. vi. 77, 1;
    xix. 55, 1.
  10. Av. loc. cit.
  11. Zimmer, op. cit., 232, denies this, but it is the natural sense of the Vājasaneyi Saṃhitā, xv. 41.
  12. The expression for this is paḍbīśa, Rv. i. 162, 14. 16;
    Bṛhadāraṇyaka Upaniṣad, vi. 2, 13;
    Chāndogya Upaniṣad, v. 1, 12;
    Śāṅkhāyana Āraṇyaka, ix. 7. Cf. Pischel, Vedische Studien, 1, 234-236.
  13. Rv. ii. 13, 5;
    34, 3;
    Maitrāyaṇī Saṃhitā, i. 11, 6;
    Pischel, op. cit., 1, 189, 190.
  14. Śāṅkhāyana Srauta Sūtra, xvi. 4, 5.
  15. Vājasaneyi Saṃhitā, xxx. 11;
    Taittirīya Brāhmaṇa, iii. 4, 9, 1.
  16. Vājasaneyi Saṃhitā, xvi. 24;
    Kāṭhaka Saṃhitā, xvii. 13.
  17. Rv. viii. 46, 30.
  18. Av. iv. 36, 10;
    v. 14, 6;
    Aitareya Brāhmaṇa, vi. 35;
    Śatapatha Brāhmaṇa, vi. 3, 1, 26;
    xiii. 1, 2, 1.
  19. Rv. v. 62, 7;
    vi. 75, 13;
    Vājasaneyi Saṃhitā, xxix. 50.
  20. Bṛhadāraṇyaka Upaniṣad, vi. 2, 13;
    Sāṅkhāyana Āraṇyaka, ix. 7;
    vājinīvatī as epithet of Sindhu, Rv. x. 75, 8, of Sarasvatī, i. 3, 10;
    ii. 41, 18;
    vi. 61, 3. 4;
    vii. 96, 3;
    Pischel, op. cit., i. 10. Cf. Zimmer, op. cit., 230-232.
"https://sa.wiktionary.org/w/index.php?title=अश्व&oldid=507569" इत्यस्माद् पुनः प्राप्तिः