शरीर

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरम्, क्ली, (शॄ + “कॄशॄपॄकटिपटिशौटिभ्य ईरन् ।” उणा० ४ । ३० । इति ईरन् ।) शीर्य्यते रोगादिना यत् । तत्पर्य्यायः । कले- वरम् २ गात्रम् ३ वपुः ४ संहननम् ५ वर्ष्म ६ विग्रहः ७ कायः ८ देहः ९ मूर्त्तिः १० तनुः ११ तनूः १२ । इत्यमरः ॥ क्षेत्रम् १३ पुरम् १४ घनः १५ अङ्गम् १६ पिण्डम् १७ । इति राज- निर्घण्टः ॥ भूतात्मा १८ स्वर्गलोकेशः १९ स्कन्धः २० पञ्जरः २१ कुलम् २२ बलम् २३ आत्मा २४ । इति जटाधरः ॥ स्कन्धम् २५ । इति शब्दरत्नावली ॥ इन्द्रियायतनम् २६ भूः २७ मूर्त्तिमत् २८ करणम् २९ वेरम् ३० सञ्चरः ३१ बन्धः ३२ पुद्गलम् ३३ । इति हेम- चन्द्रः ॥ * ॥ शरीरधर्म्मा यथा, -- “शरीरे भस्मसाद्भूते प्रतिविम्बः स चात्मनः । जीवस्तत्रान्तरीक्षस्य उवाच विनयं विभुम् ॥ जीव उवाच । सदुक्तिर्व्वा कदुक्तिर्व्वा कोपः सन्तोष एव च । लोभो मोहश्च कामश्च क्षुत्पिपासादिकञ्च यत् ॥ स्थौल्यं कार्श्यञ्च नाशश्च दृश्यादृश्यं समुद्भवम् । सर्व्वं शरीरधर्म्मश्च न जीवस्य न चात्मनः ॥ सत्त्वं रजस्तम इति शरीरं त्रिगुणात्मकम् । तच्च नानाप्रकारञ्च प्रबोध कथयामि ते ॥ किञ्चित् सत्त्वातिरिक्तञ्च किञ्चिदेव रजो- ऽधिकम् । तमोऽतिरिक्तं किञ्चिच्च न समं कुत्रचिन्मुने ॥ सत्त्वाद्दया च मुक्तीच्छा कर्म्मेच्छा च रजो- गुणात् । तमोगुणाज्जीवहिंसा कोपोऽहङ्कार एव च ॥ कोपात् कदुक्तिर्नियतं कदुक्त्या शत्रुता भवेत् । तया चाप्रियता सद्यः शत्रुः कः कस्य भूतले ॥ को वा प्रियोऽप्रियो वा कः किं मित्रं को रिपुर्भुवि । इन्द्रियाणि च जीवानि सर्व्वत्र शत्रुमित्रयोः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २४ अः ॥ * ॥ अथ स्त्रीपुंसयोः सर्व्वाङ्गानि पादाग्रादिशिरः- पर्य्यन्तानि । प्रपदम् १ अङ्घ्रिः २ गुल्फः ३ पार्ष्णिः ४ जङ्घा ५ जानु ६ ऊरुः ७ वङ्क्षणः ८ कटिः ९ त्रिकम् १० नितम्बः ११ स्फिक् १२ वस्तिः १३ उपस्थः १४ ककुन्दरम् १५ जघनम् १६ जठरम् १७ नाभिः १८ वलिः १९ स्तनः २० चूचकम् २१ क्रोडम् २२ रोम २३ कक्षः २४ अंसः २५ वक्षः २६ दोः २७ पार्श्वः २८ प्रगण्डः २९ कुर्परः ३० हस्तः ३१ प्रकोष्ठः ३२ मणिबन्धः ३३ अङ्गुलिः ३४ अङ्गुष्ठः ३५ करभः ततो मायाब्रवीत् कोपात् सा च दुर्गा प्रकी- र्त्तिता ॥ न मयास्य विना भूतिरित्युक्त्वान्तर्दधे पुनः । ततो दिशः समुत्तस्थुरूचुश्चैव वचो महत् ॥ नास्माभी रहितं कायं भवतीति न संशयः । चतस्र आगताः काष्ठा अपयाताः क्षणात्तदा ॥ ततो धनपतिर्व्वायुर्मध्ये तत्पक्तसम्भवः । शरीरस्येति सोऽप्येवमुक्त्वा मूर्द्धानगोऽभवत् ॥ ततो विष्णोर्मनो ब्रूयात् नायं देहो मया विना । क्षणमप्युत्सहे स्त्रातुमित्युक्त्वान्तर्दधे पुनः ॥ ततो धर्म्मोऽब्रवीत् सर्व्वमिदं पालितवाहनम् । इदानीं मय्युपगते कथमेतद्भविष्यति । एवमुक्त्वा गते धर्म्मे तच्छरीरं न शीर्य्यते ॥ ततोऽब्रवीन्महादेवश्चाव्यक्तो भूतनायकः । महत्संज्ञो मया हीनं शरीरं नो भवेद्यथा ॥ एवमुक्त्वा गतः शम्भुस्तच्छरीरं न शीर्य्यते । तद्दृष्ट्वा पितरश्चोचुस्तन्मात्रा यावदस्मभिः ॥ प्राणान्तरेभिरेतश्च शरीरं शीर्य्यते ध्रुवम् । एवमुक्त्वा तु तं देहं त्यक्त्वान्तर्द्धानमागताः ॥ अग्निः प्राणः अपानश्च आकाशश्चैव धातवः । क्षेत्रं तद्बत्त्वहंकारो भानुः कामादयो मया ॥ काष्ठा वायुर्व्विष्णुधर्म्मौ शम्भुश्चैवेन्द्रियार्थकाः । एतैर्मुक्तन्तु तत् क्षेत्रं मुक्ताविव सुसंस्थितम् ॥ सोमेन पाल्यमानन्तु पुरुषेणेन्दुरूपिणा । एवं व्यवस्थिते सोमे षोडशात्मन्यथाक्षरे ॥ प्राग्वत्तत्र गुणोपेतं क्षेत्रमुत्थाय यद्भवेत् । प्रागवस्थं शरीरन्तु दृष्ट्वा सर्व्वज्ञपालितम् ॥ ताः क्षेत्रदेवताः सर्व्वा वैलक्ष्यं भावमाश्रिताः तमेवं तुष्टुवुः सर्व्वास्तं देवं परमेश्वरम् ॥” इति वाराहे महातपोपाख्याननामाध्यायः ॥ * शरीरान्नं यथा, -- “शरीरमापः सोमश्च विविधं चान्नमुच्यते । प्राणो ह्यग्निस्तथादित्यस्त्रिभोक्ता एक एव तु ॥” इति गारुडे २१५ अध्यायः ॥ * ॥ मानसकायिकक्लेशसाध्यव्रतं यथा, -- धरण्युवाच । “कथमाराध्यसे देव भक्तिमद्भिर्नरैर्विभो । स्त्रीभिर्व्वा सर्व्वमेतन्मे शंस त्वं भूतभावन ॥ वाराह उवाच । भावसाध्यस्त्वहं देवि न वित्तैर्न जपैरहम् । साध्यस्तथापि भूतानां कायक्लेशं वदामि ते ॥ कर्म्मणा मनसा वाचा मच्चित्तो यो नरो भवेत् । तस्य व्रतानि वक्ष्येऽहं विविधानि निबोध मे ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यमकल्कता । एतानि मानसान्याहुर्व्रतानि तु धराधरे ॥ एकभक्तं तथा नक्तमुपवासादिकञ्च यत् । तत् सर्व्वं कायिकं पुंसां व्रतं भवति नान्यथा ॥” इति वाराहे सत्यतपोपाख्याननामाध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीर नपुं।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

2।6।70।2।4

अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्. गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः॥

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीर¦ न॰ शॄ--ईरन्। प्रतिक्षणं क्षीयमाणे

१ देहे। तस्य अङ्गप्रत्यङ्गभेदा भावप्र॰ उक्ता यथा
“गर्भाशयगबं शुक्रमार्त्तवं जीवसंज्ञकः। प्रकृतिः स-विकारा च तत् सर्वं गर्भसंज्ञकम्। कालेन वर्द्धितो गर्भोयद्यङ्गोपाङ्गसंयुतः। भवेत्तदा स मुनिभिः शरीरीतिनिगद्यते”। अङ्गोपाङ्गसंयुतः व्यक्ताङ्गोपाङ्गः।
“तस्यत्वङ्गान्यु पाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः। मस्तकादभिधीयन्वे शिष्याः! शृणुत यत्नतः। आद्यमङ्गं शिरःप्रोक्तं तदुपाङ्गानि कुन्तलाः। तस्यान्तर्मस्तुलुङ्गं चललाटं भ्रूयुगन्तथा। नेत्रद्वयं तयोरन्तर्वर्त्तेते द्वेकनीनिके। दृष्टिद्बयं कृष्णगोलौ श्वैतभागौ च वर्त्मनो। पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छष्कुलीद्वयम्। पालिद्वयं कषोलो च नासिका च प्रकीर्त्तिता। ओष्ठा-धरौ च सृकिण्यौ मुखं तालु हनुद्वयम्। दन्ताश्च दन्त-वेष्टाश्च रसना चिवुकङ्गलः। द्वितीयमङ्गं ग्रीवा तु ययामूर्द्धा बिधार्यते। तृतीयं बाहुयुगलं तदुपाङ्गान्यथ ब्रुवे। तत्रोपरिगतौ स्कन्घौ प्रगण्डौ भवतस्त्वधः। कफोनि-युम्भं तदधः प्रकोष्ठयुगलन्तथा। मणिबन्धौ तले हस्तौतयोश्चाङ्गुलयो दश। नखाश्च दश ते स्थाप्या दश च्छेद्याःप्रकीर्त्तिताः। चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ ब्रुवे। स्तनौ पुंसस्तथा मार्य्या विशेष उभयोरयम्। यौवना-गमने नार्य्याः पीवरौ भवतः स्तनौ। गर्भवत्थाः प्रसूता-यास्तविव क्षीरपूरितौ। हृदयं पुण्डरोकेण सदृशं स्या-दधोमुखम्। जाग्रतस्तद्विकसति स्वपतस्तु निमीलति। आशयस्तत्तु जीवस्य चेतनास्थामगुत्तमम्। अतस्तस्मिं-स्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि”। चेतनास्थान-मुत्तममित्यस्याभिप्रायः
“केशलोमनखाग्रं च मलं,द्रव्यगुणैर्विना” इत्युक्तवता चरकेण प्तकलं शरोरंचेतनास्थानमुक्तम् तदपेक्षया हृदयं विशेषतश्चेतना-स्थानमिति
“कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृतेकक्षे उभे समाख्याते तयोः स्यातां च वङ्क्षणौ। उदरं पञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम्। सपृष्ठवंशं तुतथा समस्तं सप्तमं स्मृतम्। उपाङ्गानि च कथ्यन्ते तानिजानोहि यत्नतः। शोणिताज्जायते प्लीहा बामतो[Page5087-b+ 38] हृदयादधः। रक्तवाहिसिराणां स मूलं ख्यातो महर्षिभिः। हृदयाद्वामतोऽधश्च फुप्फुसो रक्तफेनजः। अधो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः। तत्तु-रञ्जजपित्तस्य स्थानं शोणितजं मतम्। अधस्तु दक्षिणे-भागे हृदयात् क्लोम तिष्ठति। जलवाहिसिरामूलंतृष्णाच्छादनकृन्मतम्”। क्लोम तिलकम् एतत्तु वातरक्त-जम्। अत्र वृद्ववाग्भटः
“रक्तादनिलसंसक्तात्कालीय-कसमुद्भव” इति
“मेदःशोणितयोः साराद्बुक्वयोर्यु-गलं भवेत्। तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः। उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि सूरिभिः। अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्दिशेत्। उन्दुकश्च कटी चाषि त्रिकं वस्तिश्च वङ्क्षणौ। कण्ड-राणां प्ररोहः स्थात् स्थानं तद् वीर्य्यमूत्रयोः। स एवगर्भस्याधानं कुर्य्याद्वर्भाशये स्त्रियाः। शङ्खनाभ्याकृति-र्य्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता। तस्यास्तृतीये त्वावर्त्तेगर्भशय्या प्रतिष्ठिता। वृषणौ भवतः सारात्कफासृग्भ्यांच मेदसाम्। वीर्य्यवाहिसिराधारौ तौ मतौ पौरु-षावहौ। गुदस्य मानं सर्वस्य सार्द्धं स्याच्चतुरङ्गुलम्। तत्र स्युर्वस्तवस्तिस्रः शङ्खाबर्त्तनिभास्तु ताः। प्रवाहिणीभवेत् पूर्वा सार्द्धाङ्गुलमिता मता। उत्सर्जनी तु तदघःसा सार्द्धाङ्गुलसम्मिता। तस्याघः सञ्चरणी स्यादेकाङ्गु-लसमा मता। अर्द्धाङ्गुलप्रमाण तु बुधैर्गुदमुखं मतम्। मलोत्सर्गस्य मार्गोऽयं पायुर्देहे विनिर्मितः। पुंसः प्रोथौस्मृतौ यौ तु तौ नितम्बौ च योषितः। तयोःककुन्दरेस्नातां सक्थिनी त्वङ्गमष्टमम्। तदुपाङ्गानि चब्रूमो जानुनो पिण्डिकाद्वयम्। जङ्घे द्वे घुण्डिकेपार्ष्णीतले च प्रपदे तथा। षादावङ्गुलथस्तत्र दश तासांनस्वा दश”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीर¦ n. (-रं)
1. The body.
2. The body of any inanimate object.
3. A dead body. E. शॄ to injure, to be injured, Una4di aff. ईरन् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरम् [śarīram], [शॄ-ईरन् Uṇ.4.31]

The body (of animate or inanimate objects); शरीरमाद्यं खलु धर्मसाधनम् Ku.5.33.

The constituent element; शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली Kāv.1.1; शरीरमसि संसारस्य U.7.

Bodily strength.

A dead body.

One's own person, individual soul (जीवात्मा); यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥ Ms.11.229. -Comp. -अन्तः the hairs on the body.

अन्तरम् the interior of the body.

another body. -आकारः, -आकृतिः bodily gesture or mien.

आवरणम् the skin.

a shield.-कर्तृ m. a father. -कर्षणम् emaciation of the body; शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणनां यथा Ms.7.112. -ग्रहणम् assumption of a bodily form. -चिन्ता care of the body (like washing etc.).

जः sickness.

lust, passion.

the god of love; शरीरजसमाविष्टा राक्षसी राममब्रवीत् Rām. 3.17.12.

a son, offspring; शरीरजेभ्यश्च्युतयूथपङ्क्तयः Ki.4.31. -तुल्य a. equal to, i. e. as dear as, one's own person. -त्याग renunciation of life.

दण्डः corporal punishment.

mortification of the body (as in penance). -देशः a part the body.

धातुः a chief constituent of the body.

a relic of Buddha's body (as bone, tooth etc.). -धृक् a. having a body. -पक्तिः purification of the body. -पतनम्, -पातः shuffling off the mortal coil, death. -पाकः emaciation (of the body). -प्रभवः a begetter, father. -बद्ध a. endowed with a body, embodied, incarnate; शरीरबद्धः प्रथमाश्रमो यथा Ku.5.3.

बन्धः the bodily frame; शरीरबन्धेन तिरोबभूव R.16.23.

being endowed with a body; i. e. birth as an embodied being; तनुत्यजां नास्ति शरीरबन्धः R.13.58.-बन्धकः a hostage. -भाज् a. embodied, incarnate. (-m.) a creature, an embodied being; शरीरभाजां भवदीय- दर्शनं व्यनक्ति कालत्रितये$पि योग्यताम् Śi.1.26. -भेदः separation of the body (from the soul), death; प्राप्ते शरीरभेदे Sāṅ. K.68. -यष्टिः f. a slender body, slim or delicate figure.-यात्रा means of bodily sustenance; नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येकर्मणः ॥ Bg. 3.8. -रक्षकः a body-guard. -रत्नम् an excellent body.-विमोक्षणम् the emancipation of the soul from the body. -वृत्तिः f. maintenance or support of the body; स त्वं मदीयेन शरीरवृत्ति देहेन निर्वर्तयितुं प्रसीद R.2.45. -वैकल्यम् bodily ailment, sickness, disease. -शुश्रुषा personal attendance.

संस्कारः decoration of the person.

purification of the body by the performance of the several purificatory saṁskāras; कार्यः शरीरसंस्कीरः Ms.2.26. -संपत्तिःf. the prosperity of body, (good) health. -संबन्धः relation by marriage. -सादः leanness of body, emaciation; शरीरसादादसमग्रभूषणा R.3.2. -स्थानम् the doctrine about the human body. -स्थितिः f.

the maintenance or support of the body; वन्यं शरीरस्थितिसाधनं वः R.5.9.

taking one's meals, eating (frequently used in Kādambarī).

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीर n. (once in R. m. ; ifc. f( आ). ; either fr. श्रिand orig. = " support or supporter " See. 2. शरणand Mn. i , 7 ; or accord. to others , fr. शॄ, and orig. = " that which is easily destroyed or dissolved ") the body , bodily frame , solid parts of the body( pl. the bones) RV. etc.

शरीर n. any solid body ( opp. to उदकetc. ) MBh. VarBr2S. Pan5cat.

शरीर n. one's body i.e. one's own person Mn. xi , 229

शरीर n. bodily strength MW.

शरीर n. a dead body ib.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pupil of Vedamitra शाकल्य. Vi. III. 4. २२.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚARĪRA : (BODY). Body is constituted of the five elements, earth, water, fire, air and sky (ether). What is solid or hard in the body is earth; liquid, is water; hot or burning, fire; what gives motion to the body is air and what are pores in the body is sky.

Body is that which exists and functions with the five organs of knowledge eye, ear, nose, tongue and skin, and the five organs of action like Upastha (sex organ), Pāṇi (hand), Pāda (leg) and Vāṇī (speech). The body depends on the six tastes, sweet, sour, saltish, bitter, hot and astringent. (Kaṭu, amla, madhura, lavaṇa, tikta and kaṣāya). The body is composed of seven internal elements (dhātus) of seven colours, white, red, dark (black), black and white, yellow, brassy and faint-white (Pāṇḍura). Vātapittakaphas (wind, bile and phlegm) are intertwined in the body. Since the body is formed of vital fluids from the sex organs of the father and the mother it is dviyoni (males with male and females with female organs of reproduction). The body exists by four kinds of foods, bhojya, bhakṣya, khā- dya and lehya. After coitus, within one night, the male and female semen and blood combine into one body in the womb (Kalala). Within seven days it becomes foamy (budbuda). After a fortnight it becomes solid (piṇḍa) and after one month hard (kaṭhina). During the second month the head of the child is formed; in the third month its feet: in the fourth its ankles, stomach and waist are formed. In the fifth month is formed the back (Pṛṣṭha) and face, nose, eyes and ears are formed in the sixth month. During the seventh month life enters the child's body. By the eighth month all the signs of the human being are completed in the child. If the vitality and effulgence of the mother are more than those of the father the off-spring will be female and vice versa; if both are in exactly equal proportions the child will be a eunuch, neither male nor female. If the parents were sad and worried during the time of the mother's conception, the child born would be either blind, lame or a pigmy. If the semen is cleft into two by wind (in the womb) the mother would give birth to twins. In the ninth month the child will be gifted with knowledge and it will remember to what caste it belonged and what all good and evil actions it did in its previous life.


_______________________________
*2nd word in right half of page 697 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शरीर&oldid=438469" इत्यस्माद् पुनः प्राप्तिः