ग्रह

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रह, ग ञ ग्रहणे । इति कविकल्पद्रुमः ॥ (क्य्रां- उभं-सकं-सेट् ।) ग ञ, गृह्णाति गृह्णीते । इति दुर्गादासः ॥

ग्रह, ऊ कि आदाने । इति कविकल्पद्रुमः ॥ (चुरां-पक्षे भ्वां-परं-सकं-सेट् ।) ऊ, अग्रहीत् अघ्राक्षीत् । कि, ग्राहयति ग्रहति । एष ह्वादि- रेव मन्यते तत्राप्यात्मनेपदी एव । इति दुर्गा- दासः ॥

ग्रहः, पुं, (गृह्णाति गतिविशेषानिति । यद्वा, गृह्णाति फलदातृत्वेन जीवानिति । ग्रह् + “विभाषा ग्रहः ।” ३ । १ । १४३ । इति पक्षे अच् ।) सूर्य्यादिनव । यथा । रविसोममङ्गल- बुधबृहस्पतिशुक्रशनिराहुकेतवः । (यदुक्तम्, -- “सूर्य्यश्चन्द्रो मङ्गलश्च बुधश्चापि बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति नव ग्रहाः ॥” “लोकानद्रीन् स्वरान् धातून् मुनीन् द्बीपान् ग्रहानपि । समिधः सप्त सङ्ख्याताः सप्तजिह्वा हविर्भुजः ॥”

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रह पुं।

ग्रहणम्

समानार्थक:उपराग,ग्रह

1।4।9।2।2

सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः। उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च॥

वैशिष्ट्य : अर्कादयः

पदार्थ-विभागः : , द्रव्यम्, कालः

ग्रह पुं।

ग्राहणम्

समानार्थक:ग्रह,ग्राह

3।2।8।1।1

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

पदार्थ-विभागः : , क्रिया

ग्रह पुं।

निर्बन्धः

समानार्थक:ग्रह

3।3।237।1।2

दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः। द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

ग्रह पुं।

अर्कादयः

समानार्थक:ग्रह

3।3।237।1।2

दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः। द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके॥

वैशिष्ट्यवत् : ग्रहणम्

 : पूर्वदिशायाः_ग्रहः, आग्नेयदिशायाः_ग्रहः, दक्षिणदिशायाः_ग्रहः, नैऋतदिशायाः_ग्रहः, पश्चिमदिशायाः_ग्रहः, वायव्यदिशायाः_ग्रहः, उत्तरदिशायाः_ग्रहः, ईशानदिशायाः_ग्रहः, चन्द्रः, बृहस्पतिः, मङ्गलः, बुधः, शनीः, राहुः, सूर्यः, सूर्यपार्श्वस्थः, राहुग्रस्थेन्दुः_अथवा_सूर्यः, युगपदुच्यमानौ_सूर्यचन्द्रौ, ग्रहभेदः

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रह¦ हस्तव्यापारभेदे स्वीकारे ज्ञाने च क्र्या॰ उभ॰ सक॰ सेट्। गृह्णाति गृह्णीते। गृह्णीयात् गृह्णीत। गृह्णातु गृ-हाण। अगृह्णात् अगृह्णीत। अग्रहीत् अलिटि इटोदीर्घः। अग्रहीष्टाम्। अग्रहीष्ट। जग्राह जगृहतुःजग्रहिथ जगृहिव। जगृहे जगृहिषे। ग्रहीता गृ-ह्यात् ग्रहीषीष्ट ग्रहीष्यति ते। ग्रहीतव्यः ग्रहणीयम्ग्राह्यम् पदास्वैरिपक्ष्येषु गृह्यम्। छन्दसि प्रतिगृह्यम-पिगृह्यं लोके तु प्रतिग्राह्यम् अपिग्राह्यम्। जलचरे-णग्राहः। ज्योतिषि अच् ग्रहः। गृहीतः गृहीतिः। ग्रहणम् अप् ग्रहः। उद्ग्राहः मुष्टौ संग्राहः सञ्चये[Page2743-b+ 38] संग्रहः। ग्रहीतुर। गृहीत्वा प्रतिगृह्य। ज्ञाने
“हंसं तनौ सन्निहितं चरन्तं मुनेर्जनोवृत्तिरिव स्वि-कायाम्। ग्रहीतुकामादरिणाशयेन” नैष॰।
“गृह्णातिचक्षुः सम्बन्धादालोकोद्भूतरूपयोः” भाषा॰। हस्तव्यापारे
“गृहाण शस्त्रं यदि सर्ग एष ते”
“तौ जगृहतुःपादान् राजा राज्ञी च मागधी” रघुः।
“दश गृहान्गृह्णाति” श्रुतिः स्वीकारश्च स्वत्वापदनव्यापारः सेवनादिनाआयत्तीकरणञ्च तत्राद्ये
“तत्र किञ्चिन्न गृह्णीयात्प्राणैः कण्ठगतैरपि” प्रा॰ त॰ गङ्गामा॰ द्वितीय
“शर-द्रौदं न गृह्णीयात् गृह्णीयात् मार्गपौषयोः” नीतिःकर्मणि गृह्यते अग्राहि अग्राहिषाताम् अग्रहीषाताम्। अग्राहिष्यते अग्रहीष्यते। णिच् ग्राहयति ते अजी-ग्रहत् त। सन् जिवृक्षति ते। यङ् जरीगृह्यते। यङ्-लुक् जरी(रि)गृहीति जर्गृहीति जरी(रि)गडिर्ढजर्गडिर्ढ मुग्ध॰” सि॰ कौ॰ जाग्रहीति जाग्राढि। ज्ञान-सामान्थार्थत्वे णिचि प्रयोज्यस्य कर्मत्वं
“शिष्यंवेदं ग्राहयतीति। गुहणमात्रार्थकत्वेऽपि कर्मत्वम्मुग्धवो॰
“अजीग्रहत्त” जनको धनुस्तत्” भट्टिः।
“अयाचितारं न हि देबदेवमद्रिः सुतां ग्राहयितुंशशाक” कुमा॰ अन्यमते भञ्जनीयत्वेन विवाह्यत्वेनच बोधयामासेत्यर्थकत्वात् नानुपपत्तिः। मुगधबो॰द्विकर्मकमध्ये पाठात्
“जग्राह यज्वनोभोज्यम्” उदा॰पा॰ मते न द्विकर्मकतेति भेदः। वेदे हस्य भकारः।
“इमामगृभ्णन् रसनामृतस्य” श्रुतिः। आर्षेऽपि क्वचित्हस्य भः गृभीतशब्दे उदा॰। अति + अतिक्रम्य वर्तने
“अतिग्रहाव्यथनक्षेपष्वकर्त्तरितृतीयायाः” पा॰
“अतिक्रम्य ग्रहोऽतिग्रहः चारित्र्य-तोऽतिगृह्यते चारित्र्येणान्यानतिक्रन्य वर्त्तते इत्यर्थः” सि॰ कौ॰
“तएतानतिग्राह्यान् ददृशुस्तानत्यगृहणत” शत॰ ब्रा॰

४ ।

५ ।

४ ।

२ अनु + आनुकूल्यकरणे
“वयमप्यनुगृह्णीमोद्विधा कृत्वा वरू-थिनीम्” भा॰ वि॰

९९

६ श्लो॰। सम् + अनु + बन्धनादिना आनुकूल्ये
“अवमुच्य किरीटं स केशान्समनुगृह्य च। उदतिष्ठज्जरासन्धः” भा॰ स॰

८९

५ श्लो॰। अप + सन्ततधारातोविच्छिद्य पृथक्कृत्य ग्रहणे
“अपगृह्यपुनरिन्द्रवायू” कात्या॰ श्रौ॰

९ ।

६ ।


“अपगृह्यसन्ततधारातोविच्छिद्य पृथक्कृत्वा पुनस्तस्या एवधाराया गृह्णाति” कर्कः अपसारणे च
“अथैकं[Page2744-a+ 38] तृणमपगृह्णाति” शत॰ ब्रा॰

१ ।

८ ।

३ ।

१६ ।
“उभौतृणे अपगृह्योपासाते”

२ ।

५ ।

२ ।

४२ रोधने च।
“स(च्यवनः) ते विप्रः सह वज्रेण बाहुमपगृह्णात्तपसाजातमन्युः” मा॰ आश्व॰

९ अ॰प्रपि + पिधाने
“यत्रैतत् कर्णावपिगृह्य निनदमिव” छा॰ उ॰
“अपिगृह्य पिधाय” भा॰
“तस्मात् कर्णं पितृदैवतंहि तदपिगृह्यम्” शत॰ ब्रा॰

३ ।

८ ।

१ ।

१५ । आच्छादनेच
“तस्मात् कल्पगन्धानपि गृह्णीत” शत॰ ब्रा॰

४ ।

१ ।

३ ।

८ अभि + आभिमुख्येन ग्रहणे
“अम्बालिका च बलवदभिगृह्यचण्डवर्मणा परिणेतुमात्मनोभवनमानीता” दशकु॰अव + प्रतिरोधे नियमे च
“मन्दोऽपि नाम न महानवगृह्य-साध्यः” मावः
“देवनीयं शंसति पदावग्रहम्” तैत्ति॰
“वृष्टिर्वर्षं तद्विघातेऽवग्रहावग्रहौ समौ” अमरः
“राव-णावग्रहक्लान्तमिति वागमृतेन सः”।
“वृष्टिर्भवतिशस्यानामवग्रहविशोषिणाम्” रघुः। वि + अव + अवनतौ अक॰।
“तत्रैव कपालम् व्यवगृहीता-न्तमिब भवति व्यवगृहीतान्तेव हि द्यौः” शत॰ ब्रा॰

७ ।

५ ।

१ ।


“व्यवगृहीतान्तं विविधमवगृहीतोऽवनतः अन्तो-यस्य” भा॰आ + आभिमुख्येनाकर्षणे
“आ त एता वचोयुजा हरीं गृभाणसुमद्रथा” ऋ॰

८ ।

४५ ।

३९
“आगृभाण अस्मदभिमुखंयातुं हस्ताभ्यासाकर्षयेत्यर्थः” भा॰। निर्बन्धे
“चले-ऽपि काकस्य पदार्पणाग्रहः” नैष॰। आ + सम् + आभिमुख्येन संग्रहे
“आ तू न इन्द्र क्षुमन्तंचित्रं ग्राभं संगृभाय” ऋ॰

८ ।

८१ ।

१ । आसंगृभायआभिमुख्येन संगृहाण” भा॰उद् + ऊर्द्ध्वं विगृज्य दाने
“वाजस्य मा प्रसव उद्ग्राभेणोदग्रभीत्” यजु॰

१७ ।

६३ । ऊर्द्धं विगृज्य दामम् उद्ग्रहः” वेददी॰
“उद्गृह्णते स्वाहोद्गृहीताय स्वाहा”

२२ ।

२६ । उद्धृत्य उत्तोल्य ग्रहणे
“शक्तिं योऽग्र्यामुदग्रहीत्” भट्टिः। उद + ग्रह + णिच्। उद्ग्राहि--उपन्यासे
“उद्ग्राहितमु-पन्यस्तम्” वैजयन्ती
“विशेषविदुषः शास्त्रं यत्तवोद्ग्रा-ह्यते मया” माघः।
“मोज्जिग्रहः सुनीतानि” भट्टिःउप + उद् + ज्ञाने।
“तस्य हि मुखमुपोद्गृह्णन्नुवाच” छा॰ उ॰
“मुखं द्वारं विद्यायादाने तीर्थमुपोद्गृह्णन् जाननि-त्यर्थः” भा॰उप + सामीप्येन ग्रहणे
“दशापवित्रमुपगृह्य हिंकरोति” शत॰ ब्रा॰

४ ।

२ ।

२ ।

१४ अवष्टम्भे च
“तेजो वा अद्भ्यो-[Page2744-b+ 38] भूयस्तद्वा एतद्वायुमुपगृह्याकाशमभितपति” छा॰ उ॰
“तद्वा एतत्तेजो वायुमुपगृह्यावष्टभ्य स्वात्मना निश्च-लीकृत्य वायुमाकाशमभिव्याप्नुवत्तपति” भा॰नि + बलेन निरोधे प्रातिकूल्यकरणेन नियमने च।
“र वेप्रविशमानस्तु शूद्रेणान्धेन रक्षिणा। निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिवः” भा॰ व॰

१३

६ अ॰।
“निगृ-हीतः कन्धरायां शिशुना दृढमष्टिना” हरिव॰

२० अ॰।
“तस्मात् यस्य महावाहो निगृहीतानि सर्वशः। इ-न्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता” गीता
“अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” याज्ञ॰प्रति + नि + प्रतिरूपतया ग्रहणे
“आदित्यपात्रेण द्रोण-कलसात् प्रतिनिगृह्णीते” शत॰ ब्रा॰

४ ।

३ ।

५ ।

६ वि + नि + विशेषेण निग्रहे
“शिरःसु विनिगृह्यैतान् योधयामास पाण्डवः” भा॰ आ॰

१२

८ अ॰निस् + निःशेषोण ग्रहणे निग्रहे च
“शक्रस्त्वमिति यो दैत्यै-र्निर्गृहीतः किलाभवत्” भा॰ आनु॰

१९

९८ श्लो॰परि + परितोग्रहणे
“बाहुन। परिजग्राह दक्षिणेन शिरो-धराम्” भा॰ आ॰

६३

२ श्लो॰।
“ज्ञाने{??} परिगृह्य तान्” मनुः। स्वीकारे च
“कस्य गुप्तः परिग्रहः” भा॰ आ॰गन्धर्व्वं प्रति अर्जुनोक्तिःप्र + प्रकर्षेण ग्रहणे।
“प्रगृहीतश्च योऽमात्योनिगृहीतश्चकारणैः” भा॰ वि॰

१२ श्लो॰। सन्धिकार्यनिषेधाय विशिष्यग्रहणे
“प्रगृह्यं पदम्” प्रा॰ प्रगृह्यशब्दे दृश्यम्। प्रति + दत्तवस्तुनोग्रहणे
“सप्त वित्तागमाः धर्म्यादायोलाभक्रयो जयः। विभागः संप्रयोगश्च सत्प्रतिग्रह एव च” स्मृतिः
“याजनाध्यापनप्रतिग्रहैर्व्राह्मणो धनमर्ज्जथेत्” श्रुतिः अदृष्टार्थत्यक्तद्रव्यस्वीकार एव प्रतिग्रहो मुख्यःअन्यत्र भाक्तः।
“तीरे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्यविक्रयः”
“तत्र न प्रतिगृह्णीयात् प्राणैः कण्ठगतै-रपि” प्रा॰ त॰ गङ्गामा॰।
“प्रतिग्रहादपावृत्तः सन्तु-ष्टो येन केनचित्” प्रा॰ त॰
“अभिपद्यच बाहुभ्यां प्रत्य-गृह्णादमर्षितः गा॰ व॰

४४

१ श्लो॰। प्रतिरूपतयाशस्तादिग्रहणे च
“तर्थव पाण्डवो भीष्मे दिव्यमस्त्र-मुदीरयन्। प्रत्यगृह्णादयेमात्मा” भा॰ वि॰

६० अ॰। स्वीकारमात्रे
“प्रतिग्रहीतुं प्रणयिप्रियत्वात्” कुमा॰
“अमोघाः प्रतिगृह्णन्तावर्घानुपदमाशिषः” रघुः। वि + विरोधे रोधने।
“सन्दधीत न चानार्यं विगृह्णीयान्नबन्धुभिः” भा॰ शा॰

७० अ॰
“विगृह्य शत्रून् कौन्तेय![Page2745-a+ 38] जेयः क्षितिपतिस्तदा” भा॰ आश्र॰

६ अ॰। विशेषेणज्ञाने
“न बिग हणाति वैषम्यम्” भाग॰

३ ।

३२ ।

२ ।

४ श्लो॰।
“अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः” हरिःविशेषणग्रहः अवयवीभावः। विग्रहो देहः।
“रक्त-प्रसाधितभुवः क्षतविग्रहाश्च” वेणी पञ्चविधवृत्तिस्फु-टीकरणवचनभेदे
“वृत्त्यर्थविवरणं विग्रहः” सि॰ कौ॰
“सप्तम्या विग्रहस्थया” शब्दश॰ प्र॰। सम् + सञ्चये नानास्थानपठितस्य एकत्र समावेशार्थे संदर्भ-भेदे
“संग्रहेऽस्तमुपागते” वाक्यपदीयम्। सङ्कोचने
“संगृह्णती कौशिकमुत्तरीयम्” भा॰ व॰

१५

६०

२ श्लो॰एकत्रीकरणे
“संगृह्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम्”

८५

५९ श्लो॰ सम्यक्ग्रहणे
“औषधानि च सर्वाणिमूलानि च फलानि च। चतुर्विधांश्च वैद्यान् वै संगृह्णी-याद्विशेषतः” भा॰ शा॰

२६

५४ श्लो॰। मुष्टौ संग्राहःसञ्चये द्रव्यसंग्रहः” सि॰ कौ॰

ग्रह¦ आदाने वा चुरा॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ वेट्। ग्राहयति ते ग्रहति। अजिग्रहत्-त अग्रहीत् अ-घ्राक्षीत्।

ग्रह¦ पु॰ ग्रह--अच्।

१ नवसु सूर्य्यादिषु।

२ बालारिष्टकारेषुस्कन्दग्रहादिषु भावे अप्।

३ अनुग्रहे,

४ निर्बन्धे,
“अव-श्यभव्येष्वनवग्रहग्रहा” नैष॰

५ आदाने ग्रहणे,

६ रणो-द्यमे,

७ मलबन्धे,

८ चन्द्रसूर्ययोर्ग्रासे च
“तदा सम्भाव्यतेग्रहः इति ज्योतिषम्
“एकरात्रं परित्यज्य कुर्यात्पाणिग्रहं ग्रहे” ज्योति॰ सूर्यादयश्च
“सूर्यश्चन्द्रोमङ्गलश्च बुधश्चापि वृहस्पतिः। शुक्रः शनैश्चरोराहुः केतुश्चेति नव ग्रहाः”। एषां गतिभेदाः खगगति-शब्दे

२४

१३ पृ॰ दर्शिताः। राहुकेत्वोर्यथा ग्रहत्वंपी॰ धा॰व्यवस्थापितं तच्च केतुशब्दे

२२

३४ पृ॰ उक्तम्। शा॰ ति॰

१ पटले
“लोकानद्रीन् स्वरान् धातून् मुनीन् द्वीपान् ग्र-हानपि। समिधः सप्तसंख्याताः सप्त जिह्वा हविर्भुजः” इत्यनेन ग्रहाणां यत् सप्तत्वमुक्तं तत् वराहमताभि-प्रायेण। तच्च

१३

११ पृ॰ उपरागशब्दे अमृतास्वाद-विशेषादित्याद्युक्तम्। अन्यमताभिप्रायेण ग्रहाणांनवत्वं

६ पटले शा॰ ति॰ उक्तं यथा
“नव वर्गाः समुत्पन्नानवरत्नेश्वरा ग्रहाः। अर्केन्दुरक्तज्ञगुरुभृगुमन्दाहि-केतवः। माणिक्य मौक्तिक चारु विद्रुमं गारुडंपुनः। पुष्परागं लसद्वज्रं नीलं गोमेदकं शुभम्। वैदूर्य्यं नव रत्नानि”। [Page2745-b+ 38] स्कन्दग्रहादीनां नवानां लक्षणविभागः सुश्रुते उक्तोयथा
“अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः॥ बालग्रहाणां विज्ञानं साधनञ्चाप्यनन्तरम्। उत्पत्तिं का-रणञ्चैव सुश्रुतैकमनाः शृणु॥ स्कन्दग्रह

१ स्तु प्रथमःस्कन्दापस्मार

२ एव च। शकुनी

३ रेवती

४ चैव पूतना

५ चान्धपूतना

६ ॥ पूतना शीतनामा

७ च तथैव मुखमण्डि-का

८ । नवमो नैगमेयश्च

९ यः पितृग्रहसंज्ञितः॥ घा-त्रीमात्रोः प्राक्प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारही-नान्। त्रस्तान् हृष्टांस्तर्ज्जितान् क्रन्दितान् वा पूजाहे-तोर्हिंस्युरेते कुभारान्॥ ऐश्वर्य्यस्थास्ते न शक्या विशन्तोदेहं द्रष्टुं मानुषैर्विश्वरूपाः। आप्तं वाक्यं तत्समी-क्ष्याभिधास्ये लिङ्गान्येषां यानि देहे भवन्ति॥ शूनाक्षःक्षतजसगन्धिकः स्तनद्विट्वक्रास्यो हतचलितैकपक्ष्मनेत्रः। उद्विग्नः सुललितचक्षुरल्परोदी स्कन्दार्त्तो भवति च गा-ढमुष्टिवर्च्चाः

१ ॥ निःसंज्ञो भवति पुनर्भवेत्ससंज्ञः संरब्धःकरचरणैश्च नृत्यतीव। विण्मूत्रे सृजति विनद्य जृम्भ-माणः फेनञ्च प्रसृजति तत्सखाभिपन्नः

२ ॥ स्रस्ताङ्गोभयचकितो विहङ्गगन्धिः संस्राविव्रणपरिपीडितः सम-न्तात्। स्फोटैश्च प्रतततनुः सदाहपाकैर्व्विज्ञेयो भवतिशिशुः क्षतः शकुन्या

३ ॥ रक्तास्यो हरितमलोऽतिपा-ण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनार्त्तः। रेवत्याव्यथिततनुश्च कर्णनासं मृद्नाति ध्रुवमभिपीडितः कुमारः

४ ॥ स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड्भिन्नं सृजतिच काकतुल्यगन्धिः। छर्द्यार्त्तो हृषिततनूरूहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः

५ ॥ यो द्वेष्टि स्तनम-तिसारकासहिक्काछर्दीभिर्ज्वरसहिताभिरर्द्यमानः। दुर्व्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्रूयुर्वरभिषजोऽन्ध-पूतनार्त्तम्

६ ॥ उद्विग्नो भृशमतिवेपते प्ररुद्यात् संलीनःस्वपिति च यस्य चान्त्रकूजः। विस्राङ्गो भृशमतिसा-र्य्यते च यस्तं जानीयाद्भिषगिह शीतपूतनार्त्तम्

७ ॥ म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो वह्वाशी कलुषसिरा-वृतोदरो यः। सोद्वेगो भवति च मूत्रतुल्यगन्धिः सज्ञेयः शिशुरथ वक्त्रमण्डिकार्त्तः

८ ॥ यः फेनं वमतिविनम्यते च मध्ये सोद्वेगं बिलपति चोर्द्धमीक्षमाणः। ज्वर्य्येत प्रततमथो वसासगन्धिर्न्निःसज्ञो भवति हिनैगमेयजुष्टः

९ ॥ प्रस्तब्धो यः स्तनद्वेषी मुह्यते चावि-शन्मुहुः। तं बालं नचिराद्धन्ति ग्रहः सम्पूर्णलक्षणः। विपरीतमतःसाध्यं चिकित्सेदचिरार्दितम्। गृहे पुरा-[Page2746-a+ 38] णहविषाभ्यज्य बालं शुचौ शुचिः॥ सर्षपान् प्रकिरे-त्तेषां तैलैर्दीपञ्च कारयेत्। सदासन्निहितञ्चापिजुहुयाद्धव्यवाहनम्॥ सर्वगन्धौषघीवीजैर्गन्धमाल्यै-रलङ्कृतम्। अग्नपे कृत्तिकाभ्यश्च स्वाहा स्वाहेतिसंस्मरन्॥ नमः स्कन्दाय देवाय ग्रहाधिपतये नमः। शिरसा त्वाभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम्॥ नि-रुजो निर्विकारश्च शिशुर्म्मे जायतां ध्रुवम्”। सोत्पत्तिकमन्यग्रहभेदा भा॰ व॰

२२

९ अ॰ उक्ताः यथा(
“यावत् षोडश वर्षाणि भवन्ति तरुणाः प्रजाः। प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः। अहञ्च वःप्रदास्यामि रौद्रमात्मानमव्ययम्। परमं तेन सहिताःसुखं वत्स्यथ पूजिताः। मार्कण्डेय उवाच। ततःशरीरात् स्कन्दस्य पुरुषः पावकप्रभः। भोक्तुं प्रजाःस मर्त्त्यानां निष्पपात महाबलः। अपतत् सहसाभूमौ विसङ्गोऽथ क्षुधार्द्दितः। स्कन्देन सोऽभ्यनु-ज्ञातो रौद्ररूपोऽभवद्ग्रहः। स्कन्दापस्मारमित्याहुर्ग्रहंतं द्विजसत्तमाः॥ विनता तु महारौद्रः कथ्यते शकु-नीग्रहः। पूतनां राक्षसीं प्राहुस्तं विद्यात् पूतना-ग्रहम्। कष्टा दारुणरूपेण घोररूपा निशाचरी। पिशाची दारुणाकारा कथ्यते शीतपूतना। गर्भान्सा मानुषीणान्तु हरते घोरदर्शना। अदितिं रेवतींप्राहुर्ग्रहस्तस्यास्तु रैवतः। सोऽपि बालान्महाघोरोबाधते वै महाग्रहः। दैत्यानां या दितिर्माता तामा-हुर्मुखमुण्डिकाम्। अत्यर्थं शिशुमांसेन संप्रहृष्टादुरासदा। कुमाराश्च कुमार्य्यश्च ये प्रोक्ताः स्कन्दस-म्भवाः। तेऽपि गर्भभुजः सर्वे कौरव्य! सुमहाग्रहाः। तासामेव तु पत्नीनां पतयस्ते प्रकीर्त्तिताः। अज्ञाय-माना गृह्णन्ति बालकान् रौद्रकर्म्मिणः। गवां मातातु या प्राज्ञैः कथ्यते सुरभिर्नृप!। शकुनिस्तामथा-रुह्य सह भुङ्क्ते शिशून् भुवि। सरमा नाम या माताशुनां देवी जनाधिप!। सापि गर्भान् समादत्ते मानु-षीणां सदैव हि। पादपानाञ्च या माता करञ्जनिलयाहि सा। वरदा सा हि सौम्या च नित्यं भूतानु-कम्पिनी। करञ्जे तां नमस्यन्ति तस्मात् पुत्त्रार्थिनोनराः। इमेःत्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः। द्विपञ्चरात्रं(

१० )तिष्ठन्ति सततं सूतिकागृहे। कद्रुः सू-क्ष्मवपुर्भूत्वा गर्भिणीं प्रविशत्यथ। भुङ्क्ते सा तत्र तंगर्भं सा तु नामं प्रसूथते। गन्धर्वाणाञ्च या माता[Page2746-b+ 38] सा गभं गृह्य गच्छति। ततो विलीनगर्भा सा मानुषीभुवि दृश्यते। या जनित्री त्वपसरसां गर्भमास्ते प्रगृह्यसा। उपविष्टं ततो गर्भं कथयन्ति मनीषिणः। लोहि-तस्योदधेः कन्या धात्री स्कन्द{??} सा स्मृता। लोहिताय-निरित्येवं कदम्बे सा हि पूज्यते। पुरुषषु यथारुद्रस्तथार्य्या प्रमदास्वपि। आर्य्या माता कुमारस्यपृथक्कामार्थमिज्यते। एवमेते कुमाराणां मया प्रोक्तामहाग्रहाः। यावत् षोडशं वर्षाणि ह्यशिवास्ते शिवा-स्ततः। ये च मावृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः। सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः। तेषांप्रशमनं कार्य्यं स्नानं धूपमथाञ्जनम्। बलिकर्मोप-हारश्च स्कन्दस्येज्या विशेषतः। एवमभ्यर्चिताः सर्वेप्रयच्छन्ति शुभं नृणाम्। आयुर्वीर्य्यञ्च राजेन्द्र! सम्यक्-पूजानमस्कृताः। ऊर्द्धन्तु षोडशाद्वर्षाद्ये भवन्ति ग्रहानृणाम्। तानहं संप्रवक्ष्यामि नमस्कृत्य भहेश्वरम्। यः पश्यति नरो देवान् जाग्रद्वा शयितोऽपि वा। उन्माद्यति स तु क्षिप्रं तन्तु देवग्रहं विदुः। आसी-नश्च शयानश्च यः पश्यति नरः पितॄन्। उन्माद्यति सतु क्षिप्रं स ज्ञेयस्तु पितृग्रहः। अवमन्यति यःसिद्धान् क्रुद्धाश्चापि शपन्ति यम्। उन्माद्यति स तुक्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः। उपाघ्राति च योगन्धान्रसांश्चापि पृथग्विधान् उन्माद्यति स तु क्षिप्रंस ज्ञेयो राक्षसग्रहः। गन्धर्वाश्चापि यं विद्याः संवि-शन्ति नरं भुवि। उन्माद्यति स तु क्षिपं ग्रहो गान्धर्वएव सः। अधिरोहन्ति यं नित्यं पिशाचाः पुरुषंप्रति। उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः। आविशन्ति च यं यक्षाः पुरुष कालपर्य्यये। उन्मा-द्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः। यस्य दोषैःप्रकुपितं चित्तं मुह्यति देहिनः। उन्माद्यति स तुक्षिप्रंसाधनं तस्य शास्त्रतः। वैक्लव्याच्च भयाच्चैव घोराणांचापि दर्शनात्। उन्माद्यति स तु क्षिप्रं सान्त्व तस्यतु साधनम्। कश्चित् क्रीडितुकामो वै भोक्त कामस्तथा-ऽपरः। अभिकामस्तथेवान्यैत्येष त्रिविधो ग्रहः। यावत् सप्ततिवर्षाणि भवन्त्येते ग्रह। नृणाम्। अतःपरंदेहिनान्तु ग्रहतुल्यो भवेज्ज्वरः। अप्रकीर्णोन्द्रयदान्तं शुचिं नित्यमतन्द्रितम्। आस्तिकं शुद्धचारञ्चवर्ज्जयन्ति सदा ग्रहाः। इत्येषते ग्रहोद्देशो मानुषाणांप्रकीर्त्तितः। न स्पृशन्तिग्रहा भक्तान्नरान्देवे महेश्वरे”। [Page2747-a+ 38] नवग्रहध्यानादिकं ग्रहयज्ञशब्दे वक्ष्यते। ग्रहकक्षादि-मानं तद्भगगदिकञ्च तत्तद्घशब्दे उक्तं वक्ष्यमाणञ्चदृश्यम्।
“उञ्चस्थे ग्रहपञ्चके” ति॰ त॰ श्रीरामजन्मदिने
“ग्रहैततः पञ्चभरुच्चसंस्थितैः” रघुः। गृह्यतेऽनेनकरणे अप्।

९ सोमा दग्रहणपात्रे
“दश ग्रहान् गृ-ह्णाति”
“गृहं समाष्टि” श्रुतिः सोमादिग्रहणसाधन-पात्रनातानि च यागभेदेन भिन्नानि तानि
“दश सोम-ग्रहान् गृह्णाति” इत्यादौ शत॰ ब्रा॰ दर्शितानि। एवंयागभेदे ग्रहभेदाः तत्रोक्ता दृश्याः। गृह्यतेऽनेन करणेऽप्।

१० घ्रा{??}द्यष्टके घ्राणादीनां ग्रहत्वम् वृ॰ उ॰ उक्तं यथा
“याज्ञ{??}लक्येति होवाच कति ग्रहाः कत्यतिग्रहाः?इति अष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहाअष्टावतिग्रडाः कतमेते? इति। पाणो

१ वै ग्रहः सोऽ-पानेनातिप्राहेण गृहीतोऽपानेन हि गन्धं जिघ्रति। वाग्

२ वै ग्रहः स नाम्नातिग्राहेण गृहीतो वाचा हिनामान्य भवदति। जिह्वा

३ वै ग्रहः स रसेनातिग्राहेणगृहीतो जिह्वया हि रसान्विजानाति। चक्षु

४ वै ग्रहःस रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति। श्रोत्रं

५ वै ग्रहः स शब्देनातिग्राहेण गृहीतः। श्रोत्रेणहि शब्दाञ्छृणीति। मनो

६ वै ग्रहः स कामेनाति-ग्राहेण गृहीतो मनसा हि कामान् कामयते। हस्तौ

७ वै ग्रहः स कर्म्मणातिग्राहेण गृहीतो हस्ताभ्यांहि कर्म्म करोनि। त्वग्

८ वै ग्रहः स स्पर्शेनातिग्राहेणगृहीतस्त्वचा हि स्पर्शान्वेदयत इत्येतेऽष्टौ ग्रहाअष्टावतिग्रहाः” वृ॰ उ॰।
“ये तेऽष्टौ ग्रहा अभिहिताः कतमे ते नियमैन ग्रही-तव्या इति तत्राह। प्राणो वै ग्रहः प्राण इतिघ्राणमुच्यते। प्रकरणाद्वायुसहितः सोऽपानेनेति गन्धे-नोयेतदपानसचिवत्वादपानो गन्ध उच्यते। अपानो-पहृतं हि गन्धम् घ्राणेन सर्षोलोको जिघ्रति। तदेतदुच्यते अपानेन हि गन्धान् जिघ्रतीति। वाग्वैग्रहो बाचा ह्यध्यात्मपरिच्छिन्नया आसङ्गविष-यास्पदया सत्याऽनृताऽसभ्यबीभत्सादिवचनेषु व्यापृतयागृहीतो लोकोऽपहृतः तेन वाक् ग्रहः स नाम्नाति-ग्राहेण गृहीतः स वागाख्यो ग्रहो नाम्ना वक्तव्येनषिपयेणातिग्राहेणातिग्राहेणेति दैर्घ्यं छान्दसं, नामबक्तव्यार्था हि वाक्। तेन व्यक्तव्येनार्थेन प्रयुक्तावाक् तेन वशीकृता तेन तत्कार्य्यमकृत्वा नैव तस्या[Page2747-b+ 38] मोक्षः। अतो नाम्नातिग्रहेण गृहीता वानित्युचर्तवक्तव्यासङ्गेन हि प्रवृत्ता सर्वानर्थेर्युज्यते। समान-मन्य दत्यते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्य्य-न्ताश्च एतेऽष्टावतिग्रहा इति” भा॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रह¦ r. 1st, and 10th cls. (ग्रहति-ग्रहयति) r. 9th cl. (उभ) ग्रहू (गृह्णाति गृह्णीते)
1. To take, to seize, to receive or accept. With अनु, prefixed, To [Page250-b+ 60] favour, to show kindness to With अव, To oppose. With उत्„ To deposit, to trust. With उप, To provide.
2. To favour. With नि,
1. To take, to arrest.
2. To punish.
3. To restrain. With परि, To lay hold of, to seize. With प्रति,
1. To assent to, to receive as a precept or truth.
2. To embrace, to enfold, to comprehend or contain.
3. To subdue.
4. To accept. With वि, To quarrel, to fight. With सम्, To collect, to assemble. क्न्या-उभ-सक-सेट् | आदाने वा चुरा-उभ पक्षे भ्वा-प |

ग्रह¦ m. (-हः)
1. Taking, whether by seizure or acceptance.
2. An eclipse or seizure of the sun or moon, by RAHU, &c.
3. A planet.
4. The place of a planet in the fixed zodiac.
5. A moveable point in the heavens.
6. A name of RAHU, or the ascending node.
7. An imp, one of a particular class, beginning with PUTANA, sup- posed especially to seize upon young children producing convul- sions.
8. Effort in battle.
9. Tenacity, perseverance.
10. Purpose, design.
11. Favor, patronage. E. ग्रह् to take, &c. affix अच्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहः [grahḥ], [ग्रह्-अच्]

Seizing, grasping, laying hold of, seizure, रुरुधुः कचग्रहैः R.19.31.

A grip, grasp, hold; विक्रम्य कौशिकं खड्गं मोक्षयित्वा ग्रहं रिपोः Mb.3.157.11; कर्कटक- ग्रहात् Pt.1.26.

Taking, receiving, accepting; receipt.

Stealing, robbing; अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे Ms.9.277; so गोग्रहः.

Booty, spoil.

Eclipse; see ग्रहण.

A planet, (sometimes more particularly 'Rāhu'; वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत् Mb.1.24.7.) (the planets are nine: सूर्यश्चन्द्रो मङ्गलश्च बुधश्चापि बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहा नव ॥); नक्षत्रताराग्रहसंकुलापि (रात्रिः) R.6.22;3.13;12.28; गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ Bh.1.17.

Mentioning; utterance, repeating (as of a name) नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः Ms.8.271; Amaru.85.

A shark, crocodile.

An imp in general.

A particular class of evil demons supposed to seize upon children and produce convulsions &c. cf. Mb. Crit. ed. 3.219.26; कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् Bhāg.7.4.38.

Apprehension, perception; ज्योतिश्चक्षुर्गुणग्रहः. ...... श्रोत्रं गुणग्रहः Bhāg.2.1.21-22.

An organ or instrument of apprehension; Bṛi. Up.3.2.1.

Tenacity, perseverance, persistence; नृणां स्वत्वग्रहो यतः Bhāg.7.14.11.

Purpose, design.

Favour, patronage.

The place of a planet in the fixed zodiac.

The number 'nine'.

Any state of mind which proceeds from magical influences.

A house.

A spoonful, ladleful; ग्रहान्त्सोमस्य मिमते द्वादश Rv.1.114.5.

A ladle or vessel; चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु Ms.5.116.

The middle of a bow.

A movable point in the heavens.

Keeping back, obstructing.

Taking away, depriving; प्राण˚ Pt.1.295.

Preparation for war; ग्रहो$वग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेये$पि तत् त्रिषु । Nm.

A guest (अतिथि); यथा सिद्धस्य चान्नस्य ग्रहायाग्रं प्रदीयते Mb.13.1.6.

Imprisoning, imprisonment; Mb.13.136.11. -Comp. -अग्रेसरः the moon; Dk.8.1. -अधीन a. subject to planetary influence. -अवमर्दनः an epithet of Rāhu. (-नम्) friction of the planets. -अधीशः the sun. -आधारः, -आश्रयः polar star (as the fixed centre of the planets).

आमयः epilepsy.

demoniacal possession.-आलुञ्चनम् pouncing on one's prey, tearing it to pieces; श्येनो ग्रहालुञ्चने Mk.3.2. -आवर्तः horoscope.-ईशः the sun. -एकत्वन्यायः the rule according to which the gender and number of उद्देशपद is not necessarily combined along with the action laid down in the विधेयपद. This is discussed by जैमिनि and शबर at MS. III.1.13-15 (opp. of अरुणान्याय or पश्वेकत्वन्याय).-कल्लोलः an epithet of Rāhu. -कुण्डलिका the mutual relation of planets and prophecy derived from it.-गणितम् the astronomical part of a ज्योतिःशास्त्र. -गतिः the motion of the planets. -ग्रामणी the sun. -चिन्तकः an astrologer. -दशा the aspect of a planet, the time during which it continues to exercise its influence.-देवता the deity that presides over a planet.

नायकः the sun.

an epithet of Saturn. -निग्रहौ (du.) reward and punishment.

नेमिः the moon.

the section of the moon's course between the asterisms मूल and मृगशीर्ष.

पतिः the sun.

the moon; तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव Mb.12.118.15.

पीडनम्, पीडा oppression caused by a planet.

an eclipse; शशिदिवाकरयोर्ग्रहपीडनम् Bh.2.91; H.1.51; Pt.2.19.-पुषः the sun. -भक्तिः f. division of countries &c. with respect to the presiding planets.

भोजनः oblation offered to the planets.

a horse. -मण्डलम्, -ली the circle of the planets. -यज्ञः, -यागः worship or sacrifice offered to the planets. -युतिः, -योगः conjunction of planets. -युद्ध opposition of planets.

राजः the sun.

the moon.

Jupiter. -लाघवम् N. of an astronomical work of the 16th century. -वर्षः the planetary year. -विप्रः an astrologer. -शान्तिः f. propitiation of planets by sacrifices &c. -शृङ्गाटकम् triangular position of the planets with reference to one another. -सङ्गमः conjunction of planets. -स्वरः the Ist note of a musical piece.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रह mfn. ( Pa1n2. 3-3 , 58 ; g. वृषा-दि) ifc. ( iii , 2 , 9 Va1rtt. 1 ) seizing , laying hold of , holding BhP. iii , 15 , 35 (See. अङ्कुश-, धनुर्-, etc. )

ग्रह mfn. obtaining , v , viii

ग्रह mfn. perceiving , recognising , iv , 7 , 31

ग्रह m. " seizer (eclipser) " , राहुor the dragon's head MBh. etc.

ग्रह m. a planet (as seizing or influencing the destinies of men in a supernatural manner ; sometimes 5 are enumerated , viz. Mars , Mercury , Jupiter , Venus , and Saturn MBh. vi , 4566 f. R. i , 19 , 2 Ragh. iii , 13 etc. ; also 7 i.e. the preceding with राहुand केतुMBh. vii , 5636 ; also 9 i.e. the sun [See. S3Br. iv , 6 , 5 , 1 and 5 MBh. xiii , 913 ; xiv , 1175 ] and moon with the 7 preceding Ya1jn5. i , 295 MBh. iv , 48 VarBr2S. ; also the polar star is called a ग्रह, Garg. ( Jyot. 5 Sch. ) ; the planets are either auspicious शुभ-, सद्-, or inauspicious क्रूर-, पाप-VarBr2S. ; with जैनs they constitute one of the 5 classes of the ज्योतिष्कs)

ग्रह m. the place of a planet in the fixed zodiac W.

ग्रह m. the number " nine "

ग्रह m. N. of particular evil demons or spirits who seize or exercise a bad influence on the body and mind of man (causing insanity etc. ; it falls within the province of medical science to expel these demons ; those who esp. seize children and cause convulsions etc. are divided into 9 classes according to the number of planets Sus3r. ) MBh. etc.

ग्रह m. any state which proceeds from magical influences and takes possession of the whole man BhP. vii , ix BrahmaP. Hit. ii , 1 , 20

ग्रह m. a crocodile MBh. xvi , 142 ( ifc. f( आ). ) R. iv f. BhP. viii

ग्रह m. any ladle or vessel employed for taking up a portion of fluid ( esp. of सोम) out of a larger vessel Mn. v , 116 Ya1jn5. i , 182

ग्रह m. N. of the 8 organs of perception (viz. the 5 organs of sense with मनस्, the hands and the voice) S3Br. xiv Nr2isUp. i , 4 , 3 , 22

ग्रह m. (= गृह)a house R. vii , 40 , 30 (See. अ-, खर-, -द्रुमand -पति)

ग्रह m. " anything seized " , spoil , booty MBh. iii , 11461 (See. हा-लुञ्चन)

ग्रह m. as much as can be taken with a ladle or spoon out of a larger vessel , ladleful , spoonful ( esp. of सोम) RV. x , 114 , 5 VS. TS. AitBr. S3Br. etc.

ग्रह m. the middle of a bow or that part which is grasped when the bow is used MBh. iv , 1351 ( सु-, 1326 )

ग्रह m. the beginning of any piece of music

ग्रह m. grasp , seizing , laying hold of (often ifc. ) Kaus3. 10 MBh. etc.

ग्रह m. keeping back , obstructing Sus3r.

ग्रह m. imprisoning , imprisonment( हं-गम्, " to become a prisoner " Ka1m. ) R. ii , 58 , 2

ग्रह m. seizure (by demons causing diseases e.g. अङ्ग-, spasm of the limbs) Sus3r.

ग्रह m. seizure of the sun and moon , eclipse AV. xix , 9 , 7 and 10 VarBr2S.

ग्रह m. stealing , robbing Mn. ix , 277 MBh. vi , 4458

ग्रह m. effort Hit.

ग्रह m. insisting upon , tenacity , perseverance in( loc. or in comp. ) BhP. vii , 14 , 11 Naish. ix , 12 Katha1s. Ra1jat. viii , 226

ग्रह m. taking , receiving , reception Mn. viii , 180 S3r2in3ga1r.

ग्रह m. taking up (any fluid)

ग्रह m. choosing MBh. xii , 83 , 12 Sa1h. vi , 136

ग्रह m. " favour "See. -निग्रह

ग्रह m. mentioning , employing (a word) Mn. viii , 271 Pa1n2. 7-1 , 21 , Ka1r. 2 Amar. Ra1jat.

ग्रह m. apprehension , perception , understanding Bha1sha1p. BhP. Sarvad. Sch. on Jaim. and KapS.

"https://sa.wiktionary.org/w/index.php?title=ग्रह&oldid=344850" इत्यस्माद् पुनः प्राप्तिः