क्षमा
सम्स्कृतम्
[सम्पाद्यताम्]नामम्
[सम्पाद्यताम्]एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | क्षमा | क्षमे | क्षमाः |
सम्बोधनप्रथमा | क्षमे | क्षमे | क्षमाः |
द्वितीया विभक्तिः | क्षमाम् | क्षमे | क्षमाः |
तृतीया विभक्तिः | क्षमया | क्षमाभ्याम् | क्षमाभिः |
चतुर्थी विभक्तिः | क्षमायै | क्षमाभ्याम् | क्षमाभ्यः |
पञ्चमी विभक्तिः | क्षमायाः | क्षमाभ्याम् | क्षमाभ्यः |
षष्ठी विभक्तिः | क्षमायाः | क्षमयोः | क्षमानाम् |
सप्तमी विभक्तिः | क्षमायाम् | क्षमयोः | क्षमासु |
धरा - आकारन्तः स्त्रीलङ्गम् ।
- क्ष्मा
- रत्नगर्भा
- रसा
- वसुधा,
- गोत्रा,
- इला,
- भूतधात्री,
- सागराम्बरा,
- अनन्ता,
- स्थिरा
- वसुन्धरा
- विपुला
- अचला
- विश्वम्भरा,
- ज्या
- सर्वंसहा
- उर्वी,
- क्षोणी,
- पृथ्वी,
- क्षितिः
- मही
- धात्री,
- कुम्भिनी,
- भूमिः,
- मेदिनी,
- गह्वरी
- धरणी,
- काश्यपी,
- वसुमती,
- धरित्री
- जगती
- पृथिवी
- अवनिः
- कुः ।
- गौः
अनुवादाः
[सम्पाद्यताम्]- कन्नडा-ಭೂಮಿ
- मलयाळम्-ഭൂമി, ധരാ
- आम्गलम्-earth
- हिन्दि- : धरती
- फ़्रन्च्- terre
- जेर्मन्-Erde स्त्री, Land नपुम् ]]
- स्पानिष्-: tierra स्त्री, sueloपु
- ऱूसीय-земля (सेम्ल्जा)स्त्री,почва (पोस्वा)स्री]] (गोलोद्)
- तेलुगू- మట్టి (मट्टि)
- अऱबिक्-تربة) (तूर्बा)स्त्री
- पोलिश्:ziemiaस्त्री
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षमा, स्त्री, (क्षमते आत्मोपरिस्थितानां जीवाना- मपराधं या । क्षम् अच् षित्वादङ् वा तत- ष्टाग् ।) क्षितिः । (यथा, भट्टिः । ३ । २२ । “विभूषणान्युन्मुमुचुः क्षमायां पेतुर्बभञ्जुर्वलयानि चैव” ॥) क्षान्तिः । इत्यमरः । ३ । ३ । १२२ ॥ क्षमालक्षणम् । यथाह, वृहस्पतिः । “वाह्ये चाध्यात्मिके चैव दुःखे चोत्पादिते क्वचित् । न कुप्यति न वा हन्ति सा क्षमा परिकीर्त्तिता” ॥ इत्येकादशीतत्त्वम् । अपि च । “आक्रुष्टोऽभिहतो यस्तु नाक्रोशेन्न हनेदपि । अदुष्टैर्वाङ्मनःकायैस्तितिक्षुश्च क्षमा स्मृता” ॥ इति मात्स्ये १२० अध्यायः ॥ अन्यच्च । “विभागशीलः सततं क्षमायुक्तो दयात्मकः । गृहस्थस्तु क्षमायुक्तो न गृहेण गृही भवेत् ॥ क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः । अध्यात्मनित्यताज्ञानमेतद्ब्राह्मणलक्षणम् ॥ विगर्हातिक्रमक्षेपहिंसाबन्धवधात्सनाम् । अन्यमन्युसमुत्थानां दोषाणां वर्ज्जनं क्षमा” ॥ इति कौर्म्मे १४ अध्यायः ॥ (अपरञ्च यथा, महा- भारते । ३ । द्रौपदी-युधिष्ठिरसंवादे । २९ । ३५-- । “अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् । गीताः क्षमावता कृष्णे ! काश्यपेन महात्मना ॥ क्षमा धर्म्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् । य एतदेव जानाति स सर्व्वं क्षन्तुमर्हति ॥ क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतञ्च भावि च । क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ॥ अतियज्ञविदां लोकान् क्षमिणः प्राप्नुवन्ति च । अतिब्रह्मविदां लोकानति चापि तपस्विनाम् ॥ अन्ये वै यजुषां लोकाः कर्म्मिणामपरे तथा । क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ॥ क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् । क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः ॥ तां क्षमामीदृशीं कृष्णे ! कथमस्मद्विधस्त्यजेत् । यस्यां ब्रह्म च सत्यञ्च यज्ञा लोकाश्च धिष्ठिताः ॥ क्षन्तव्यमेव सततं पुरुषेण विजानता । यदा हि क्षमते सर्व्वं ब्रह्म सम्पद्यते तदा ॥ क्षमावतामयं लोकः परश्चैव क्षमावताम् । इह सम्मानमर्हन्ति परत्र च शुभां गतिम् ॥ येषां मन्युर्मनुष्याणां क्षमयाभिहतः सदा । तेषां परतरे लोकास्तस्मात् क्षान्तिः परा मता” ॥) रात्रिः । इति शब्दरत्नावली ॥ * ॥ दुर्गा । इत्यमर- टीकायाम् मथुरानाथः ॥ तथा हि । “जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तुते” ॥ इति दुर्गार्च्चातत्त्वम् ॥ अपि च । “क्षमा तु श्रीमुखे कार्य्या योगपट्टोत्तरीयका । पद्मासनकृताधारा वरदोद्यतपाणिनी ॥ शूलमेखलसंयुक्ता प्रशान्ता योगसंस्थिता । सितपुष्पोपहारेण सितहोमेन सिद्धिदा” ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षमा स्त्री।
भूमिः
समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी
2।1।3।3।7
सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।
अवयव : भूरन्ध्रम्,मृद्
: अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी
क्षमा स्त्री।
क्षमा
समानार्थक:क्षान्ति,तितिक्षा,क्षमा
3।3।143।1।1
क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु। त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॥
पदार्थ-विभागः : , गुणः, मानसिकभावः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षमा¦ स्त्री क्षम अङ्।
“बाह्ये वाध्यात्मिके चैव दुःखे चौत्पातिकेक्वचित्। न कुप्यति न वा हन्ति सा क्षमा परिकीर्त्तिता”‘ आक्रुष्टोऽभिहतो वापि नाक्रोशेन्न च हन्ति वा। अदुष्टैर्वाङ्मनःकायैस्तितिक्षोः सा क्षमा मतेतिं’ चोक्तलक्षणायाम् तितिक्षायाम् चित्तवृत्तिभेदे,
“आक्रुष्टोऽ-भिहतो यस्तुनाक्रोशेन्न हनेदपि। अदुष्टैर्वाडमनोकार्यैस्तितिक्षुश्च क्षमा स्मृता” मात्स्पे
१२
० अ॰।
“विभा-गशीलः सततं क्षमायुक्तोदयान्वितः गृहस्थः स्यात्क्षमायुक्तो न गृहेण गृही भवेत्
“क्षमा दया चविज्ञानं सत्यञ्चैव दमः शमः। अध्यात्मनिष्ठता पिज्ञानंज्ञानमेतद् व्राह्मनलक्षणम्। विगर्हातिक्रमो हिंसाब-न्धबधात्मनाम्। अन्यमन्युसमुत्थानां दोषाणां वर्ज्जनंक्षमा” कूर्म्म पु॰
१४ अ॰।
२ भूमौ च। अमरः। क्षान्तौअव्य॰ क्षस्वरा॰। पृपो॰ क्षाम् क्ष्मा क्षा क्षमि क्षामाइत्यादयोऽपि निघ॰ क्षमायां धवायां
“क्षामं तुभ्यं हक्षाअणु क्षत्त्रं महना मन्यत द्यौः” ऋ॰
४ ।
१७ ।
१
“द्यौ-रृष्वाज्जनिमन्त्रेजत्क्षाः”
४ ।
२२ ।
४
“अजोन क्षां दा-धार पृथिवीम्” ऋ॰
४ ।
६७ ।
५
“क्षांदासायोपवर्हणीं कः”
१ ।
१७
४ ।
६
“सुवृद्रथो वर्तते यन्नभि क्षाम्”
१ ।
१८
३ ।
२
“दिवि क्षमा च”
५ ।
५२ ।
३ ।
“क्षमा मन्महे रपो विश्वंनो अस्तु भेषजम्” अथ॰
६ ।
५७ ।
३
“अधिक्षमि विषुरूपंयदस्ति” ऋ॰
७ ।
२७ ।
३
“अग्निर्यद्रोधति क्षमि” ऋ॰
४ ।
४३ ।
६ ।
“स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च”
१ ।
१०
० ।
१५
“द्यावाक्षामा” ऋ॰
१ ।
९६ ।
५
“तुरगरसयति र्नौततौगःक्षमा” वृ॰ र॰ उक्ते
३ त्रयोदशाक्षरपादके छन्दोभेदे स्त्री
“दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा” नमोऽस्तु ते”
४ इत्युक्ते दुर्गाशक्तिभेदे
५ राधिकासहचरीभेदे
“मयापूर्व्वन्तु त्वं दृष्टो गोप्या च क्षमया सह”
“क्षमा देहंपरित्यज्य लज्जया पृथिवीं गता” ब्रह्मवैपु॰ प्रकृ-तिखं॰
९ अ॰।
६ खदिरे राजनि॰
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षमा [kṣamā], [क्षम्-अङ्]
Patience, forbearance, forgiveness; क्षमा सत्यं दमः शमः Bg.1.4,34;16.3; क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् H.2; R.1.22;18.9; तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः Ś.2.83.
The earth.
The number 'one'.
An epithet of Durgā. -Comp. -जः the planet Mars. -भुज्, -भुजः a king. -भृत् m.
a mountain.
a prince; प्रातिष्ठन्त क्षमाभृताम् Śi.19.3.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षमा f. patience , forbearance , indulgence (one of the सामान्य-धर्मास्i.e. an obligation to all castes Vishn2. ) Mn. MBh. etc.
क्षमा f. क्षमांकृ, to be indulgent to , have patience or bear with( प्रतिMBh. iii , 1027 ; or gen. , S3a1ntis3. )
क्षमा f. " Patience " (personified as a daughter of दक्षand wife of पुलहVP. ) Hariv. 14035 Prab.
क्षमा f. tameness (as of an antelope) R. iii , 49 , 25
क्षमा f. resistance Pa1n2. 1-3 , 33 Sch.
क्षमा f. (= 2. क्षम्)the earth VarBr2S. Pan5cat. etc.
क्षमा f. (hence) the number " one "
क्षमा f. N. of दुर्गाDevi1P.
क्षमा f. the खदिरtree (Acacia Catechu) L.
क्षमा f. N. of a species of the अतिजगतीmetre
क्षमा f. N. of a female shepherd BrahmaP.
क्षमा f. of a शाक्तauthoress of मन्त्रs
क्षमा f. of a river(= वेत्रवती) Gal.
क्षमा f. for क्षपा(night) L.
क्षमा ind. ( instr. of 2. क्षम्See. )on the earth , on the floor g. स्वर्-आदि
क्षमा ind. ([ cf. Gk. ? , ?.])
क्षमा (f. of मSee. )
क्षमा etc. See. 1. क्षम्.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a ब्रह्मराक्षसी. Br. III. 7. ९९.
(II)--a शक्ति. Br. IV. ४४. ९१.
(III)--a daughter of दक्ष; wife of Pulaha प्रजापति; फलकम्:F1: वा. १०. २८, ३१; २८. २५; Vi. I. 7. २५.फलकम्:/F mother of sons Kardama, U(A)र्वरीवान्, सहिष्णु, कनकपीठ and daughter पीवरि. फलकम्:F2: Br. II. 9. ५२; ११. ३०.फलकम्:/F
(IV)--the wife of Kratu. Vi. I. 7. 7.
(V)--a R. from the ऋस्यवत् hills. M. ११४. २५.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
KṢAMĀ : Wife of Prajāpati Pulaha. Three sons Kar- dama, Urvarīyān and Sahiṣṇu were born to Pulaha of his wife Kṣamā. (Viṣṇu Purāṇa, Aṁśa 1, Stanza 10).
_______________________________
*5th word in left half of page 433 (+offset) in original book.